मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय २०

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 20

विष्णोर्युद्धवर्णनम्

नारद उवाच

तं दृष्ट्वा दानवाः सर्वे क्रुद्धाः स्वैःस्वैर्बलैर्वृताः ॥

सरघा इव माक्षिकं रुरुधुः सर्वतस्ततः

॥१॥

पर्वताभे गजे भीमे मदस्राविणि दुर्दमे ॥

सितचित्रपताके तु प्रभिन्नकरटामुखे

॥२॥

स्वर्णवर्णांचिते यद्वन्नगे दावाग्निसंवृते ॥

आरुह्यजौ निमिर्दैत्यो हरिं प्रत्युद्ययौ बली

॥३॥

तस्यासन्दानवा रौद्रा गजस्य परिरक्षिणः ॥

सप्तविंशतिकोट्यश्च किरीटकवचोज्जवलाः

॥४॥

अश्वमारुह्य शैलाभं हरिमाद्रवत् ॥

पंचयोजनप्रग्रीवमुष्ट्रमास्थाय जंभकः

॥५॥

शुम्भो मेषं समारुह्याव्रजद्द्वादशयोजनम् ॥

अपरे दानवेन्द्राश्च यत्ता नानास्त्रापाणयः

॥६॥

आजग्मुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम् ॥

परघेण निमिर्दैत्यो मथनो मुद्गरेण च

॥७॥

शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा ॥

चक्रेण क्रथनः क्रुद्धो जंभः शक्त्या महारणे

॥८॥

जघ्नुर्नारायणं शेषा विशिखैर्मर्मभेदिभिः ॥

तान्यस्त्राणि प्रयुक्तानि विविशुः पुरुषोत्तमम्

॥९॥

उपदेशा गुरोर्यद्वत्सच्छिष्यं बहुधेरिताः ॥

ततः क्रुद्धो हरिर्गृह्य धनुर्बाणांश्च पुष्कलान्

॥१०॥

ममर्द दैत्यसेनां तद्धर्ममर्थवचो यथा ॥

निमिं विव्याध विंशत्या वाणैरनलवर्चसैः

॥११॥

मथनं दशभिश्चैव शुम्भं पंचभिरेव च ॥

शतेन महिषं क्रुद्धो विव्याधोरसि माधवः

॥१२॥

जंभं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैक शोऽष्टभिः ॥

तस्य तल्लाघवं दृष्ट्वा दानवाः क्रोधमूर्छिताः

॥१३॥

चक्रुर्गाढतरं यत्नमावृण्वाना हरिं शरैः ॥

चिच्छेदाथ धनुर्ज्यां च निमिर्भल्लेन दानवः

॥१४॥

हस्ताच्चापं च संरंभाच्चिच्छेद महिषासुरः ॥

षीडयामासा गरुडं जंभो बाणायुतैस्त्रिभिः

॥१५॥

भुजावस्य च विव्याध शंभो बाणायुतेन वै ॥

ततो विस्मितचित्तस्तु गदां जग्राह माधवः

॥१६॥

तां प्राहिणोत्स वेगेन मथनाय महाहवे ॥

तामाप्राप्तां निमिर्बाणैर्मुशलाभैः सहस्रशः

॥१७॥

आहत्य पातयामास विनदन्कालमेघवत् ॥

ततोंऽतरिक्षे हाहेति भूतानां जज्ञिरे कथाः

॥१८॥

नैतदस्ति बलं व्यक्तं यत्राशीर्यत सा गदा ॥

तां हरिः पतितां दृष्ट्वा अस्थाने प्रार्थनामिव

॥१९॥

जग्राह मुद्गरं घोरं दिव्यरत्नपरिष्कृतम् ॥

तं मुमोचातिवेगेन निमिमुद्दिश्य दानवम्

॥२०॥

तमायांतं वियत्येव त्रयो दैत्या ह्यवारयन् ॥

गदया दंभदैत्यस्तु ग्रसनः पट्टिशेन तु

॥२१॥

शक्त्या च महिषो दैत्यो विनदंतो महाररवम् ॥

निराकृतं तमालोक्य दुर्जनैः सुजनं यथा

॥२२॥

जग्राह शक्तिमुग्रोग्रां शतघंटामहास्वनाम् ॥

जंभाय तां समुद्दिश्य प्राहिणोद्भीषणेरणे

॥२३॥

तामायान्तीमथालोक्य जंभोऽन्यस्य रथात्त्वरात् ॥

आप्लुत्य लीलया गृह्णन्कामिनीं कामुको यथा

॥२४॥

तयैव गरुडं मूर्ध्नि जघ्ने स प्रहसन्बली ॥

ततो भूयो रथं प्राप्य घनुर्गृह्यभ्ययोजयत्

॥२५॥

विचेताश्चाभवद्युद्धे गरुडः शक्तिपीडितः ॥

ततः प्रहस्य तं विष्णुः साधुसाध्विति भारत

॥२६॥

करस्पर्शेन कृतवान्विमोहं विनतात्मजम् ॥

समाश्वास्य च तं वाग्भिः शक्तिं दृष्ट्वा च निष्फलाम्

॥२७॥

कुभार्यस्य यथा पुंसः सर्वंस्याच्चिंतितं वृथा ॥

दृठसारमहामौर्वीमन्यां संयोजयत्ततः

॥२८॥

कृत्वा च तलनिर्घोषं रौद्रमस्त्रं मुमोच सः ॥

ततोऽस्त्रतेजसा सर्वमाकाशं नैव दृश्यते

॥२९॥

भूमिर्दिशश्च विदिशो बामजालमया बुभुः ॥

दृष्ट्वा तदस्त्रमाहात्म्यं सेनानीर्ग्रसनोऽसुरः

॥३०॥

ब्राह्ममस्त्रं चकाराशु सर्वास्त्रविनिवारणम् ॥

तेन तत्प्रशमं यातं रौद्रास्त्रं लोकभीषणम्

॥३१॥

अस्त्रे प्रतिहते तस्मिन्विष्णुर्दानवसूदनः ॥

कालदंडास्त्रमकरोत्सर्वलोकभयंकरम्

॥३२॥

संधीयमानेस्त्रे तस्मिन्मारुतः परुषो ववौ ॥

चकंपे च मही देवी भिन्नाश्चांबुधयोऽभवन्

॥३३॥

तदस्त्रमुग्रं दृष्ट्वा तु दानवा युद्धदुर्मदाः ॥

चक्रुरस्त्राणि दिव्यानि नानारूपाणि संयुगे

॥३४॥

नारायणांस्त्रं ग्रसनस्तु चक्रे त्वाष्ट्रं निमिश्चास्त्रवरं मुमोच ॥

ऐषीकमस्त्रं च चकार जंभो युद्धस्य दण्डास्त्र निवारणाय

॥३५॥

यावच्च संधानवशं प्रयांति नारायणादीनि निवारणाय ॥

तावत्क्षणेनैव जघान कोटींदैत्येश्वराणां किल कालदंडः

॥३६॥

अनंतरं शांतभयं तदस्त्रं दैत्यास्त्रयोगेन च कालदण्डम् ॥

शांतं तदालोक्य हरिः स्वमस्त्रं कोपेन कालानलतुल्यमूर्तिः

॥३७॥

जग्राह चक्रं तपना युतप्रभमुग्रारमात्मानमिव द्वितीयम् ॥

चिक्षेप सेनापतये ज्वलंतं चतुर्भूजः संयति संप्रगृह्य

॥३८॥

तदाव्रजच्चक्रमथो विलोक्य सर्वात्मना दैत्यवराः स्ववीर्यात् ॥

नाशक्नुन्वारयितुं प्रचंडं दैवं यथा पूर्वमिवोपपन्नम्

॥३९॥

तदप्रतर्क्यं नवहेतितुल्यं चक्रं पपात ग्रसनस्य कण्ठे ॥

तद्रक्तधारा रुणघोरनाभि जगाम भूयोपि करं मुरारेः

॥४०॥

चक्राहतः संयति दानवश्च पपात भूमौ प्रममार चापि ॥

दैत्याश्च शेषा भृशशौकमापुः क्रोधं च केचित्पिपिषुर्भुजांश्च

॥४१॥

ततो विनिहते दैत्ये ग्रसने बलनायके ॥

निर्मर्यादमयुध्यंत हरिणा सह दानवाः

॥४२॥

पट्टिशैर्मुशलैः प्रासैग्नि दाभिः कणपैरपि ॥

तीक्ष्णाननैश्च नाराचैश्चक्रैः शक्तिभिरेव च

॥४३॥

तदस्त्रजालं तैर्मुक्तं लब्धलक्षो जनार्दनः ॥

एकैकं शतधा चक्रे बाणैरग्नि शिखोपमैः

॥४४॥

जघान तेषां संक्रुद्धः कोटिकोटिं जनार्दनः ॥

ततस्ते सहसा भूत्वा न्यपतन्केशवोपरि

॥४५॥

गरुडं जगृहुः केचित्पादयोः शतशोऽसुराः ॥

ललंबिरे च पक्षाभ्यां मुखे चान्ये ललंबिरे

॥४६॥

केशवस्यापि धनुषि भुजयोः शीर्ष एव च ॥

ललंबिरे महादैत्या निनदंतो मुहुर्मुहुः

॥४७॥

तदद्भुतं महद्दृष्ट्वा सिद्धचारणवार्तिकाः ॥

हाहेति मुमुचुर्नादसंबरे चास्तुवन्हरिम्

॥४८॥

ततो हरिर्विनिर्धूय पातयामास तान्भुवि ॥

यथा प्रबुद्धः पुरुषो दोषान्संसारसंभवान्

॥४९॥

विकोशं च ततः नंदकं खड्गमुत्तमम् ॥

चर्म चाप्यमलं विष्णुः पदातिस्तानधावत

॥५०॥

ततो मुहूर्तमात्रेण पद्मानि दश केशवः ॥

चकर्त्त मार्गे बहुभिर्विचरन्दैत्यसत्तमान्

॥५१॥

ततो निमिप्रभृतयो विनद्यासुरसत्तमाः ॥

अधावंत महेष्वासाः केशवं पादचारिणम्

॥५२॥

गरुत्मांश्चाभ्ययात्तूर्णमारुरोह च तं हरिः ॥

उवाच च गरुत्मंतं तस्मिंश्च तुमुले रणे

॥५३॥

अश्रांतो यदि तार्क्ष्यासि मथनं प्रति तद्व्रज ॥

श्रांतश्चेच्च मुहूर्तं त्वं रणादपसृतो भव

॥५४॥

तार्क्ष्य उवाच

न मे श्रमोऽस्ति लोकेश किंचित्संस्मरतश्च मे ॥

यन्मे सुतान्वाहनत्वे कल्पयामास तारकः

॥५५॥

इति ब्रवन्रणे दैत्यं मथनं प्रति सोऽगमत् ॥

दैत्यस्तवभिमुखं दृष्ट्वा शंखचक्रगदाधरम्

॥५६॥

जघान भिंडिपालेन शितधारेण वक्षसि ॥

तं प्रहारमचिंत्यैव विष्णुस्तस्मिन्महाहवे

॥५७॥

जघान पंचभिर्बाणैर्गिरींद्रस्यापि भेदकैः ॥

आकर्णकृष्टैर्दशभिः पुनर्विद्धः स्तनांतरे

॥५८॥

विचेतनो मुहूर्तात्स संस्तभ्य मथनः पुनः ॥

गृहीत्वा परिघं मूर्ध्नि जनार्दनमताडयत्

॥५९॥

विष्णुस्तेन प्रहारेण किंचिदाघूर्णितोऽभवत् ॥

ततः कोपविवृत्ताक्षो गदां जग्राह माधवः

॥६०॥

तया संताडयामास मथनं हृदये दृढम् ॥

स पपात तथा भूमौ चूर्णितांगो ममार च

॥६१॥

तस्मिन्निपतिते भूमौ मथने मथिते भृशम् ॥

अवसादं युयुर्दैत्याः सर्वे ते युद्धमण्डले

॥६२॥

ततस्तेषु विषण्णेषु दानवेष्वतिमानिषु ॥

चुकोप रक्तनयनो महिषो दानवेश्वरः

॥६३॥

प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमाश्रितः ॥

रीक्ष्णधारेण शूलेन महिषो हरिमर्दयन्

॥६४॥

शक्त्या च गरुडं वीरो हृदयेऽभ्यहनद्दृढम् ॥

ततो विवृत्य वदनं महामलगुहानिभम्

॥६५॥

ग्रस्तुमैच्छद्रणे दैत्यः सगरुत्मंतमच्युतम् ॥

अथाच्‌युतोऽपि विज्ञाय दानवस्य चिकीर्षितम्

॥६६॥

वदनं पूरयामास दिव्यैस्त्रैर्महाबलः ॥

स तैर्बाणैरभिहतो महिषोऽचलसंनिभः

॥६७॥

परिवर्तितकायार्धः पपाताथ ममार च ॥

महिषं पतितं दृष्ट्वा जीवयित्वा पुनर्हरिः

॥६८॥

महिषं प्राह मत्तस्त्वं वधं नार्हसि दानव ॥

योषिद्वध्यः पुरोक्तस्त्वं साक्षात्कमलयोनिना

॥६९॥

उत्तिष्ठ गच्छ मन्मुक्तो द्रुतमस्मान्महारणात् ॥

इत्युक्तो हरिणा तस्माद्देशादपगतोऽसुरः

॥७०॥

तस्मिन्पराङ्मुखे दैत्ये महिषे शुंभदानवः ॥

संदष्टौष्ठपुटाटोपो भृकुटीकुटिलाननः

॥७१॥

निर्मध्य पाणिना पाणिं धनुरादाय भैरवम् ॥

सज्जीकृत्य महाघोरान्मुमोच शतशः शरान्

॥७२॥

स चित्रयोधी दृढमुष्टिपातस्ततश्व विष्णुं च दैत्यः ॥

बाणैर्ज्वलद्वह्निशिखानिकाशैः क्षिप्तैरसंख्यैः प्रतिघाहीनैः

॥७३॥

विष्णुश्च दैत्येंद्रशरार्दितो भृशं भुशुंडिमादाय कृतांततुल्याम् ॥

तया मुखं चास्य पिपेष संख्ये शुंभस्य जत्रुं च धराधराभम्

॥७४॥

ततस्त्रिभिः शंभुभुजं द्विषष्ट्या सूतस्य शीर्षं दशक्षिश्च केतुम् ॥

विष्णुर्विकृष्टैः श्रवणावसानं दैत्यस्य बाणैर्ज्वलनार्कवर्णैः

॥७५॥

स तैश्च विद्धो व्यथितो बभूव दैत्येश्वरो विस्रुतशोणिताक्तः ॥

ततोऽस्य किंचिच्चलितस्य धैर्यादुवाच शंखांबुजसार्ङ्गपाणिः

॥७६॥

योषित्सुवध्योऽसि रणं विभुंच शुंभाऽशुभ स्वल्पतरैरहोभिः ॥

मत्तोर्हसि त्वं न वृथैव मूढ ततोऽपयातः स च शंभदानवः

॥७७॥

जम्भोऽथ तद्विष्णुमुखान्निशम्य जगर्ज चोच्चैः कृतसिंहनादः ॥

प्रोवाच वाक्यं च सलीलमाजौ महाट्टहासेन जगद्विकंप्य

॥७८॥

किमेभिस्ते जलावास दैत्यैर्हीनपराक्रमैः ॥

मामासादय युद्धेऽस्मिन्यदि ते पौरुषं क्वचित्

॥७९॥

यत्ते पूर्वं हता दैत्या हिरण्याक्षमुखाः किल ॥

जंभस्तदाभवन्नैव पश्य मामद्य संस्थितम्

॥८०॥

पश्य तालप्रती काशौ भुजावेतौ हरे मम ॥

वक्षो वा वज्रकठिनं मयि प्रहर तत्सुखम्

॥८१॥

इत्युक्तः केशवस्तेन सृक्किणी संलिहन्रुषा ॥

मुमोच परिघंघोरं विरीणामपि दारणम्

॥८२॥

ततस्तस्याप्यनुपदं कालायसमयं दृढम् ॥

मुमोच मुद्गरं विष्णुर्द्वितीयं पर्वतं यथा

॥८३॥

तदायुधद्वयं दृष्ट्वा जंभो न्यस्य रथे धनुः ॥

आप्लुत्य परिघं गृह्य गरुडं तेन जघ्निवान्

॥८४॥

द्वितीयं मुद्गरं चानु गृहीत्वा विनदन्रणे ॥

सर्वप्राणेन गोविंदं तेन मूर्ध्नि जघान सः

॥८५॥

ताभ्यां चातिप्रहाराभ्यामुभौ गरुडकेशवौ ॥

मोहाविष्टौ विचेतस्कौ मृतकल्पाविवासताम्

॥८६॥

तदद्भुतं महद्दृष्ट्वा जगर्जुर्दैत्यसत्तमाः ॥

नैतान्हर्षमदोद्धूतानिदं सेहे जगत्तदा

॥८७॥

सिंहनादैस्तलोन्नाहैर्धनुर्नादैश्च बाणजैः ॥

जंभं ते हर्षयामासुर्वासांस्यादुधुवुश्च ते

॥८८॥

शंखांश्च पूरयामासुश्चिक्षिपुर्देवता भृशम्

॥८९॥

संज्ञामवाप्याथ महारणे हरिः सवैनतेयः परिरभ्य जंभम् ॥

पराङ्मुखः संयुगादप्रधृष्यात्पलायनं वेगपरश्चकार

॥९०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखंडे दैत्यैः सह विष्णोर्युद्धवर्णनंनाम विंशोऽध्यायः ॥ २० ॥