मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ५८

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 58

गुप्तक्षेत्रमिदं कस्मात्कस्माद्गुप्तं च नारद

अर्जुन उवाच

गुप्तक्षेत्रमिदं कस्मात्कस्माद्गुप्तं च नारद ॥

यस्य प्रभावः सुमहान्नैव कस्यापि संस्तुतः

॥१॥

नारद उवाच

पुरातनामत्र कथां गुप्तक्षेत्रस्य कारणे ॥

शृणु पांडव शापेन गुप्तमासीदिदं यथा

॥२॥

पुरा निमित्ते कस्मिंश्चित्सर्वतीर्थाधिदैवताः ॥

प्रणामाय ब्रह्मसदो ब्रह्माणं सहिता ययुः

॥३॥

पुष्करस्य प्रभासस्य निमिषस्यार्बुदस्य च ॥

कुरुक्षेत्रस्य क्षेत्रस्य धर्मारण्यस्य देवताः

॥४॥

वस्त्रापथस्य श्वेतस्य फल्गुतीर्थं स्य चापि याः ॥

केदारस्य तथान्येषां क्षेत्राणां कोटिशोऽपि याः

॥५॥

सिंधुसागरयोगस्य महीसागरकस्य च ॥

गंगासागरयोगस्य अधिपाः सूकरस्य च

॥६॥

गंगारेवामुखीनां तु नदीनामधिदेवताः ॥

शोणह्रदपुरोगाणां ह्रदानां चाधिदेवताः

॥७॥

ते सर्वे संघशो भूत्वा श्रैष्ठ्य ज्ञानाय चात्मनः ॥

समुपाजग्मुरमला महतीं ब्रह्मणः सभाम्

॥८॥

तत्र तीर्थानि सर्वाणि समायातानि वीक्ष्य सः ॥

उत्तस्थौ सहितः सर्वैः सभासद्भिः पितामहः

॥९॥

प्रणम्य सर्वतीर्थेभ्यः प्रबद्धकरसंपुटः ॥

तीर्थानि भगवानाह विस्मयोत्फुल्ललोचनः

॥१०॥

अद्य नः सद्म सकलं युष्माभिरतिपावितम् ॥

वयं च पाविता भूयो युष्माकं दर्शनादपि

॥११॥

तीर्थानां दर्शनं श्रेयः स्पर्शनं स्नानमेव च ॥

कीर्तनं स्मरणं चापि न स्यात्पुण्यं विना परम्

॥१२॥

महापापान्विता रौद्रास्त्वपि ये स्युः सुनिष्ठुराः ॥

तेऽपि तीर्थैः प्रपूयंते किं पुनर्धर्मसंस्थिताः

॥१३॥

एवमुक्त्वा पुलस्त्यं स पुत्रमभ्यादिदेश ह ॥

शीघ्रमर्घं तीर्थहेतोः समानय यथार्चये

॥१४॥

पुलस्त्य उवाच

असंख्यानीह तीर्थानि दृश्यंते पद्मसंभव ॥

यथा दिशसि मां तात अर्घमेकमुपानये

॥१५॥

धर्मप्रवचने श्लोको यत एष प्रगीयते

॥१६॥

भवेयुर्यद्यसंख्याता अर्घयोग्याः समर्चने ॥

ततस्तेषां वरिष्ठाय दातव्योऽर्घः किलैकतः

॥१७॥

ब्रह्मोवाच

साभिप्रायं साधु वत्स त्वया प्रोक्तमिदं वचः ॥

एवं कुरुष्वैकमर्घमानय त्वं सुशीघ्रतः

॥१८॥

नारद उवाच

ततः पुलस्त्यो वेगेन समानिन्येऽर्घमुत्तमम् ॥

तं च ब्रह्मा करे गृह्य तीर्थान्याहेति भारतीम्

॥१९॥

सर्वैर्भवद्भिः संहत्य मुख्यस्त्वेकः प्रकीर्त्यताम् ॥

तस्मै चार्घं प्रयच्छामि नैवं मामनयः स्पृशेत्

॥२०॥

तीर्थान्यूचुः

न वयं श्रेष्ठतां विद्मः कथंचन परस्परम् ॥

अस्माद्धेतोश्च संप्राप्ता ज्ञात्वा देहि त्वमेव तत्

॥२१॥

ब्रह्मोवाच

नाहं वेद्मि श्रेष्ठतां वः कथंचन नमोऽस्तु वः ॥

सर्वे चापारमाहात्म्यं स्वयं मे वक्तुमर्हथ

॥२२॥

यत्र गंगा गया काशी पुष्करं नैमिषं तथा ॥

कुरुक्षेत्रं तथा रेवा महीसागरसंगमः

॥२३॥

प्रभासाद्यानि शतशो यत्र नस्तत्र का मतिः

॥२४॥

नारद उवाच

एवमुक्ते पद्मभुवा कोपि नोवाच किंचन ॥

चिरेणेदं ततः प्राह महीसागरसंगमः

॥२५॥

ममैनमर्घं त्वं यच्छ चतुरानन शीघ्रतः ॥

यतः कोटिकलायां वा मम कोऽपि न पूर्यते

॥२६॥

यतश्चेन्द्रद्युम्नराज्ञा ताप्यमाना वसुंधरा ॥

सर्वतीर्थद्रवीभूता महीनामाभवन्नदी

॥२७॥

सा च सर्वाणि तीर्थानि संयुक्तानि मया सह ॥

सर्वतीर्थमयस्तस्मादस्मि ख्यातो जगत्त्रये

॥२८॥

गुहेन च महालिंगं कुमारेश्वरमीश्वरम् ॥

संस्थाप्य तीर्थमुख्यत्वं मम दत्तं महात्मना

॥२९॥

नारदेनापि मत्तीरे स्थानं संस्थाप्य शोभनम् ॥

सर्वेभ्यः पुण्यक्षेत्रेभ्यो दत्तं श्रैष्ठ्यं पुरा मम

॥३०॥

एवं त्रिभिर्हेतुवरैर्ममेवार्घः प्रदीयताम् ॥

गुणैकदेशेऽपि समं मम तीर्थं न वै परम्

॥३१॥

इत्युक्ते वचने पार्थ तीर्थराजेन भारत ॥

सर्वे नोचुः किंचनापि किं ब्रह्मा वक्ष्यतीति यत्

॥३२॥

ततो ब्रह्मसुतो ज्येष्ठः श्वेतमाल्यानुलेपनः ॥

दक्षिणं बाहुमुद्धत्य धर्मो वचनमब्रवीत्

॥३३॥

अहो कष्टमिदं कूक्तं तीर्थराजेन मोहतः ॥

सन्तोऽपि न गुणा वाच्याः स्वयं सद्भिः स्वका यतः

॥३४॥

स्वीयान्गुणान्स्वयं यो हि सम्पत्सु प्रक्षिपन्परान् ॥

ब्रवीति राजसस्त्वेष ह्यहंकारो जुगुप्सितः

॥३५॥

तस्मादस्मादहंकारात्सत्स्वप्येषु गुणेषु च ॥

अप्रख्यातं ध्वस्तरूपमिदं तीर्थं भविष्यति

॥३६॥

स्तंभतीर्थमिति ख्यातं स्तम्भो गर्वः कृतो यतः ॥

स्तंभस्य हि फलं सद्यो ब्रह्मापि प्राप किं परः

॥३७॥

इत्युक्ते धर्मदेवेन हाहेति रव उत्थितः ॥

ततः शीघ्रं समायातो योगीशोऽहं च पांडव

॥३८॥

गुहस्ततो वचः प्राह धर्मदेवसमागमे ॥

अयुक्तमेतच्छापोऽयं दत्तो यद्धर्म धार्ष्ट्यतः

॥३९॥

ब्रवीतु कोऽपि सर्वेषां तीर्थानां तेषु वर्तताम् ॥

यद्यैश्वर्यं नार्हतेसौ महीसागरसंगमः

॥४०॥

तिष्ठत्वात्मगुणो यच्च तीर्थराजेन वर्णितः ॥

तत्र को विगुणो नाम मिथ्यावादी यतो गुणः

॥४१॥

अहो न युक्तं पालानां यदि तेऽप्यविमृश्य च ॥

एवमर्थान्करिष्यंति कं यांति शरणं प्रजाः

॥४२॥

एवमुक्ते गुहेनाथ धर्मो वचनमब्रवीत् ॥

सत्यमेतद्यदर्होऽयं महीसागरसंगमः

॥४३॥

मुख्यत्वं सर्वतीर्थानामर्घं चापि पितामहात् ॥

किंतु नात्मगुणा वाच्याः सतामेतत्सदा व्रतम् ॥

परोक्षेपि स्वप्रशंसा ब्रह्माणमपि चालयेत्

॥४४॥

स्वप्रशंसां प्रकुर्वाणः पराक्षेपसमन्विताम् ॥

किं दिवः पृथिवीं पूर्वं ययातिर्न पपात ह ॥

यानि पूर्वं प्रमाणानि कृतानीशेन धीमता

॥४५॥

तानि सम्पालनीयानि तानि कोऽति क्रमेद्बुधः ॥

तव पित्रा समादिश्य यदर्थं स्थापिता वयम्

॥४६॥

पालयामास एतच्च त्वं पालयितुमर्हसि ॥

ईश्वराः स्वप्रमाणेन भवंतो यदि कुर्वते

॥४७॥

तदस्माभिरिदं युक्तं शासनं दिश्यतां परम् ॥

एवमुक्त्वा स्वीयमुद्रां मोक्तुकामं वृषं तदा

॥४८॥

अहं प्रस्तावमन्वीक्ष्य वाक्यमेतदुदैरयम् ॥

नमो धर्माय महते विश्वधात्रे महात्मने

॥४९॥

ब्रह्मविष्णुशिवैर्नित्यं पूजितायाघनाशिने ॥

यदि मुद्रां भवान्धर्म परित्यक्ष्यति कर्हिचित्

॥५०॥

तदस्माकं कुतो भावो मा विश्वं नाशय प्रभो ॥

योगीश्वरं गुहं चापि संमानयितुमर्हसि

॥५१॥

शिववन्माननीयो हि यतः साक्षाच्छिवात्मजः ॥

त्वां च देवो गुहः स्वामी संमानयितुमर्हति

॥५२॥

युवयोरैक्यभावेन सुखं जीवेदिदं जगत् ॥

त्वया प्रदत्तः शापोऽयं मा प्रत्याख्यातिलक्षणः

॥५३॥

अनुग्रहश्च क्रियतां तीर्थराजस्य मानद

॥५४॥

एवमुच्चरमाणं मां प्रशस्याहापि पद्मभूः ॥

साध्वेतन्नारदेनोक्तं धर्मैतद्वचनं कुरु

॥५५॥

सम्मानय गुहं चापि गुहः स्वामी यतो हि नः ॥

एवमुक्ते ब्रह्मणा च धर्मो वचनमब्रवीत्

॥५६॥

नमो गुहाय सिद्धाय किंकरायस्य ते वयम् ॥

मदीयां स्कन्द विज्ञप्तिं नाथैनामवधारय

॥५७॥

स्तंभादेतन्महातीर्थमप्रसिद्धं भविष्यति ॥

स्तंभतीर्थमिति ख्यातं सुप्रसिद्धं भविष्यति

॥५८॥

स्तम्भतीर्थमिति ख्यातं सर्वतीर्थफलप्रदम् ॥

यश्चात्र स्नानदानानि प्रकरिष्यति मानवः

॥५९॥

यथोक्तं च फलं तस्य स्फुटं सर्वं भविष्यति ॥

शनिवारे ह्यमावास्या भवेत्तस्याः फलं च यत्

॥६०॥

महीसागरयात्रायां भवेत्तच्चावधारय ॥

प्रभासदशयात्राभिः सप्तभिः पुष्करस्य च

॥६१॥

अष्टाभिश्च प्रयागस्य तत्फलं प्रभविष्यति ॥

पंचभिः कुरुक्षेत्रस्य नकुलीशस्य च त्रिभिः

॥६२॥

अर्बुदस्य च यत्षड्भिस्तत्फलं च भविष्यति ॥

वस्त्रापथस्य तिसृभिर्गंगायाः पंचभिश्च यत्

॥६३॥

कूपोदर्याश्चतुर्भिश्च तत्फलं प्रभविष्यति ॥

काश्याः षड्भिस्तथा यत्स्याद्गोदावर्याश्च पंचभिः

॥६४॥

तत्फलं स्तंभतीर्थे वै शनिदर्शे भविष्यति ॥

एवं दत्ते वरे स्कंदस्तदा प्रीतमनाभवत्

॥६५॥

ब्रह्मापि स्तंभतीर्थाय ददावर्घं समाहितः ॥

ददौ च सर्वतीर्थानां श्रेष्ठत्वममितद्युतिः

॥६६॥

तीर्थानि च गुहं नाथं सम्मान्य विससर्ज सः ॥

एवमेतत्पुरा वृत्तं गुप्तक्षेत्रस्य कारणम्

॥६७॥

भूयश्चापि प्रसिद्ध्यर्थं प्रेषिताप्सरसोऽत्र मे ॥

विमोक्षिता ग्राहरूपात्त्वया ताश्च कुरूद्वह

॥६८॥

यतो धर्मस्य सर्वस्य नानारूपैः प्रवर्ततः ॥

परित्राणाय भवतः कृष्णस्य च भवो भवे

॥६९॥

तदिदं वर्णितं तुभ्यं सर्वतीर्थफलं महत् ॥

श्रुत्वैतदादितः पूर्वं पुमान्पापैः प्रमुच्यते

॥७०॥

सूत उवाच

श्रुत्वेति विजयो धीमान्प्रशशंस सुविस्मितः ॥

विसृष्टो नारदाद्यैश्च द्वारकां प्रति जग्मिवान्

॥७१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे महीसागरमाहात्म्यवर्णनेऽर्जुनतीर्थयात्रापरिसमाप्तिवर्णनंनामष्टपंचाशत्तमोऽध्यायः ॥ ५८ ॥