दमनकमाहात्म्यम्
उलूक उवाच
इतीदमुक्तमखिलं पूर्वजन्मसमुद्भवम् ॥
स्वरूपमायुषो हेतुः कौशिकत्वस्य चेति मे
॥१॥इत्युक्त्वा विरते तस्मिन्पुरूहूतसनामनि ॥
नाडीजंघो बको मित्रमाह तं दुःखितो वचः
॥२॥नाडीजंघ उवाच
यदर्थं वयमायातास्तन्न सिद्धं महामते ॥
कार्यं तन्मरणं नूनं त्रयाणामप्युपागतम्
॥३॥इंद्रद्युम्नापरिज्ञाने भद्रकोऽयं मुमूर्षति ॥
तस्यानु मित्रं मार्कंडस्तं चान्वहमपि स्फुटम्
॥४॥मित्रकार्ये विनिर्वृत्ते म्रियमाणं निरीक्षते ॥
यो मित्रं जीवितं तस्य धिगस्निग्धं दुरात्मनः
॥५॥तदेतावनुयास्यामि म्रियमाणावहं द्विज ॥
आपृच्छे त्वां नमस्कार आश्लेषश्चाथपश्चिमः
॥६॥प्रतिज्ञातमनिष्पाद्य मित्रस्याभ्यागतस्य च ॥
कथंकारं न लज्जंते हताशा जीवितेप्सवः
॥७॥तस्माद्वह्निं प्रवेक्ष्यामि सार्धमाभ्यामसंशयम् ॥
आपृष्टोऽस्यधुना स्नेहान्मम देहि जलांजलिम्
॥८॥इत्युक्तवत्युलूकोऽसौ नाडीजंघे सगद्गदम् ॥
साश्रुनेत्रं स्थिरीभूय प्राह वाचं सुधासमुचम्
॥९॥उलूक उवाच
मयि जीवति मित्रे मे भवान्मरणमेति च ॥
अद्यप्रभृति कस्तर्हि हृदा मम लभिष्यति
॥१०॥अस्त्युपायो महानत्र गन्धमादनपर्वते ॥
मत्तश्चिरायुर्मित्रोस्ति गृध्रः प्राणसमः सुहृत्
॥११॥स विज्ञास्यति वोऽभीष्टमिंद्रद्युम्नं महीपतिम् ॥
इत्युक्त्वा पुरतस्तस्थावुलूकः स च भूपतिः
॥१२॥मार्कंडेयो बकश्चैव प्रययुर्गंधमादनम् ॥
तमायांतमथालोक्य वयस्यं पुरतः स्थितम्
॥१३॥स्वकुलायात्प्रहृष्टोऽसौ गृध्रः संमुखमाययौ ॥
कृतसंविदसौ पूर्वं स्वागतासनभोजनैः
॥१४॥उलूकं गृध्रराजश्च कार्यं पप्रच्छ तं तथा ॥
म चाचख्यावयं मित्रं बको मेऽस्य मुनिः किल
॥१५॥मुनेरपि तृतीयोऽयं मित्रं चार्थोयमुद्यतः ॥
इंद्रद्युम्नपरिज्ञाने स्वयं जीवति नान्यथा
॥१६॥वह्निं प्रवेक्ष्यते व्यक्तमयं तदनु वै वयम् ॥
मया निषिद्धोऽयं ज्ञात्वा त्वां चिरंतनमात्मना
॥१७॥तच्चेज्जानासि तं ब्रूहि चतुर्णां देहि जीवितम् ॥
संरक्ष्याप्नुहि सत्कीर्तिं क्षयं चाखिलपाप्मनः
॥१८॥गृध्र उवाच
षट्पंचाशद्व्यतीता मे कल्पा जातस्य कौशिक ॥
न दृष्टो न श्रुतोऽस्माभिरिंद्रद्युम्नो महीपतिः
॥१९॥तच्छ्रुत्वा विस्मयाविष्ट इंद्रद्युम्नोऽपि दुःखितः ॥
पप्रचछ जीविते हेतुमतिमात्रे विहंगमम्
॥२०॥गृध्र उवाच
श्रृणु भद्रै पुरा जातो मर्कटोऽहं च चापलः ॥
आसं कदाचिदभवद्वसंतोऽथ ऋतुः क्रमात्
॥२१॥तत्राग्रे देवदेवस्य वनमध्ये शिवालये ॥
भवोद्भवस्य पुरतो जगद्योगेश्वराभिधे
॥२२॥चतुर्दशीदिने हस्तनक्षत्रे हर्षणाभिधे ॥
योगे चैत्रे सिते पक्ष आसीद्दमनकोत्सवः
॥२३॥अत्र सौवर्ण्यदोलायां लिंग आरोपिते जनैः ॥
निशायामधिरूह्याऽहं दोलां तां च व्यचालयम्
॥२४॥निसर्गाज्जतिचापल्याच्चिरकालं पुनःपुनः ॥
अथ प्रभात आयाता जनाः पूजाकृते कपिम्
॥२५॥दोलाधिरूढमालोक्य लकुटैर्मां व्यताडयन् ॥
दोलासंस्थित एवाहं प्रमीतः शिवमंदिरे
॥२६॥तेषां प्रहारैः सुदृढैर्बहुभिर्वज्रदुःसहैः ॥
शिवांदोलनमाहात्म्याज्जातोऽहं नृपमंदिरे
॥२७॥काशीश्वरस्य तनयः प्रतीतोऽस्मि कुशध्वजः ॥
जाति स्मरस्ततो राज्ये क्रमात्प्राप्याहमैश्वरम्
॥२८॥कारयामि धरापृष्ठे चैत्रे दमनकोत्सवम् ॥
यथा यथा दोलयति शिवं दोलास्थितं नरः
॥२९॥तथा तथाऽशुभं याति पुण्यमायाति भद्रक ॥
शिवदीक्षामुपागम्याखिलसंस्कारसंस्कृतः
॥३०॥शिवाचार्यैर्विमुक्तोऽहं पशुपाशैस्तदागमात् ॥
निर्वाहदीक्षापर्यंतान्संस्कारान्प्राप्य सर्वतः
॥३१॥आराधयामि देवेशं प्रत्यक्चित्तमुमापतिम् ॥
समस्तक्लेशविच्छेदकारणं जगतां गुरुम्
॥३२॥चित्तवृत्तिनिरोधेन वैराग्याभ्यासयोगतः ॥
जपन्नुद्गीतमस्यार्थं भावयन्नष्टमं रसम्
॥३३॥ततो मां प्रणिधानेनाभ्यासेन दृढभूमिना ॥
अन्तरायानुपहतं ज्ञात्वा तुष्टोऽब्रवीद्धरः
॥३४॥ईश्वर उवाच
कुशध्वजाहं तुष्टोद्य वरं वरय वांछितम् ॥
न हीदृशमनुष्ठानं कस्याप्यस्ति महीतले
॥३५॥श्रुत्वेत्युक्तो मया शम्भुर्भूयासं ते गंणो ह्यहम् ॥
अनेनैव शरीरेण तथेत्येवाह गां प्रभुः
॥३६॥ततः कैलासमानीय विमानं मम चादिशत् ॥
सर्वरत्नमयं दिव्यं दिव्याश्चर्यसमावृतम्
॥३७॥विचरामि प्रतीतोऽहं तदारूढो यदृच्छया ॥
अथ काले कियन्मात्रे व्यतीतेऽत्रैवं पर्वते
॥३८॥गवाक्षाधिष्ठितोऽपश्यं वसंते मुनिकन्यकाम् ॥
प्रवाति दक्षिणे वायौ मदनाग्निप्रदीपितः
॥३९॥अग्निवेश्यसुतां भद्र विवस्त्रां जलमध्यगाम् ॥
उद्भिन्नयौवनां श्यामां मध्यक्षामां मृगेक्षणाम्
॥४०॥विस्तीर्णजघनाभोगां रंभोरुं संहतस्तनीम् ॥
तामंकुरितलावण्यां जलसेका दिवाग्रतः
॥४१॥प्रोन्निद्रपंकजमुखीं वर्णनीयतमाकृतिम् ॥
यथाप्रज्ञानयाथात्म्याद्विद्विद्भिरपि वर्णिनीम्
॥४२॥प्रोद्यत्कटाक्षविक्षेपैः शरव्रातैरिव स्मरः ॥
स्वयं तदंगमास्थाय ताडयामास मां दृढम्
॥४३॥वयस्यासंवृचामेवं खेलमानां यदृच्छया ॥
अवतीर्याहमहरं विमानान्मदनातुरः
॥४४॥सा गृहीता मया दीर्घं प्रकुर्वाणा महास्वनम् ॥
तातेति च विमानस्था रुरोदातीव भद्रक
॥४५॥ततो वयस्यास्ता दीना मुनिमाहुः प्रधाविताः ॥
वैमानिकेन केनापि ह्रियते तव पुत्रिका
॥४६॥रुदन्तीं भगवन्नेतां त्राह्युत्तिष्ठेति सर्वतः ॥
तासां तदाकर्ण्य वचो मुनिर्भद्रतपोनिधिः
॥४७॥अग्निवेश्योऽभ्यगात्तस्या व्योमन्युपपदं त्वरन् ॥
तिष्ठतिष्ठेति मामुक्त्वा संस्तभ्य तपसा गतिम्
॥४८॥ततः प्रकुपितः प्राह मुनिमामति दुःसहम् ॥
अग्निवेश्य उवाच ॥
यस्मान्मदीया तनया मांसपेशीव ते हृता
॥४९॥गृध्रेणेवाऽधुना व्योम्नि तस्माद्गध्रो भव द्रुतम् ॥
अनिच्छंती मदीयेयं सुता बाला तपस्विनी
॥५०॥त्वया हृताधुनास्यैतत्फलमाप्नुहि दुर्मते ॥
इत्याकर्ण्य भयाविष्टो लज्जयाधोमुखो मुनेः
॥५१॥पादौ प्रगृह्य न्यपतं रुदन्नतितरां तदा ॥
न मयेयं परिज्ञाय हृता नाद्यापि धर्षिता
॥५२॥प्रसादं कुरु ते शापं व्यावर्तय तपोनिधे ॥
प्रणतेषु क्षमावन्तो निसर्गेण तपोधनाः
॥५३॥भवंति संतस्तद्गृध्रो मा भवेयं प्रसीद मे ॥
इति प्रपन्नेन मया प्रणतोऽसौ महामुनिः
॥५४॥प्रसन्नः प्राह नो मिथ्या मम वाक्यं भवेत्क्वचित् ॥
किं त्विंद्रद्युम्नभूपालपरिज्ञाने सहायताम्
॥५५॥यदा यास्यसि शापस्य तदा मुक्तिमवाप्स्यसि
॥५६॥इत्युक्त्वा स मुनिः प्रायाद्गृहीत्वा निजकन्यकाम् ॥
अखण्डशीलां स्वावासमहं गृध्रोऽभवं तदा
॥५७॥एवं तदा दमनकोत्सव ईश्वरस्य आंदोलनेन नृपवेश्मनि मेऽवतारः ॥
शम्भोर्गणत्वमभवच्च तथाग्निवेश्यशापेन गृध्र इह भद्र तवेदमुक्तम्
॥५८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे महीप्रादुर्भावे दमनकमाहात्म्यंनाम नवमोऽध्यायः ॥ ९ ॥