हिमवदाश्वासनम्
नारद उवाच
ततश्च शैलजा देवी चिक्रीड सुभगा तदा ॥
देवगंधर्वकन्याभिर्नगकिंनरसंभवाः ॥
मुनीनां चापि याः कन्यास्ताभिः सार्धं च शोभना
॥१॥कदाचिदथ मेरुस्थो वासवः पांडुनंदन ॥
सस्मारा मां ययौ चाहं संस्मृतो वासवं तदा
॥२॥मां दृष्ट्वा च सहस्राक्षः समुत्थायातिहर्षितः ॥
पूजयामास तां पूजां प्रतिगृह्याहमब्रुवम्
॥३॥महासुर महोन्मादकालानल दिवस्पते ॥
कुशलं विद्यते कच्चिच्च नंदसि
॥४॥पृष्टस्त्वेवं मया शक्रः प्रोवाच वचनं स्मयन् ॥
कुशलस्यांकुरस्तावत्संभूतो भुवनत्रये
॥५॥तत्फलोदयसंपत्तौ तद्भवान्संस्मृतो मुने ॥
वेत्सि सर्वमतं त्वं वै तथापि परिनोदकः
॥६॥निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने
॥७॥तद्भवाञ्छैलजां देवीं शैलंद्रं शैलवल्लभाम् ॥
हरं संभावय वरं यन्नान्यं रोचयंति ते
॥८॥ततस्तद्वाक्यमाकर्ण्य गतोऽहं शैलसत्तमम् ॥
ओषधिप्रस्थनिलयं साक्षादिव दिवस्पतिम्
॥९॥तत्र हैमे स्वयं तेन महाभक्त्या निवेदिते ॥
महासने पूजितोहमुपविष्टो महासुखम्
॥१०॥गृहीतार्घ्यं ततो मां च पप्रच्छ श्लक्ष्णया गिरा ॥
कुशलं तपसः शैलः शनैः फुल्लाननांबुजः
॥११॥अहमप्यस्य तत्प्रोच्य प्रत्यवोचं गिरीश्वरम् ॥
त्वया शैलेंद्र पूर्वां वाप्यपरां च दिशं तथा
॥१२॥अवगाह्य स्थितवता क्रियते प्राणिपालना ॥
अहो धन्योसि विप्रेंद्राः साहाय्येन तवाचल
॥१३॥तपोजपव्रतस्नानौः साध्यंत्यात्मनः परम् ॥
यज्ञांगसाधनैः कांश्चित्कंदादिफलदानतः
॥१४॥त्वं समुद्धरसि विप्रान्किमतः प्रोच्यते तव ॥
अन्येऽपि जीव बहुधात्वामुपाश्रित्य भूधर
॥१५॥मुदिताः प्रतिवर्तंते गृहस्थमिव प्राणिनः ॥
शीतमातपवर्षांश्च क्लेशान्नानाविधान्सहन्
॥१६॥उपाकरोषि जंतूनामेवंरूपा हि साधवः ॥
किमतः प्रोच्यते तुभ्यं धन्यस्त्वं पृथिवीधर
॥१७॥कंदरं यस्य चाध्यास्ते स्वयं तव महेश्वरः ॥
इत्युक्तवति वाक्यं च यथार्थं मयिफाल्गुन
॥१८॥हिमशैलस्य महिषी मेना आगाद्दिदृक्षया ॥
अनुयाता दुहित्रा च स्वल्पाश्च परिचारिकाः
॥१९॥लज्जयानतसर्वांगी प्रविवेश सदो महत् ॥
ततो मां शैलमहिषी ववंदे प्रणिपत्य सा
॥२०॥वस्त्रनिर्गूढवदना पाणिपद्मकृतांजलिः ॥
तामहं सत्यरूपाभिराशीर्भिः समवर्धयम्
॥२१॥पतिव्रता शुभाचारा सुबगा वीरसूः शुभे ॥
सदा वीरवती चापि भव वंशोन्नतिप्रद
॥२२॥ततोऽहं विस्मिताक्षीं च हिमवद्गिरिपुत्रिकाम् ॥
मृदुवाण्या प्रत्यवोचमेहि बाले ममांतिकम्
॥२३॥ततो देवी जगन्माता बालबावं स्वकं मयि ॥
दर्शयंती स्वपितरं कंठे गृह्यांकमावि शत्
॥२४॥उवाच वाचं तां मंदं मुनिं वंदय पुत्रिके ॥
मुनेः प्रसादतोऽवश्यं पतिमाप्स्यसि संमतम्
॥२५॥इत्युक्ता सा ततो बाला वस्त्रांतपि हितानना ॥
किंचित्सहुंकृतोत्कंपं प्रोच्य नोवाच किंचन
॥२६॥ततो विस्मितचित्तोहमुपचारविदांवरः ॥
प्रत्यवोचं पुनर्देवीमेहि दास्यामि ते शुभे
॥२७॥रत्नक्रीडनकं रम्यं स्तापितं सुचिरं मया ॥
इत्युक्ता सा तदोत्थाय पितुरंकात्सवेगतः
॥२८॥वंदमाना च मे पादौ मया नीतांक मात्मनः ॥
मन्यता तां जगत्पूज्यामुक्तं बाले तवोचितम्
॥२९॥न तत्पश्यामि यत्तुभ्यं दद्म्याशीः का तवोचिता ॥
इत्युक्ते मातृवात्सल्याच्छैलेन्द्र महिषी तदा
॥३०॥नोदयामास मां मंदमानशीःशंकिता तदा ॥
भगवन्वेत्सि सर्वं त्वमतीतानागतं प्रभो
॥३१॥तदहं ज्ञातुमिच्छामि कीदृशोऽस्याः पतिर्भवेत् ॥
श्रुत्वेति सस्मितमुखः प्रावोचं नर्मवल्लभः
॥३२॥न जातोऽस्याः पतिर्भद्रे वर्तते च कुलक्षणः ॥
नग्नोऽतिनिर्धनः क्रोधीवृतः क्रूरैश्च सर्वदा
॥३३॥श्रुत्वेति संभ्रमाविष्टो ध्वस्तवीर्यो हिमाचलः ॥
मां तदा प्रत्युवाचेदं साश्रुकण्ठो महागिरिः
॥३४॥अहो विचित्रः सं सारो दुर्वेद्यो महतामपि ॥
प्रवरस्त्वपि शक्त्या यो नरेषु न कृपायते
॥३५॥यत्नेन महता तावत्पुण्यैर्बहुविधैरपि ॥
साधयत्यात्मनो लोको मानुष्य मतिदुर्लभम्
॥३६॥अध्रुवं तद्ध्रवत्वे च कथंचित्परिकल्प्यते ॥
तत्रापि दुर्लभानाम समानव्रतचारिणी
॥३७॥साध्वी महाकुलोत्पन्ना भार्याया स्यात्पतिव्रता ॥
तत्रापि दुर्लभं यच्च तया धर्मनिषेवणम्
॥३८॥सह वेदपुराणोक्तं जगत्त्रयहितावहम् ॥
एतत्सुदुर्लभं यच्च तस्यां चैव प्रजायते
॥३९॥तदपत्यमपत्यार्थं संसारे किल नारद ॥
एतेषां दुर्लभानां हि किंचित्प्राप्नोति पुण्यवान्
॥४०॥सर्वमेतदवाप्नोति स कोपि यदिवा न वा ॥
किंचित्केनापि हि न्यूनं संसारः कुरुते नरम्
॥४१॥अथ संसारिको दोषः स्वकृतं यत्र भुज्यते ॥
गार्हस्थ्यं च प्रशंसंति वेदाः सर्वेऽपि नारद
॥४२॥नेति केचित्तत्र पुनः कथं ते यदि नो गृही ॥
अतो धात्रा च शास्त्रेषु सुतलाभः प्रशंसितः
॥४३॥पुनश्चसृष्टिवृद्ध्यर्थं नरकत्राणनाय च ॥
तत्र स्त्रीणां समुत्पत्तिं विना सृष्टिर्न जायते
॥४४॥सा च जातिप्रकृत्यैव कृपणा दैन्यभागिनी ॥
तासामुपरि मावज्ञा भवेदिति च वेधसा ॥
शास्त्रेषूक्तमसंदिग्धं वाक्यमेतन्महात्फलम्
॥४५॥दशपुत्रसमा कन्या दशपुत्रान्प्रवर्द्धयन् ॥
यत्फलं लभते मर्त्यस्तल्लभ्यं कन्ययैकया
॥४६॥तस्मात्कन्या पितुः शोच्या सदा दुःखविवर्धिनी
॥४७॥यापि स्यात्पूर्णसर्वार्था पतिपुत्रधनान्विता ॥
त्वयोक्तं च कृते ह्यस्यास्तद्वाक्यं मम शोकदम्
॥४८॥केन दोषेण मे पुत्री न योग्या आशिषामता ॥
न जातोऽस्याः पतिः कस्माद्वर्तते वा कुलक्षणः
॥४९॥निर्धनश्च मुने कस्मात्सर्वेषां सर्वदः कुतः ॥
इति दुर्घटवाक्यं ते मनो मोहयतीव मे
॥५०॥इति तं पुत्रवात्सल्यात्सभार्यं शोकसंप्लुतम् ॥
अहमाश्वासयं वाग्भिः सत्याभिः पांडुनंदन
॥५१॥मा शुचः शैलराज त्वं हर्षस्थानेऽतिपुण्यभाक् ॥
श्रृणु तद्वचनं मह्यं यन्मयोक्तं च ह्यर्थवत्
॥५२॥जगन्माता त्वियं बाला पुत्री ते सर्वसिद्धिदा ॥
पुरा भवेऽभवद्भार्या सतीनाम्ना भवस्य या
॥५३॥तदस्याः किमहं दद्मि रवेर्दीपमिवाल्पकः ॥
संचिंत्येति महादेव्या नाशिषं दत्तवानहम्
॥५४॥न जातोऽभवद्भार्या पतिश्चेति वर्तते च भवो हि सः ॥
न स जातो महादेवो भूतभव्यभवोद्भवः
॥५५॥शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः
॥५६॥सर्वे देवा यत्पदमामनंति वेदैश्च सर्वैरपि यो न लभ्यः ॥
ब्रह्मादिविश्वं ननु यस्य शैल बालस्य वा क्रीडनकं वदंति
॥५७॥स चामंगल्यशीलोऽपि मंगलां यतनो हरः ॥
निर्धनः सर्वदश्चासौ वेद स्वं स्वयमेव सः
॥५८॥स च देवोऽचलः स्थाणुर्महादेवोऽजरो हरः ॥
भविष्यति पतिः सोऽस्यास्तत्किमर्थं तु शोचसि
॥५९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेशमाहात्म्ये हिमवदाश्वासनंनाम त्रयोविंशोऽध्यायः ॥ २३ ॥