मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ३

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 3

एवं स्थानानि पुण्यानि यानियानीह वै भुवि

सूत उवाच

एवं स्थानानि पुण्यानि यानियानीह वै भुवि ॥

निरीक्षंस्तत्र तत्राहं नारदो वीरसत्तम

॥१॥

विचरन्मेदिनीं सर्वां प्राप्तोऽहमाश्रमं भृगोः ॥

यत्र रेवानदी पुण्या सप्तकल्पस्मरा वरा

॥२॥

महापुण्या पवित्रा च सर्वतीर्थमयी शुभा ॥

पुनानि कीर्तनेनैव दर्शनेन विशेषतः

॥३॥

तत्रावगाहनात्पार्थ मुच्यते जंतुरंहसा ॥

यथा सा पिङ्गला नाडी देहमध्ये व्यवस्थिता

॥४॥

इयं ब्रह्मांडपिण्डस्य स्थाने तस्मिन्प्रकीर्तिता ॥

तत्रास्ते शुक्लतीर्थाख्यं रेवायां पापनाशनम्

॥५॥

यत्र वै स्नानमात्रेण ब्रह्महत्या प्रणश्यति ॥

तस्यापि सन्निधौ पार्थ रेवाया उत्तरे तटे

॥६॥

नानावृक्षसमाकीर्णं लतागुल्मोपशोभितम् ॥

नानापुष्पफलो पेतं कदलीखंडमंडितम्

॥७॥

अनेकाश्वापदाकीर्णं विहगैरनुनादितम् ॥

सुगंधपुष्पशोभाढ्यं मयूररवनादितम्

॥८॥

भ्रमरैः सर्वमुत्सृज्य निलीनं रावसंयुतम् ॥

यथा संसारमुत्सृज्य भक्तेन हरपादयोः

॥९॥

कोकिला मधुरैः स्वानैर्नादयंति तथा मुनीन् ॥

यथा कथामृताख्यानैर्ब्राह्मणा भवभीरुकान्

॥१०॥

यत्र वृक्षा ह्लादयंति फलैः पुष्पैश्च पत्रकैः ॥

छायाभिरपि काष्ठैश्च लोकानिव हरव्रताः

॥११॥

पुत्रपुत्रेति वाशंते यत्र पुत्रप्रियाः खगाः ॥

यथा शिवप्रियाः शैवा नित्यं शिवशिवेति च

॥१२॥

एवंविधं मुनेस्तस्य भृगोराश्रममंडलम् ॥

विप्रैस्त्रैविद्यसंयुक्तैः सर्वतः समलंकृतम्

॥१३॥

ऋग्यजुः सामनिर्घोपैरारूरितदिगन्तरम् ॥

रुद्रभक्तेन धीरेण यथैव भुवनत्रयम्

॥१४॥

तत्राहं पार्थ संप्राप्तो यत्रास्ते मुनिसत्तमः ॥

भृगुः परमधर्मात्मातपसा द्योतितप्रभः

॥१५॥

आगच्छंतं तु मां दृष्ट्वा दीनं च मुदितं तथा ॥

अभ्युत्थानं कृतं सर्वैर्विप्रैर्भृगुपुरोगमैः

॥१६॥

कृत्वा सुस्वागतं दत्त्वा अर्घाद्यं भृगुणा सह ॥

आसनेषूपविष्टास्ते मुनींद्रा ग्राहिता मया

॥१७॥

विश्रांतं तु ततो ज्ञात्वा भृगुर्मामप्युवाचह ॥

क्व गंतव्यं मुनिश्रेष्ठ कस्मादिह समागतः

॥१८॥

आगमनकारणं सर्वं समाचक्ष्व परिस्फुटम् ॥

ततस्तं चिंतयाविष्टो भृगुं पार्थाहमब्रुवम्

॥१९॥

श्रूयतामभिधास्यामि यदर्थमहामागतः ॥

मया पर्यटिता सर्वा समुद्रांता च मेदिनी

॥२०॥

द्विजानां भूमिदानार्थं मार्गमाणः पदेपदे ॥

निर्दोषां च पवित्रां च तीर्थेष्वपि समन्विताम्

॥२१॥

रम्यां मनोरमां भूमिं न पश्यामि कथंचन ॥

भृगुरुवाच ॥

विप्राणां स्थापनार्थाय मयापि भ्रमता पुरा

॥२२॥

पृथ्वी सागरपर्यंता दृष्टा सर्वा तदानघ ॥

महीनाम नदी पुण्या सर्वतीर्थमयी शुभा

॥२३॥

दिव्या मनोरमा सौम्या महापापप्रणाशिनी ॥

नदीरूपेण तत्रैव पृथ्वी सा नात्र संशयः

॥२४॥

पृथिव्यां यानि तीर्थानि दृष्टादृष्टानि नारद ॥

तानि सर्वाणि तत्रैव निवसंति महीजले

॥२५॥

सा समुद्रेण संप्राप्ता पुण्यतोया महानदी ॥

संजातस्तत्र देवर्षे महीसागरसंगमः

॥२६॥

स्तंभाख्यं तत्र तीर्थं तु त्रिषु लोकेषु विश्रुतम् ॥

तत्र ये मनुजाः स्नानं प्रकुर्वंति विपश्चितः

॥२७॥

सर्वपापविनिर्मुक्ता नोपसर्पंति वै यमम् ॥

तत्राद्भुतं हि दृष्टं मे पुरा स्नातुं गतेन वै

॥२८॥

तदहं कीर्तयिष्यामि मुने श्रृणु महाद्भुतम् ॥

यावत्स्नातुं व्रजाम्यस्मिन्महीसागरसंगमे

॥२९॥

तीरे स्थितं प्रपश्यामि मुनींद्रं पावकोपमम् ॥

प्रांशुं वृद्धं चास्थिशेषं तपोलक्ष्म्या विभूषितम्

॥३०॥

भुजावूर्ध्वौ ततः कृत्वा प्ररुदंतं मुहुर्मुहुः ॥

तं तथा दुःखितं दृष्ट्वा दुःखितोऽहमथाभवम्

॥३१॥

सतां लक्षणमेतद्धि यद्दृष्ट्वा दुःखितं जनम् ॥

शतसंख्य तस्य भवेत्तथाहं विललाप ह

॥३२॥

अहिंसा सत्यमस्तेयं मानुष्ये सति दुर्लभम् ॥

ततस्तमुपसंगम्य पर्यपृच्छमहं तदा

॥३३॥

किमर्थं रोदिशि मुने शोके किं कारणं तव ॥

सुगुह्यमपि चेद्बूहि जिज्ञासा महती हि मे

॥३४॥

मुनिस्ततो मामवदद्भृगो निर्भाग्यवानहम् ॥

तेन रोदिमि मा पृच्छ दुर्भाग्यं चालपेद्धि कः

॥३५॥

तमहं विस्मयाविष्टः पुनरेवेदमब्रुवम् ॥

दुर्लभं भारते जन्म तत्रापि च मनुष्यता

॥३६॥

मनुष्यत्वे ब्राह्मणत्वं मुनित्वं तत्र दुर्लभम् ॥

तत्रापि च तपःसिद्धिः प्राप्यैतत्पंचकं परम्

॥३७॥

किमर्थं रोदिषि मुने विस्मयोऽत्र महान्मम ॥

एवं संपृच्छते मह्यमेतस्मिन्नेव चांतरे

॥३८॥

सुभद्रोनाम नाम्ना च मुनिस्तत्राभ्युपाययौ ॥

स हि मेरुं परित्यज्य ज्ञात्वा तीर्थस्य सारताम्

॥३९॥

कृताश्रमः पूजयति सदा स्तंभेश्वरं मुनिः ॥

सोऽप्येवं मामि वापृच्छन्मुनिं रोदनकारणम्

॥४०॥

अथाहाचम्य स मुनिः श्रूयतां कारणं मुनी ॥

अहं हि देवशर्माख्यो मुनिः संयतवाङ्मनाः

॥४१॥

निवसामि कृतस्थानो गंगासागरसंगमे ॥

तत्र दर्शेतर्पयामि सदैव च पितॄनहम्

॥४२॥

श्राद्धांते ते च प्रत्यक्षा ह्याशिषो मे वदंति च ॥

ततः कदाचित्पितरः प्रहृष्टा मामथाब्रवन्

॥४३॥

वयं सदात्र चायामो देवशर्मंस्तवांतिके ॥

स्थानेऽस्माकं कदाचित्त्वं न चायासि कुतः सुतः

॥४४॥

स्थानं दिदृक्षुस्तच्चाहं न शक्तोऽस्मि निवोदितुम् ॥

ततः परममित्युक्त्वा गतवान्पितृभिः सह

॥४५॥

पितॄणां मंदिरं पुण्यं भौमलोकसमास्थितम् ॥

तत्रतत्र स्थितश्चाहं तेजोमण्डलदुर्दृशान्

॥४६॥

दृष्ट्वाग्रतः पूजयाढ्यानपृच्छं स्वान्पितॄनिति ॥

के ह्यमी समुपायांति भृशं तृप्ता भृशार्चिताः ॥

भृशंप्रमुदिता नैव तथा यूयं यथा ह्यमी

॥४७॥

पितर ऊचुः

भद्रं ते पितरः पुण्याः सुभद्रस्य महामुनेः ॥

तर्पितास्तेन मुनिना महीसागरसंगमे

॥४८॥

सर्वतीर्थमयी यत्र निलीना ह्युदधौ मही ॥

तत्र दर्शे तर्पयति सुभद्रस्तानमून्सुत

॥४९॥

इत्याकर्ण्य वचस्तेषां लज्जितोऽहं भृशंतदा ॥

विस्मितश्च प्रणम्यैतान्पितॄन्स्वं स्थानमागतः

॥५०॥

यथा तथा चिंतितं च तत्र यास्याम्यहं श्फुटम् ॥

पुण्यो यत्रापि विख्यातो महीसागरसंगमः

॥५१॥

कृताश्रमश्च तत्रैव तर्पयिष्ये निजान्पितॄन् ॥

दर्शेदर्शे यथा चासौ स्तुत्यनामा सुभद्रकः

॥५२॥

किं तेन ननु जातेन कुलांगारेण पापिना ॥

यस्मिञ्जीवत्यवि निजाः पितरोऽन्यस्पृहाकराः

॥५३॥

इति संचिंत्य मुदितो रुचिं भार्यामथाब्रवुम् ॥

रुचे त्वया समायुक्तो महीसागगरसंगमम्

॥५४॥

गत्वा स्थास्यामि तत्रैव शीघ्रं त्वं सम्मुखीभव ॥

पतिव्रतासि शुद्धासिकुलीनासि यशस्विनि ॥

तस्मादेतन्मम शुभे कर्तुमर्हसि चिंतितम्

॥५५॥

रुचिरुवाच

हता तस्य जनिर्नाभूत्कथं पाप दुरात्मना

॥५६॥

श्मशानस्तंभ येनाहं दत्ता तुभ्यं कृतंत्वाय ॥

इह कंदफलाहारैर्यत्किं तेन न पूर्यते

॥५७॥

नेतुमिच्छसि मां तत्र यत्र क्षारोदकं सदा ॥

त्वमेव तत्र संयाहि नंदंतु तव पूर्वजाः

॥५८॥

गच्छ वा तिष्ठ वा वृद्ध वस वा काकवच्चिरम् ॥

तथा ब्रुवन्त्यां तस्यां तु कर्णावस्मि पिधाय च

॥५९॥

विपुलं शिष्यमादिश्य गृह एकोऽत्र आगतः ॥

सोऽहं स्नात्वात्र संतर्प्य पितॄञ्छ्रद्धापरायणः

॥६०॥

चिंतां सुविपुलां प्राप्तो नरके दुष्कृती यथा ॥

यदि तिष्ठामि चात्रैव अर्धदेहधरो ह्यहम्

॥६१॥

नरो हि गृहिणीहीनो अर्धदेह इति स्मृतः ॥

यथात्मना विना देहे कार्यं किंचिन्न सिध्यति

॥६२॥

अनयोर्हि फलं ग्राह्यं सारता नात्र काचन ॥

अर्धदेही च मनुजस्त्वसंस्पृश्यः सतांमतः

॥६३॥

अनयोर्हिफलं ग्राह्यं सारता नात्र काचन ॥

अर्धदेही च मनुजस्त्वसंस्पृश्यः सतांमतः

॥६४॥

औत्तानपादिरस्पृश्य उत्तमो हि सुरैः कृतः ॥

अथ चेत्तत्र संयामि न महीसागरस्ततः

॥६५॥

यामि वा तत्कथं पादौ चलतो मे कथंचन ॥

एतस्मिन्मे मनो विद्धं खिद्यतेऽज्ञानसंकटे

॥६६॥

अतोऽहमतिमुह्यामि भृशं शोचामि रोदिमि ॥

इतिश्रुत्वा वचस्तस्य भृशं रोमांचपूरितम्

॥६७॥

साधुसाध्वित्यथोवाच तं सुभद्रोऽप्यहं तथा ॥

दण्डवच्च प्रणमितो महीसागरसङ्गमम्

॥६८॥

चिन्तयावश्च मनसि प्रतीकारं मुनेरुभौ ॥

यो हि मानुष्यमासाद्य जलबुद्बुदभंगुरम्

॥६९॥

परार्थाय भवत्येष पुरुषोऽन्ये पुरीषकाः ॥

ततः संचिंत्य प्राहेदं सुभद्रो मुनिसत्तमम्

॥७०॥

मा मुने परिखिद्यस्व देवशर्मन्स्थिरो भव ॥

अहं ते नाशयिष्यामि शोकं सूर्यस्तमो यथा

॥७१॥

गमिष्याम्याश्रमं त्वं च नात्रापि परिहास्यते ॥

श्रृणु तत्कारणं तुभ्यं तर्पयिष्ये पितॄनहम्

॥७२॥

देवशर्मोवाच

एवं ते वदमानस्य आयुरस्तु शतं समाः ॥

यदशक्यं महत्कर्म कर्तुमिच्छसि मत्कृते

॥७३॥

हर्षस्थाने विषादश्च पुनर्मां बाधते श्रृणु ॥

अपि वाक्यं शुभं सन्तो न गृह्णन्ति मुधा मुने

॥७४॥

कथमेतन्महत्कर्म कारयामि मुधावद ॥

पुनः किंचित्प्रवक्ष्यामि यथा मे निष्कृतिर्भवेत्

॥७५॥

शापितोऽसि मया प्राणैर्यथा वच्मि तथा कुरु ॥

अहं सदा करिष्यामि दर्शे चोद्दिश्यते पितॄन्

॥७६॥

श्राद्धं गंगार्णवे चात्र मत्पितॄणां त्वमाचर ॥

अहं चैवापि तपसः संचितस्यापि जन्मना ॥

चतुर्भागं प्रदास्यामि एवमेवैतदाचर

॥७७॥

सुभद्र उवाच

यद्येवं तव संतोषस्त्वेवमस्तु मुनीश्वर ॥

साधूनां च यथा हर्षस्तथा कार्यं विजानता

॥७८॥

भृगुरुवाच

देवशर्मा ततो हृष्टो दत्त्वा पुण्यं त्रिवाचिकम् ॥

चतुर्थाशं ययौ धाम स्वं सुभद्रोऽपि च स्थितः

॥७९॥

एवंविधो नारदासौ मही सागरसंगमः ॥

यमनुस्मरतो मह्यं रोमांचोऽद्यापि वर्तते

॥८०॥

नारद उवाच

इति श्रुत्वा फाल्गुनाहं हर्षगद्गदया गिरा ॥

मृतोमृत इवा वोचं साधुसाध्विति तंभृगुम्

॥८१॥

यूयं वयं गमिष्यामो महीतीरं सुशोभनम् ॥

आवामीक्षावहे सर्वं स्थानकं तदनुत्तमम्

॥८२॥

मम चैवं वचः श्रुत्वा भृगुः सह मयययौ ॥

समस्तं तु महापुण्यं महीकूलं निरीक्षितम्

॥८३॥

तद्दृष्ट्वा चातिहृष्टोहमासं रोमांचकंचुकः ॥

अब्रवं मुनिशार्दूलं हर्षगद्गदया गिरा

॥८४॥

त्वत्प्रसादात्करिष्यामि भृगो स्थानमनुत्तमम् ॥

स्वस्थानं गम्यतां ब्रह्मन्नतः कृत्यं विचिंतये

॥८५॥

एवं भृगुं चास्मिविसर्जयित्वा कल्लोलकोलाहलकौतुकीतटे ॥

अथोपविश्येदमचिंतयं तदा किं कृत्यमात्मानमिवैकयोगी

॥८६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारीकाखंडे नारदार्जुनसंवादे महीसागरसंगमतीर्थमाहात्म्ये तृतीयोऽध्यायः ॥ ३ ॥