मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ६

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 6

नारीयस्थानप्रतिष्ठावर्णनम्

श्रीनारद उवाच

इति श्रुत्वा फाल्गुनाहं रोमांचपुलकीकृतः ॥

स्वरूपं प्रकटीकृत्य ब्राह्मणानिदमब्रवम्

॥१॥

अहो धन्यः पितास्माकं यस्य सृष्टस्य पालकाः ॥

युष्मद्विधा ब्राह्मणेंद्राः सत्यमाह पुरा हरिः

॥२॥

मत्तोऽप्यनंतात्परतः परस्मात्समस्तभूताधिपतेर्न किंचित् ॥

तेषां किमुस्यादितरेण येषां द्विजेश्वराणां मम मार्गवादिनाम्

॥३॥

तत्सर्वथाद्या धन्योऽस्मि संप्राप्तं जन्मनः फलम् ॥

यद्भवन्तो मया दृष्टाः पापोपद्रववर्जिताः

॥४॥

ततस्ते सहसोत्थाय शातातपपुरोगमाः ॥

अर्घ्यपाद्यादिसत्कारैः पूजयामासुर्मां द्विजाः

॥५॥

प्रोक्तवन्तश्च मां पार्थ वचः साधुजनो चितम् ॥

धन्या वयं हि देवर्षे त्वमस्मान्यदिहागतः

॥६॥

कुतो वाऽऽगमनं तुभ्यं गन्तव्यं वा क्व सांप्रतम् ॥

अत्राप्यागमने कार्यमुच्यतां मुनिसत्तम

॥७॥

श्रुत्वा प्रीतिकरं वाक्यं द्विजानामिति पांडव ॥

प्रत्यवोचं मुनीन्द्रांस्ताञ्छ्रूयतां द्विजसत्तमाः

॥८॥

अहं हि ब्रह्मणो वाक्याद्विप्राणां स्थानकं शुभम् ॥

दातुकामो महातीर्थे महीसागरसंगमे

॥९॥

परीक्षन्ब्राह्मणानत्र प्राप्तो यूयं परीक्षिताः ॥

अहं वः स्थायिष्यामि चानुजानीत तद्द्विजाः

॥१०॥

एवमुक्तो विलोक्यैव द्विजाञ्छातातपोऽब्रवीत् ॥

देवानामपि दुष्प्राप्यं सत्यं नारद भारतम्

॥११॥

किं पुनश्चापि तत्रैव मही सागरसंगमः ॥

यत्र स्नातो महातीर्थफलं सर्वमुपाश्नुते

॥१२॥

पुनरेको महान्दोषो बिभीमो नितरां यतः ॥

तत्र चौराः सुबहवो निर्घृणाः प्रियसाहसाः

॥१३॥

स्पर्शेषु षोडशं चैकविंशं गृह्णंति नो धनम् ॥

धनेन तेन हीनानां कीदृशं जन्म नो भवेत्

॥१४॥

वरं बुभुक्षया वासो मा चौरकरगा वयम् ॥

अर्जुन उवाच ॥

अद्भुतं वर्ण्यते विप्र के हि चौराः प्रकीर्तिताः

॥१५॥

किं धनं च हरंत्येते येभ्यो बिभ्यति ब्राह्मणाः ॥

नारद उवाच ॥

कामक्रोधादयश्चौरास्तप एव धनं तथा

॥१६॥

तस्यापहारभीतास्ते मामूचुरिति ब्राह्मणाः ॥

तानहं प्राब्रवं पश्चाद्वि जानीत द्विजोत्तमाः

॥१७॥

जाग्रतां तु मनुष्याणां चौराः कुर्वंति किं खलाः ॥

भयभीतश्चालसश्च तथा चाशुचिरेव यः

॥१८॥

तेन किं नाम संसाध्यं भूमिस्तं ग्रसते नरम्

॥१९॥

शातातप उवाच

वयं चौरभयाद्भीतास्ते हरंति धनं महत् ॥

कर्तुं तदा कथं शक्यमंग जागरणं तथा

॥२०॥

खलाश्चौरा गताः क्वापि ततो नत्वाऽऽगता वयम् ॥

तस्मासर्वं संत्यजामो भयभीता वयं मुने

॥२१॥

प्रतिग्रहश्च वै घोरः षष्ठांऽशफलदस्तथा ॥

एवं ब्रुवति तस्मिंश्च हारीतोनाम चाब्रवीत्

॥२२॥

मूढबुद्ध्या हि को नाम महीसागरसंगमम् ॥

त्यजेच्च यत्र मोक्षश्च स्वर्गश्च करगोऽथ वा

॥२३॥

कलापादिषु ग्रामेषु को वसेत विचक्षणः ॥

यदि वासः स्तम्भतीर्थे क्षणार्धमपि लभ्यते

॥२४॥

भयं च चौरजं सर्वं किं करिष्यति तत्र न ॥

कुमारनाथं मनसि पालकं कुर्वतां दृढम्

॥२५॥

साहसं च विना भूतिर्न कथंचन प्राप्यते ॥

तस्मान्नारद तत्राहमायास्ये तव वाक्यतः

॥२६॥

षड्विंशतिसहस्राणि ब्राह्मणा मे परिग्रहे ॥

षट्कर्मनिरताः शुद्धा लोभदम्भविवर्जिताः

॥२७॥

तैः सार्धमागमिष्यामि ममेदं मतमुत्तमम् ॥

इत्युक्ते वचने तांश्च कृत्वाहं दंडमूर्धनि

॥२८॥

निवृत्तः सहसा पार्थ खेचरोऽतिमुदान्वितः ॥

शतयोजनमात्रं तु हिममार्गमतीत्य च

॥२९॥

केदारं समुपायातो युक्तस्तैर्द्विजसत्तमैः ॥

आकाशेन सुशक्यश्च बिलेनाथ स देशकः

॥३०॥

अतिक्रांतुं नान्यथा च तथा स्कंदप्रसादतः

॥३१॥

अर्जुन उवाच

क्व कलापं च तद्ग्रामं कथं शक्यं बिलेन च ॥

कथं स्कंदप्रसादः स्यादेतन्मे ब्रूहि नारद

॥३२॥

नारद उवाच

केदाराद्धिमसंयुक्तं योजनानां शतं स्मृतम् ॥

तदंते योजनशतं विस्तृतं तत्कलापकम्

॥३३॥

तदंते योजनशतं वासुकार्णव मुच्यते ॥

शतयोजनमात्रः स भूमिस्वर्गस्ततः स्मृतः

॥३४॥

बिलेन च यथा शक्यं गंतुं तत्र श्रृणुष्व तत् ॥

निरन्नं वै निरुदकं देवमाराधयेद्गुहम्

॥३५॥

दक्षिणायां दिशि ततो निष्पापं मन्यते यदा ॥

तदा गुहोऽस्य स्वप्ने गच्छेति भारत

॥३६॥

ततो गुहात्पश्चिमतो बिलमस्ति बृहत्तरम् ॥

तत्र प्रविश्य गंतव्यं क्रमाणां शतसप्तकम्

॥३७॥

तत्र मारकतं लिंगमस्ति सूर्यसमप्रभम् ॥

तदग्रे मृत्तिका चास्ति स्वर्णवर्णा सुनिर्मला

॥३८॥

नमस्कृत्य च तल्लिंगं गृहीत्वा मृत्तिकां च ताम् ॥

आगंतव्यं स्तंभतीर्थे समाराध्य कुमारकम्

॥३९॥

कोलं वा कूपतो ग्राह्यं भूतायां निशि तज्जलम् ॥

तेनोदकेन मृत्तिकया कृत्वा नेत्रद्वयाञ्जनम्

॥४०॥

उद्वर्तनं च देहस्य कदाचित्षष्टिमे पदे ॥

नेत्रांजनप्रभावाच्च बिलं पश्यति शोभनम्

॥४१॥

तन्मध्येन ततो याति गात्रोद्वर्त्तप्रभावतः ॥

कारीषैर्नाम चात्युग्रैर्भक्ष्यते नैव कीटकैः

॥४२॥

बिलमध्ये च संपश्यन्सिद्धान्भास्करसन्निभान् ॥

यात्येवं यात्यसौ पार्थ कलापं ग्राममुत्तमम्

॥४३॥

तत्र वर्षसहस्राणि चत्वार्यायुःप्रकीर्तितम् ॥

फलानां भोजनं च स्यात्पुनः पुण्यं च नार्ज्जयेत्

॥४४॥

इत्येतत्कथितं तुभ्यमतश्चाभूच्छृणुष्व तत् ॥

तपः सामर्थ्यतः सूक्ष्मान्दण्डस्याग्रे निधाय तान्

॥४५॥

द्विजानहं समायातो महीसागरसंगमम्

॥४६॥

तदोत्तार्य मया मुक्तास्तीरे पुण्यजलाशये ॥

ततो मया कृतं स्नानं सह तैर्द्विजसत्तमैः

॥४७॥

निःशेषदोषदावाग्नौ महीसागरसंगमे ॥

पितॄणां देवतानां च कृत्वा तर्पणसत्क्रियाः

॥४८॥

जपमानाः परं जप्यं निविष्टाः संगमे वयम् ॥

भास्करं समवेक्षंतश्चिंतयंतो हरिं हृदि

॥४९॥

तस्मिंश्चैवांतरे पार्थ देवाः शक्रपुरोगमाः ॥

आदित्याद्या ग्रहाः सर्वे लोकपालाश्च संगताः

॥५०॥

देवानां योनयो ह्यष्टौ गंधर्वाप्सरसां गणाः ॥

महोत्सवे ततस्तस्मिन्गीतवादित्र उत्तमे

॥५१॥

पादप्रक्षालनं कर्तुं विप्राणामुद्यतस्त्वहम् ॥

तस्मिन्काले चाश्रृणवमहमातिथ्यवाक्यताम्

॥५२॥

सामध्वनिसमायुक्तां तृतीयस्वरनादिताम् ॥

अतीव मनसो रम्यां शिव भक्तिमिवोत्तमाम्

॥५३॥

विप्रैरुत्थाय संपृष्टः कस्त्वं विप्र क्व चागतः ॥

किं वा प्रार्थयसे ब्रूहि यत्ते मनसि रोचते

॥५४॥

विप्र उवाच

मुनिः कपिलनामाहं नारदाय निवेद्यताम् ॥

आगतः प्रार्थनायैव तच्छ्रुत्वाहमथाब्रवम्

॥५५॥

धन्योहं यदिहायातः कपिल त्वं महामुने ॥

नास्त्यदेयं तवास्माभिः पात्रं नास्ति तवाधिकम्

॥५६॥

कपिल उवाच

ब्रह्मपुत्र त्वया देयं यदि मे त्वं श्रृणुष्व तत् ॥

अष्टौ विप्रसहस्राणि मम देहीति नारद

॥५७॥

भूमिदानं करिष्यामि कलापग्रामवासिनाम् ॥

ब्राह्मणानामहं चैषां तदिदं क्रियतां विभो

॥५८॥

ततो मया प्रतिज्ञातमेवमस्तु महामुने ॥

त्वयापि क्रियतां स्थानं कापिलं कपिलोत्तमम्

॥५९॥

श्राद्धे वा प्राप्तकाले वा ह्यतिथिर्विमुखीभवेत् ॥

यस्याश्रममुपायातस्यस्य सर्वं हि निष्फलम्

॥६०॥

स गच्छेद्रौरवाँल्लोकान्योऽतिथिं नाभिपूजयेत् ॥

अतिथिः पूजितो येन स देवैरपि पूज्यते

॥६१॥

दानैर्यज्ञैस्त तस्तस्मिन्भोजितः कपिलो मुनिः ॥

ततो महामुनिः श्रीमान्हारीतो ह्वयितस्तदा

॥६२॥

पादप्रक्षालनार्थाय सिद्धदेवसमागमे ॥

हारीतश्च पुरस्कृत्य वामपादं तदा स्थितः

॥६३॥

ततो हासो महाञ्जज्ञे सिद्धाप्सरः सुपर्वणाम् ॥

विचिंत्य बहुधा पृथ्वीं साधु साधुकृता द्विजाः

॥६४॥

ततो ममापि मनसि शोकवेगो महानभूत् ॥

सत्यां चैव तथा मेने गाथां पूर्वबुधेरिताम्

॥६५॥

सर्वेष्वपि च कार्येषु हेतिशब्दो विगर्हितः ॥

कुर्वतामतिकार्याणि शिलापातो ध्रुवं भवेत्

॥६६॥

ततोहमब्रंवं विप्रान्यूयं मूर्खा भविष्यथ ॥

धनधान्याल्पसंयुक्ता दारिद्र्यकलिलावृताः

॥६७॥

एवमुक्ते प्रहस्यैव हारीतः प्राब्रवीदिदम् ॥

तवैवेयं मुने हानिर्यदस्माञ्छपते भवान्

॥६८॥

कः शापो दीयते तुभ्यं शापोयमयमेव ते ॥

ततो विमृश्य भूयोऽहब्रवं किमहंद्विज

॥६९॥

तथाविधस्य भवतो वामपादप्रदानतः

॥७०॥

हारीत उवाच

श्रृणु तत्कारणं धीमञ्छून्यता मे यतो भवेत्

॥७१॥

इति चिंतयतश्चित्ते हा दुःखोऽयं प्रतिग्रहः ॥

प्रतिग्रहेण विप्राणां ब्राह्म्यं तेजो हि शाम्यति

॥७२॥

महादानं हि गृह्णानो ब्राह्मणः स्वं शुभं हि यत् ॥

ददाति दातुर्दाता च अशुभं यच्छति स्वकम्

॥७३॥

दाता प्रतिग्रहीता च वचनं हि परस्परम् ॥

मन्यतेऽधःकरो यस्य सोऽल्पबुद्धिः प्रहीयते

॥७४॥

इति चिंतयतो मह्यं शून्यताभूद्धि नारद ॥

निद्रार्तश्च भयार्तश्च कामार्तः शोकपीडितः

॥७५॥

हृतस्वश्चान्यचित्तश्च शून्याह्येते भवंति च ॥

तदेषु मतिमान्कोपं न कुर्वीत यदि त्वया

॥७६॥

कृतः कोपस्ततस्तुभ्यमेवं हानिरियं मुने ॥

ततस्तापान्वितश्चाहं तान्वि प्रानब्रवं पुनः

॥७७॥

धिङ्मामस्तु च दुर्बुद्धिमविमृश्यार्थकारिणम् ॥

कुर्वतामविमृश्यैव तत्किमस्ति न यद्भवेत्

॥७८॥

सहसा न क्रियां कुर्यात्पदमेतन्महापदाम् ॥

विमृश्यकारिणं धीरं वृणते सर्वसंपदः

॥७९॥

सत्यमाह महाबुद्धिश्चिरकारी पुरा हि सः ॥

पुरा हि ब्राह्मणः कश्चित्प्रख्यातों गिरसां कुले

॥८०॥

चिरकारि महाप्राज्ञो गौतमस्याभवत्सुतः ॥

चिरेण सर्वकार्याणि यो विमृश्य प्रपद्यते

॥८१॥

चिरकार्याभिसंपतेश्चिरकारी तथोच्यते ॥

अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते

॥८२॥

बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना ॥

व्यभिचारेण कस्मिन्स व्यतिक्रम्या परान्सुतान्

॥८३॥

पित्रोक्तः कुपितेनाथ जहीमां जननीमिति ॥

स तथेति चिरेणोक्तः स्वभावाच्चिरकारकः

॥८४॥

विमृश्य चिरकारित्वाच्चिं तयामास वै चिरम् ॥

पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम्

॥८५॥

कथं धर्मच्छलेनास्मिन्निमज्जेयमसाधुवत् ॥

पितुराज्ञा परो धर्मो ह्यधर्मो मातृरक्षणम्

॥८६॥

अस्वतंत्रं च पुत्रत्वं किं तु मां नात्र पीडयेत् ॥

स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत्

॥८७॥

पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात् ॥

अनवज्ञा पितुर्युक्ता युक्तं मातुश्च रक्षणम्

॥८८॥

क्षमायोग्यावुभावेतौ नातिवर्तेत वै कथम् ॥

पिता ह्यात्मानमाधत्ते जायायां जज्ञिवानिति

॥८९॥

शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च ॥

सोऽहमात्मा स्वयं पित्रा पुत्रत्वे परिकल्पितः

॥९०॥

जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि ॥

पर्याप्तः स दृढीकारः पितुर्गौरवलिप्सया

॥९१॥

शरीरादीनि देयानि पिता त्वेकः प्रयच्चति ॥

तस्मात्पितुर्वचः कार्यं न विचार्यं कथंचन

॥९२॥

पातकान्यपि चूर्यंते पितुर्वचनकारिणः ॥

पिता स्वर्गः पिता धर्मः पिता परमकं तपः

॥९३॥

पितरि प्रीतिमापन्ने सर्वाः प्रीणंति देवताः ॥

आशिषस्ता भजंत्येनं पुरुषं प्राह याः पिता

॥९४॥

निष्कृतिः सर्वपापानां पिता यदभिनंदति ॥

मुच्यते बंधनात्पुष्पं फलं वृंतात्प्रमुच्यते

॥९५॥

क्लिश्यन्नपि सुतः स्नेहं पिता स्नेहं न मुंचति ॥

एतद्विचिंत्यतं तावत्पुत्रस्य पितृगौरवम्

॥९६॥

पिता नाल्पतरं स्थानं चिंतयिष्यामि मातरम् ॥

यो ह्ययं मयि संघातो मर्त्यत्वे पांचभौतिकः

॥९७॥

अस्य मे जननी हेतुः पावकस्य यथारणिः ॥

माता देहारणिः पुंसः सर्वस्यार्थस्य निर्वृतिः

॥९८॥

मातृलाभे सनाथत्वमनाथत्वं विपर्यये ॥

न स शोचति नाप्येनं स्थावर्यमपि कर्षति

॥९९॥

श्रिया हीनोऽपि यो गेहे अंबेति प्रतिपद्यते ॥

पुत्रपौत्रसमापन्नो जननीं यः समाश्रितः

॥१००॥

अपि वर्षशतस्यांते स द्विहायनवच्चरेत् ॥

समर्थं वाऽसमर्थं वा कृशं वाप्यकृशं तथा

॥१०१॥

रक्षयेच्च सुतं माता नान्यः पोष्यविधानतः ॥

तदा स वृद्धो भवति तदा भवति दुःखितः

॥१०२॥

तदा शुन्यं जगत्तस्य यदा मात्रा वियुज्यते ॥

नास्ति मातृसमा च्छाया नास्ति मातृसमा गतिः

॥१०३॥

नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा ॥

कुक्षिसंधारणाद्धात्री जननाज्जननी तथा

॥१०४॥

अंगानां वर्धनादंबा वीरसूत्वे च वीरसूः ॥

शिशोः शुश्रूषणाच्छ्वश्रूर्माता स्यान्माननात्तथा

॥१०५॥

देवतानां समावापमेकत्वं पितरं विदुः मर्त्यानां देवतानां च पूगो नात्येति मातरम्

॥१०६॥

पतिता गुरवस्त्याज्या माता च न कथंचन ॥

गर्भधारणपोषाभ्यां तेन माता गरीयसी

॥१०७॥

एवं स कौशिकीतीरे बलिं राजानमीक्षतीम् ॥

स्त्रीवृत्तिं चिरकालत्वाद्धन्तुं दिष्टः स्वमातरम्

॥१०८॥

विमृश्य चिरकालं हि चिंतांतं नाभ्यपद्यत ॥

एतस्मिन्नंतरे शक्रो रूपमास्थितः

॥१०९॥

गायन्गाखामुपायातः पितुस्तस्याश्रमांतिके ॥

अनृना हि स्त्रियः सर्वाः सूत्रकारो यदब्रवीत्

॥११०॥

अतस्ताभ्यः फलं ग्राह्यं न स्याद्दोषेक्षणः सुधीः ॥

इति श्रुत्वा तमानर्च मेधातिथिरुदारधीः

॥१११॥

दुःखितश्चिंतयन्प्राप्तो भृशमश्रूणि वर्तयन् ॥

अहोऽहमीर्ष्ययाक्षिप्तो मग्नोऽहं दुःखसागरे

॥११२॥

हत्वा नारीं च साध्वीं च को नु मां तारयिष्यति ॥

सत्वरेण मयाज्ञप्तश्चिरकारी ह्युदारधीः

॥११३॥

यद्ययं चिरकारी स्यात्स मां त्रायेत पातकात् ॥

चिरकारिक भद्रं ते भद्रं ते चिरकारिक

॥११४॥

यदद्य चिरकारी त्वं ततोऽसि चिरकारिकः ॥

त्राहि मां मातरं चैव तपो यच्चार्जितं मया

॥११५॥

आत्मानं पातके विष्टं शुभाह्व चिरकारिक ॥

एवं स दुःखितः प्राप्तो गौतमोऽचिंतयत्तदा

॥११६॥

चिरकारिकं ददर्शाथ पुत्रं मातुरुपांतिके ॥

चिरकारी तु पितरं दृष्ट्वा परमदुःखितः

॥११७॥

शस्त्रं त्यक्त्वा स्थितो मूर्ध्ना प्रसादायोपचक्रमे ॥

मेधातिथिः सुतं दृष्ट्वा शिरसा पतितं भुवि

॥११८॥

पत्नीं चैव तु जीवंतीं परामभ्यगमन्मुदम् ॥

हन्यादिति न सा वेद शस्त्रपाणौ स्थिते सुते

॥११९॥

बुद्धिरासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् ॥

शस्त्रग्रहणचापल्यं संवृणोति भयादिति

॥१२०॥

ततः पित्रा चिरं स्मृत्वा चिरं चाघ्राय मूर्धनि ॥

चिरं दोर्भ्यां परिष्वज्य चिरंजीवेत्यु दाहृतः

॥१२१॥

चिरं मुदान्वितः पुत्रं मेधातिथिरथाब्रवीत् ॥

चिरकारिक भद्रं ते चिरकारी भवेच्चिरम्

॥१२२॥

चिराय यत्कृतं सौम्य चिरमस्मिन् दुःखितः ॥

गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः

॥१२३॥

चिरेण मंत्रं संधीयाच्चिरेम च कृतं त्यजेत् ॥

चिरेण विहतं मित्रं चिरं धारणमर्हति

॥१२४॥

रोगे दर्पे च माने च द्रोहे पापे च कर्मणि ॥

अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते

॥१२५॥

बंधूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च ॥

अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते

॥१२६॥

चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम् ॥

चिरमन्वास्य विदुषश्चिरमिष्टानुपास्य च

॥१२७॥

चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम् ॥

ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम्

॥१२८॥

चिरं पृच्छेच्च श्रृणुयाच्चिरं न परिभूयते ॥

धर्मे शत्रौ शस्त्रहस्ते पात्रे च निकटस्थिते

॥१२९॥

भये च साधुपूजायां चिरकारी न शस्यते ॥

एवमुक्त्वा पुत्रभार्यासहितः प्राप्य चाश्रमम्

॥१३०॥

ततश्चिरमुपास्याथ दिवं यातिश्चिरं मुनिः ॥

वयं त्वेवं ब्रुवन्तोऽपि मोहेनैवं प्रतारिताः

॥१३१॥

कलौ च भवतां विप्रा मच्छापो निपतिष्यति ॥

केचित्सदा भविष्यंति विप्राः सर्वगुणैर्युताः

॥१३२॥

पादप्रक्षालनं कृत्वा ततोऽहं धर्मवर्मणः ॥

समीपे साक्षिणो देवान्कृत्वा संकल्पमाचरम्

॥१३३॥

कांचनैरर्नोप्रदानैश्च गृहदानैर्धनादिभिः ॥

भार्याभूषणवस्त्रैश्च कृतार्था ब्राह्मणाः कृताः

॥१३४॥

ततः करं समुद्यम्य प्राहेन्द्रो देवसंगमे ॥

हरांगरुद्धवामार्द्ध यावद्देवी गिरेः सुता

॥१३५॥

गणाधीशो वयं यावद्यावत्त्रिभुवनं त्विदम् ॥

तावन्नन्द्यादिदे स्थानं नारदस्थापितं सुराः

॥१३६॥

ब्रह्मशापो रुद्रशापो विष्णुशापस्तथैव च ॥

द्विजशापस्तथा भूयादिदं स्थानं विलुंपतः

॥१३७॥

ततस्तथेति तैः सर्वैर्हृष्टैस्तत्र तथोदितम् ॥

एवं मया स्थापिते स्थानकेऽस्मिन्संस्थापयामास च कापिलं मुनिः ॥

स्थाने उभे देवकृते प्रसन्नास्ततो ययुर्देवता देवसद्म

॥१३८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे नारीयस्थानप्रतिष्ठावर्णनंनाम षष्ठोऽध्यायः ६ ॥ छ ॥