मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय १०

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 10

गृध्रस्यैतद्वचः श्रुत्वा दुःखविस्मयसंयुतः

नारद उवाच

गृध्रस्यैतद्वचः श्रुत्वा दुःखविस्मयसंयुतः ॥

इन्द्रद्युम्नस्तमा पृच्छय मरणायोपचक्रमे

॥१॥

ततस्तमालोक्य तथा मुमूर्षुं कौशिकादिभिः ॥

स संहितं विचिंत्याह दीर्घायुषमथात्मनः

॥२॥

मैवं कार्षीः श्रुणु गिरं भद्रक त्वं चिरंतनः ॥

मत्तोऽप्यस्ति स्फुटं चैव ज्ञास्यति त्वदभीप्सितम्

॥३॥

मानसे सरसि ख्यातः कूर्मोमंथरकाख्यया ॥

तस्य नाविदितं किंचिदेहि तत्र व्रजामहे

॥४॥

ततः प्रतीतास्ते भूपमुनिगृध्रबकास्तथा ॥

उलूकसहिता जग्मुः सर्वे कूर्मदिदृक्षवः

॥५॥

सरस्तीरे स्थितः कूर्मस्तान्निरीक्ष्य विदूरगान् ॥

कांदिशीको विवेशासौ जलं शीघ्रतरं तदा

॥६॥

कौशिकोऽथ तमाहेदं प्रहस्य वचनं स्वयम् ॥

कस्मात्कूर्म प्रनष्टोद्य विमुखोऽभ्यागतेष्वपि

॥७॥

अग्निर्द्विजानां विप्रश्च वर्णानां रमणः स्त्रियाम् ॥

गुरुः पिता च पुत्राणां सर्वस्याभ्यागतो गुरुः

॥८॥

विहाय तमिमं धर्ममातिथ्यविमुखः कथम् ॥

गृह्णासि पापं सर्वेषां ब्रूहि कूर्माधुनोत्तरम्

॥९॥

कूर्म उवाच

चिरंतनो हि जानामि कर्त्तुमातिथ्यसत्क्रियाम् ॥

अभ्यागतेष्वपचितिं धर्मशास्त्रेषु निश्चितम्

॥१०॥

सुमहत्कारणं चात्र श्रूयतां तद्वदामि वः ॥

नाहं पराङ्मुखो जात एतावंति दिनान्यपि

॥११॥

अभ्यागतस्य कस्यापि सर्वसत्कारसद्व्रती ॥

किं त्वेष पंचमो यो वो दृश्यते सरलाकृतिः

॥१२॥

इंद्रद्युम्नो महीपालो बिभोम्यस्मादलंतराम् ॥

अमुना यजमानेन रौचकाख्ये पुरा पुरे

॥१३॥

यज्ञपावकदग्धा मे पृष्ठिर्नाद्यापि निर्व्रणा ॥

तन्मे भयं पुनर्जातं किमयं पुनरेव माम्

॥१४॥

आसुतीवलमाधाय भुवि धक्ष्यति संप्रति ॥

इति वाक्यावसाने तु कूर्मस्य कुरुसत्तम

॥१५॥

पपात पुष्पवृष्टिः खाद्विमुक्ताप्सरसां गणैः ॥

सस्वनुर्देववाद्यानि कीर्त्युद्धारे महीपतेः

॥१६॥

विस्मितास्ते च ददृशुर्विमानं पुरतः स्थितम् ॥

इंद्रद्युम्नकृते देवदूतेनाधिष्ठितं तदा

॥१७॥

अयातयामाः प्रददुराशिषोऽस्मै सुरद्विजाः ॥

साधुवादो दिवि महानासीत्तस्य महीपतेः

॥१८॥

ततो विमानमालंब्य देवदूतस्तमुच्चकैः ॥

इंद्रद्युम्नमुवाचेदं श्रृण्वतां नाकवासिनाम्

॥१९॥

देवदूत उवाच

नवीकृताधुना कीर्तिस्तव भूपाल निर्मला ॥

त्रिलोक्यामपि तच्छीघ्रं विमानमिदमारुह

॥२०॥

गम्यतां ब्रह्मणो लोकमाकल्पं तपसोर्जितम् ॥

प्रेषितोऽहमनेनैव तवानयनकारणात्

॥२१॥

यावत्कीर्तिर्मनुष्यस्य पृथिव्यां प्रथिता भवेत् ॥

तावानेव भवेत्स्वर्गी सति पुण्ये ह्यनंतके

॥२२॥

सुरालयसरोवापीकूपारामादिकल्पना ॥

एतदर्थं हि पूर्ताख्या धर्मशास्त्रेषु निश्चिता

॥२३॥

इंद्रद्युम्न उवाच

अमी ममैव सुहृदो मार्कंडबककौशिकाः ॥

गृध्रकूर्मौ प्रभावोऽयममीषां मम वृद्धये

॥२४॥

तच्चेदमी मया साकं ब्रह्मलोकं प्रयांत्युत ॥

पुरःस्थितास्तदायास्ये ब्रह्मलोकं च नान्यथा

॥२५॥

परेषामनपेक्ष्यैव कृतप्रतिकृतं हि यः ॥

प्रवर्तते हितायैव स सुहृत्प्रोच्यते बुधैः

॥२६॥

स्वार्थोद्युक्तधियो ये स्युरन्वर्थास्तेप्यसुंधराः ॥

मरणं प्रकृतिश्चैव जीवितं विकृतिर्यदा

॥२७॥

प्राणिनां परमो लाभः केवलं प्राणिसौहृदम् ॥

दरिद्रा रागिणोऽसत्यप्रतिज्ञाता गुरुद्रुहः

॥२८॥

मित्रावसानिनः पापाः प्रायो नरकमंडनाः ॥

परार्थनष्टास्तदमी पंच संप्रति साधवः

॥२९॥

मम कीर्तिसमुद्धारः स प्रभावो महात्मनाम् ॥

अमीषां यदि ते स्वर्गं प्रयास्यन्ति मया सह ॥

तदाहमपि यास्यामि देवदूतान्यथा न हि

॥३०॥

देवदूत उवाच

एते हरगणाः सर्वेशापभ्रष्टाः क्षितिं गताः

॥३१॥

शापांते हरपार्श्वे तु यास्यंति पृथिवीपते ॥

विहायेमानतो भूप त्वमागच्छ मया सह

॥३२॥

न चैषां रोचते स्वर्गो हित्वा देवं महेश्वरम् ॥

इंद्रद्युम्न उवाच ॥

यद्येवं गच्छ तद्दूत नायास्येहं त्रिविष्टपम्

॥३३॥

तथा तथा यति ष्यामि भविष्यामि यथा गणः ॥

अविशुद्धिक्षयाधिक्यदूषणैरेष निंदितः

॥३४॥

स्वर्गः सदानुश्रविकस्तस्मादेनं न कामये ॥

तत्रस्थास्य पुनः पातो भयं न व्येति मानसात्

॥३५॥

पुनः पातो यतः पुंसस्तस्मात्स्वर्गं न कामये ॥

सति पुण्ये स्वयं तेन पातितो निजलोकतः

॥३६॥

चतुर्मुखेन वैलक्ष्यं गतोऽस्मि कथमेमि तम् ॥

इतीदमुक्त्वा दूतं तं श्रृण्वतोऽस्यैव विस्मयात्

॥३७॥

अप्राक्षीद्भूपतिः कूर्मं तदायुःकारणं तदा ॥

इदमायुः कथं जातं कूर्म दीर्घतमं तव

॥३८॥

सुहृन्मित्रं गुरुस्त्वं मे येन कीर्तिर्ममोद्धृता

॥३९॥

कूर्म उवाच

श्रृणु भूप कथां दिव्यां श्रवणात्पापनाशिनीम् ॥

कथां सुमधुरामेतां शिवमाहात्म्यसंयुताम्

॥४०॥

श्रृण्वन्निमामपि कथां नृपते मनुष्यः सुश्रद्धया भवति पापविमुक्तदेहः ॥

शंभोः प्रसादमभिगम्य यथायुरेवमासीत्प्रसादत इयं मम कूर्मता च

॥४१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्त्रायां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीप्रादुर्भावे दशमोऽध्यायः ॥ १० ॥