मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ६६

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 66

ततस्त्रयोदशे वर्षे व्यतीते समये तदा

सूत उवाच

ततस्त्रयोदशे वर्षे व्यतीते समये तदा ॥

उपप्लवे संगतेषु सर्वराजसु पांडवाः

॥१॥

योद्धुमागत्य संतस्थुः कुरुक्षेत्रं महारथाः ॥

कौरवाश्चापि संतस्धुर्दुर्योधनपुरोगमाः

॥२॥

ततो भीष्मेण प्रोक्तां च नरैः श्रुत्वा युधिष्ठिरः ॥

रथातिरथसंख्यां तु राज्ञां मध्ये वचोऽब्रवीत्

॥३॥

भीष्मेण विहिता कृष्ण रथातिरथवर्णना ॥

ततो दुर्योधनोऽपृच्छदिदं स्वीयान्महारथान्

॥४॥

ससैन्यान्पांडवानेतान्हन्यात्कालेन केन कः ॥

मासेन तु प्रतिज्ञातं भीष्मेण च कृपेण च

॥५॥

पक्षं द्रोणेन चाह्नां च दशभिर्द्रौणिना रणे ॥

षड्भिः कर्णेन च तथा सदा ममभयंकृता

॥६॥

तदहं स्वांश्च पृच्छामि केन कालेन हंति कः ॥

एतच्छ्रुत्वा वचो राज्ञः फाल्गुनो वाक्यमब्रवीत्

॥७॥

अयुक्तमेतद्भीष्माद्यैः प्रतिज्ञातं युधिष्ठिर ॥

ततो जये च विजये निश्चयो हि मृषैव तत्

॥८॥

तवापि ये संति नृपाः सन्नद्धा रणसंस्थिताः ॥

पश्यैतान्पुरुषव्याघ्रान्कालकल्पान्दुरासदान्

॥९॥

द्रुपदं च विराटं च धृष्टकेतुं च कैकयम् ॥

सहदेवं सात्यकिं च चेकितानं च दुर्जयम्

॥१०॥

धृष्टद्युम्नं सपुत्रं च महावीर्यं घटोत्कचम् ॥

भीमादींश्च महेष्वासान्केशवं चापराजितम्

॥११॥

मन्येहमेकस्त्वेतेषां हन्यात्कौरववाहिनीम् ॥

सन्नद्धाः प्रतिदृश्यंते भीष्माद्या बहवो रथाः

॥१२॥

तेभ्यो भयं न कार्यं ते फल्गवोऽमी मृगा इव

॥१३॥

अस्माकं धनुषां घोषैरिदानीमेव भारत ॥

कौरवा विद्रविष्यंति सिंहत्रस्ता मृगा इव

॥१४॥

वृद्धाद्भीष्माद्द्विजाद्वृद्धाद्द्रोणादपि कृपादपि ॥

बालिशात्किं भयं द्रौणेः सूतपुत्राच्च दुर्मतेः

॥१५॥

अथवा चित्तनिर्वृत्यै ज्ञातुमिच्छसि भारत ॥

शत्रूणां प्रत्यनीकेषु संधावच्छृणु मे वचः

॥१६॥

एकोऽहमेव संग्रामे सर्वे तिष्ठंतु ते रथाः ॥

एकाह्ना क्षपये सर्वान्कौरवान्सैन्यसंयुतान्

॥१७॥

इत्यर्जुनवचः श्रुत्वा स्मयन्दामोदरोऽब्रवीत् ॥

एवमेतद्यथा प्राह फाल्गुनोऽयं मृषा न तत्

॥१८॥

ततश्च शंखान्भेरीश्च शतशश्चैव पुष्करान् ॥

निवार्य राजमध्यस्थो बर्बरीको वचोऽब्रवीत्

॥१९॥

येन तप्तं गुप्तक्षेत्रे येन देव्यः सुतोषिताः ॥

यस्यातुलं बाहुबलं तेन चोक्तं निशम्यताम्

॥२०॥

यद्ब्रवीमि वचः सत्यं शृणुध्वं तन्नराधिपाः ॥

आत्मनो वीर्यसदृशं केवलं न तु दर्पतः

॥२१॥

यदार्येण प्रतिज्ञातमर्जुनेन महात्मना ॥

न मर्षयामि तद्वाक्यं कालक्षेपो महानयम्

॥२२॥

सर्वे भवंतस्तिष्ठंतु सार्जुनाः सहकेशवाः ॥

एको मुहूर्ताद्भीष्मादीन्सर्वान्नेष्ये यमक्षयम्

॥२३॥

मयि तिष्ठति केनापि शस्त्रग्राह्यं न क्षत्रियैः ॥

स्वधर्मशपथो वोऽस्तु मृते ग्राह्यं ततो मयि

॥२४॥

पश्यध्वं मे बलं बाह्वोर्देव्याराधनसंभवम् ॥

माहात्म्यं गुप्तक्षेत्रस्य तथा भक्तिं च पांडुषु

॥२५॥

पश्यध्वं मे धनुर्घोरं तूणीरावक्षयौ तथा ॥

खड्गं च देव्या यद्दत्तं ततो वच्मि वचस्त्विदम्

॥२६॥

इति तस्य वचः श्रुत्वा क्षत्रिया विस्मयं ययुः ॥

अर्जुनश्च कटाक्षेपे लज्जितः कृष्णमैक्षत

॥२७॥

तमाह ललितं कृष्णः फाल्गुनं परमं वचः ॥

आत्मौपयिकमेवेदं भैमि पुत्रोऽभ्यभाषत

॥२८॥

नवकोटियुतोऽनेन पलाशी निहतः पुरा ॥

क्षणादेव च पाताले श्रूयते महदद्भुतम्

॥२९॥

पुनः प्रक्ष्यामदे त्वेनं क्वेनोपायेन कौरवान् ॥

मुहूर्ताद्धंसि ब्रूहीति पृच्छयतां चाह तं जयः

॥३०॥

ततः स्मरन्यादवेंद्रो भैमिपुत्रमभाषत

॥३१॥

भीप्मद्रोणकृपद्रौणिकर्णदुर्योधनादिभिः ॥

गुप्तां त्र्यंबकदुर्जेयां सेनां हंसि कथं क्षणात्

॥३२॥

अयं महान्विस्मयस्ते वचसो भैमिनंदन ॥

संभूतः सर्वराज्ञां च फाल्गुनस्य च धीमतः

॥३३॥

तद्ब्रूहि केनोपायेन मुहूर्ताद्धंसि कौरवान् ॥

उपायवीर्यं ते ज्ञात्वा मंस्यामो वयमप्युत

॥३४॥

सूत उवाच

इत्युक्तो वासुदेवेन सर्वभूतेश्वरेण च ॥

सिंहवक्षाः पर्वताभो नानाभूषणभूषितः

॥३५॥

घटास्यो घटहासश्च ऊर्ध्वकेशोऽतिदीप्ति मान् ॥

विद्युदक्षो वायुजवो यश्चेच्छेन्नाशयेज्जगत्

॥३६॥

देवीदत्तातुलबलो बर्बरीकोऽभ्यभाषत ॥

यदि वो मानसं वीरा उपायस्य प्रदर्शने

॥३७॥

तदहं दर्शयाम्येष पश्यध्वं सहकेशवाः ॥

इत्युक्त्वा धनुरारोप्य संदधे विशिखं त्वरन् ॥

निःशल्यं चापि संपूर्णं सिंदूराभेण भस्मना

॥३८॥

आकर्णमाकृप्य च तं मुमोच मुखादथोद्भूतमभूच्च भस्म

॥३९॥

सेनाद्वये तच्च पपात शीघ्रं यस्यैव यत्रास्ति च मृत्युमर्म ॥

सर्वरोमसु भीष्मस्य कंठे राधेयद्रोणयोः

॥४०॥

ऊरौ दुर्योधनस्यापि शल्यस्यापि च वक्षसि ॥

कंठे च शकुनेर्दीप्तं भगदत्तस्य चापतत्

॥४१॥

कृष्णस्य पादतल लके कंठे द्रुपदमत्स्ययोः ॥

शिखंडिनस्तथा कट्यां कंठे सेनापतेस्तथा

॥४२॥

पपात रक्तं तद्भस्म यत्र येषां च मर्म च ॥

केवलं चैव पांडूनां कृपद्रोण्योश्च नास्पृशत

॥४३॥

इति कृत्वा ततो भूयो बर्बरीकोऽभ्यभाषत ॥

दृष्टं भवद्भिरेवं यन्मया मर्म निरीक्षितम्

॥४४॥

अधुना पातयिष्यामि मर्मस्वेषां शिताञ्छरान् ॥

देवीदत्तानमोघाख्यान्यैर्मरिष्यंत्यमी क्षणात्

॥४५॥

शपथा वः स्वधर्मस्य शस्त्रं ग्राह्यं न वः क्वचित् ॥

मुहूर्तात्पातयिष्यामि शत्रूनेताञ्छितैः शरैः

॥४६॥

ततो विस्मितचित्तानां युधिष्ठिरपुरोगिणाम् ॥

आसीन्निनादः सुमहान्साधुसाध्विति शंस ताम्

॥४७॥

वासुदेवश्च संक्रुद्धश्चक्रेण निशितेन च ॥

एवं ब्रुवत एवास्य शिरश्छित्त्वा न्यपातयत्

॥४८॥

ततः क्षणात्सर्वमासीदाविग्रं राजमं डलम् ॥

व्यलोकयन्केशवं ते विस्मिताश्चाभवन्भृशम्

॥४९॥

किमेतदिति प्राहुश्च बर्बरीकः कुतो हतः ॥

पांडवाश्चापि मुमुचुरश्रूणि सहपार्थिवाः

॥५०॥

हाहा पुत्रेति च गृणन्प्रस्खलंश्च पदेपदे ॥

घटोत्कचोऽपतद्दीनः पुत्रोपरि विमूर्छितः

॥५१॥

एतस्मिन्नंतरे देव्यश्चतुर्दश समाययुः

॥५२॥

सिद्धांबिका क्रोडमाता कपाली तारा सुवर्णा च त्रिलोकजेत्री ॥

भाणेश्वरी चर्चिका चैकवीरा योगेश्वरी चंडिका त्रैपुरा च

॥५३॥

भूतांबिका हरसिद्धिस्तथामूः संप्राप्य तस्थुर्नृपविस्मयंकराः ॥

श्रीचंडिकाऽऽश्वास्य ततौ घटोत्कचं प्रोवाच वाक्यं महता स्वरेण

॥५४॥

शृणुध्वं पार्थिवाः सर्वे कृष्णेन विदितात्मना ॥

हेतुना येन निहतो बर्बरीको महाबलः

॥५५॥

मेरुमूर्ध्नि पुरा पृथ्वी समवेतान्दिवौकसः ॥

भाराक्रांता जगादैतान्भारोऽप ह्रियतां हि मे

॥५६॥

ततो ब्रह्मा प्राह विष्णुं भगवंस्त्वमिदं शृणु ॥

देवास्त्वानुगमिष्यंति भारं हर भुवः प्रभो

॥५७॥

ततस्तथेति तन्मेने वचनं विष्णुरव्ययः ॥

एतस्मिन्नंतरे बाहुमुद्धृत्योच्चैरभाषत

॥५८॥

सूर्यवर्चेति यक्षेंद्रश्चतुराशीतिकोटिपः ॥

किमर्थं मानुषे लोके भवद्भिर्जन्म कार्यते

॥५९॥

मयि तिष्ठति दोषाणामनेकानां महास्पदे ॥

सर्वे भवंतो मोदंतु स्वर्गेषु सह विष्णुना

॥६०॥

अहमेकोऽवतीर्यैतान्हनिष्यामि भुवो भरान् ॥

स्वधर्मशपथा वो वै संति चेज्जन्म प्राप्स्यथ

॥६१॥

इत्युक्तवचने ब्रह्मा क्रुद्धस्तं समभाषत ॥

दुर्मते सर्वदेवानामविषह्यं महाभरम्

॥६२॥

स्वसाध्यं ब्रूषे मोहात्त्वं शापयोग्योऽसि बालिश ॥

देशकालोचितं स्वीयं परस्य च बलं हृदा

॥६३॥

अविचार्यैव प्रभुषु वक्ति सोऽर्हति दंडनम् ॥

तस्माद्भूभारहरणे युद्धस्योपक्रमे सति

॥६४॥

शरीरनाशं कृष्णात्त्वमवाप्स्यसि न संशयः ॥

एवं शप्तो ब्रह्मणाऽसौ विष्णुमेतदयाचत

॥६५॥

यद्येवं भविता नाशस्तदेकं देव प्रार्थये ॥

जन्मप्रभृति मे देहि मतिं सर्वार्थसाधनीम्

॥६६॥

ततस्तथेति तं प्राह केशवो देवसंसदि ॥

शिरस्ते पूजयिष्यंति देव्याः पूज्यो भविष्यसि

॥६७॥

इत्युक्त्वा चावतीर्णोऽसौ सह देवैर्हरिस्तदा ॥

हरिर्नाम स कृष्णोऽसौ भवंतस्ते तथा सुराः

॥६८॥

सूर्यवर्चाः स चायं हि निहतो भैमिपुत्रकः ॥

प्राक्छापं ब्रह्मणः स्मृत्वा हतोनेन महात्मना ॥

तस्माद्दोषो न कृष्णेऽस्मिन्द्रष्टव्यः सर्वभू मिपैः

॥६९॥

श्रीकृष्ण उवाच

यदुक्तं भूमिपा देव्या तत्तथैव न संशयः

॥७०॥

यद्येनमधुना नैव हन्यां ब्रह्मवचोऽन्यथा ॥

ततो भवेदिति स्मृत्वा मयासौ विनिपातितः

॥७१॥

गुप्तक्षेत्रे मयैवाऽसौ नियुक्तो देव्यनुस्मृतौ ॥

पूर्वं दत्तं वरं स्वीयं स्मरता देवसंसदि

॥७२॥

इत्युक्ते चंडिका देवी तदा भक्तशिरस्त्विदम् ॥

अभ्युक्ष्य सुधया शीघ्रमजरं चामरं व्यधात्

॥७३॥

यथा राहुशिरस्तद्वत्तच्छिरः प्रणनाम तान् ॥

उवाच च दिदृक्षामि युद्धं तदनुमन्यताम्

॥७४॥

ततः कृष्णो वचः प्राह मेघगंभीरवाक्प्रभुः ॥

यावन्मही सनक्षत्रा यावच्चंद्रदिवाकरौ

॥७५॥

तावत्त्वं सर्वलोकानां वत्स पूज्यो भविष्यसि ॥

देवीलोकेषु सर्वेषु देवीवद्विचरिष्यसि

॥७६॥

स्वभक्तानां च लोकेषु देवीनां दास्यसे स्थितिम् ॥

बालानां ये भविष्यंति वातपित्तकफोद्भवाः ॥

पिटकास्ताः सुखेनैव शामयिष्यसि पूजनात्

॥७७॥

इदं च शृंगमारुह्य पश्य युद्धं यथा भवेत्

॥७८॥

धावंतः कौरवास्त्वस्मान्वयं यामस्त्वमूनिति ॥

इत्युक्ते वासुदेवेन देव्योऽथांबरमाविशन्

॥७९॥

बर्बरीकशिरश्चैव गिरिशृंगमवाप्य तत् ॥

देहस्य भूमिसंस्काराश्चाभवच्छिरसो नहि ॥

ततो युद्धं महदभूत्कुरुपांडवसेनयोः

॥८०॥

अष्टादशाहेन हता ये च द्रोणवृषादयः ॥

दुर्योधने हते क्रूरे अष्टादशदिनात्यये

॥८१॥

युधिष्ठिरो ज्ञातिमध्ये गोविंदं समभाषत ॥

पुरुषोत्तम संग्रामममुं संतारिता वयम्

॥८२॥

त्वयैव नाथेन हरे नमस्ते पुरुषोत्तम ॥

श्रुत्वा तस्यापि सासूयमिदं भीमो वचोऽब्रवीत्

॥८३॥

येन ध्वस्ता धार्तराष्ट्रास्तं निराकृत्य मां नृप ॥

पुरुषोत्तमं कृष्णमिति ब्रवीषि किमु मूढवत्

॥८४॥

धृष्टद्युम्नं फाल्गुनं च सात्यकिं मां च पांडव ॥

निराकृत्य ब्रवीष्येव सूतं धिक्त्वा युधिष्ठिर

॥८५॥

अर्जुन उवाच

मैवं मैवं ब्रूहि भीम न त्वं वेत्सि जनार्दनम् ॥

न मया न त्वया पार्थ नान्येनाप्यरयो हताः

॥८६॥

अहं हि सर्वदाग्रस्थं नरं पश्यामि संयुगे ॥

निघ्नंतं शात्रवांस्तत्र न जाने कोऽप्यसाविति

॥८७॥

भीम उवाच

विभ्रांतोऽसि ध्रुवं पार्थ नात्र हंता नरोऽपरः ॥

अथ चेदस्ति त्वत्पौत्रमुच्चस्थं वच्मि हंत कः

॥८८॥

उपसृत्य ततो भीमो बर्बरीकमपृच्छत ॥

ब्रूह्येते केन निहता धार्तराष्ट्रा हि शत्रवः

॥८९॥

बर्बरीक उवाच

एको मया पुमान्दृष्टो युध्यमानः परैः सह ॥

सव्यतः पंचवक्त्रः स दक्षिणे चैकवक्त्रतः

॥९०॥

सव्यतो दशहस्तश्च धृतशूलाद्युदायुधः ॥

दक्षिणे च चतुर्हस्तो धृतचक्राद्युदायुधः

॥९१॥

सव्यतश्च जटाधारी दक्षिणे मुकुटोच्चयः ॥

सव्यतो भस्मधारी च दक्षिणे धृतचंदनः

॥९२॥

सव्यतश्चंद्रधारी च दक्षिणे कौस्तुभद्युतिः ॥

ममापि तद्दर्शनतो महद्भयमजायत

॥९३॥

ईदृशो मे नरो दृष्टो न चान्यो यो जघान तान् ॥

इत्युक्ते पुष्पवर्षं तु खादासीत्सुमहाप्रभम्

॥९४॥

सस्वनुर्देववाद्यानि साधुसाध्विति वै जगुः ॥

विस्मिताः पांडवाश्चासन्प्रणेमुः पुरुषोत्तमम्

॥९५॥

विलक्षश्चाभवद्भीमो निश्वासांश्चाप्यमुंचत ॥

तं ततः केशवः स्वामी समादाय करे दृढे

॥९६॥

कुरुशार्दूल एहीति प्रोच्य सस्मार काश्यपिम् ॥

आरुह्य गरुडं पश्चात्स्मृतमात्रमुपस्थितम्

॥९७॥

भीमेन सहितो व्योम्नि प्रयातो दक्षिणां दिशम् ॥

ततोऽर्णवमतीत्यैव सुवेलं च महागिरिम्

॥९८॥

लंकासमीपे दृष्ट्वैव सरः कृष्णोऽब्रवीद्वचः ॥

कुरुशार्दूल पश्येदं सरो द्वादशयोजनम्

॥९९॥

यदि शूरोऽसि तच्छीघ्रमानयास्यतलान्मृदम् ॥

इत्युक्तो गरुडाच्छीघ्रं न्यपतत्तज्जले बली

॥१००॥

योजनं वायुजवाद्गच्छन्नधो नांतमपश्यत ॥

ततो भीमो विनिःसृत्य भग्नवीर्योऽभ्यभाषत

॥१०१॥

अगाधमेतत्सुमहत्सरः कैश्चिन्महाबलैः ॥

अहं खादितुमारब्धः कथंचिच्चापि निर्गतः

॥१०२॥

एवमुक्तो हसन्कृष्ण उच्चिक्षेप महत्सरः ॥

स्वेनांगुष्ठेन तेजस्वी तदर्धार्धमजायत

॥१०३॥

तदृष्ट्वा विस्मितः प्राह किमिदं कृष्ण ब्रूहि मे

॥१०४॥

श्रीकृष्ण उवाच

कुम्भकर्ण इति ख्यातः पूर्वमासीन्निशाचरः ॥

रामबाणहतस्याभूच्छिरश्छिन्नं सुदुर्मतेः

॥१०५॥

शिरसस्तस्य तालुक्यखंडमेतद्वृकोदर ॥

योजनद्वादशायामं मृदु क्षिप्तं विचूर्णितम्

॥१०६॥

विधृतस्त्वं च यैस्ते तु सरोगेयाभिधाः सुराः ॥

त्रिकूटस्य शिला भिश्च चूर्णिता ये च कोटिशः

॥१०७॥

एते हि विश्वरिपवो निहताः स्युरुपायतः ॥

गच्छामः पांडवान्भीम द्रौणिर्हि त्वरते दृढम्

॥१०८॥

ततो भीमः प्रणम्याह मनोवाक्कायवृद्धिभिः ॥

कृतमाजन्मतः सव कुकृतं क्षम केशव

॥१०९॥

पुरुषोत्तम भवान्नाथ बालिशस्य प्रसीद मे ॥

ततः क्षांतमिति प्रोच्य भीमेन सहितो हरिः

॥११०॥

रणाजिरं भूय एत्य बर्बरीकं वचोऽब्रवीत् ॥

चरन्नेवं सुहृदय सर्वलोकेषु नित्यशः

॥१११॥

पूजितः सर्वलोकैस्त्वं यच्छंस्तेषां वरान्वृतान् ॥

गुप्तक्षेत्रं च न त्याज्यं सर्वक्षेत्रोत्तमोत्तमम्

॥११२॥

देहिस्थल्यां तथा वासी क्षमस्व दुष्कृतं च यत् ॥

इत्युक्तस्तान्नमत्कृत्य भैमिः स्वैरं ययौ मुदा

॥११३॥

वासुदेवोऽपि कार्याणि सर्वाण्यूर्ध्वमकारयत् ॥

इति वो वर्णितोत्पत्तिर्बर्बरीकस्य वाडवाः ॥

स्तवं चास्य प्रवक्ष्यामि येन तुष्यति यक्षराट्

॥११४॥

जयजय चतुरशीतिकोटिपरिवार सूर्यवर्चाभिधान यक्षराज जय भूभारहरणप्रवृत्त लघुशापप्राप्तनैर्ऋतियोनिसंभव जय कामकटंकटाकुक्षिराजहंस जय घटोत्कचानंदवर्धन बर्बरीकाभिधान जय कृष्णोपदिष्टश्रीगुप्तक्षेत्रदे वीसमाराधनप्राप्तातुलवीर्य जय विजयसिद्धिदायक जय पिंगलारेपलेन्द्रदुहद्रुहानवकोटीश्वर पलाशनदावानल जय भूपातालांतराले नागकन्यापरि हारक जय भीममानमर्दन जय सकलकौरवसेनावधमुहूर्तप्रवृत्त जय श्रीकृष्णवरलब्धसर्ववरप्रदानसामर्थ्य जयजय कलिकालवंदितनमोनमस्ते पा हिपाहीति

॥११५॥

अनेन यः सुहृदयं श्रावणेऽभ्यर्च्य दर्शके ॥

वैशाखे च त्रयोदश्यां कृष्णपक्षे द्विजोत्तमाः ॥

शतदीपैः पूरिकाभिः संस्तवेत्तस्य तुष्यति

॥११६॥

ततो विप्रा नारदश्च समाराध्य महेश्वरम् ॥

महीनगरके पुण्ये स्थापयामास शंकरम्

॥११७॥

लोकानां च हितार्थाय केदारं लिङ्गमुत्तमम् ॥

अत्रीशादुत्तरे भागे महापापप्रणाशनम्

॥११८॥

अत्र कुण्डे नरः स्नात्वा श्राद्धं कृत्वा यथाविधि ॥

अत्रीशं च नमस्कृत्य केदारं च प्रपश्यति

॥११९॥

मातुः स्तन्यं पुनर्नैव स पिबेन्मुक्तिभाग्भवेत् ॥

ततो रुद्रो नीलकण्ठो नारदाय महात्मने

॥१२०॥

वरं दत्त्वा स्वयं तस्थौ महीनगरके शुभे ॥

कोटितीर्थे नरः स्नात्वा नीलकण्ठं प्रपश्यति

॥१२१॥

जयादित्यं नमस्कृत्य रुद्रलोकमवाप्नुयात् ॥

जयादित्यं पूजयंति कूपे स्नात्वा नरोत्तमाः

॥१२२॥

न तेषां वंशनाशोऽस्ति जयादित्यप्रसादतः ॥

तेषां कुले न रोगः स्यान्न दारिद्र्यं न लाञ्छनम्

॥१२३॥

पुत्रपौत्रसमायुक्ता धनधान्यसमायुताः ॥

भुक्त्वा भोगानिह बहून्सूर्यलोके वसन्ति ते

॥१२४॥

इति प्रोक्तं मया विप्रा गुप्तक्षेत्रं समासतः ॥

सप्तक्रोशप्रमाणं च क्षेत्रस्यास्य पुरा द्विजाः ॥

स्वयंभुवा प्रोक्तमिदं सर्वकामार्थसिद्धिदम्

॥१२५॥

इति वो वर्णितः पुण्यो महीसागरसम्भवः ॥

शृण्वन्संकीर्तयंश्चैव सर्वपापैः प्रमुच्यते

॥१२६॥

य इदं श्रावयेद्विद्वान्महामाहात्म्यमुत्तमम् ॥

सर्वपापविनिर्मुक्तो रुद्रलोकं स गच्छति

॥१२७॥

गुप्तक्षेत्रस्य माहात्म्यं सकलं श्रावयेद्यदि ॥

सर्वैश्वर्यमवाप्नोति ब्रह्महत्यां व्यपोहति

॥१२८॥

कोटितीर्थस्य माहात्म्यं महीनगरकस्य च ॥

शृणोति श्रावयेद्यस्तु ब्रह्मभूयाय कल्पते

॥१२९॥

कोटितीर्थे नरः स्नात्वा श्राद्धं कृत्वा प्रयत्नतः ॥

दानं दद्याद्यथाशक्त्या शृणुध्वं तत्फलं हि मे

॥१३०॥

स्वर्गपातालमर्त्येषु यानि तीर्थानि सन्ति वै ॥

तेषु दानेषु यत्पुण्यं तत्फलं प्राप्यते नरैः

॥१३१॥

अश्वमेधादिभिर्यज्ञैरिष्टैश्चैवाप्तदक्षिणैः ॥

सर्वव्रततपोभिश्च कृतैर्यत्पुण्यमाप्यते

॥१३२॥

तत्पुण्यं प्राप्यते विप्राः कोटितीर्थे न संशयः

॥१३३॥

इदं पवित्रं खलु पुण्यदं सदा यशस्करं पापहरं परात्परम् ॥

शृणोति भक्त्या पुरुषः स पुण्यभागसुक्षये रुद्रसलोकतां व्रजेत्

॥१३४॥

धन्यं यशस्यं नियतं सुपुण्यं स्वर्मोक्षदं पापहरं नराणाम् ॥

शृणोति नित्यं नियतः शुचिः पुमान्भित्त्वा रविं विष्णु पदं प्रयाति

॥१३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे गुप्तक्षेत्रमाहात्म्यपरि समाप्तिवर्णनंनाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥

अत ऊर्ध्वं कापिलस्थानोपाख्यानं भविष्यति ॥ ? ॥ इति श्रीस्कन्दपुराणीयप्रथममाहेश्वरखण्डान्तर्गतो द्वितीयः कौमारिकाखण्डः समाप्तः