भूमेर्योजनलक्षे च कौरव्य रविमंडलम्
नारद उवाच
भूमेर्योजनलक्षे च कौरव्य रविमंडलम् ॥
योजनानां सहस्राणि भास्करस्य रथो नव
॥१॥ईषादंडस्ततैवास्य द्विगुणः परिकीर्तितः ॥
सार्धकोटिस्तथा सप्त नियुतानि विवस्वतः
॥२॥योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥
त्रिनाभि तच्च पंचारं षण्नेमि परिकीर्तितम्
॥३॥चत्वारिंशत्सहस्राणि द्वितीयोऽक्षोऽपि विस्तृतः ॥
पंच चान्यानि सार्द्धानि स्यन्दनस्य तु पांडव
॥४॥अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः ॥
ह्रस्वोऽक्षस्तद्युगार्द्धं च ध्रुवाधारं रथस्य वै
॥५॥द्वितीयोऽक्षस्तथा सव्ये चक्रं तन्मानसे स्थितम् ॥
हयाश्च सप्त च्छांदांसि तेषां नामानि मे श्रृणु
॥६॥गायत्री च बृहत्युष्णिग्जगती त्रिष्टुवेव च ॥
अनुष्टुप्पंक्तिरित्युक्ताश्छंदांसि हरयो रवेः
॥७॥नैवास्तमनमर्कस्य नोदयः सर्वदा सतः ॥
उदयास्तमनाक्यं हि दर्शनादर्शनं रवेः
॥८॥शक्रदीनां पुरे तिष्ठन्स्पृशत्येष पुरत्रयम् ॥
विकीर्णोऽतो विकर्णस्थस्त्रिकोणार्धपुरे तथा
॥९॥अयनस्योत्तरस्यादौ मकरं याति भास्करः ॥
ततः कुम्भं च मीनं च राशे राश्यंतरं तथा
॥१०॥त्रिष्वेतेष्वथ भुक्तेषु ततो वैषुवतीं गतिम् ॥
प्रयाति सविता कुर्वन्नहोरात्रं च तत्समम्
॥११॥ततो रात्रिः क्षयं याति वर्धते तु दिनं दिनम् ॥
ततश्च मिथुनस्यांते परां काष्ठामुपागतः
॥१२॥राशिं कर्कटकं प्राप्य कुरुते दक्षिणायांनम् ॥
कुलालचक्रपर्यंतो यथा शीघ्रं निवर्तते
॥१३॥दक्षिणायक्रमे सूर्यस्तथा शीघ्रं निवर्तते ॥
अतिवेगितया कालं वायुमार्गबलाच्चरन्
॥१४॥तस्मात्प्रकृष्टां भूमिं स कालेनाल्पेन गच्छति ॥
कुलालचक्रमध्यस्थो यता मंदं प्रसर्पति
॥१५॥तथोदगयने सूर्यः सर्पते मंदविक्रमः ॥
तस्माद्दीर्घेण कालेन भूमिमल्पं निगच्छति
॥१६॥संध्याकाले च मंदेहाः सूर्यमिच्छंति खादितुम् ॥
प्रजापतिकृतः शापस्तेषां फाल्गुन रक्षसाम्
॥१७॥अक्षयत्वं शरीराणां मरणं च दिनेदिने ॥
ततः सूर्यस्य तैर्युद्धं भवत्यत्यंतदारुणम्
॥१८॥ततो गायत्रिपूतं यद्द्विजास्तोयं क्षिपंति च ॥
तेन दह्यंति ते पापाः संध्योपासनतः सदा
॥१९॥ये संध्यां नाप्युपासंते कृतघ्ना यांति रौरवम् ॥
प्रतिमासं पृथक्सूर्य ऋषिगन्धर्वराक्षसैः
॥२०॥अप्सरोग्रामणीसर्पैरथो याति च सप्तभिः ॥
धातार्यमा मित्रवरुणौ विवस्वानिन्द्र एव च
॥२१॥पूषा च सविता सोऽथ भगस्त्वष्टा च कीर्तितः ॥
विष्णुश्चैत्रादिमासेषु आदित्या द्वादश स्मृताः
॥२२॥ततो दिवाकरस्थानान्मंडलं शशिनः स्थितम् ॥
लक्षमात्रेण तस्यापि त्रिचक्रो रथ उच्यते
॥२३॥कुंदाभा दश चैवाश्वा वामदक्षिणतो युताः ॥
पूर्णे शतसहस्रे च योजनानां निशाकरात्
॥२४॥नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते ॥
चतुर्दश चार्बुदान्यप्यशीतिः सरितांपतिः
॥२५॥विंशतिश्च तथा कोट्यो नक्षत्राणां प्रकीर्तिताः ॥
द्वे लक्षे चोत्तरे तस्माद्बुधो नक्षत्रमण्डलात्
॥२६॥वाय्वग्निद्रव्यसंभूतो रथश्चंद्रसुतस्य च ॥
पिशंगैस्तुर--- सोष्टाभिर्वायवेगिभिः
॥२७॥द्विलक्षश्चोत्तरे तस्माद्बुधाच्चाप्युशना स्मृतः ॥
शुक्रस्यापि रथोष्टाभिर्युक्तोऽभूत्संभवैर्हयैः
॥२८॥लक्षद्वयेन भौमस्य स्मृतो देवपुरोहितः ॥
अष्टाभिः पांडुरैरश्वैर्युक्तोऽस्य कांचनोरथः
॥२९॥सौरिर्बृहस्पतेश्चोर्ध्वं द्विलक्षे समुपस्थितः ॥
आकाशसंभवैरश्वैरष्टाभिः शबलै रथः
॥३०॥स्वर्भानोस्तुरगाश्चाष्टौ भृंगाभा धूसरारथम् ॥
वहंति च सकृद्युक्ता आदित्याधःस्थितास्तथा
॥३१॥सौरेर्लक्षं स्मृतं चोर्ध्वं ततः सप्तर्षिमण्डलम् ॥
ऋषिभ्यश्चापि लक्षेण ध्रुवश्चोर्ध्वं व्यवस्थितः
॥३२॥मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः ॥
ध्रुवोऽपि शिंशुमारस्य पुच्छाधारे व्यवस्थितः
॥३३॥यमाहुर्वासुदेवस्य रूपमात्मानमव्ययम् ॥
वायुपाशैर्ध्रुवे बद्धं सर्वमेतच्च फाल्गुन
॥३४॥नवयोजनसाहस्रं मण्डलं सवितुः स्मृतम् ॥
द्विगुणं सूर्यविस्तारान्मण्डलं शशिनः स्मृतम्
॥३५॥तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति ॥
उद्धृत्य पृथिवीच्छायां निर्मलां मण्डलाकृतिः
॥३६॥चन्द्रस्य षोडशो भागो भार्गवश्च विधीयते ॥
भार्गवात्पादहीनस्तु विज्ञेयोऽथ बृहस्पतिः
॥३७॥बृहस्पतेः पादहीनौ वक्रसौरी बुधस्तथा ॥
शतानि पंच चत्वारित्रीणि द्वे चैकयोजनम्
॥३८॥योजनार्धप्रमाणानि भानि ह्रस्वं न विद्यते ॥
भूमिलोकश्च भूर्लोकः पादगम्यः प्रकीर्तितः
॥३९॥भूमिसूर्यांतरं तच्च भुवर्लोकः प्रकीर्तितः ॥
ध्रुवसूर्यांतरं तच्च नियुतानि चतुर्दश
॥४०॥स्वर्लोकः सोऽपि गदितो लोकसंस्थानचिंतकैः ॥
ध्रुवादूर्ध्वं तथा कोटचिर्महर्लोकः प्रकीर्तितः
॥४१॥द्वे कोट्यौ च जनो यत्र निवसंति चतुःसनाः ॥
चतुर्भिश्चापि कोटीभिस्तपोलोकस्ततः स्मॉतः
॥४२॥वैराजा यत्र ते देवाः स्थिता दाहविवर्जिताः ॥
षड्गुणेन तपोलोकात्सत्यलोको विराजते
॥४३॥अपुनर्मरका यत्र ब्रह्मलोको हि स स्मृतः ॥
अष्टादस तथा कोट्यो लक्षाण्यशीतिपंच च
॥४४॥शुभं निरुपमं स्थानं तदूर्ध्वं संप्रकाशते ॥
भूर्भूवःस्वरिति प्रोक्तं त्रैलोक्यं कृतकं त्विदम्
॥४५॥जनस्तपस्तथा सत्यमिति चाकृतकं त्रयम् ॥
कृतकाकृतयोर्मध्ये मर्हर्लोक इति स्मृतः
॥४६॥शून्यो भवति कल्पांते योत्यंतं न विनश्यति ॥
एते सप्त समाख्याता लोकाः पुण्यैरुपार्जिताः
॥४७॥यज्ञैर्दानैर्जपैर्होमैस्तीर्थैर्व्रतसमुच्चयैः ॥
वेदादिप्रोक्तैरन्यैश्च साध्याँल्लोकानिमान्विदुः
॥४८॥ततश्चांडस्य शिरसो धारा नीरमयी शिवा ॥
सर्वलोकान्समाप्लाव्य गंगा मेरावुपागता
॥४९॥ततो महीतलं सर्वं पातालं प्रविवेश सा ॥
अंडमूर्ध्नि स्थिता देवी सततं द्वारवासिनी
॥५०॥देवीनां कोटिकोटीभिः संवृता पिंगलेन च ॥
तत्र स्थिता सदा रक्षां कुरुतेऽण्डस्य सा शुभा
॥५१॥निहंति दुष्टसंघातान्महाबलपराक्रमा ॥
वायुस्कंधानि सप्तापिश्रृणुयद्वत्स्थितान्यपि
॥५२॥पृथिवीं समभिक्रम्य संस्थितो मेघमंडले ॥
प्रवहोनाम यो मेघान्प्रवहत्यतिशक्तिमान्
॥५३॥धूमजाश्वोष्मजा मेघाः सामुद्रैयन पूरिताः ॥
तोयैर्भवंति नीलांगा वर्षिष्ठाश्चैव भारत
॥५४॥द्वितीयश्चावहो नाम निबद्धः सूर्यमंडले ॥
तेन बद्धं ध्रुवेणेदं भ्राम्यते सूर्यमंडलम्
॥५५॥तृतीयश्चोद्वहो नाम चंद्रस्कंधे प्रतिष्ठितः ॥
बद्धं ध्रुवेण येनेदं भ्राम्यते चंद्रमंडलम्
॥५६॥चतुर्थः संवहो नाम स्थितो नक्षत्रमण्डले ॥
वातरश्मिभिराबद्धं ध्रुवेण सह भ्राम्यते
॥५७॥ग्रहेषु पंचमः सोऽपि विवहो नाम मारुतः ॥
ग्रहचक्रमिदं येन भ्राम्यते ध्रुवसंधितम्
॥५८॥षष्ठः परिवहो नाम स्थितः सप्तर्षिमंडले ॥
भ्रमंति ध्रुवसंबद्धा येन सप्तर्षयो दिवि
॥५९॥सप्तमश्च ध्रुवे बद्धो वायुर्नाम्ना परावहः ॥
येन संस्थापितं ध्रौव्यं चक्रं चान्यानि भारत
॥६०॥यं समासाद्य वेगेन दिशामंतं प्रपेदिरे ॥
दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः
॥६१॥एवमेते दितेः पुत्राः सप्तसप्त व्यवस्थिताः ॥
अनारमंतः संवांति सर्वगाः सर्वधारिणः
॥६२॥ध्रुवादूर्ध्वमसूर्यं चाप्यनक्षत्रमतारकम् ॥
स्वतेजसा स्वशक्त्या चाधिष्ठितास्ते हि नित्यदा
॥६३॥इत्यूर्ध्वं ते समाख्यांतं पातालान्यथ मे श्रृणु
॥६४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहास्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारिकाक्याने लोकव्यवस्थितिवर्मनंनामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥