मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ६३

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 63

कार्यसिद्धिवर्णनम्

सूत उवाच

अश्वत्थलाक्षावह्नौ च सर्षपान्केसरप्लुतान् ॥

जुह्वतो मंत्रमुख्यैश्च बलातिबलसंज्ञकैः

॥१॥

यामे तु प्रथमे याते काचिन्नारी समाययौ ॥

शोणिताक्तैकवसना महोच्चोर्ध्वशिरोरुहा

॥२॥

दारुणाक्षी शुक्लदन्ती भयस्यापि भयंकरी ॥

सा रुरोद महारावं प्राप्य तां होमभूमिकाम्

॥३॥

तां दृष्ट्वा चुक्षुभे सद्यो विजयो भीतिमानिव ॥

बर्बरीकश्च निर्भीतिस्तस्याः संमुखमाययौ

॥४॥

ततः कण्ठं समाश्लिष्य तस्या मतिमतां वरः ॥

रुरोद द्विगुणं वीरो मेघवन्नादयन्बहु

॥५॥

तं दृष्ट्वा विस्मिता सा च यावन्मुंचति कर्तिकाम् ॥

तावन्निष्पीडिते कंठे मोक्तुं तस्मिन्न चाशकत्

॥६॥

पीड्यमाने च बलिना कंठे तस्या मुहुर्मुहुः ॥

मुमुोच विविधाञ्छब्दान्वज्राहत इवाचलः

॥७॥

क्षणं रावांस्ततो मुक्त्वा त्राहि मुञ्चेति वक्त्यणु ॥

ततः कृपालुना मुक्ता पादयोः पतिताऽब्रवीत्

॥८॥

शरणं ते प्रपन्नास्मि दासी कर्मकरी तव ॥

महाजिह्वेति मां विद्धि राक्षसीं कामरूपिणीम्

॥९॥

काशीश्मशाननिलयां देवदानवदर्पहाम् ॥

ददासि यदि मे वीर दुर्लभां प्राणदक्षिणाम्

॥१०॥

ततस्तपश्चरिष्यामि सर्वभूताभयप्रदा ॥

अस्मिन्नर्थे स्वदेवस्य शपथा मे तथात्मनः

॥११॥

यद्येतद्व्यत्ययं कुर्यां भस्मीभूयां ततः क्षणम् ॥

एवं ब्रुवाणां तां वीरो निगृह्य शपथैर्दृढम्

॥१२॥

मुमोच सापि संहृष्टा कृच्छ्रा- न्मुक्ता ययौ वनम् ॥

सोऽपि वीरः खङ्गधारी तत्रैवावस्थितोऽभवत्

॥१३॥

ततो मध्यमरात्रौ च गर्जितं श्रूयते महत् ॥

अन्धकारं च संजज्ञे तमोंऽधनरकप्रभम्

॥१४॥

ददृशे च ततः शैलः शतशृंगोऽतिविस्तरः ॥

नानाशिलाः प्रमुमुचे नानावृक्षांश्च सोच्छ्रयान्

॥१५॥

नानानिर्झर संघोषं ववृषे शोणितं वहु ॥

तं तथा नगमालोक्य निर्भीतो भैमिनंदनः

॥१६॥

पर्वतो द्विगुणो भूत्वा पर्वतं सहसाप्लुतः ॥

तदाभिजघ्ने संहृत्य पर्वतं स्वेन भूभृता

॥१७॥

तदा विशीर्णः सोऽभूच्च पर्वतो भूमिमंडले ॥

ततो योजनदेहात्मा शतशीर्षः शतोदरः

॥१८॥

वक्त्रैर्मुंचन्महाज्वालां रेपलेन्द्रोऽभ्यधावत ॥

तं धावमानं दृष्ट्वैव बर्बरीको महाबलः

॥१९॥

विधाय तादृशं रूपं नर्दन्तं चाप्यधावत ॥

ततो मध्यमरात्रौ ती लघु चित्रं च सुष्ठु च

॥२०॥

युयुधाते बाणजालैर्यथा प्रावृषि तोयदौ ॥

छिन्नचापौ च खङ्गाभ्यां छिन्नखड्गौ च मुष्टिभिः

॥२१॥

पर्वताविव सत्पक्षौ चिरं युयुधतुः स्थिरम् ॥

ततः कक्षे समुत्पाट्य भ्रामयित्वा मुहूर्तकम्

॥२२॥

भूमौ प्रधर्षयामास प्रसृतं च मुमोच ह ॥

चिक्षेप चाग्निकोणे तं महीसागररोधसि

॥२३॥

तद्दूरे रेपलेन्द्राख्यं ग्राममद्यापि वर्तते ॥

एवं स रेपलोनाम वृत्रतुल्यपराक्रमः

॥२४॥

नाथः श्मशानस्यावन्त्या विघ्नकृन्निहतोऽभवत् ॥

तं निहत्य पुनर्वीरो बर्बरीकः स्थितोऽभवत्

॥२५॥

ततस्तृतीययामे च प्रतीच्या दिश आययौ ॥

पर्वताभा महानादा पादैः कम्पयतीव भूः

॥२६॥

दुहद्रुहाख्याश्वतरी मेघभ्रष्टा तडिद्यथा ॥

तामायांतीं तथा दृष्ट्वा सूर्यवैश्वानरप्रभाम्

॥२७॥

उपसृत्य जवाद्भैमी रुरोह प्रहसन्निव ॥

वेगात्ततः प्रद्रवतीं तुण्डे प्राहत्य मुष्टिभिः

॥२८॥

स्थापयामास तत्रैव तस्थौ सा चातिपीडिता ॥

ततः क्रुद्धा महारावं कृत्वाप्लुत्य दुहद्रुहा

॥२९॥

जगत्यामाशु चिक्षेप बर्बरीकं तथेच्छकम् ॥

ततो नदित्वा चातीव पादघातममुंचत

॥३०॥

पादौ च वीरः संगृह्य चिक्षेप भुवि लीलया ॥

ततः पुनः समुत्थाय धावंतीं तां निगृह्य सः

॥३१॥

मुष्टिना पातयित्वैव दंतान्कंठमपीडयत् ॥

क्लिन्नं वास इवापीड्य प्राणानत्याजयद्द्रुतम्

॥३२॥

एवं सीकोत्तरस्थाने स्मशानैकपदो द्भवा ॥

शाकिनीनामधीशा सा बर्बरीकेण सूदिता

॥३३॥

हत्वा तां चापि चिक्षेप प्रतीच्यामेव लीलया ॥

दुहद्रुहाख्यमद्यापि तत्र ग्रामं स्म वर्तते

॥३४॥

ततस्तथैव संतस्थौ बर्बरीकोऽभिरक्षणे ॥

ततश्चतुर्थे यामे च प्राप्तः क्षपणकोऽद्भुतः

॥३५॥

मुंडी नग्नो मयूराणां पिच्छधारी महाव्रतः ॥

प्रोवाच चेदं वचनं हाहा कष्टमतीव भोः

॥३६॥

अहिंसा परमो धर्मस्तदग्निर्ज्वाल्यते कुतः ॥

हूयमाने यतो वह्नौ सूक्ष्मजीववधो महान्

॥३७॥

श्रुत्वेदं वचनं तस्य बर्बरीकोऽब्रवीत्स्मयन् ॥

वदने सर्वदेवानां हूयमाने स्म पावके

॥३८॥

अनृतं भाषसे पाप शिक्षायोग्योऽसि दुर्मते ॥

इत्युक्त्वा सहसोत्पत्य कक्षामध्ये स्थिरोऽस्य च

॥३९॥

दन्तान्मुष्टिप्रहारैश्च समाहत्याभ्यपातयत् ॥

रुधिराविलवक्त्रं तं मुमोच पतितं भुवि

॥४०॥

स क्षणाच्चेतनां प्राप्य घोरदैत्यवपुर्धरः ॥

भयाद्भैमेः प्रदुद्राव गुहाविवरमाविशत्

॥४१॥

बहुप्रभेति नगरी षष्टियोजनमायता ॥

तस्यां विवेश सहसा तं चानु बर्बरीककः

॥४२॥

बर्बरीकं ततो दृष्ट्वा नादोऽभूच्च पलाशिनाम् ॥

धावध्वं हन्यतामेष छिद्यतां भिद्यतामिति

॥४३॥

तच्छ्रुत्वा दैत्यवीराणां कोटयो नव भीषणाः ॥

नानायुधधरा वीरं बर्बरीकमुपाद्रवन्

॥४४॥

दृष्ट्वा तान्कोटिशो दैत्यान्क्रुद्धो भीमात्मजात्मजः ॥

निमील्य सहसा नेत्रे तेषां मध्यमधावत

॥४५॥

पादघातैस्ततः कांश्चिद्भुजाघातैस्तथापरान् ॥

हृदयस्याभिघातैश्च क्षणान्निन्ये यमक्षयम्

॥४६॥

यथा नलवनं क्र्रुद्धः कुर्याद्भूमिसमं करी ॥

नवकोटीस्तथा जघ्ने सह तेन पलाशिना

॥४७॥

ततो नागाः समागम्य वासुकिप्रमुखास्तदा ॥

तुष्टुबुर्विविधैर्वाक्यैरूचुः सुहृदयं च ते

॥४८॥

नागानां परमं कृत्यं कृतं ते भैमिनंदन ॥

पलाशीनाम दैत्योयं नीतो यत्सानुगो यमम्

॥४९॥

अनेन हि वयं वीर सानुगेन दुरात्मना ॥

पीडिता विविधोपायैः पातालादप्यधः कृताः

॥५०॥

वरं वृणीष्व त्वं तस्मान्नागेभ्योऽभिमतं परम् ॥

वरदाः सर्व एव स्म वयं तुभ्यं सुतोषिताः

॥५१॥

सुहृदय उवाच

यदि देयो वरो मह्यं तदेनं प्रवृणोम्यहम् ॥

सर्वविघ्नविनिर्मुक्तो विजयः सिद्धिमाप्नुयात्

॥५२॥

ततस्तथेति तं प्रोचुः प्रहृष्टा वायुभोजनाः ॥

स च तेभ्यः पुरीं दत्त्वा निवृत्तो नागपूजितः

॥५३॥

विवरस्य च मध्येन समागच्छन्महाप्रभम् ॥

सर्वरत्नमयं लिंगं स्थितं कल्पतरोरधः

॥५४॥

अर्च्यमानं सुवह्नीभिर्नागकन्याभिरैक्षत ॥

ततोऽसौ विस्मयाविष्टो नागकन्या ह्यपृच्छत

॥५५॥

केनेदं स्थापितं लिंगं सूर्यवैश्वानरप्रभम् ॥

लिंगादपि चतुर्दिक्षु मार्गाश्चेमे तु कीदृशाः

॥५६॥

इति वीरवचः श्रुत्वा बृहत्कटिपयोधरा ॥

सव्रीडं सस्मितापांगनिर्मोक्षमिदमब्रवीत्

॥५७॥

सर्वपन्नगराजेन शेषेण सुमहात्मना ॥

तप स्तप्त्वा महालिंगमिदमत्र प्रतिष्ठितम्

॥५८॥

दर्शनात्स्पर्शनाद्ध्यानादर्चनात्सर्वसिद्धिदम् ॥

लिंगात्पूर्वेण मार्गोयं याति श्रीपर्वतं भुवि

॥५९॥

एलापत्रेण विहितो नागानां तत्र प्राप्तये ॥

दक्षिणेन च मार्गोऽयं याति शूर्पारकं भुवि

॥६०॥

कर्कोटकेन नागेन कृतोऽयं तत्र प्राप्तये ॥

पश्चिमेन च मार्गोऽयं प्रभासं याति सुप्रभम्

॥६१॥

ऐरावतेन विहितो नागानां गमनाय च ॥

उत्तरेण च मार्गोयं येन यातुं भवान्स्थितः

॥६२॥

गुप्तक्षेत्रे सिद्धलिंगं याति शक्तिगुहाऽऽकृतः ॥

विहितस्तक्षकेणासौ यातुं तत्र महात्मना

॥६३॥

इतीदं वर्णितं वीर विज्ञप्तिः श्रूयतां मम ॥

को भवानधुनैवेतो दैत्यपृष्ठ गतोऽभवत् ॥

अधुनैव तथैकाकी समायातोऽत्र नो वद

॥६४॥

वयं च सर्वास्ते दास्यस्त्वां पतिं प्रवृणीमहे ॥

अस्माभिः सहितः क्रीड विविधास्वत्र भूमिषु

॥६५॥

बर्बरीक उवाच

अहं कुरुकुलोत्पन्नः पांडुपुत्रस्य पौत्रकः ॥

बर्बरीक इति ख्यातस्तं दैत्यं हंतुमागतः

॥६६॥

स च दैत्यो हतः पापः पुनर्यास्ये महीतलम् ॥

भवतीभिश्च मे नास्ति कृत्यं भोभोः कथंचन

॥६७॥

ब्रह्मचारिव्रतं यस्मादहं सततमास्थितः ॥

इत्युक्त्वाभ्यर्च्य तल्लिंगं प्रणिपत्य च दण्डवत्

॥६८॥

ऊर्ध्वमाचक्रमे वीरः कातरं ताभिरीक्षितः ॥

ततो बहिः समागत्य सप्रकाशं मुखं तदा

॥६९॥

प्रहर्षेणैव पूर्वस्या विजयं ददृशे दिशः ॥

तस्मिन्काले च विजयः कर्म सर्वं समाप्तवान्

॥७०॥

कांत्या सूर्यसमाभास ऊर्ध्वमाचक्रमे क्षणात् ॥

ततो वियद्गतं देवैः पुष्पवर्षमभून्महत्

॥७१॥

जगुर्गंधर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ॥

विजयो बर्बरीकं च ततो वचनमब्रवीत्

॥७२॥

तव प्रसादाद्वीरेश सिद्धिः प्राप्ता मयातुला ॥

चिरं जीव चिरं नंद चिरं वस चिरं जय

॥७३॥

अत एव हि साधृनां संगमिच्छंति साधवः ॥

औषधं सर्वदोषाणां भवेत्सत्यं गमो यतः

॥७४॥

त्वं च होमस्थितं भस्म सिंदूरसदृशप्रभम् ॥

निःशल्यं सविवरकं पूर्यमाणं गृहाण च

॥७५॥

अक्षय्यमेतत्संग्रामे प्रथमं ते प्रमुंचतः ॥

शत्रूणां स्थानकं मृत्योर्देहं ध्वस्तं करिष्यति

॥७६॥

एवं सुखेन विजयः शत्रूणां ते भविष्यति

॥७७॥

बर्बरीक उवाच

उपकुर्यान्निराकांक्षो यः स साधुरितीर्यते ॥

साकांक्षमुपकुर्याद्यः साधुत्वे तस्य को गुणः

॥७८॥

तद्देहि भस्म चान्यस्मै केनाप्यर्थो न मेऽण्वपि ॥

प्रसादसुमुखां दृष्टिं विना नान्यद्वृणोमि ते

॥७९॥

देवा ऊचुः

कुरूणां पांडवानां च भविष्यति महान्रणः ॥

ततो भूमिस्थितं भस्म प्राप्स्यंति यदि कौरवाः

॥८०॥

महाननर्थो भविता पांडवानां ततः स्फुटम् ॥

तस्माद्गृहाण त्वं भस्म सोपि चक्रे तथो वचः

॥८१॥

देवीभिः सहिता देवाः संमान्य विजयं च ते ॥

सिद्धैश्वर्यं ददुस्तस्मै सिद्धसेनेति नाम च

॥८२॥

एवं स विजयो विप्रः सिद्धिं लेभे सुदुर्लभाम् ॥

बर्बरीकश्च कृत्वैतद्देवीभक्तिरतोऽवसत्

॥८३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे कार्यसिद्धिवर्णनंनाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥