पारलौकिकगत्यादिवर्णनम्
अतिथिरुवाच
साध्वबालमते बाल कमठैतत्त्वयोच्यते ॥
शरीरलक्षणं श्रोतुं पुनरिच्छामि तद्वद
॥१॥कमठ उवाच
यथैतद्वेद ब्रह्मांडं शरीरं च तथा शृणु ॥
पादमूलं च पातालं प्रपदं च रसातलम्
॥२॥तलातलं तथा गुल्फौ जंघे चास्य महातलम् ॥
जानुनी सुतलं चोरू वितलं चातलं कटिम्
॥३॥नाभिं महीतलं प्राहुर्भुवर्लोकमथोदरम् ॥
उरःस्थलं च स्वर्लोकं महर्ग्रीवा मुखं जनम्
॥४॥नेत्रे तपः सत्यलोकं शीर्षदेशं वदंति च ॥
तद्यथा सप्त द्वीपानि पृथिव्यां संस्थितानि च
॥५॥तथात्र धातवः सप्त नामतस्तान्निबोध मे ॥
त्वगसृङ्मांस मेदोऽस्थिमज्जाशुक्राणि धातवः
॥६॥अस्थ्नामत्र शतानि स्युस्त्रीणि षष्ट्यधिकानि च ॥
त्रिंशच्छतसहस्राणि नाडीनां कथितानि च
॥७॥षट्पंचाशत्सहस्राणि तथान्यानि नवैव तु ॥
ता वहंति रसं देहे जलं नद्यो यथा भुवि
॥८॥सार्धाभिस्तिसृभिश्छन्नं समंताद्रोमकोटिभिः ॥
शरीरं स्थूलसूक्ष्माभिर्दृश्यादृश्या हि ताः स्मृताः
॥९॥षडंगानि प्रधानानि कथ्यमानानि मे शृणु ॥
द्वौ बाहू सक्थिनी द्वे च मूर्धा जठरमेव च
॥१०॥अंत्राण्यत्र तथा त्रीणि सार्धव्यामत्रयाणि च ॥
त्रिव्यामानि तथा स्त्रीणामाहुर्वेदविदो द्विजाः
॥११॥ऊर्ध्वनालमधोवक्त्रं हृदि पद्मं प्रकीर्त्यते ॥
हृत्पद्मवामतः प्लीहो दक्षिणे स्यात्तथा यकृत्
॥१२॥मज्जातो मेदसश्चैव वसायाश्च तथा द्विज ॥
मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस्तथा
॥१३॥रक्तस्य चरमस्यात्र गर्ता द्व्यंजलयः स्मृताः ॥
गेयः प्रवर्तमानास्ते देहं संधारयंत्युत
॥१४॥सीवन्यश्च तथा सप्त पंच मूर्धानमास्थिताः ॥
एका मेढ्रं गता चैका तथा जिह्वां गता द्विज
॥१५॥नाड्यः सर्वाः प्रवर्तंते नाभिपद्मात्तथात्र च ॥
यासां श्रेष्ठा शिरो याता सुषुम्नेडाऽथ पिंगला
॥१६॥नासिकाद्वारमासाद्य संस्थिते देहवर्धने ॥
वायुरग्निश्चंद्रमाश्च पंचधा पंचधात्र च
॥१७॥प्राणापानसमानाश्च उदानो व्यान एव च ॥
पंच भेदाः स्मृता वायोः कर्मार्ण्येषां वदंति च
॥१८॥उच्छ्वासश्चैव निःश्वासो ह्यन्नपानप्रवेशनम् ॥
आकंठाच्छीर्षसंस्थास्य प्राणकर्म प्रकीर्तितम्
॥१९॥त्यागो विण्मूत्रशुक्राणां गर्भविस्रवणं तथा ॥
अपानकर्म निर्दिष्टं स्थानमस्य गुदोपरि
॥२०॥समानो धारयत्यन्नं विवेचयति चाप्यथ ॥
रसयंश्चैव चरति सर्वश्रोणिष्ववारितः
॥२१॥वाक्प्रवृत्तिप्रदोद्गारे प्रयत्ने सर्वकर्मणाम् ॥
आकंठसुरसंस्थानमुदानस्य प्रकीर्त्यते
॥२२॥व्यानो हृदि स्थितो नित्यं तथा देहचरोपि च ॥
धातुवृद्धिप्रदः स्वेदलालोन्मेषनिमेषकृत्
॥२३॥पाचको रजकश्चैव साधकालोचकौ तथा ॥
भ्राजकश्च तथा देहे पञ्चधा पावकः स्थितः
॥२४॥पाचकस्तु पचत्यन्नं नित्यं पक्वाशये स्थित. ॥
आमाशयस्थोऽपि रसं रंजकः कुरुते त्वसृक्
॥२५॥साधको हृदिसंस्थश्च बुद्ध्याद्युत्साहकारकः ॥
आलोचकश्च दृक्संस्थो रूपदर्शनशक्ति कृत
॥२६॥त्वक्संस्थो भ्राजको देहं भ्राजयेन्निर्मलीकृतः ॥
क्लेदको बोधकश्चैव तर्पणः श्लेष्मणस्तथा
॥२७॥आलंबकस्तथा देहे पंचधा सोम उच्यते ॥
क्लेदकः क्लेदयत्यन्नं नित्यं पक्वाशये स्थितः
॥२८॥बोधको रसनास्थश्च रसानामवबोधकः ॥
शिरःस्थश्चक्षुरादीनां तर्पणात्तर्पणः स्मृतः
॥२९॥सर्वसंधिगतश्चैव श्लेष्मणः श्लेष्मकृत्तथा ॥
उरःस्थः सर्वगात्राणि स वै ह्यालंबकः स्थितः
॥३०॥एवं वाय्वग्निसोमैश्च देहः संधारितस्त्वसौ ॥
आकाशजानि स्रोतांसि तथा कोष्ठविविक्तता
॥३१॥पार्थिवानीह जानीहि घ्राणकेशनखानि च ॥
अस्थीनि धैर्यं गुरुता त्वङ्मांस हृदयं गुदम्
॥३२॥नाभिर्मेदो यकृन्मज्जा अंत्रमामाशयः शिरा ॥
स्नायुः पक्वाशयश्चैव प्राहुर्वेदविदो द्विजाः
॥३३॥नेत्रयोर्मडलं शुक्लं कफाद्भवति पैतृकम् ॥
कृष्णं च मण्डलं वातात्तथा भवति मातृकम्
॥३४॥पक्ष्ममण्डलमेकं तु द्वितीयं चर्ममण्डलम् ॥
शुक्लं तृतीयं कथित चतुर्थं कृष्णमण्डलम्
॥३५॥दृङ्मण्डलं पंचमं तु नेत्रं स्यात्पंचमण्डलम् ॥
अपरे नेत्रभागे द्वे उपांगोऽपांग एव च
॥३६॥उपांगो नेत्रपर्यंतो नासा मूलमपांगकः ॥
वृषणौ च तथा प्रोक्तौ मेदोसृक्कफमांसकौ
॥३७॥असृङ्मांसमयी जिह्वा सर्वेषामेव देहिनाम् ॥
हस्तयोरोष्ठयोर्मेढ्रे ग्रीवायां षट् च कूर्चकाः
॥३८॥एवमत्र स्थिते जीवो देहेऽस्मिन्सप्तसप्तके ॥
पंचविंशतिको व्याप्य देहं वासोऽस्य मूर्धनि
॥३९॥त्वगसृग्मांसमित्याहुस्त्रिकं मातृसमुद्भवम् ॥
मेदोमज्जास्थिकं प्रोक्तं पितृजं षट्च कौशिकम्
॥४०॥एवं भूतमयं देहं पंचभूतसमुद्भवैः ॥
अन्नैर्यथा वृद्धिमेति तदहं वर्णयामि ते
॥४१॥तदन्नं पिण्डकवलैर्ग्रासैर्भुक्तं च देहिभिः ॥
पूर्वं स्थूलाशये वायुः प्राणः प्रकुरुते द्विधा
॥४२॥संप्रविश्यान्नमध्ये तु पृथगन्नपृथग्जलम् ॥
अग्नेरूर्ध्वं जलं स्थाप्य तदन्नं तज्जलोपरि
॥४३॥जलस्याधः स्वयं प्राणः स्थित्वाग्निं धमते शनैः ॥
वायुना धम्यमानोग्निरत्युष्णं कुरुते जलम्
॥४४॥तदन्नमुष्णतोयेन समंतात्पच्यते पुनः ॥
द्विधा भवति तत्पक्वं पृथक्किट्टं पृथग्रसम्
॥४५॥मलैर्द्वादशभिः किट्टं भिन्नं देहाद्बहिर्व्रजेत् ॥
कर्णाक्षिनासिकाजिह्वादताः शिश्नं गुदं नखाः
॥४६॥रोमकूपाणि चैव स्युर्द्वादशैते मलाश्रयाः ॥
हृत्पद्मप्रतिबद्धाश्च सर्वा नाड्यः समंततः
॥४७॥तासां मुखेषु तं सूक्ष्मं व्यानः स्थापयते रसम् ॥
रसेन तेन ता नाडीः समानः पूरयेत्पुनः
॥४८॥ततः प्रयांति संपूर्णास्ताश्च देहं समंततः ॥
ततः स नाडिमध्यस्थो रञ्जकेनोष्मणा रसः
॥४९॥पच्यते पच्यमानस्तु रुधिरत्वं भजेत्पुनः ॥
ततस्त्वग्लोमकेशाश्च मांसं स्नायु शिरास्थि च
॥५०॥नखा मज्जा खवैमल्यं शुक्रवृद्धिः क्रमाद्भवेत् ॥
एवं द्वादशधान्नस्य परिणामः प्रकीर्त्यते
॥५१॥एवमेतद्विनिष्पन्नं शरीरं पुण्यहेतवे ॥
यथैव स्यंदनः शुभ्रो भारसंवाहनाय च
॥५२॥तैलाभ्यंगादिभिर्यत्नैर्बहुभिः पाल्यते न चेत् ॥
किं कृत्यं साध्यते तेन यदि भारं वहेन्न हि
॥५३॥एवमेतेन देहेन किं कृत्यं भोजनोत्तमैः ॥
वर्धितेन न चेत्पुण्यं कुरुते पशुवच्च तत्
॥५४॥भवंति चात्र श्लोकाः ॥
यस्मिन्काले च देशे च वयसा यादृशेन च ॥
कृतं शुभाशुभं कर्म तत्तथा तेन भुज्यते
॥५५॥तस्मात्सदा शुभं कार्यमविच्छिन्नसुखार्थिभिः ॥
विच्छिद्यंतेऽन्यथा भोगा ग्रीष्मे कुसरितो यथा
॥५६॥यस्मात्पापेन दुःखानि तीव्राणि सुबहून्यपि ॥
तस्मात्पापं न कर्तव्यमात्मपीडाकरं हि तत्
॥५७॥एवं ते वर्णितः साधो प्रश्नोऽयं शक्तितो मया ॥
यथा संजायते प्राणी यथा शृणु प्रलीयते
॥५८॥आयुष्ये कर्मणि क्षीणे संप्राप्ते मरणे नृणाम् ॥
स्वकर्मवशगो देही कृष्यते यमकिंकरैः
॥५९॥पंचतन्मात्रसहितः समनोबुद्ध्यहंकृतिः ॥
पुण्यपापमयैः पाशैर्बद्धो जीवस्त्यजे द्वपुः
॥६०॥शीर्ष्णश्च सप्तभिश्छिद्रैर्निर्गच्छेत्पुण्यकर्मणाम् ॥
अधश्च पापिनां यांति योगिनां ब्रह्मरंध्रतः
॥६१॥तत्क्षणात्सोऽथ गृह्णाति शारीरं चातिवाहिकम् ॥
अंगुष्ठपर्वमात्रं तु स्वप्राणैरेव निर्मितम्
॥६२॥ततस्तस्मिन्स्थितं जीवं देहे यमभटास्तदा ॥
बद्ध्वा नयंति मार्गेण याम्येनाति यथाबलम्
॥६३॥तप्तांबरीषतुल्येन अयोगुडनिभेन च ॥
प्रतप्तसिकतेनापि ताम्रपात्रनिभेन च
॥६४॥षडशीतिसहस्राणि योजनानां महीतलात् ॥
कृष्यमाणो यमपुरीं नीयते पापकृद्भटैः
॥६५॥क्वचिच्छीतं महादुर्गमन्धकारं क्वचिन्महत् ॥
अग्निसंस्पर्शवदनैः काककाकोलजंबुकैः
॥६६॥मक्षिकादंशमशकैर्भक्ष्यते सर्पवृश्चिकैः ॥
भक्ष्यमाणोऽपि तैर्जंतुः क्रंदते म्रियते न हि
॥६७॥क्वचिच्च भक्ष्यते घोरै राक्षसैः कृष्यतेऽस्यते ॥
दह्यमानोतिघोरेण सैकतेन च नीयते
॥६८॥मुहूतैर्दशभिर्याति तं मार्गमतिदुस्तरम् ॥
तं कालं सुमहद्वेत्ति पुरुषो वर्षसंमितम्
॥६९॥तार्यते च नदीं घोरां पूयशोणितवाहिनीम् ॥
नदीं वैतरणीं नाम केशशैवलशाद्वलाम्
॥७०॥ततो यमस्य पुरतः स्थाप्यते यमकिंकरैः ॥
पापी महाभयं पश्येत्कालांतकमुखैर्वृतम्
॥७१॥पुण्यकर्मा सौम्यरूपं धर्मराजं तदा किल ॥
मनुष्या एव गच्छंति यमलोकेन चापरे
॥७२॥मरणानंतरं तेषां जंतूनां योनिपूरणम् ॥
तथाहि प्रेता मनुजाः श्रूयंते नान्यजंतवः
॥७३॥धार्मिकः पूज्यते तत्र पापः पाशगलो भवेत् ॥
धार्मिकश्च यथा याति तं मार्गं शृणु वच्मि ते
॥७४॥आरामद्रुमदातारः फलपुष्पवता पथा ॥
छायया च सुखं यांति तथा ये च्छत्रदा नराः
॥७५॥उपानहप्रदा यानैर्वितृषाः पूर्तधर्मिणः ॥
विमानैर्यानदा यांति तथा शय्यासनप्रदाः
॥७६॥भक्ष्यभोज्यैस्तथा तृप्ता यांति भोजनदायिन ॥
दीपप्रदाः प्रकाशेन गोप्रदास्तां नदीं सुखम्
॥७७॥श्रीसूर्यं श्रीमहादेवं भक्ता ये पुरुषोत्तमम् ॥
जन्मप्रभृति ते यांति पूज्यमाना यमानुगैः
॥७८॥महीं गां कांचनं लोहं तिलान्कार्पासमेव च ॥
लवणं सप्तधान्यं च दत्त्वा याति सुखं नरः
॥७९॥तेषां तत्र गतानां च पापिनां पुण्यकर्मिणाम् ॥
चित्रगुप्तः प्रेतपाय निरूपयति वै ततः
॥८०॥प्रेतलोके स वसति ततः संवत्सरं नरः ॥
वत्सरेण च तेनास्य शरीरमभिजायते
॥८१॥सोदकुम्भमथान्नाद्यं बांधवैर्यत्प्रदीयते ॥
दिनेदिने स तद्भुक्त्वा तेन वृद्धिं प्रयाति च
॥८२॥पूर्वदत्तमथान्नाद्यं प्राप्नोति स्वयमेव च ॥
स्वयं येन न दत्तं च तथा दाता न विद्यते
॥८३॥न चाप्युदकदातासौ क्षुत्तृड्भ्यामतिपीड्यते ॥
बांधवैस्तूदकं दत्तं नदीभूत्वोपतिष्ठति
॥८४॥मासिमासि च यच्छ्राद्धं षोडशश्राद्धपूर्वकम् ॥
अत्र न क्रियते यस्य प्रेतत्वात्स न मुच्यते
॥८५॥मानुषेण दिनेनैव प्रेतलोके दिनं स्मृतम् ॥
तस्माद्दिनेदिने देयं प्रेतायान्नं च वत्सरम्
॥८६॥तं च स्माशानिकानाम गणा याम्या भयावहाः ॥
शीतवातातपोपेतं तत्र रक्षंति पापिनम्
॥८७॥यथेह बन्धने कश्चिद्रक्ष्यते विषमैर्नरैः ॥
प्रेतपिंडा न दीयंते षोडशश्राद्धपूर्वकाः
॥८८॥यस्य तस्य न मोक्षोऽस्ति प्रेतत्वाद्वै युगैरपि ॥
ततः सपिण्डीकरणे बांधवैः सुकृते नरः
॥८९॥पूर्णे संवत्सरे देहं संपूर्णं प्रतिपद्यते ॥
पापात्मा घोररूपं तु धार्मिको दिव्यमुत्तमम्
॥९०॥ततः स नरकं याति स्वर्गं वा स्वेन कर्मणा ॥
रौरवाद्याश्च नरकाः पातालतलसंस्थिताः
॥९१॥सुराद्याः सत्यपर्यंताः स्वर्लोकस्योर्ध्वमाश्रिताः ॥
इतिहासपुराणेषु वेदस्मृतिषु यच्छुतम्
॥९२॥पुण्यं तेन भवेत्स्वर्गो नरकस्तद्विपर्ययात् ॥
तत्रापि कालवसति कर्मणामनुरूपतः
॥९३॥अर्वाक्सपिंडीकरणं यस्य वर्षाच्च वा कृतम् ॥
प्रेतत्वमपि तस्यापि प्रोक्तं संवत्सरं धुवम्
॥९४॥यैरिष्टं च त्रिभिर्मेधैरर्चितं वा सुरत्रयम् ॥
प्रेतलोकं न ते यांति तथा ये समरे हताः
॥९५॥शुद्धेन पुण्येन दिवं च शुद्धां पापेन शुद्धेन तथा तमोंधम् ॥
मिश्रेण स्वर्गं नरकं च याति देहस्तथैवास्य भवेच्च तादृक्
॥९६॥प्रश्नत्रयं चेति तव प्रणीतमुत्पत्तिमृत्यू परलोकवासः ॥
यथा गुरुर्मे समुदाजहार किं भूय इच्छत्युत तद्वदामि
॥९७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्ड कौमारिकाखण्डे आदित्यकमठसंवादे जीवस्य पारलौकिकगत्यादिवर्णनंनाम पंचाशत्तमोऽध्यायः ॥ ५० ॥