नाडीजंघबकेनोक्तां वाचमाकर्ण्यभूपतिः
नारद उवाच
नाडीजंघबकेनोक्तां वाचमाकर्ण्यभूपतिः ॥
मार्कंडेयेन संयुक्तो बभूवातीव दुःखितः
॥१॥तं निशम्य मुनिर्भूपं दुःखितं साश्रुलोचनम् ॥
समानव्यसनः प्राह तदर्थं स पुनर्बकम्
॥२॥विधायाशां महाभाग त्वदंतिकमुपागतौ ॥
आवां चिरायुर्ज्ञातांशाविन्द्रद्युम्नमिति द्विज
॥३॥निष्पन्नं नास्य तत्कार्यं प्राणानेष मुमुक्षति ॥
वह्निप्रवेशेन परं वैराग्यं समुपागतः
॥४॥तन्मामुपागतोऽहं च त्वां सिद्धं नास्य वांछितम् ॥
तदेनमनुयास्यामि मरणेन त्वया शपे
॥५॥आशां कृत्वाभ्युपायातं निराशं नेक्षितुं क्षमाः ॥
भवंति साधवस्तस्माज्जीवितान्मरणं वरम्
॥६॥प्रार्थितं चामुना हृत्स्थं मया चास्मै प्रतिश्रुतम् ॥
त्वां मित्रं तत्परिज्ञाने धृत्वा हृदि चिरायुषम्
॥७॥असंपादयतो नार्थं प्रतिज्ञातं ममायुषा ॥
कलुषेणार्थिना माशापूरकेण सखेधुना
॥८॥प्रतिश्रुतं कृतं श्लाघ्या दासतांत्यजपक्वणे ॥
हरिश्चंद्रस्येव नृणां न श्लाघ्या सत्यसंधता
॥९॥मित्रस्नेहस्य पर्यायस्तच्च साप्तपदं स्मृतम् ॥
स्नेहः स कीदृशो मित्रे दुःखितो यो न दृश्यते
॥१०॥तदवश्यमहं साकमधुना वह्निसाधनम् ॥
करिष्ये कीर्तिवपुषः कृते सत्यमिदं सखे
॥११॥अनुजानीहि मामेतद्दर्शनं तव पश्चिमम् ॥
त्वया सह महाभाग नाडीजंघ द्विजोत्तम
॥१२॥नारद उवाच
वज्रवद्दुःसहां वाचं मार्कंडेयसमीरिताम् ॥
शुश्रुवान्स क्षणं ध्यात्वा प्रतीतः प्राह तावुभौ
॥१३॥नाडीजंघ उवाच
यद्येवं तदिदं मित्रं विशंतं ज्वलनेऽधुना ॥
निवारय मुनिश्रेष्ठ मत्तोऽस्ति चिरजीवितः
॥१४॥प्राकारकर्णनामासावुलूकः शिवपर्वते ॥
स ज्ञास्यति महीपालमिंद्रद्युम्नं न संशयः
॥१५॥तस्मादहं त्वया सार्धममुना च शिवालयम् ॥
व्रजामि तं शिखरिणं मित्रकार्यप्रसिद्धये
॥१६॥इत्येव मुक्त्वा ते जग्मुस्त्रयोऽपि द्विजपुंगवाः ॥
कैलासं ददृशुस्तत्र तमुलूकं स्वनीडगम्
॥१७॥कृतसंविदसौ तेन बकः स्वागतपूजया ॥
पृष्टश्च तावुभौ प्राह तत्सर्वमभिवांछितम्
॥१८॥चिरायुरसि जानीषे यदीन्द्रद्युम्नभूपतिम् ॥
तद्ब्रूहि तेन ज्ञानेन कार्यं जीवामहे वयम्
॥१९॥इति पृष्टः स विमना मित्रकार्यप्रसाधनात् ॥
कौशिकः प्राह जानामि नेन्द्रद्युम्नमहं नृपम्
॥२०॥अष्टाविंशत्प्रमाणा मे कल्पा जातस्य भूतले ॥
न दृष्टो न श्रुतो वासाविंद्रद्युम्नो नृपः क्षितौ
॥२१॥तच्छ्रुत्वा विस्मितो भूपस्तस्यायुरतिमात्रतः ॥
दुःखितोऽपि तदा हेतुं पप्रच्छासौ तदायुषः
॥२२॥एवमायुर्यदि तव कथं प्राप्तं ब्रवीहि तत् ॥
उलूकत्वं कथमिदं जुगुप्सितमतीव च
॥२३॥प्राकारकर्ण उवाच
श्रृणु भद्र यथा दीर्घमायुर्मेशिवपूजनात् ॥
जुगुप्सितमुलूकत्वं शापेन च महामुनेः
॥२४॥वसिष्ठकुलसंभूतः पुराहमभवं द्विजः ॥
घंट इत्यभिविख्यातो वाराणस्यां शिवेरतः
॥२५॥धर्मश्रवणनिष्ठस्य साधूनां संसदि स्वयम् ॥
श्रुत्वास्मि पूजयामीशं बिल्वपत्रैरखंडितैः
॥२६॥न मालती न मंदारः शतपत्रं न मल्लिका ॥
तथा प्रियाणि श्रीवृक्षो यथा मदनविद्विषः
॥२७॥अखंडबिल्वपत्रेण एकेन शिवमूर्धनि ॥
निहितेन नरैः पुण्यं प्राप्यते लक्षपुष्पजम्
॥२८॥अखंडितैर्बिल्वपत्रैः श्रद्धया स्वयमाहृतैः ॥
लिंगप्रपूजनं कृत्वा वर्षलक्षं वसेद्दिवि
॥२९॥सच्छास्त्रेभ्य इति श्रुत्वा पूजयाम्यहमीश्वरम् ॥
त्रिकालं श्रद्धया पत्रैः श्रीवृक्षस्य त्रिभिस्त्रिभिः
॥३०॥ततो वर्षशतस्यांते तुतोष शशिशेखरः ॥
प्रत्यक्षीभूय मामाह मेघगंभीरया गिरा
॥३१॥ईश्वर उवाच
तुष्टोस्मि तव विप्रेंद्राखंडबिल्वदलार्चनात् ॥
वृणीष्वाभिमतं यत्ते दास्यम्यपि च दुर्लभम्
॥३२॥अखंडबिल्वपत्रेण महातुष्टिः प्रजायते ॥
एकनापि यथान्येषां तथा न मम कोटिभिः
॥३३॥इत्युक्तोऽहं भगवता शंभुना स्वमनः स्थितम् ॥
वृणोमि स्म वरं देव कुरु मामजरामरम्
॥३४॥अथ लीलाविलासो मां तथेत्युक्त्वाऽविचारितम् ॥
ययावदर्शनं प्रीतिमहं च महतीं गतः
॥३५॥कृतकृत्यं तदात्मानमज्ञासिपमहं क्षितौ ॥
एतस्मिन्नेव काले तु भृगुवंश्योऽभवद्द्विजः
॥३६॥अवदातत्रिजन्मासवक्षविच्चाक्षरार्थवित् ॥
सुदर्शनेति प्रथिता प्रिया तस्याभवत्सती
॥३७॥अतीव मुदिता पत्युर्मुखं प्रेक्ष्यास्य दर्शनात् ॥
तनया देवलस्यैपा रूपेणाप्रतिमा भुवि
॥३८॥तस्यां तस्मादभूत्कन्या निर्विशेषा निजारणेः ॥
निवृत्तबालभावाभूत्कुमारी यौवनोन्मुखी
॥३९॥नालं बभूव तां दातुं तनयां गुणशालिनीम् ॥
कस्यापि जनकः सा च वयःसंधौ मयेक्षिता
॥४०॥प्रविश्द्यौवनाभोगभावैरतिमनोहरा ॥
निर्वास्यमानैरपरैस्तिलतंदुलिताकृतिः
॥४१॥क्रीडमाना वयस्याभिर्लावण्यप्रतिमेव सा ॥
व्यचिंतयमहं विप्र तां निरीक्ष्य सुमध्यमाम्
॥४२॥अनन्याकृतिमन्योऽसौ विधिर्येनेति निर्मिता ॥
ततः सात्त्विकभावानां तत्क्षणादस्मि गोचरम्
॥४३॥प्रापितो लीलयाहत्य बाणैः कुसुमधन्विना ॥
ततो मया स्खलद्वालं पृष्टा कस्येति तत्सखी
॥४४॥प्राहेति भृगुवंश्यस्य कन्येयं द्विजजन्मनः ॥
अनूढाद्यापि केनापि समायातात्र खेलितुम्
॥४५॥ततः कुसुमबाणेन शरव्रातैर्भृशं हतः ॥
पितरं प्रणतो गत्वा ययाचे तां भृगूद्वहम्
॥४६॥स च मां सदृशं ज्ञात्वा शीलेन च कुलेन च ॥
अतीव चार्थिनं मह्यं ददौ वाचा पुरः क्रमात्
॥४७॥ततः सा तनया तस्य भार्गवस्या श्रृणोदिति ॥
दत्तास्मि तस्मै विप्राय विरूपायेति जल्पताम्
॥४८॥रोरूयमाणा जननीमाह पश्य यथा कृतम् ॥
अतीवानुचितं दत्त्वा जनकेन तथा वरे
॥४९॥विषमालोड्य पास्यामि प्रवेक्ष्यामि हुताशनम् ॥
वरं न तु विरूपस्योद्वोढुर्भार्या कथंचन
॥५०॥ततः संबोध्य जननी तां सुतामाह भार्गवम् ॥
न देयास्मै त्वया कन्या विरूपायेति चाग्रहात्
॥५१॥स वल्लभावचः श्रुत्वा धर्मशास्त्राण्यवेक्ष्य च ॥
दत्तामपि हरेत्पूर्वां श्रेयांश्चेद्वर आव्रजेत्
॥५२॥अर्वाक्छिलाक्रमणतो निष्ठा स्यात्सप्तमे पदे ॥
इति व्यवस्य प्रददावन्यस्मै तां द्विजः सुताम्
॥५३॥श्वोभाविनि विवाहे तु तच्च सर्वं मया श्रुतम् ॥
ततोतीव विलक्ष्योहं वयस्यानां पुरस्तदा
॥५४॥नाशकं वदनं भद्र तथा दर्शयितुं निजम् ॥
कामार्तोतीव तां सुप्तामर्वाग्निशि तदाहरम्
॥५५॥नीत्वा दुर्गतमैकांतेऽकार्षमौद्वाहिकं विधिम् ॥
गांधर्वेण विवाहेन ततोऽकार्षं हृदीप्सितम्
॥५६॥अनिच्छंतीं तदा बालां बलात्सुरतसेवनम् ॥
अथानुपदमागत्य तत्पिता प्रातरेव माम्
॥५७॥निश्वस्य संवृतो विप्रास्तां वीक्ष्योद्वाहितां सुताम् ॥
शशाप कुपितो भद्र मां तदानीं स भार्गवः
॥५८॥भार्गव उवाच
निशाचरस्य धर्मेण यत्त्वयोद्वाहिता सुता ॥
तस्मान्निशाचरः पाप भव त्वमविलंबितम्
॥५९॥इति शप्तः प्रण्म्यैनं पादोपग्रहपूर्वकम् ॥
हाहेति च ब्रुवन्गाढं साश्रुनेत्रं सगद्गदम्
॥६०॥ततोहमब्रवं कस्माददोषं मां भवानिति ॥
शपते भवता दत्ता मम वाचा पुरा सुता
॥६१॥सोद्वाहिता मया कन्या दानं सकृदिति स्मृतिः ॥
सकृज्जल्पंति राजानः सकृज्जल्पंति पण्डिताः
॥६२॥सकृत्कन्याः प्रदीयंते त्रीण्येतानि सकृत्सकृत् ॥
किं च प्रतिश्रुतार्थस्य निर्वाहस्तत्सतां व्रतम्
॥६३॥भवादृशानां साधूनां साधूनां तस्य त्यागो विगर्हितः ॥
प्रतिश्रुता त्वया लब्धा तदा कालमियं मया
॥६४॥उद्वोढा चाधुना नाहमुचितः शापभाजनम् ॥
वृथा शपन्ति मह्यं च भवंतस्तद्विचार्यताम्
॥६५॥यो दत्त्वा कन्यकां वाचा पश्चाद्धरति दुर्मतिः ॥
स याति नरकं चेति धर्मशास्त्रेषु निश्चितम्
॥६६॥तदाकर्ण्य व्यवस्यासौ तथ्यं मद्वचनं हृदा ॥
पश्चात्तापसमोपेतो मुनिर्मामित्यथाब्रवीत्
॥६७॥न मे स्यादन्यथा वाणी उलूकस्त्वं भविष्यति ॥
निशाचरो ह्युलूकोऽपि प्रोच्यते द्विजसत्तम
॥६८॥यदेंद्रद्युम्नविज्ञाने सहायस्तंव भविष्यसि ॥
तदा त्वं प्रकृतिं विप्र प्राप्स्यसीत्यब्रवीत्स माम्
॥६९॥तद्वाक्यसमकालं च कौशिकत्वमिदं मम ॥
एतावंति दिनान्यासीदष्टाविंशद्दिनं विधेः
॥७०॥बिल्वीदलौरिति पुरा शशिशेखरस्य संपूजनेन मम दीर्घतरं किलायुः ॥
संजातमत्र च जुगुप्सितमस्य शापात्कैलासरोधसि निशाचररूपमासीत्
॥७१॥इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां माहेश्वरखण्डे कौमारिकाखण्डे महीनदीप्रादुर्भावे बिल्वदलमाहात्म्यवर्णनंनामाष्टमोऽध्यायः ॥ ८ ॥