मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ४४

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 44

दिव्यवर्णनम्

अर्जुन उवाच

दिव्यप्राकारमिच्छामि श्रोतुं चाहं मुनीश्वर ॥

कथं कार्याणि कानीह स्फुटं यैः पुण्यपापकम्

॥१॥

नारद उवाच

शपषाः पोशघटकौ विषाग्न तप्तमाषकौ ॥

फलं च तंदुलं चैव दिव्यान्यष्टौ विदुर्बुधाः

॥२॥

असाक्षिकेषु चार्थेषु मिथो विवदमानयोः ॥

राजद्रोहाभिशापेषु साहसेषु तथैव च

॥३॥

अविदस्तत्त्वतः सत्यं शपथेनाभिलंघयेत् ॥

महर्षिभिश्च देवैश्च सत्यार्थाः शपथाः कृताः

॥४॥

जवनो नृपतिः क्षीणो मिथ्याशपथमाचरेत् ॥

वसिष्ठाग्रे वर्षमध्ये सान्वयः किल भारत

॥५॥

अंधः शत्रुगृहं गच्छेद्यो मिथ्याशपथांश्चरेत् ॥

रौरवस्य स्वयं द्वारमुद्धाटयति दुर्मतिः

॥६॥

मन्यंते वै पापकृतो न कश्चितपश्यतीति नः ॥

तांश्च देवाः प्रपश्यंति स्वस्यैवांतरपौरुषाः

॥७॥

आदित्यचंद्रावनिलोऽनलश्च द्यौर्भूमिरापो हृदयं यमश्च ॥

अहश्च रात्रिश्च उभे च संध्ये धर्मो हि जानाति नरस्य वृत्तम्

॥८॥

एवं तस्मादभिज्ञाय सत्यर्थशपथांश्चरेत् ॥

वृथा हि शपथान्कुर्वन्प्रेत्य चेह विनश्यति

॥९॥

इदं सत्यं वदामीति ब्रुवन्साक्षी भवान्यतः ॥

शुभाशुभफलं देहि शुचिः पादौ रवेः स्वृशेत्

॥१०॥

अथ शास्त्रस्य विप्रोऽपि शस्त्रस्यापि च क्षत्रियः ॥

मां संस्पृशंस्तथा वैश्यः शुद्रः स्वगुरुमेव च

॥११॥

मातरं पितरं पूज्यं स्पृशेत्साधारणं त्विदम् ॥

कोशस्य रूपं पूर्वं ते व्याख्यातं पांडुनंदन

॥१२॥

विप्रवर्ज्यं तथा केशं वर्णिनां दापयेन्नृपः ॥

यो यो यद्देवताभक्तः पाययेत्तस्य तं नरम्

॥१३॥

समभक्तं च देवानामादित्यस्यैव पाययेत् ॥

सर्वेषां चोग्रदेवानां स्नापयेदायुधास्त्रकम्

॥१४॥

स्नानोदकं वा संकल्पं गृहीत्वा पाययेन्नवम् ॥

त्रिसप्तरात्रमध्ये च फलं कोशस्य निर्दिशेत्

॥१५॥

अतः परं महादिव्यविधानं श्रृणु यद्भवेत् ॥

संशयच्छेदि सर्वेषां धार्ष्ट्यत्तद्दिव्यमेव च

॥१६॥

सशिरस्कंप्रदातव्यमिति ब्रह्मा पुराब्रवीत् ॥

महोग्राणां च दातव्यमशिरस्कमपि स्फुटम्

॥१७॥

साधूनां वर्णिनां राजा न शिरस्कं प्रदापयेत् ॥

न प्रवातेधटं देयं नोष्णकाले हुताशनम्

॥१८॥

वर्णिनां च तथा कालं तंदुलं मुखरोगिणाम्

॥१९॥

कुष्ठपित्तार्दितानां च ब्राह्मणानां च नो विषम् ॥

तप्तमाषकमर्हंति सर्वे धर्म्यं निरत्ययम्

॥२०॥

न व्याधिमरके देशे शपथान्कोशमेव च ॥

दिव्यान्यासुरकैर्मंत्रैः स्तंभयंतीह केचन

॥२१॥

प्रतिघातविदस्तेषां योजयेद्धर्मवत्सलान् ॥

दिव्यानां स्तभकाञ्ज्ञात्वा पापान्नित्यं महीपतिः

॥२२॥

विवासयेत्स्वकाद्राष्ट्रात्ते हि लोकस्य कंटकाः ॥

तेषामन्वेषणे यत्नं राजा नित्यं समाचरेत्

॥२३॥

ते हि पापसमाचारास्तस्करेभ्योऽपि तस्कराः ॥

प्राग्दृष्टदोषान्स्वल्पेषु दिव्येषु विनियोजयेत्

॥२४॥

महत्स्वपि न चार्थेषु धर्मज्ञान्धर्मवत्सलान् ॥

न मिथ्यावचनं येषां जन्मप्रभृति विद्यते

॥२५॥

श्रद्दध्यात्पार्थिवस्तेषां वचना देव भारत ॥

ज्ञात्वा धर्मिष्ठतां राजा पुरुषस्य विचक्षणः

॥२६॥

क्रोधाल्लोभात्कारयंश्च स्वयमेव प्रदुष्यति ॥

तस्मात्पापिषु दिव्यं स्यात्तत्रादौ प्रोच्यते धटे

॥२७॥

सुसमायां पृथिव्यां च दिग्भागे पूर्वदक्षिणे ॥

यज्ञियस्य तु वृक्षस्य स्थाप्यं स्यान्मुंडकद्वयम्

॥२८॥

स्तंभकस्य प्रमाणं च सप्तहस्तं प्रकीर्तितम् ॥

द्वौ हस्तौ निखनेत्काष्ठं दृश्यं स्याद्धस्तपंचकम्

॥२९॥

अंतरं तु तयोः कार्यं तथा हस्तचतुष्टयम् ॥

मुंडकोपरि काष्ठं च दृढं कुर्याद्विचक्षणः

॥३०॥

चतुर्हस्तं तुलाकाष्ठमव्रणं कारयेत्स्थिरम् ॥

खदिरार्जुनवृक्षाणां शिंशपाशालजं त्वथ

॥३१॥

तुलाकाष्ठे तु कर्तव्यं तथा वै शिक्यकद्वयम् ॥

प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस्तथा

॥३२॥

पाषाणस्यापि जायेत् स्तंभेषु च धटस्तथा ॥

वणिक्सुवर्णकारो वा कुशलः कांस्यकारकः

॥३३॥

तुलाधारधरः कार्यो रिपौ मित्रे च यः समः ॥

श्रावयेत्प्राड्विवाकोऽपि तुलाधारं विचक्षणः

॥३४॥

ब्रह्मघ्ने ये स्मृता लोका ये च स्त्रीबालघातके ॥

तुलाधारस्य ते लोकास्तुलां धारयतो मृषा

॥३५॥

एकस्मिंस्तोलयेच्छिक्ये ज्ञातं सूपोषितं नरम् ॥

द्वितीये मृत्तिकां शुभ्रां गौरां तु तुलयेद्बुधः

॥३६॥

इष्टिकाभस्मपाषाणकपालास्थीनि वर्जयेत् ॥

तोलयित्वा ततः पूर्वं तस्मात्तमवतारयेत्

॥३७॥

मूर्ध्नि पत्रं ततो न्यस्य न्यस्तपत्रं निवेशयेत् ॥

पत्रे मंत्रस्त्वयं लेख्यो यः पुरोक्तः श्वयंभुवा

॥३८॥

ब्रह्मणस्त्वं सुता देवी तुलानाम्नेति कथ्यते ॥

तुकारो गौरवे नित्यं लकारो लघुनि स्मृतः

॥३९॥

गुरुलाघवसंयोगात्तुला तेन निगद्यसे ॥

संशयान्मोचयस्वैनमभिशस्तं नरं शुभे

॥४०॥

भूय आरोपयेत्तं तु नरं तस्मिन्सपत्रकम् ॥

तुलितो यदि वर्धेत शुद्धो भवति धर्मतः

॥४१॥

हीयमानो न शुद्धः स्यादिति धर्मविदो विदुः ॥

शिक्यच्छेदे तुलाभंगे पुनरारोपयेन्नरम्

॥४२॥

एवं निःसंशयं ज्ञानं यच्चान्यायं न लोपयेत् ॥

एतत्सर्वं रवौ वारे कार्यं संपूज्य भास्करम्

॥४३॥

अथातः संप्रवक्ष्यामि विषदिव्यं श्रृणुष्व मे

॥४४॥

द्विप्रकारं च तत्प्रोक्तं घटसर्पविषं तथा ॥

शृंगिणो वत्सनाभस्य हिमशैलभवस्य वा

॥४५॥

यवाः सप्त प्रदातव्या अथवा षड्घृतप्लुताः ॥

मूर्ध्नि विन्यस्तपत्रस्य पत्रे चैवं निवेशयेत्

॥४६॥

त्वं विष ब्रह्मणः पुत्र सत्यधर्मे व्यवस्थितः ॥

त्रायस्वैनं नरं पापात्सत्येनास्य भवामृतम्

॥४७॥

येन वेगैर्विना जीर्णं छर्दिमूर्च्छाविवर्जितम् ॥

तं तु शुद्धं विजानीयादिति धर्मविदो विदुः

॥४८॥

क्षुधितं क्षुधितः सर्पं घटस्थं प्रोच्य पूर्ववत् ॥

संस्पृशेत्तालिकाः सप्त न दशेच्छुध्यतीति सः

॥४९॥

अग्निदिव्यं यथा प्राह विरंचिस्तच्छृणुष्व मे ॥

सप्तमंडलकान्कुर्याद्देवस्याग्रे रवेस्तथा

॥५०॥

मंडलान्मंडलं कार्यं पूर्वेणेति विनिश्चयः ॥

षोडशांतुलकं कार्यं मंडलात्तावदं तरम्

॥५१॥

आर्द्रवाससमाहूय तथा चैवाप्युपोपितम् ॥

कारयेत्सर्वदिव्यानि देवब्राह्मणसंनिधौ

॥५२॥

प्रत्यक्षं कारयेद्दिव्यं राज्ञो वाधिकृतस्य वा ॥

ब्राह्मणानां श्रुतवतां प्रकृतीनां तथैव च

॥५३॥

पश्चिमे दिनकाले हि प्राङ्मुखः प्राञ्जलिः शुचिः ॥

चतुरस्रे मंडलेऽन्ये कृत्वा चैव समौ करौ

॥५४॥

लक्षयेयुः कृतादीनि हस्तयोस्तस्य हारिणः ॥

सप्ताश्वत्थस्य पत्राणि भध्नीयुः करयोस्ततः

॥५५॥

नवेन कृतसूत्रेण कार्पासेन दृढं यथा ॥

ततस्तु सुसमं कृत्वा अष्टांगुलमथायसम्

॥५६॥

पिंडं हुताशसंतप्तं पंचाशत्पलिकं दृढम् ॥

आदौ पूजां रवेः कृत्वा हुताशस्याथ कारयेत्

॥५७॥

रक्तचंदनधूपाभ्यां रक्तपुष्पैस्तथैव च ॥

अभिशस्तस्य पत्रं च बध्नीयाच्चैव मूर्धनि

॥५८॥

मंत्रेणानेन संयुक्तं ब्राह्मणाभिहितेन च ॥

त्वमग्ने वेदाश्चत्वारस्त्वं च यज्ञेषु हूयसे

॥५९॥

पापं पुनासि वै यस्मात्तस्मात्पावक उच्यसे ॥

त्वं मुखं सर्वदेवानां त्वं मुखं ब्रह्मवादिनाम्

॥६०॥

जठरस्थोऽसि भूतानां ततो वेत्सि शुभाशुभम् ॥

पापेषु दर्शयात्मानमर्चिष्मान्भव पावक

॥६१॥

अथवा शुद्धभावेषु शीतो भवमहाबल ॥

ततोऽभिशस्तः शनकैर्मंडलानि परिक्रमेत्

॥६२॥

परिक्रम्य शनैर्जह्याल्लोहपिंडं ततः क्षितौ ॥

विपत्रहस्तं तं पश्चात्कारयेद्व्रीहिमर्दनम्

॥६३॥

निर्विकारौ करौ दृष्ट्वा शुद्धो भवति धर्मतः ॥

भयाद्वा पातयेद्यस्तु तदधो वा विभाव्यते

॥६४॥

पुनस्त्वाहारयेल्लोहं विधिरेष प्रकीर्तितः ॥

अथातः संप्रऐवक्ष्यामि तप्तमाषविधिं श्रृणु

॥६५॥

कारयेदायसं पात्रं ताम्रं वा षोडशांगुलम् ॥

चतुरंगुलखातं तु मृन्मयं वापि कारयेत्

॥६६॥

पूरयेद्‌घृततैलाभ्यां पलैर्विशतिभिस्ततः ॥

सुतप्ते निक्षिपेत्तत्र सुवर्णस्य तु माषकम्

॥६७॥

वह्न्युक्तं विन्यसेन्मंत्रमभिशस्तस्य मूर्धनि ॥

अंगुष्ठांगुलियोगेन तप्तमाषं समुद्धरेत्

॥६८॥

शुद्धं ज्ञेयमसंदिग्धं विस्फोटादिविवर्जितम् ॥

फालशुद्धिं प्रवक्ष्यामि तां श्रृणु त्वं धनंजय

॥६९॥

आयसं द्वादशपलं घटितं फालमुच्यते ॥

अष्टांगुलमदीर्घं च चतुरंगुलविस्तृतम्

॥७०॥

वह्न्युक्तं विन्यसेन्मंत्रमभिशस्तस्य मूर्धनि ॥

त्रिःपरावर्तयेज्जिह्वा लिहन्नस्मात्षडंगुलम्

॥७१॥

गवां क्षीरं प्रदातव्यं जिह्वाशोधनमुत्तमम् ॥

जिह्वापरीक्षणं कुर्याद्दग्धा चेन्न तु विमोच्यते

॥७२॥

तं विशुद्धं विजानीयाद्विशुद्धा चेत्तु जायते ॥

तंदुलस्याथ वक्ष्यामि विधिधर्मं सनातनम्

॥७३॥

चौर्ये तु तंदुला देया न चान्यत्र कथंचन ॥

तंदुलानुदके सिक्त्वा रात्रौ तत्रैव स्थापयेत्

॥७४॥

प्रभाते कारिणे देया भक्षणाय न संशयः ॥

त्रिःकॉत्वः प्राङ्‌मुखश्चैव पत्रे निष्ठीवयेत्ततः

॥७५॥

पिप्पलस्याथ भूर्जस्य न त्वन्यस्य कथंचन ॥

तांस्तु वै कारयेच्छुद्धांस्तंदुलाञ्छालिसंभवान्

॥७६॥

मृन्मये भाजने कृत्वा सवितुः पुरतः स्थितः ॥

तन्दुलान्मंत्रयेच्छुद्धान्मन्त्रेणानेन धर्मतः

॥७७॥

दीयसे धर्मतत्त्वज्ञैर्मानुषाणां विशोधनम् ॥

स्तुतस्तन्दुल सत्येन धर्मतस्त्रातुमर्हसि

॥७८॥

निष्ठीवने कृते तेषां सवितुः पुरतः स्थिते ॥

शोणितं दृश्यते यस्य तमशुद्धं विनिर्दिशेत्

॥७९॥

एवमष्टविधं दिव्यं पापसंशयच्छेदनम् ॥

भट्टादित्यस्य पुरतो जायते कुरुनंदन

॥८०॥

जलदिव्यं तथा प्राहुर्द्विप्रकारं पुराविदः ॥

जलहस्तं स्मृतं चैकं मज्जनं चापरं विदुः

॥८१॥

बाणक्षेपस्तथादानं यावद्वीर्यवता कृतम् ॥

तावत्तं मज्जयेज्जीवेत्तथा तच्छुद्धिमादिशेत्

॥८२॥

एवंविधमिदं स्थानं भट्टादित्यस्य भारत ॥

ममैव कृपया भानोर्जातमेतन्महीतले

॥८३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे भट्टादित्यमाहात्म्ये दिव्यवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥