बालादित्यवृत्तान्तवर्णनम्
नारद उवाच
बहूदकस्य कुंडस्य तीरस्थं लिंगमुत्तमम् ॥
कपिलेश्वरमभ्यर्च्य नंदभद्रस्ततः सुधी
॥१॥प्रणम्य चाग्रतस्तस्थौ प्रबद्धकरसंपुटः ॥
संसारचरितैः किंचिद्दुःखी गाथां व्यगायत
॥२॥स्रष्टारमस्य जगतश्चेत्पश्यामि सदाशिवम् ॥
नानापृच्छाभिरथ तं कुर्यां नाथं विलज्जितम्
॥३॥अपूर्यमाणं तव किं जगत्संसृजनं विना ॥
निरीह बहुधा यत्ते सृष्टं भार्गववज्जगत्
॥४॥सचेतनेन शुद्धेन रागादिरहितेन च ॥
अथ कस्मादात्मसदृशं न सृष्टं निर्मितं जडम्
॥५॥निर्वैरेण समेनाथ सुखदुःखभवाभवैः ॥
ब्रह्मादिकीटपर्यन्तं किमेव क्लिश्यते जगत्
॥६॥कांश्चित्स्वर्गेथ नरके पातयंस्त्वं सदाशिव ॥
किं फलं समवाप्नोषि किमेवं कुरुषे वद
॥७॥इष्टैः पुत्रादिभिर्नाथ वियुक्ता मानवा ह्यमी ॥
क्रंदंति करुणासार किं घृणापि भवेन्न ते
॥८॥अतीव नोचितं सर्वमेतदीश्वर सर्वथा ॥
यत्ते भक्ताः समं पापैर्मज्जंते दुःखसागरे
॥९॥एवंविधेन संसारचारित्रेण विमोहिताः ॥
स्थानां तरं न यास्यामि भोक्ष्ये पास्यामि नोदकम्
॥१०॥मरणांतमेव यास्यामि स्थास्ये संचिंतयन्नदः ॥
स एवं विमृशन्नेव नंदभद्रः स्वयं स्थितः
॥११॥ततश्चतुर्थे दिवसे बहूकतटे शुभे ॥
कश्चिद्बालः सप्तवर्षः पीडापीडित आययौ
॥१२॥कृशोतीव गलत्कुष्ठी प्रमुह्यंश्च पदेपेद ॥
नंदभद्रमुवाचेदं कृच्छ्रात्संस्तभ्य बालकः
॥१३॥अहो सुरूपसर्वांग कस्माद्दुःखी भवानपि ॥
ततोस्य कारणं सर्वं व्याचष्ट नंदभद्रकः
॥१४॥श्रुत्वा तत्कारणं सर्वं बालो दीनमना ब्रवीत् ॥
अहो हा कष्टमत्युग्रं बुधानां यदबुद्धिता
॥१५॥संपूर्णेंद्रियगात्रा यन्मर्तुमिच्छंति वै वृथा ॥
मुहूर्ताद्ध्यत्र खट्वांगो मोक्षमार्गमुपागतः
॥१६॥तदहो भारतं खंडं सत्यायुषि त्यजेद्धि कः ॥
अहमेव दृढो मन्ये पितृभ्यां यो विवर्जितः
॥१७॥अशक्तश्चलितुं वापि मर्तुमिच्छामि नापि च ॥
सर्वे लाभाः सातिमाना इति सत्या बत श्रुतिः
॥१८॥संतोषोऽप्युचितस्तुभ्यं देहं यस्य दृढं त्विदम् ॥
शरीरं नीरुजं चेन्मे भवेदपि कथंचन
॥१९॥क्षणेक्षणे च तत्कुर्यां भुज्यते यद्युगेयुगे ॥
इंद्रियाणि वशे यस्य शरीरं च दृढं भवेत्
॥२०॥सोऽप्यन्यदिच्छते चेच्च कोऽन्यस्तस्मादचेतनः ॥
शोकस्थानसहस्राणि हर्षस्थानशतानि च
॥२१॥दिवसे दिवसे मूढमावशंति न पंडितम् ॥
न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु
॥२२॥मूलघातिषु सज्जंते बुद्धिमंतो भवद्विधाः ॥
अष्टांगां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम
॥२३॥श्रुतिस्मृत्यविरुद्धा सा बुद्धिस्त्वय्यस्ति निर्मला ॥
अथ कृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च
॥२४॥शारीरमानसैर्दुःखैर्न सीदंति भवद्विधाः ॥
नाप्राप्यमभिवांछंति नष्टं नेच्छंति शोचितुम्
॥२५॥आपत्सु च न मुह्यंति नराः पंडितबुद्धयः ॥
मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्पितं जगत्
॥२६॥तयोर्व्याससमासाभ्यां शमोपायमिमं श्रृणु ॥
व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविसर्जनात्
॥२७॥चतुर्भिः कारणैर्दुःखं शीरीरं मानसं च यत् ॥
मानसं चाप्यप्रियस्य संयोगः प्रियवर्जनम्
॥२८॥द्विप्रकारं महाकष्टं द्वयोरेतदुदाहृतम् ॥
मानसेन हि दुःखेन शरीरमुपतप्यते
॥२९॥अयःपिंडेन तप्तेन कुंभसंस्थमिवोदकम् ॥
तदाशु प्रति काराच्च सततं च विवर्जनात्
॥३०॥व्याधेराधेश्च प्रशमः क्रियायोगद्वयेन तु ॥
मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवांबुना
॥३१॥प्रशांते मानसे ह्यस्य शारीरमुपशाम्ति ॥
मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते
॥३२॥स्नेहाच्च सज्जनो नित्यं जन्तुर्दुःखमुपैति च ॥
स्नेहमूलानि दुःखानि स्नेहजानि भायानि च
॥३३॥शोकहर्षौ तथायासः सर्वं स्नेहात्प्रवर्तते
॥३४॥स्नेहात्करणरागश्च प्रजज्ञे वैषयस्तथा ॥
अश्रेयस्कावुभावतौ पूर्वस्तत्र गुरुः स्मृतः
॥३५॥त्यागी तस्मान्न दुःखी स्यान्नर्वैरो निरवग्रहः ॥
अत्यागी जन्ममरणे प्राप्नोतीह पुनःपुनः
॥३६॥तस्मात्स्नेहं न लिप्सेन मित्रेभ्यो धनसंचयात् ॥
स्वशरीरसमुत्थं च ज्ञानेन विनिर्वतयेत्
॥३७॥ज्ञानान्वितेषु सिद्धेषु शास्त्रूज्ञेषु कृतात्मसु ॥
न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम्
॥३८॥रागाभिभूतः पुरुषः कामेन परिकृष्यते ॥
इच्छा संजायते चास्य ततस्तृष्णा प्रवर्धते
॥३९॥तृष्णा हि सर्वपापिष्ठा नित्योद्वेगकरी मता ॥
अधर्मबहुला चैव घोररूपानुबंधिनी
॥४०॥या दुस्त्यजा दुर्मतिभिर्या न जीर्यतः ॥
यासौ प्राणांतिको रोगस्तां तृष्णां त्यजतः सुखम्
॥४१॥अनाद्यंता तु सा तृष्णा ह्यंतर्देहगता नृणाम् ॥
विनाशयति संभूता लोहं लोहमलो यथा
॥४२॥यथैवैधः समुत्थेन वह्निना नाशमृच्छति ॥
तथाऽकृतात्मा लोबेन स्वोत्पन्नेन विनश्यति
॥४३॥तस्माल्लोभो न कर्तव्यः शरीरे चात्मबंधुषु ॥
प्राप्तेषु व न हृष्येत नाशो वापि न शोचयेत्
॥४४॥नंदभद्र उवाच
अहो बाल न बालस्त्वं मतो मे त्वां नमाम्यहम् ॥
त्वद्वाक्यैरतितृप्तोऽहं त्वां तु प्रक्ष्यामि किंचन
॥४५॥कामक्रोधावहंकारमिंद्रियाणि च मानवाः ॥
निंदंति तत्र मे नित्यं विवक्षेयं प्रजायते
॥४६॥अहमेष ममेदं च कार्यमीदृशकस्त्वहम् ॥
इत्यादि चात्मविज्ञानमहंकार इति स्मृतः
॥४७॥परिहार्यः य चेत्तं च विनोन्मत्तः प्रकीर्यते ॥
कामोऽभिलाष इत्युक्तः सं चेत्पुंसा विवर्ज्यते
॥४८॥कथं स्वर्गो मुमुक्षा वा साध्यते दृषदा यथा ॥
क्रोधो वा यदि संत्याज्यस्ततः शत्रुक्षयः कथम्
॥४९॥बाह्यानामांतराणां वा विना तं तृणवद्विदुः ॥
इंद्रियाणि निगृह्यैव दुष्टानीति निपीडयेत्
॥५०॥कथं स्याद्धर्मश्रवणं कथं वा जीवनं भवेत् ॥
एतस्मिन्मे मनो विद्धंखिद्यतेऽज्ञानसंकटे
॥५१॥तथा कस्मादिदं सृष्टं जडं विश्वं चिदात्मना ॥
एवं यद्बहुधा क्लेशः पीड्यते हा कुतस्त्विदम्
॥५२॥बाल उवाच
सम्यगेतद्यथा पृष्टं यत्र मुह्यंति जंतवः ॥
श्रृण्वेकाग्रमना भूत्वा ज्ञातं द्वैपायनान्मया
॥५३॥प्रकृतिः पुरुषश्चैव अनादी श्रृणुमः पुरा ॥
साधर्म्येणावतिष्ठेते सृष्टेः प्रागजरामरौ
॥५४॥ततः कालस्वबावाभ्यां प्रेरिता प्रकृतिः पुरा ॥
पुंसः संयोगमैच्छत्सा तदभावात्प्रकुप्यत
॥५५॥ततस्तमोमयी सा च लीलया देववीक्षिता ॥
राजसी समभूद्दूष्टा सात्त्विकी समजायत
॥५६॥एवं त्रिगुणतां याता प्रकृतिर्देवदर्शनात् ॥
तां समास्थाय परमस्त्रिमूर्तिः समजायत
॥५७॥तस्याः प्रोच्चारणार्थं च प्रवृत्तः स्वांशतस्ततः ॥
असूयत महत्तत्त्वं त्रिगुणं तद्विदुर्बुधाः
॥५८॥अहंकार स्ततो जातः सत्त्वराजसतामसः ॥
तमो रजस्त्वमापद्य रजः सत्त्वगुणं नयेत्
॥५९॥शुद्धसत्त्वे ततो मोक्षं प्रवदंति मनीषिणः ॥
तमसो रजसस्त स्मात्संशुद्ध्यर्थं च सर्वशः
॥६०॥जीवात्मसंज्ञान्स्वीयांशान्व्यभजत्परमेश्वरः ॥
तावंतस्ते च क्षेत्र्ज्ञा देहा यावंत एव हि
॥६१॥निःसरंति यथा लोहात्तप्तल्लिंगात्स्फुलिंगकाः ॥
तन्मात्रभूतसर्गोयमहंकारात्तु तामसात्
॥६२॥इंद्रियाणां सात्त्विकाच्च त्रिगुणानि च तान्यपि ॥
एतैः संसिद्धयंत्रेण सच्चिदानन्दवीक्षणात्
॥६३॥रजस्तमश्च शोध्यंते सत्त्वेनैव मुमुक्षुभिः ॥
तस्मात्कामं च क्रोधं च इंद्रियाणां प्रवर्तनम्
॥६४॥अहंकारं च संसेव्य सात्त्विकीं सिद्धिमश्नुते ॥
राजसास्तामसाश्चैव त्याज्याः कामादयस्त्वमी
॥६५॥सात्त्विकाः सर्वदा सेव्याः संसारविजिगीषुभिः ॥
गुणत्रयस्य वक्ष्यामि संक्षेपाल्लक्षणं तव
॥६६॥सास्त्राभ्यासस्ततो ज्ञानं शौचमिंद्रियनिग्रहः ॥
धर्मक्रियात्मचिंता च सात्त्विकं गुण लक्षणम्
॥६७॥अन्यायेन धनादानं तंद्री नास्तिक्यमेव च ॥
क्रौर्यं च याचकाद्यं च तामसं गुणलक्षणम्
॥६८॥तस्माद्बुद्धिमुकैस्त्वतैः सात्त्विकैर्देवतां भजेत् ॥
राजसैर्मानवत्वं च तामसैः स्थाणुयोनिता
॥६९॥बुद्ध्याद्यैरेव मुक्तिः स्यादेतैरेव च यातना
॥७०॥अमीषां चाप्य भावे वै न किंचिदुपपद्यते ॥
कलादो हि कलादीनां सुवर्णं शोधयेद्यथा
॥७१॥तथा रजस्तमश्चैव संशोध्ये सात्त्विकैर्गुणैः ॥
अस्मादेव गुणानां च समवायादनादिजात्
॥७२॥सुखिनो दुःखिनश्चैव प्राणिनः शास्त्रदर्शिनः ॥
अष्टाविंशतिलक्षैश्च गुणमेकैकमीश्वरः
॥७३॥व्यभजच्चतुरा शीतिलक्षास्ता जीवयोनयः ॥
सकाशान्मनसस्तद्वदात्मनः प्रभवंति हि
॥७४॥ईश्वरांशाश्च ते सर्वे मोहिताः प्राकृतैर्गुणैः ॥
क्लेशानासादयंत्येव यथैवाधिकृता विभोः
॥७५॥अन्नानां पयसां चापि जीवानां चाथ श्रेयसे ॥
मानुष्यमाहुस्तत्त्वज्ञाः शिवभावेन भावितम्
॥७६॥नंदभद्र उवाच
एवमेतत्किं तु भूयः प्रक्ष्याम्येतन्महामते ॥
ईश्वराः सर्वदातारः पूज्यंते यैश्च देवताः
॥७७॥स्वभक्तांस्तान्न दुःखेभ्यः कस्माद्रक्षंति मानवान् ॥
विशेषात्केपि दृश्यंते दुःखमग्नाः सुरान्रताः
॥७८॥इति मे मुह्यते बुद्धिस्त्वं वा किं बाल मन्यसे
॥७९॥बाल उवाच
अशुचिश्च शुचिश्चापि देवभक्तो द्विधा स्मृतः ॥
कर्मणा मनसा वाचा तद्रतो भक्त उच्यते
॥८०॥अशुचिर्देवताश्चैव यदा पूजयते नरः ॥
तदा भूतान्या विशंति स च मुह्यति तत्क्षणात्
॥८१॥विमूढश्चाप्टयकार्याणि तानि तानि निषेवते ॥
ततो विनश्यति क्षिप्रं नाशुचिः पूजयेत्ततः ॥
शुचिर्वाभ्यर्चयेद्यश्च तस्य चेदशुभं भवेत्
॥८२॥तस्य पूर्वकृतं व्यक्तं कर्मणां कोटि मुच्यते ॥
महेश्वरो ब्रह्महत्याभयाद्यत्र ततस्ततः
॥८३॥सस्नौ तीर्थेषु कस्माच्च इतरो मुच्यते कथम् ॥
अम्बरीषसुतां हृत्वा पर्वतान्नारदात्तथा
॥८४॥सीतापहारमापेदे रामोऽन्यो मुच्यते कथम् ॥
ब्रह्मापि शिरसश्छेदं कामयित्वा सुतामगात्
॥८५॥इंद्रचंद्ररविविष्णुप्रमुखाः प्राप्नुयुः कृतम् ॥
तस्मादवश्यं च कृतं भोज्यमेव नरैः सदा
॥८६॥मुच्यते कोऽपि स्वकृतान्नैवेति श्रुतिनिर्णयः ॥
किं तु देवप्रसादेन लभ्यमेकं सुरव्रतैः
॥८७॥बहुभिर्जन्मभिर्भोज्यं भुज्येतैकेन जन्मना ॥
तच्च भुक्त्वात तस्त्वर्थो भवेदिति विनिश्चयः
॥८८॥ये तप्यंते गतैः पापैः शुचयो देवताव्रताः ॥
इह ते पुत्रपौत्रैश्च मोदंतेऽमुत्र चेह च
॥८९॥तस्माद्देवाः सदा पूज्याः शुचिभिः श्रद्धयान्वितैः ॥
प्रकृतिः शोधनीया च स्ववर्णोदितकर्मभिः
॥९०॥स्वनुष्ठितोऽपि धर्मः स्यात्क्लेशायैव विनाशिवम् ॥
दुराचारस्य देवोपि प्राहेति भगवान्हरः
॥९१॥भोक्तव्यं स्वकृतं तस्मात्पूजनीयः सदाशिवः ॥
स्वाचारेण परित्याज्यौ रागद्वेषाविदं परम्
॥९२॥नन्दभद्र उवाच
शुद्धप्रज्ञ किमेतच्च पापिनोऽपि नरा यदा ॥
मोदमानाः प्रदृश्यन्ते दारैरपि धनैरपि
॥९३॥बाल उवाच
व्यक्तं तैस्तमसा दत्तं दानं पूर्वेषु जन्मसु ॥
रजसा पूजितः शंभुस्तत्प्राप्तं स्वकृतं च तैः
॥९४॥किं तु यत्तमसा कर्म कृतं तस्य प्रभावतः ॥
धर्माय न रतिर्भूयात्ततस्तेषां विदांवर
॥९५॥भुक्त्वा पुण्यफलं याति नरकं संशयः ॥
अस्मिंश्च संशये प्रोक्तं मार्कंडेयेन श्रूयते
॥९६॥इहैवैकस्य नामुत्र अमुत्रैकस्य नो इह ॥
इह चामुत्र चैकस्य नामुत्रैकस्य नो इह
॥९७॥पूर्वोपात्तं भवेत्पुण्यं भुक्तिर्नैवार्जयन्त्यपि ॥
इह भोगः स वै प्रोक्तो दुर्भगस्याल्पमेधसः
॥९८॥पूर्वोपात्तं यस्य नास्ति तपोभिश्चार्जयत्यपि ॥
परलोके तस्य भोगो धीमतः स क्रियात्स्फुटम्
॥९९॥पूर्वोपात्तं यस्य नास्ति पुण्यं चेहापि नार्जयेत् ॥
ततश्चोहामुत्र वापि भो धिक्तं च नराधमम्
॥१००॥इति ज्ञात्वा महाभागत्यक्त्वा शल्यानि कृत्स्नशः ॥
भज रुद्रं वर्णधर्मं पालयास्मात्परं न हि
॥१०१॥योहि नष्टेष्वभीष्टेषु प्राप्तेष्वपि च शोचति ॥
तृप्येत वा भवेद्बन्धो निश्चितं सोऽन्यजन्मनः
॥१०२॥नन्दभद्र उवाच
नमस्तुभ्यमबालाय बालरूपाय धीमते ॥
को भवांस्तत्त्वतो वेत्तुमिच्छामि त्वां शुचिस्मितम्
॥१०३॥बहवोऽपि मया वृद्धा दृष्टाश्चोपासिताः सदा ॥
तेषामीदृशका बुद्धिर्न दृष्टा न श्रुतामया
॥१०४॥येन मे जन्मसंदेहा नाशिता लीलयैव च ॥
तस्मात्सामान्यरूपस्त्वं निश्चितं न मतं मम
॥१०५॥बाल उवाच
महदेतत्समाख्येयमेकाग्रः श्रृणु तत्त्वतः ॥
इतः सप्ताधिके चापि सप्तमे जन्मनि त्वहम्
॥१०६॥वैदिशे नगरे विप्रो नाम्नाऽसं धर्मजालिकः ॥
वेदवेदांगतत्त्वत्रः स्मृतिशास्त्रार्थविद्वरः
॥१०७॥व्याख्याता धर्मशास्त्राणां यथा साक्षाद्बृहस्पतिः ॥
किं त्वहं विविधान्धर्माल्लोंकानां वर्णये भृशम्
॥१०८॥स्वयं चातिदुराचारः पापिनामपि पापराट् ॥
मंसाशी मद्यसेवी च परदाररतः सदा
॥१०९॥असत्यभाषी दम्भीच सदा धर्मध्वजी खलः ॥
लोभी दुरात्मा कथको न कर्ता कर्हिचित्क्वचित्
॥११०॥यस्माज्जालिकवज्जालं लोकेभ्योऽहं क्षिपामि च ॥
तत्त्वज्ञा मां ततः प्राहुर्धर्मजालिक इत्युत
॥१११॥सोऽहं तैर्बहुभिश्चीर्णैः पातकैरंत आगते ॥
मृतो गतो यमस्थानं पातितः कूटशाल्मलीम्
॥११२॥यमदुतैस्ततः कृष्टः स्मार्यमामः स्वचेष्टितम् ॥
खड्गैश्च कृत्यमानोऽहं जीवामि प्रमियामि च
॥११३॥आत्मानं बहुधा निंदञ्छाश्वतीर्न्यवसं समाः ॥
नरके या मतिर्भूयाद्धर्मं प्रति प्रपीडतः
॥११४॥सा चेन्मुहूर्तमात्रं स्यादपि धन्यस्ततः पुमान् ॥
नमोनमः कर्मभूम्यै सुकृतं दुष्कृतं च वा
॥११५॥यस्यां मुहूर्तमात्रेण युगैरपि न नश्यति ॥
ततो विपश्चिज्जनको मोक्षयामास नारकात्
॥११६॥तैः सहाहं प्रमुक्तश्च कथंचिदवपीडितः ॥
स्थाणुत्वमनुभूयाथ क्लेशानासाद्य भूरिशः
॥११७॥कीटोहमभवं पश्चात्तीरे सारस्वते शुभे ॥
तत्र मार्गे सुखमिव संसुप्तोहं यदृच्छया
॥११८॥आगच्छतो रथस्यास्य शब्दमश्रौषमुन्नतम् ॥
तं मेघनिनदं श्रुत्वा भीतोहं सहसा जवात्
॥११९॥मार्गमुत्सृज्य दूरेण प्रपलायनमाचरम् ॥
एतस्मिन्नंतरे व्यासस्तत्र प्राप्तो यदृच्छया
॥१२०॥स मामपश्यत्त्रस्तं च कृपया संयुतो मुनिः ॥
यन्मया सर्वलोकानां नानाधर्माः प्रकीर्तिताः
॥१२१॥विप्रजन्मनि तस्यैव प्रभावाद्व्याससंगमः ॥
ततः सर्वरुतज्ञो मां प्राहार्च्यः कीटभाषया
॥१२२॥किमेवं नश्यसे कीट कस्मान्मृत्योर्बिभेषि च ॥
अहो समुचिता भीतिर्मनुष्यस्य कुतस्तव
॥१२३॥इत्युक्तो मतिमान्पूर्वपुण्याद्व्यासं तदोचिवान् ॥
न मे भयं जगद्वंद्य मृत्योरस्मात्कथंचन
॥१२४॥एतदेव भयं मान्य गच्छेयमधमां गतिम् ॥
अस्या अपि कुयोनेश्च संत्यन्याः कोटिशोऽधमाः
॥१२५॥तासु गर्भादिकक्लेशभीतस्त्रस्तोऽस्मि नान्यथा
॥१२६॥व्यास उवाच
मा भयं कुरु सर्वाभ्यो योनिभ्यश्च चिरादिव ॥
मोक्षयिष्यामि ब्राह्मण्यं प्रापयिष्यामि निश्चितम्
॥१२७॥इत्युक्तोहं कालियेन तं प्रणम्य जगद्गुरुम् ॥
मार्गमागत्य चक्रेण पीडितो मृत्युमागमम्
॥१२८॥ततः काकश्रृगालादियोनिष्वस्मि यदाऽभवम् ॥
तदातदा समागम्य व्यासो मां स्मारयच्च तत्
॥१२९॥ततो बहुविधा योनीः परिक्रम्यास्मि कर्षितः ॥
ब्राह्मणस्य च गेहेस्यां योनौ जातोऽतिदुःखितः
॥१३०॥ततो जन्मप्रभृत्यस्मि पितृभ्यां परिवर्जितः ॥
गलत्कुष्ठी महापीडामेतां योऽनुभवामि च
॥१३१॥ततो मां पंचमे वर्षे व्यास आगत्य जप्तवान् ॥
कर्णे सारस्वतं मंत्रं तेनाहं संस्मरामि च
॥१३२॥अनधीतानि शास्त्राणि वेदान्धर्मांश्च कृत्स्नशः ॥
उक्तं व्यासेन चेदं मे गच्छ क्षेत्रं गुहस्य च ॥
तत्र त्वं नंदभद्रं च आश्वासयमहामतिम्
॥१३३॥त्यत्क्वा बहूदके प्राणानस्थिक्षेपं महीजले ॥
काराय्य त्वं ततो भावी मैत्रेय इति सन्मुनिः
॥१३४॥गमिष्यसि ततो मोक्षमिति मां व्यास उक्तवान् ॥
आगतश्च ततश्चात्र वाहीकेभ्योऽयोऽतिक्लेशतः
॥१३५॥इति ते कथितं सर्वमात्मनश्चरितं मया ॥
पापमेवंविधं कष्टं नंदभद्र सदा त्यज
॥१३६॥नंदभद्र उवाच
अहो महाद्भुतं तुभ्यं चरितं येन मे हृदि ॥
भूयः शतगुणं जातं धर्मायदृढमानसम्
॥१३७॥किं तु त्वयोक्तधर्मस्य कर्तुकामोस्मि निष्कृतिम् ॥
धर्मं स्मर भवांस्तस्मात्किंचिदादिश निश्चितम्
॥१३८॥बाल उवाच
अत्र तीर्थे च सप्ताहं निराहारस्त्वहं स्थितः ॥
सूर्यमंत्राञ्जमिष्यामि त्यक्ष्यामि च ततस्त्वसून्
॥१३९॥ततो बर्करिकातीर्थे दग्धव्योहं त्वया तटे ॥
अस्थीनि सागरे चापि मम क्षेप्याणि चात्र हि
॥१४०॥यदि सापह्नवं चित्तं मय्यतीव तवास्ति चेत् ॥
ततस्त्वां गुरुकार्यार्थमादेक्ष्यामि श्रृणुष्व तत्
॥१४१॥अस्मिन्बहूदके तीर्थे यत्र प्राणांस्त्यजाम्यहम् ॥
तत्र मन्नामचिह्नस्ते संस्थाप्यो भास्करो विभुः
॥१४२॥आरोग्यं धनधान्यं च पुत्रदारादिसंपदः ॥
भास्करो भगवांस्तुष्टो दद्यादेतच्छ्रुतेर्वचः
॥१४३॥सविता परमो देवः सर्वस्वं वा द्विजन्मनाम् ॥
वेदवेदांगगीतश्च त्वमप्येनं सदा भज
॥१४४॥बहूदकमिदं कुंडं संसेव्यं च सदा त्वया ॥
माहात्म्यमस्य वक्ष्यामि संक्षेपाद्व्यास सूचितम्
॥१४५॥बहूदके कुंडवरे स्नाति यो विधिवन्नरः ॥
आरोग्यं धनधान्याद्यं तस्य स्यात्सर्वजन्मसु
॥१४६॥बहूदके च यः स्नात्वा सप्तम्यां माघमासके ॥
दद्यात्पिंडं पितॄणां च तेऽक्ष्यां तृप्तिमाप्नुयुः
॥१४७॥बहूदकस्य तीरे यः शुचिर्यजति वै क्रतुम् ॥
शतक्रतुफलं तस्य नास्ति काचिद्विचारणा
॥१४८॥अत्र यस्त्यजति प्राणान्बहूदकतटे नरः ॥
मोदते सूर्यलोकेऽसौ धर्मिणां च सुतो भवेत्
॥१४९॥बहूदकस्य तीरे च यः कुर्य्याज्जपसाधनम् ॥
सर्वं लक्षगुणं प्रोक्तं जपो होमश्च पूजनम्
॥१५०॥बहूदकस्य तीरे च द्विजमेकं च भोजयेत् ॥
यो मिष्टान्नेन तस्य स्याद्विप्रकोटिश्च भोजिता
॥१५१॥बहूदकस्य तीरे या नारी गौरिणिकाः शुभाः ॥
संभोजयति तस्याश्च कुर्यात्सुस्वागतं ह्युमा
॥१५२॥बहूदकस्य तीरे च यः कुर्याद्योगसाधनम् ॥
षण्मासाभ्यन्तरे सिद्धिर्भवेत्तस्य न संशयः
॥१५३॥बहूदकस्य तीरे च प्रेतानुद्दिश्य दीयते ॥
यत्किंचिदक्षयं तेषामुपतिष्ठेन्न चान्यथा
॥१५४॥स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ॥
कृतं बहूदकतटे सर्वं स्यात्सुमहात्फलम्
॥१५५॥त्वयैतद्धृदि संधार्य फलं व्यासेन सूचितम् ॥
बहूदकस्य कुंडस्य नंदभद्र महामते
॥१५६॥इत्युक्त्वा सोऽभवन्मौनी स्नात्वा कुंडे ततः शुचिः ॥
तीरे प्रस्तरमाश्रित्य स्वयं मंत्राञ्जाप ह
॥१५७॥श्रीनारद उवाच
ततः स सप्तरात्रांते जहौ बालो निजानसून् ॥
संस्कारितो यथोक्तं च नंदभद्रेण ब्राह्मणैः
॥१५८॥यत्र बालः स च प्राणाञ्जहौ जपपरायणः ॥
बालादित्यमिति ख्यातं तत्रास्थापयत प्रभुम्
॥१५९॥बहूदके च यः स्नात्वा बालादित्यं प्रपूजयेत् ॥
तस्य स्याद्भास्करस्तुष्टो मोक्षोपायं च विंदति
॥१६०॥नंदभद्रो ऽप्यथान्यस्यां भार्यायामपरान्सुतान् ॥
उत्पाद्यात्मसमन्धीमाञ्छिवसूर्यपरायणः
॥१६१॥रुद्रदेहं ययौ पार्थ पुनरावृत्तिदुर्लभम् ॥
एवमेतन्महाकुंडं बहूदकमिति स्मृतम्
॥१६२॥अस्य तीरे स्वमंशं च वल्लीनाथः प्रमेक्ष्यति ॥
दत्तात्रेयस्य यो योगी ह्यवतारो भविष्यति
॥१६३॥अर्चयित्वा च तं देवं योगसिद्धिमवाप्नुयात् ॥
पशूनामृद्धिमाप्नोति गोशरण्यो ह्यसौ प्रभुः
॥१६४॥पश्चिमायां बुधसुतस्तथा क्षेत्रं स भारत ॥
पुरूरवादित्यमिति स्थापयामास पार्थिवः
॥१६५॥सर्वकामप्रदश्चासौ भट्टदित्यसमो रिवः ॥
बहूदकक्षेत्रसमं तस्य क्षेत्रं च भारत
॥१६६॥अस्य तीर्थस्य माहात्म्यं जप्तव्यं कर्णमूलके ॥
पुत्रस्य वापि शिष्यस्य न कथंचन नास्तिकः
॥१६७॥श्रृणोतीदं श्रद्धया यस्तस्य तुष्येश्च भास्करः ॥
धारयन्हृदये मोक्षंमुच्यते भवसागरात्
॥१६८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बहूदकमाहात्म्य बालादित्यवृत्तान्तवर्णनंनाम षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥