मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ६४

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 64

भीमेश्वरमाहात्म्यवर्णनम्

एवं तत्र स्थिते तीरे देव्याराधनतत्परे ॥

सप्तलिंगार्चनरते भीमनन्दननन्दने

॥१॥

ततः कालेन केनापि पांडवा द्यूतनिर्जिताः ॥

तत्राजग्मुश्च क्रमतस्तीर्थस्नानकृते भुवम्

॥२॥

प्रागेव चंडिकां देवीं क्षेत्रादीशानतः स्थिताम् ॥

आसेदुर्मार्गखिन्नास्ते द्रौपदीपंचमास्तदा

॥३॥

तत्रैव चोपविष्टोऽभूत्तदानीं चंडिकागणः ॥

बर्बरीकश्च तान्वीरान्समायातानपश्यत

॥४॥

परं नासौ वेद पाण्डून्पाण्डवास्तं च नो विदुः ॥

आजन्म यस्मान्नैवाभूत्पाण्डूनां चास्य संगमः

॥५॥

ततः प्रविश्य वै तस्मिन्देवीमासाद्य पांडवाः ॥

पिंडकाद्यं तत्र मुक्त्वा तृषा प्रैक्षि जलं तदा

॥६॥

ततो भीमः कुण्डमध्यं जलं पातुं विवेश ह ॥

प्रविशंतं च तं प्राह युधिष्ठिर इदं वचः

॥७॥

उद्धृत्य भीम तोयं त्वं पादौ प्रक्षाल्य भो बहिः ॥

ततः पिबाऽन्यथा दोषो महांस्त्वामुपपत्स्यते

॥८॥

एतद्राज्ञो वचो भीमस्तृषा व्याकुललोचनः ॥

अश्रुत्वैव विवेशासौ कुण्डमध्ये जलेच्छया

॥९॥

स च दृष्ट्वा जलं पातुं तत्रैव कृतनिश्चयः ॥

मुखं हस्तौ च चरणौ क्षालयामास शुद्धये

॥१०॥

यतः पीतं जलं पुंसामप्रक्षाल्य च यद्भवेत् ॥

प्रेताः पिशाचास्तद्रूपं संक्रम्य प्रपिबंति तत्

॥११॥

एवं प्रक्षालयाने च पादौ तत्र वृकोदरे ॥

उपरिस्थस्तदा प्राह सत्यं सुहृदयो वचः

॥१२॥

दुर्मते भोः किमेतत्त्वं कुरुषे पापनिश्चयः ॥

देवीकुण्डे क्षालयसि मुखं पादौ करौ च यत्

॥१३॥

यतो देवी सदानेन जलेन स्नाप्यते मया ॥

दत्र प्रक्षिपंस्तोयं मलपापान्न बिभ्यसि

॥१४॥

मलाक्ततोयं यन्नाम अस्पृश्यं तन्नरैरपि ॥

कुतो देवैश्च तत्पापं स्पृश्यते तत्त्वतो वद

॥१५॥

शीघ्रं च त्वं निःसरास्मात्कुण्डाद्भूत्वा बहिः पिब ॥

यद्येवं पाप मूढोऽसि तीर्थेषु भ्रमसे कुतः

॥१६॥

भीम उवाच

किमेतद्भाषसे क्रूर परुषं राक्षसाधम ॥

यतस्तोयानि जंतूनामुपभो गार्थमेव हि

॥१७॥

तीर्थेषु कार्यं स्नानं चेत्युक्तं मुनिवरैरपि ॥

अंगप्रक्षालनं स्नानमुक्तं मां निंदसे कुतः

॥१८॥

यदि न क्रियते पानमंगप्रक्षालनं तथा ॥

तत्किमर्थं पूर्तधर्माः क्रियन्ते धर्मशालिभिः

॥१९॥

सुहृदय उवाच

स्नातव्यं तीर्थमुख्येषु सत्यमेतन्न संशयः ॥

चरेषु किं तु संविश्य स्थावरेषु बहिः स्थितः

॥२०॥

स्थावरेष्वपि संविश्य तन्न स्नानं विधीयते ॥

न यत्र देवस्नानार्थं भक्तैः संगृह्यते जलम्

॥२१॥

यच्च हस्तशतादूर्ध्वं सरस्तत्र विधीयते ॥

संवेशेऽपि क्रमश्चायं पादौ प्रक्षाल्य यद्बहिः

॥२२॥

ततः स्नानं प्रकर्तव्यमन्यथा दोष उच्यते ॥

किं न श्रुतस्त्वया प्रोक्तः श्लोकः पद्मभुवा पुरा

॥२३॥

मलं मूत्रं पुरीषं च श्लेष्म निष्ठीनाश्रु च ॥

गंडूषाश्चैव मुञ्चति ये ते ब्रह्महणैः समाः

॥२४॥

तस्मान्निःसर शीघ्रं त्वं यद्येवमजितेन्द्रियः ॥

तत्किमर्थं दुराचार तीर्थेष्वटसि बालिश

॥२५॥

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥

निर्विकाराः क्रियाः सर्वाः स हि तीर्थफलं लभेत्

॥२६॥

भीम उवाच

अधर्मो वापि धर्मोऽस्तु निर्गंतुं नैव शक्नुयाम् ॥

क्षुधा तृषा मया नित्यं वारितुं नैव शक्यते

॥२७॥

सुहृदय उवाच

जीवितार्थे भवान्कस्मात्पापं प्रकुरुते वद ॥

किं न श्रुतस्त्वया श्लोकः शिबिना यः समीरितः

॥२८॥

मुहूर्तमपि जीवेत नरः शुक्लेन कर्मणा ॥

न कल्पमपि जीवेत लोकद्वयविरोधिना

॥२९॥

भीम उवाच

काकारवेण ते मह्यं कर्णौ बधिरतां गतौ ॥

पास्याम्येव जलं चात्र कामं विलप शुष्य वा

॥३०॥

सुहृदय उवाच

क्षत्रियाणां कुले जातस्त्वहं धर्माभिरक्षिणाम् ॥

तस्मात्ते पातकं कर्तुं न दास्यामि कथंचन

॥३१॥

तद्वराकाथ शीघ्रं त्वमस्मात्कुंडाद्विनिःसर

॥३२॥

इष्टकाशकलैः शीघ्रं चूर्णयिष्येऽन्यथा शिरः ॥

इत्युक्त्वा चेष्टकां गृह्य मुमोच शिरसः प्रति

॥३३॥

भीमश्च वंचयित्वा तामुत्प्लुत्य बहिराव्रजत् ॥

भर्त्सयंतौ ततश्चोभावन्योन्यं भीमविक्रमौ

॥३४॥

युयुधाते प्रलंबाभ्यां बाहुभ्यां युद्धपारगौ ॥

व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ

॥३५॥

मुष्टिभिः पार्ष्णिघातैश्च जानुभिश्चाभिजघ्नतुः ॥

ततो मुहूर्तात्कौरव्यः पर्यहीयत पांडवः

॥३६॥

हीयमानस्ततो भीम उद्यतोऽभूत्पुनः पुनः ॥

अहीयत ततोऽप्यंग ववृधे बर्बरीककः

॥३७॥

ततो भीमं समुत्पाट्य बर्बरीको बलादिव ॥

निष्पिपेष ततः क्रुद्धस्तदद्भुतमिवाभवत्

॥३८॥

मूर्छितं चैवमादाय विस्फुरन्तं पुनःपुनः ॥

सागराय प्रचलितः क्षेप्तुं तत्र महांभसि

॥३९॥

ददृशुः पांडवा नैतद्देव्या नयनयंत्रिताः

॥४०॥

तथा गृहीते कुरुवीरमुख्ये वीरेण तेनाद्भुतविक्रमेण ॥

आश्चर्यमासीद्दिवि देवतानां देवीभिराकाशतले निरीक्ष्य तम्

॥४१॥

सागरस्य ततस्तीरे बर्बरीकं गतं तदा ॥

निरीक्ष्य भगवान्रुद्रो वियत्स्थः समभाषत

॥४२॥

भोभो राक्षसशार्दूल बर्बरीक महाबल ॥

मुंचैनं भरतश्रेष्ठं भीमं तव पितामहम्

॥४३॥

अयं हि तीर्थयात्रायां विचरन्भ्रातृभिर्युतः ॥

कृष्णया चाप्यदस्तीर्थं स्नातुमेवाभ्युपाययौ

॥४४॥

सम्मानं सर्वथा तस्मादर्हः कौरवनंदनः ॥

अपापो वा सपापो वा पूज्य एव पितामहः

॥४५॥

सूत उवाच

इति रुद्रवचः श्रुत्वा सहसा तं विमुच्य सः ॥

न्यपतत्पादयोर्हा धिक्कष्टं कष्टं च प्राह सः

॥४६॥

क्षम्यतां क्षम्यतां चेति पुनः पुनरवोचत ॥

शिरश्च ताडयन्स्वीयं रुरोद च मुहुर्मुहुः

॥४७॥

तं तथा परिशोचंतं मुह्यमानं मुहुर्मुहुः ॥

भीमसेनः समालिंग्य आघ्राय च वचोऽब्रवीत्

॥४८॥

वयं त्वां नैव जानीमस्त्वं चास्माञ्जन्मकालतः ॥

अत्र वासश्च ते पुत्र भैमेः कृष्णाच्च संश्रुतः

॥४९॥

परं नो विस्मृतं सर्वं नानादुःखैः प्रमुह्यताम् ॥

दुःखितानां यतः सर्वा स्मृतिर्लुप्ता भवेत्स्फुटम्

॥५०॥

तदस्माकमिदं दुःखं सर्वकालविधानतः ॥

मा शोचस्त्वं च तनय न ते दोषोऽस्ति चाण्वपि

॥५१॥

यतः सर्वः क्षत्रियस्य दंड्यो विपथिसंस्थि तः ॥

आत्मापिदंड्यः साधूनां प्रवृत्तः कुपथाद्यदि

॥५२॥

पितृमातृसुहृद्भ्रातृपुत्रादीनां किमुच्यते ॥

अतीव मम हर्षोऽयं धन्योहं पूर्वजाश्च मे

॥५३॥

यस्य त्वीदृशकः पौत्रो धर्मज्ञो धर्मपालकः ॥

वरार्हस्त्वं प्रशंसार्हो भवान्येषां सतां तथा

॥५४॥

तस्माच्छोकं विहायेमं स्वस्थो भवि तुमर्हसि

॥५५॥

बर्बरीक उवाच

पापं मां ताततात त्वं ब्रह्मघ्नादपि कुत्सितम् ॥

अप्रशस्यं नार्हसीह द्रष्टुं स्प्रष्टुमपि प्रभो

॥५६॥

सर्वेषामेव पापानां निष्कृतिः प्रोच्यते बुधैः ॥

पित्रोरभक्तस्य पुनर्निष्कृतिर्नैव विद्यते

॥५७॥

तद्येन देहेन मया ताततातोऽभिपीडितः ॥

तत्त्वमेव समुत्स्रक्ष्ये महीसागरसंगमे

॥५८॥

मैवं भवेयमन्येषु अपि जन्मसु पातकी ॥

न मामस्मादभिप्रायादर्हः कोऽपि निवर्तितुम्

॥५९॥

यतोंऽशेन विलुप्येत प्रायश्चित्तान्निवारकः ॥

एवमुक्त्वा समुत्प्लुत्य ययौ चैवार्णवं बली

॥६०॥

समुद्रोऽपि चकंपे च कथमेनं निहन्म्यहम् ॥

ततः सिद्धांबिकायाश्च देव्यस्तत्र चतुर्दश

॥६१॥

समालिंग्य च संस्थाप्य रुद्रेण सहिता जगुः ॥

अज्ञातविहिते पापे नास्ति वीरेंद्र कल्मषम्

॥६२॥

शास्त्रेषूक्तमिदं वाक्यं नान्यथा कर्तुमर्हसि ॥

अमुं च पृष्ठलग्नं त्वं पश्य भोः स्वं पितामहम्

॥६३॥

पुत्रपुत्रेति भाषंतमनु त्वा मरणोन्मुखम् ॥

अधुना चेत्स्वकं देहं वीर त्वं परित्यक्ष्यसि

॥६४॥

ततस्त्यक्ष्यति भीमोऽपि पातकं तन्महत्तव ॥

एवं ज्ञात्वा धारय त्वं स्वशरीरं महामते

॥६५॥

अथ चेत्त्यक्तुकामस्त्वं तत्रापि वचनं शृणु ॥

स्वल्पेनैव च कालेन कृष्णाद्देवकिनंदनात्

॥६६॥

देहपातस्तव प्रोक्तस्तं प्रतीक्ष यदीच्छ सि ॥

यतो विष्णुकराद्वत्स देहपातो विशिष्यते

॥६७॥

तस्मात्प्रतीक्ष तं कालमस्माकं प्रार्थितेन च ॥

एवमुक्तो निववृते बर्बरीकोऽपि दुर्मनाः

॥६८॥

रुद्रं देवीश्च चामुंडां सोपालंभं वचोऽब्रवीत् ॥

त्वमेव देवि जानासि रक्ष्यते शार्ङ्गधन्विना

॥६९॥

पांडवा भूमिलाभार्थे तत्ते कस्मादुपेक्षितम् ॥

त्वया च समुपागत्य रक्षितोऽयं वृकोदरः

॥७०॥

देव्युवाच

अहं च रक्षयिष्यामि स्वभक्तं कृष्णमृत्युतः ॥

यस्माच्च चंडिकाकृत्ये कृतोऽनेन महारणः ॥

तस्माच्चंडिलनाम्नायं विश्वपूज्यो भविष्यति

॥७१॥

एवमुक्त्वा गताः सर्वे देवा देव्यस्त्वदृश्यताम् ॥

भीमोऽपि तं समादाय पांडुभ्यः सर्वमूचिवान्

॥७२॥

विस्मिताः पांडवास्तं च पूजयित्वा पुनः पुनः ॥

यथोक्तविधिना चक्रुस्तीर्थस्नानमतंद्रिताः

॥७३॥

भीमोपि यत्र रुद्रेण मोक्षितस्तत्र सुप्रभम् ॥

लिंगं संस्थापयामास भीमेश्वरमिति श्रुतम्

॥७४॥

ज्येष्ठमासे कृष्णपक्षे चतुर्दश्यामुपोषितः ॥

रात्रौ संपूज्य भीमेशं जन्मपापाद्विमुच्यते

॥७५॥

यथैव लिंगानि सुपूजितानि सप्तात्र मुख्यानि महाफलानि ॥

भीमेश्वरं लिंगमिदं तथैव समस्तपापापहरं सुपूज्यम्

॥७६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे भीमेश्वरमाहात्म्यवर्णनंनाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥