मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय १५

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 15

तारकासुरोत्पत्तिवर्णनम्

वरांग्युवाच

नाशितास्म्यपविद्धास्मि त्रासिता पीडितास्मि च ॥

रौद्रोण देवनाथेन नष्टनाथेन भूरिशः

॥१॥

दुःखपारमपश्यंती प्राणांस्त्यक्तुं व्यवस्थिता ॥

पुत्रं मे घोरदुःखस्य तारकं देहि चेत्कृपा

॥२॥

एवमुक्तस्तु दैत्येंद्रो दुःखितोऽचिंतयद्धृदि ॥

आसुरेष्वपि भावेषु स्पृहा यद्यपि नास्ति मे

॥३॥

तथापि मन्ये शास्त्रैभ्यस्त्वनुकंप्या प्रियेति यत् ॥

सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान्

॥४॥

व्यसनार्णवमत्येति जलयानैरिवार्णवम् ॥

यामाश्रित्येंद्रियारातीन्दुर्जयानितराश्रयैः

॥५॥

गेहिनो हेलया जिग्युर्दस्यून्दूर्ग पतिर्यथा ॥

न केऽपि प्रभवस्तां चाप्यनुकर्तुं गृहेश्वरीम्

॥६॥

अथायुषा वा कार्त्स्न्येन धर्मे दित्सुर्यथैव च ॥

यस्यां भवति चात्मैव ततो जाया निगद्यते

॥७॥

भर्तव्या एव यस्माच्च तस्माद्भार्येति सा स्मृता ॥

सा एव गृहमुक्तं च गृहीणी सा ततः स्मृता

॥८॥

संसारकल्मषात्त्रात्री कलत्रमिति सा ततः ॥

एवंविधां प्रियां को वै नानुकंपितुमर्हति

॥९॥

त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् ॥

भार्या कर्म च विद्या च संसाध्यं यत्नतस्त्रयम्

॥१०॥

तदेनां पीडितां चेद्यः पतिर्भूत्वा न पालये ॥

ततो यास्ये शास्त्रवादान्नरकांतं न संशयः

॥११॥

अह मप्येनमिंद्रं वै शक्तो जेतुं यथाऽनृणाम् ॥

पुनः कामं करिष्येऽस्या दास्ये पुत्रऊं महाबलम्

॥१२॥

इति संचिंत्य वज्रांगः कोपव्याकुललोचनः ॥

प्रतिकर्तुं महेंद्राय तपो भूयो व्यवस्यत

॥१३॥

ज्ञात्वा तु तस्य संकल्पं ब्रह्मा क्रूरतरं पुनः ॥

आजगाम त्वरायुक्तो यत्राऽसौ दितिनंदनः

॥१४॥

उवाचैनं स भगवान्प्रभुर्मधुरया गिरा

॥१५॥

ब्रह्मोवाच

किमर्थं भूय एव त्वं नियमं क्रूरमिच्छसि ॥

आहाराभिमुखो दैत्य तन्मे ब्रूहि महाव्रतः

॥१६॥

यावदब्दसहस्रेण निराहारेण वै फलम् ॥

त्यजता प्राप्तमाहारं लब्धं ते क्षणमात्रतः

॥१७॥

त्यागो ह्यप्राप्तकामानां न तथा च गुरुः स्मृतः ॥

यथा प्राप्तं परित्यज्य कामं कमललोचन ॥

श्रुत्वैतद्ब्रह्मणो वाक्यं दैत्यः प्रांजलिरब्रवीत्

॥१८॥

दैत्य उवाच

पत्न्यर्थेऽहं करिष्यामि तपो घोरं पितामह ॥

पुत्रार्थमुद्यतश्चाहं यः स्याद्गीर्वाणदर्पहा

॥१९॥

एतच्छ्रुत्वा वचो देवः पद्मगर्भोद्भवस्तदा ॥

उवाच दैत्यराजानं प्रसन्नश्चतुराननः

॥२०॥

ब्रह्मोवाच

अलं ते तपसा वत्स मा क्लेशे विस्तरे विश ॥

पुत्रस्ते तारकोनाम भविष्यति महाबलः

॥२१॥

देवसीमंतिनीकाम्यधम्मिल्लकविमोक्षणः ॥

इत्युक्तो दैत्यराजस्तु प्रणम्य प्रपितामहम्

॥२२॥

विसृज्य गत्वा महिषीं नंदया मास तां मुदा ॥

तौ दंपती कृतार्थौ च जग्मतुश्चाश्रमं तदा

॥२३॥

आहितं च ततो गर्भं वरांगी वरवर्णिनी ॥

पूर्णं वर्षसहस्रं तु दधारोदर एव हि

॥२४॥

ततो वर्षसहस्रांते वरांगी समसूयत ॥

जायमाने तु दैत्येंद्रे तस्मिँल्लोकभयंकरे

॥२५॥

चचाल सकला पृथ्वी प्रोद्धूताश्च महार्णवा ॥

चेलुर्धराधराश्चापि ववुर्वाता विभीषणाः

॥२६॥

जेपुर्जप्यं मुनिवरा व्याधविद्धा मृगा इव ॥

जहुः कांतिं च सूर्याद्या नीहाराश्छांदयन्दिशः

॥२७॥

जाते महासुरे तस्मिन्सर्व एव महासुराः ॥

आजग्मुर्हर्षितास्तत्र तथा चासुरयोषितः

॥२८॥

जगुर्हर्षसमाविष्टा ननृतुश्चासुरांगनाः ॥

ततो महोत्सवे जाते दानवानां पृथासुत

॥२९॥

विषण्णमनसो देवाः समहेंद्रास्तदाभवन् ॥

जातामात्रस्तु दैत्येंद्रस्तारकश्चंडविक्रमः

॥३०॥

अभिषिक्तोऽसुरो दैत्यैः कुरंगमहिषादिभिः ॥

सर्वासुरमहाराज्ये युतः सर्वैर्महासुरैः

॥३१॥

स तु प्राप्तमहाराज्यस्तारकः पांडुसत्तम ॥

उवाच दानवश्रेष्ठान्युक्तियुक्तमिदं वचः

॥३२॥

श्रृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः ॥

श्रुत्वा वः स्थेयसी बुद्धिः क्रियतां वचने मम

॥३३॥

अस्माकं जातिधर्मेण विरूढं वैरमक्षयम् ॥

करिष्याम्यहं तद्वैरं तेषां च विजयाय च

॥३४॥

किं तु तत्तपसा साध्यं मन्येहं सुरसंगमम् ॥

तस्मादादौ करिष्यामि तपो घोरं दनोः सुताः

॥३५॥

ततः सुरान्विजेष्यामो भोक्ष्यामोऽथ जगत्त्रयम् ॥

युक्तोपायोऽहि पुरुषः स्थिरश्रीरेव जायते

॥३६॥

अयुक्तश्चपलः प्राप्तामपि रक्षितुमक्षमः ॥

तच्छ्रुत्वा दानवाः सर्वे वाक्यं तस्यासुरस्य तु

॥३७॥

साधुसाध्वित्यथोचुस्ते वचनं तस्य विस्मिताः ॥

सोऽगच्छत्पारियात्रस्य गिरेः कंदरमुत्तमम्

॥३८॥

सर्वर्तुकुसुमाकीर्णनानौषधिविदिपितम् ॥

नानाधातुरसस्राविचित्रनानागृहाश्रयम्

॥३९॥

अनेकाकारबहुलं पृथक्पक्षिकुलाकुलम् ॥

नानाप्रस्रवणोपेतं नानाविधजलाशयम्

॥४०॥

प्राप्य तत्कंदरं दैत्यश्चकार विपुलं तपः ॥

वहन्पाशुपतीं दीक्षां पंच मंत्राञ्जजाप सः

॥४१॥

निराहारः पंचतपा वर्षायुतमभूत्किल ॥

ततः स्वदेहादुत्कृत्त्य कर्षंकर्षं दिनेदिने

॥४२॥

मांसस्याग्नौ जुहावैव ततो निर्मांसतां गतः ॥

ततो निर्मांसदेहः स तपोराशिरजायत

॥४३॥

जज्वलुः सर्वभूतानि तेजसा तस्य सर्वतः ॥

उद्विग्नाश्च सुराः सर्वे तपसा तस्य भीषिताः

॥४४॥

एतस्मिन्नंतरे ब्रह्मा परमं तोषमागतः ॥

तारकस्य वरं दातुं जगाम शिखरं गिरेः

॥४५॥

प्राप्य तं शैलराजानं हंसस्यंदनमास्थितः ॥

उवाच तारकं देवो गिरा मधुरया तदा

॥४६॥

ब्रह्मोवाच

उत्तिष्ठ पुत्र तपसो नास्त्यसाध्यं तवाधुना ॥

वरं वृणीष्वाभिमतं यत्ते मनसि वर्तते

॥४७॥

इत्युक्तस्तारको दैत्यः प्रांजलिः प्राह तं विभुम्

॥४८॥

तारक उवाच

वयं प्रभो जातिधर्माः कृतवैराः सहमरैः ॥

तैश्च निःशेषिता दैत्याः कृताः क्रूरैनृशं सवत्

॥४९॥

तेषामहं समुद्धर्ता भवेयमिति मे मतिः ॥

अवध्यः सर्वभूतानामस्त्राणां च महौजसाम्

॥५०॥

स्यामहं चामरैश्चैष वरो मम हृदिस्थितः ॥

एतन्मे देहि देवेश नान्यं वै रोचये वरम्

॥५१॥

तमुवाच ततो दैत्यं विरंचोऽमरनायकः ॥

न युज्यते विना मृत्युं देहिनो देहधारणम् ॥

जातस्य हि ध्रुवो मृत्युः सत्यमेतच्छ्रुतीरितम्

॥५२॥

इति संचिंत्य वरय वरं यस्मान्न शंकसे ॥

ततः संचिंत्य दैत्येंद्रः शिशुतः सप्तवासरात्

॥५३॥

तारक उवाच

वासराणां च सप्तानां वर्जयित्वा तु बालकम् ॥

देवानामप्यवध्योऽहं भूयासं तेन याचितः

॥५४॥

वव्रे महासुरो मृत्युं ब्रह्माणं मानमोहितः ॥

ब्रह्मा प्रोचे ततस्तं च तथेति हरवाक्यतः

॥५५॥

जगाम त्रिदिवं देवो दैत्योऽपि स्वकमालयम् ॥

उत्तीर्णं तपसस्तं च दैत्यं दैत्येश्वरास्तदा

॥५६॥

परिवव्रुः फलाकीर्णं वृक्षं शकुनयो यथा ॥

तस्मिन्महति राज्यस्थे तारके दितिनंदने

॥५७॥

ब्रह्मणाभिहि तस्थाने महार्णवतटोत्तरे ॥

तरवो जज्ञिरे पार्थ तत्र सर्वर्तवः शुभाः

॥५८॥

कांतिर्द्युतिर्धृतिर्मेधा श्रीरखंडा च दानवम् ॥

परिवव्रुर्गुणा कीर्णं निश्छिद्राः सर्व एव हि

॥५९॥

कालागरुविलिप्तांगं महामुकुटमंडितम् ॥

रुचिरांगदसन्नद्धं महासिंहासने स्थितम्

॥६०॥

नृत्यंत्यप्सरसः श्रेष्ठा गन्धर्वा गाययंति च ॥

चन्द्रार्कौ दीपमार्गेषु व्यजनेषु च मारुतः ॥

ग्रहा अग्रेसरास्तस्य जीवादेशप्रभाषिणः

॥६१॥

एवं स्वकाद्बाहुबलात्स दैत्यः संप्राप्य राज्यं परिमोदमानः ॥

कदाचिदाभाष्य जगाद मंत्रिणः प्रोद्धृत्तसर्वांगबलेन दर्पितः

॥६२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकखण्डे कुमारेशमाहात्मये तारकासुरोत्पत्तिवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥