मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ५४

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 54

नारदमाहात्म्यवर्णनम्

नारद उवाच

ममापि पार्थ तत्रास्ति मूर्तिर्ब्राह्मणकाम्यया ॥

तत्र नाहं त्यजाम्यंग च्छत्रदण्डविभूषिताम्

॥१॥

कार्तिकस्य तु या शुक्ला भवत्येकादशी शुभा ॥

तस्यां मदर्चनं कृत्वा कलिदोषैर्विमुच्यते

॥२॥

अर्जुन उवाच

बाल्यात्प्रभृति संदेहो ममायं हृदि वर्तते ॥

पृच्छतस्तं च मे विप्र न क्रोधं कर्तुमर्हसि

॥३॥

सदा त्वं मोक्षधर्मेषु परिनिष्ठां परां गतः ॥

सर्वभूतसमो दांतो रागद्वेषविवर्जितः

॥४॥

त्यक्तनिंदास्तुतिर्मौनी मोक्षस्थः परिकीर्त्यसे ॥

त्वं च नारद लोकेषु वायुवच्चपलो मुने

॥५॥

सौदामिनीव विचरन्दृश्यसे प्राज्ञसंमतः ॥

सदा कलिकरो लोके निर्दयः सर्वप्राणिषु

॥६॥

बहूनां हि सहस्राणि देवगंधर्वरक्षसाम् ॥

राज्ञां मुनीन्द्रदैत्यानां कलेर्नष्टानि तेऽभवन्

॥७॥

कस्मात्तदेषा चेष्टा ते संदेहं मे हर द्विज ॥

संदेहान्न सुखं शेते बाणविद्धो मृगो यथा

॥८॥

सूत उवाच

शौनकेदं वचः श्रुत्वा फाल्गुनान्नारदो मुनिः ॥

प्रहसन्निव बाभ्रव्यवदनं स निरैक्षत

॥९॥

स च बाभ्रव्यनामा वै हारीतस्यान्वयोद्भवः ॥

ब्राह्मणो नारदमुनेः समीपे वर्तते सदा

॥१०॥

स च ज्ञात्वा महाबुद्धिर्नारदस्य मनीषितम् ॥

प्रहसन्निव प्रोवाच फाल्गुनं स्निग्धया गिरा

॥११॥

बाभ्रव्य उवाच

सत्यमेतद्यथात्थ त्वं नारदं प्रति पांडव ॥

सर्वोऽपि चात्र वृत्तांते संशयं याति मानवः

॥१२॥

तदहं ते प्रवक्ष्यामि यथा कृष्णान्मया श्रुतम् ॥

स्तोककालांतरे पूर्वं सर्वं यादवनंदनः

॥१३॥

महीसागरयात्रायां कृष्णस्तत्राययौ प्रभुः ॥

उग्रसेनेन सहितो वसुदेवेन बभ्रुणा

॥१४॥

रामेण रौक्मिणेयेन युयुधानादिभिस्तदा ॥

स च ज्ञात्वा ज्ञातिसमं महीसागरसंगमे

॥१५॥

पिंडदानादिकं कृत्वा दत्त्वा दानानि भूरिशः ॥

गुहेश्वरादिलिंगानि यत्नतः प्रतिपूज्य च

॥१६॥

स्नानं कृत्वा कोटितीर्थे जयादित्यं समर्च्य च ॥

पूजयन्नारदमुनिं युक्तः कृष्णो महामनाः

॥१७॥

उग्रसेनेन राज्ञा वै पूर्वजेन जटायुना ॥

मदादिविप्रमुख्यानां बहूनां चोपशृण्वताम् ॥

उग्रसेनो महाराजः कृष्णं प्रोवाच संसदि

॥१८॥

उग्रसेन उवाच

कृष्ण प्रक्ष्यामि त्वामेकं संशयं वद तं मम

॥१९॥

योऽयं नाम महाबुद्धिर्नारदो विश्ववंदितः ॥

कस्मादेषोऽतिचपलो वायुवद्भ्रमते जगत् ॥

कलिप्रियश्च कस्माद्वा कस्मात्त्वय्यतिप्रीतिमान्

॥२०॥

श्रीकृष्ण उवाच

सत्यं राजंस्त्वया पृष्टमेतत्सर्वं वदामि ते ॥

दक्षेण तु पुरा शप्तो नारदो मुनिसत्तमः

॥२१॥

सृष्टिमार्गांस्तु तान्वीक्ष्य नारदेन विचालितान् ॥

नावस्थानं च लोकेषु भ्रमतस्ते भविष्यति

॥२२॥

पैशुन्य वक्ता च तथा द्वितीयानां प्रचालनात् ॥

इति शापद्वयं प्राप्य द्विविधात्मजचालनात्

॥२३॥

निराकर्तुं समर्थोऽपि मुनिर्मेने तथैव तत् ॥

एतावान्साधुवादो हि यतश्च क्षमते स्वयम्

॥२४॥

विनाशकालं चावेक्ष्य कलिं वर्धयते यतः ॥

सत्यं च वक्ति तस्मात्स न च पापेन लिप्यते

॥२५॥

भ्रमतोऽपि च सर्वत्र नास्य यस्मात्पृथङ्मनः ॥

ध्येयाद्भवति नैव स्याद्भ्रमदोषस्ततोस्य च ॥

यच्च प्रीतिर्मयि तस्य परमा तच्छृणुष्व च

॥२६॥

अहं हि सर्वदा स्तौमि नारदं देवदर्शनम् ॥

महेंद्रगदितेनैव स्तोत्रेण शृणु तन्नृप

॥२७॥

श्रुतचारित्रयोर्जाता यस्याहंता न विद्यते ॥

अगुप्तश्रुत चारित्रं नारदं तं नमाम्यहम्

॥२८॥

अरतिक्रोधचापल्ये भयं नैतानि यस्य च ॥

अदीर्घसूत्रं धीरं च नारदं तं नमाम्यहम्

॥२९॥

कामाद्वा यदि वा लोभाद्वाचं यो नान्यथा वदेत् ॥

उपास्यं सर्वजंतूनां नारदं तं नमाम्यहम्

॥३०॥

अध्यात्मगतितत्त्वज्ञं क्षांतं शक्तं जितेंद्रियम् ॥

ऋजुं यथार्थ वक्तारं नारदं तं नमाम्यहम्

॥३१॥

तेजसा यशसा बुद्ध्या नयेन विनयेन च ॥

जन्मना तपसा वृद्धं नारदं तं नमाम्यहम्

॥३२॥

सुखशीलं सुखं वेषं सुभोजं स्वाचरं शुभम् ॥

सुचक्षुषं सुवाक्यं च नारदं तं नमाम्यहम्

॥३३॥

कल्याणं कुरुते गाढं पापं यस्य न विद्यते ॥

न प्रीयते परानर्थे यो ऽसौ तं नौमि नारदम्

॥३४॥

वेदस्मृतिपुराणोक्तधर्मे यो नित्यमास्थितः ॥

प्रियाप्रियविमुक्तं तं नारदं प्रणमाम्यहम्

॥३५॥

अशनादिष्वलिप्तं च पंडितं नालसं द्विजम् ॥

बहुश्रुतं चित्रकथं नारदं प्रणमाम्यहम्

॥३६॥

नार्थे क्रोधे च कामे च भूतपूर्वोऽस्य विभ्रमः ॥

येनैते नाशिता दोषा नारदं तं नमाम्यहम्

॥३७॥

वीतसंमोहदोषो यो दृढभक्तिश्च श्रेयसि ॥

सुनयं सत्रपं तं च नारदं प्रणमाम्यहम्

॥३८॥

असक्तः सर्वसंगेषु यः सक्तात्मेति लक्ष्यते ॥

अदीर्घसंशंयो वाग्ग्मी नारदं तं नमाम्यहम्

॥३९॥

न त्यजत्यागमं किंचिद्यस्तपो नोपजीवति ॥

अवंध्यकालो यस्यात्मा तमहं नौमि नारदम्

॥४०॥

कृतश्रमं कृतप्रज्ञं न च तृप्तं समाधितः ॥

नित्यं यत्नात्प्रमत्तं च नारदं तं नमाम्यहम्

॥४१॥

न हृष्यत्यर्थलाभेन योऽलाभे न व्यथत्यपि ॥

स्थिरबुद्धिरसक्तात्मा तमहं नौमि नारदम्

॥४२॥

तं सर्वगुणसंपन्नं दक्षं शुचिमकातरम् ॥

कालज्ञं च नयज्ञं च शरणं यामि नारदम्

॥४३॥

इमं स्तवं नारदस्य नित्यं राजन्पठाम्यहम् ॥

तेन मे परमा प्रीतिं करोति मुनिसत्तमः

॥४४॥

अन्योपि यः शुचिर्भूत्वा नित्यमेतां स्तुतिं जपेत् ॥

अचिरात्तस्य देवर्षिः प्रसादं कुरुते परम्

॥४५॥

एतान्गुणान्नारदस्य त्वमथाकर्ण्य पार्थिव ॥

जप नित्यं स्तवं पुण्यं प्रीतस्ते भविता मुनिः

॥४६॥

बाभ्रव्य उवाच

इति कृष्णमुखाच्छ्रुत्वा नारदस्य गुणान्नृपः ॥

बभूव परमप्री तश्चक्रे तच्च तथा वचः

॥४७॥

ततो नारदमानर्च दत्त्वा दानं च पुष्कलम् ॥

नारदीयद्विजाग्र्याणां नारदः प्रीयतामिति

॥४८॥

ययौ द्वारवतीं कृष्णः सभ्रातृजातिबांधवः ॥

तीर्थयात्रामिमां कृत्वा विधिवत्पुरुषोत्तमः

॥४९॥

तथा त्वमपि कौरव्य नारदस्य गुणानिमान् ॥

श्रुत्वा श्रद्धामयो भूत्वा शृणु कृत्यं यदत्र च

॥५०॥

कार्तिके शुक्लद्वादश्यां प्रबोधिन्यामसौ मुनिः ॥

विष्णोर्ध्यानसमाधेश्च प्रबुद्धो जायते सदा

॥५१॥

तस्मिन्दिने नारदेन निर्मितेऽत्रैव कूपके ॥

स्नानं कृत्वा प्रयत्नेन श्राद्धं कुर्यात्समाहितः

॥५२॥

तपो दानं जपश्चात्र कूपे भवति चाक्षयम्

॥५३॥

इदं विष्ण्विति मंत्रेण ततो विष्णुं प्रबोधयेत् ॥

नारदं च मुनिं पश्चान्मन्त्रेणानेन पांडव

॥५४॥

योगनिद्रा यथा त्यक्ता हरिणा मुनिसत्तम ॥

तथा लोकोपकाराय भवानपि परित्यज

॥५५॥

इति मंत्रेण चोत्थाप्य नारदं परिपूजयेत् ॥

कृष्णप्रोदितया स्तुत्या छत्रधोत्रार्चनैः शुभैः

॥५६॥

शक्त्या द्विजानां देयं च छत्रं धोत्रं कमंडलुम् ॥

प्रणम्य ब्राह्मणान्भक्त्या नारदः प्रीयतामिति

॥५७॥

एवं कृते प्रसादात्स मुनेः पापेन मुच्यते ॥

जायते न कलिस्तस्य न चासौख्यं भवेदिह

॥५८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे नारदमाहात्म्यवर्णनंनाम चतुःपंचाशत्तमोऽध्यायः ॥ ५४ ॥