मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ३४

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 34

कुमारेशस्थापनपूर्वकमाहात्म्यवर्णनम्

नारद उवाच

ततस्तृतीयलिंगस्य चिकीर्षु स्थापनं गुहम् ॥

ब्रह्मा प्राहास्य प्रीत्यर्थं स्वयमन्यं प्रकुर्महे

॥१॥

यद्यप्येतच्छुभं लिंगं सर्वदोषविवर्जितम् ॥

तथाप्यन्यत्करिष्येऽहं सर्वश्रेष्ठतमं हि यत्

॥२॥

ततो ब्रह्मा सर्वदोषविमुक्तं निर्ममे स्वयम् ॥

दृष्टिकांतं मनःकांतं फलकांतं सुलिंगकम्

॥३॥

तत्र स्कंदस्य प्रीत्यर्थं सर्वदेवैर्निनिर्मितम् ॥

सरः सुरम्यं तीर्थानि तत्र ते निदधुस्तथा

॥४॥

गंगादिकानि तीर्थानि यानि प्रोचुर्दिवौकसः ॥

इदं यावत्सरस्तावत्सर्वैरत्र समुष्यताम्

॥५॥

एवमस्त्विति तान्यूचुः प्रीत्यर्थं शरजन्मनः ॥

ततो ब्रह्मा स्वयं तत्र रौद्रैर्मंत्रैर्हुताशनम् ॥

गाधिपुत्रादिभिर्विप्रैस्तर्पयामास संयुतः

॥६॥

ततो वैशाखमासस्य चतुर्द्दश्यां शुभे दिने ॥

प्रतिष्ठां चक्रिरे लिंगे चिरं विप्रमुका द्विजाः

॥७॥

जगुर्गंधर्वपतयो ननृतुश्चाप्सरोगणाः ॥

ततः स्कंदः प्रीतियुक्तः स्नात्वा सरसि शोभने

॥८॥

सर्वतीर्थोदकैः स्नाप्य तल्लिंगं भक्तिसंयुतः ॥

विविधैः पूजयामास पुष्पैर्मंत्रैश्च पंचभिः

॥९॥

पूजाकाले स्वयं तत्र लिंगमध्येस्थितो हरः ॥

जंगमा जंगमैः सार्धं स्वयं जग्राह पूजनम्

॥१०॥

ततस्तं पूजयन्प्राह स्कंदो भक्तिपरिप्लुतः ॥

केन केनोपहारेण त्वयि दत्तेन किं फलम्

॥११॥

श्रीमहादेव उवाच

मम यः स्थापयेल्लिंगं शुभं सद्म च कारयेत् ॥

मल्लोके वसतेऽसौ च वावच्चंद्रदिवाकरौ

॥१२॥

मम सद्म सुधाशुभ्रं यावत्संख्यं करोति यः ॥

तावंत्येव च जन्मानि यशसासौ विराजते

॥१३॥

ध्वजभूतो ध्वजं दत्त्वा विपापः स्यात्पताकया ॥

विधाय चित्रविन्यास गंधर्वैः सह मोदते

॥१४॥

रजःसंशोधनं कृत्वा नरो रोगैः प्रमुच्यते ॥

प्राप्नोति देहं हार्दं च सुरसद्मानुलेपनात्

॥१५॥

पुष्पक्षीरादि भिर्दत्तैस्तिलाभोऽक्षतदर्भकैः ॥

शंभोः शिरसि दत्त्वार्घ्य दिवि वर्षायुतं वसेत्

॥१६॥

घृतेन हतपापः स्यान्मधुना सुभगो भवेत् ॥

विरोगो दधिदुग्धाभ्यां लिंगं संस्नाप्य जायते

॥१७॥

पानीयदधिदुग्धाद्यैः क्रमाद्दशगुणं फलम् ॥

मासं संस्नाप्य वै भक्त्या पिष्टाद्यैश्च विरूक्षयेत्

॥१८॥

कपिलापंचगव्येन सुरसिंधुजलेन वा ॥

मां च संस्नाप्य चाभ्यच्च मल्लोकमधिगच्छति

॥१९॥

कुशोदकाद्गंधजलं तस्मात्तीर्थोदकं वरम् ॥

तीर्थेभ्यश्च जलं दर्शे महीसागरसंभवम्

॥२०॥

कपिलां दत्त्वा यदाप्नोति तत्फलं कलशे पृथक् ॥

मृत्ताम्ररौप्यसौवर्णैः क्रमाच्छतगुणं फलम्

॥२१॥

श्रीखंडागरुकाश्मीरशशिनः क्रमशोऽधिकाः ॥

मां च तैश्च समालभ्य स्याच्छ्रीमान्सुभगः सुखी

॥२२॥

प्रशस्तो गुग्लुलो धूपस्तस्माच्चंद्रोऽगरुर्वरः ॥

धूपानेतान्नरो दत्त्वा सुखं स्वर्गमवाप्नुयात्

॥२३॥

दीपदः कीर्तिमाप्नोति चक्षुरुत्तममेव च ॥

नैवेद्यस्य प्रदानेन नरो मृष्टाशनो भवेत्

॥२४॥

पुष्पेण हेमकर्णस्य प्रबद्धेन द्विसंगुणम् ॥

फलमाप्नोति पुरुषः सत्यसंधश्च जायते

॥२५॥

अखंडैर्बिल्वपत्रैश्च पुष्पैर्वा विविधैरपि ॥

लिंगं प्रपूरणं कृत्वा लक्ष्मेकं वसेद्दिवि

॥२६॥

यस्तु पुष्पगृहं कुर्यान्नरः शुद्धाशयो भवेत् ॥

पुष्पकेण विमानेन दिवि संक्रीडते चिरम्

॥२७॥

भूषणांबरदानेन नरो भवति भोगभाक् ॥

सच्चामरप्रदानेन जायते पार्थिवो नरः

॥२८॥

रम्यं वितानं यो दद्याच्छत्रुभिर्नाभूयते ॥

गीतं वाद्यं प्रनृत्यं च कृत्वा शुद्धो व्रजेत्स माम्

॥२९॥

शंखघंटाप्रदानेन विद्वान्भवति शब्दवान् ॥

विधाय रथयात्रां च चिरं शोकैः प्रमुच्यते

॥३०॥

नमस्कारं प्रणामं च कृत्वा जायेन्महाकुले ॥

वाचयंश्चाग्रतः शास्त्रं मम ज्ञानी प्रजायते

॥३१॥

विमुच्यते मनोमोहैर्भक्त्या स्तुत्वा च मां नरः ॥

गोदानफलमाप्नोति निर्माल्यस्फेटनान्मम

॥३२॥

आरार्तिकं भ्रामयित्वा अर्तिहीनः प्रजायते ॥

कृत्वा शीतलिकां तापैर्मुच्यते दोष संभवैः

॥३३॥

नत्वा दत्त्वाथ शक्त्या च दानं लिंगस्य संनिधौ ॥

फलं शतगुणं प्राप्य इह चामुत्र मोदते

॥३४॥

प्रणामात्पंचदश च स्नानाद्विंशतिं पूजया ॥

शतं यथाप्रोक्तविधेरपराधानहं क्षमे

॥३५॥

एतत्सर्वं यथोद्दिष्टं कुमारात्र भविष्यति ॥

ये मां प्रपूजयिष्यंति कुमारेश्वर संस्थितम्

॥३६॥

वाराणस्यां यथा वत्स विश्वनाथोऽस्मि संस्थितः

॥३७॥

गुप्तक्षेत्रे तथा स्थास्ये कुमारेश्वरमध्यतः

॥३८॥

श्रुत्वेति वचनं रुद्राद्देवानां श्रृण्वतां गुहः ॥

विस्मितः प्रणिपत्यैनं तुष्टाव गिरिजापतिम्

॥३९॥

नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय ॥

नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय

॥४०॥

नमो भवायास्तु भवोद्भवाय नमोस्तु ते ध्वस्तमनोभवाय ॥

नमोऽस्तु ते गूढमहाव्रताय नमोऽस्तु मायगहनाश्रयाय

॥४१॥

नमोस्तु शर्वाय नमः शिवाय नमोस्तु सिद्धाय पुरातनाय ॥

नमोस्तु कालाय नमः कलाय नमोऽस्तु ते कालकलातिगाय

॥४२॥

नमो निसर्गात्मकभूतिकाय नमोऽस्त्वमेयोक्षमहर्द्धिकाय ॥

नमः शरण्याय नमोऽगुणाय नमोऽस्तु ते भीमगुणानुगाय

॥४३॥

नमोऽस्तु नानाभुवनाधिकर्त्रे नमोऽस्तु भक्ताभिमतप्रदात्रे ॥

नमोऽस्तु कर्मप्रसावाय धात्रे नमः सदा ते भगवन्सुकर्त्रे

॥४४॥

अनंतरूपाय सदैव तुभ्यमसह्यकोपाय सदैव तुभ्यम् ॥

अमेयमानाय नमोस्तु तुभ्यं वृषेंद्रयानाय नमोऽस्तु तुभ्यम्

॥४५॥

नमः प्रसिद्धाय महौषधाय नमोऽस्तु ते व्याधिगणापहाय ॥

चराचरायाथ विचारदाय कुमारनाथाय नमः शिवाय

॥४६॥

ममेश भूतेश महेश्वरोसि कामेश वागीश बलेश धीश ॥

क्रोधेश मोहेश परापरेश नमोस्तु मोक्षेश गुहशयेश

॥४७॥

इति संस्तूय वरदं शूलपाणिमुमापतिम् ॥

प्रणिपत्य उमापुत्रो नमोनम उवाच ह

॥४८॥

एवं भक्तिपराक्रांतमात्मयोग्यं स्तवं शिवः ॥

अभिनन्द्य चिरं कालमिदं वचनमब्रवीत्

॥४९॥

त्वया दुःखं न संचिंत्यं मम भक्तवधात्मकम् ॥

कर्मणानेन श्लाघ्योऽसि मुनीनामपि पुत्रक

॥५०॥

ये च सायं तथा प्रातस्त्वत्कृतेन स्तवेन माम् ॥

स्तोष्यंति परया भक्त्या श्रुणु तेषां च यत्फलम्

॥५१॥

न व्याधिर्न च दारिद्र्यं न चैवेष्टवियोजनम् ॥

भुक्त्वा भोगान्दुर्लभांश्च मम यास्यंति सद्म ते

॥५२॥

तथान्यानपि दास्यामि वरान्परमदुर्लभान् ॥

भक्त्या तवातितुष्टोऽहं प्रीत्यर्थं तव पुत्रक

॥५३॥

महीसा गरकूले तु ये मां स्तोष्यंति पूजया ॥

तेषां दतक्षयं सर्वं वैशाख्यां दानपूजनम्

॥५४॥

सरस्यत्र च ये स्नानं प्रकरिष्यंति मानवाः ॥

सर्वतीर्थफला वाप्तिर्वैशाख्यां प्रभविष्यति

॥५५॥

कुमारेशं तु मां भक्त्या महीसागरसंगमे ॥

स्नात्वा संपूजयेन्नित्यं तस्य जातिस्मृतिर्भवेत्

॥५६॥

जातिस्मृतिरियं पुत्र यस्यां जातौ प्रजायते ॥

स्मरतेऽस्याः प्रकर्तव्यं श्रेयोरूपं सुदुर्लभम्

॥५७॥

यस्मिन्काले ह्यनावृष्टिर्जायते कृत्तिकासुत ॥

स्नापयेद्विधिवन्मां च कलशैर्विविधैः शुभैः

॥५८॥

एकरात्रं त्रिरात्रं वा पञ्चरात्रं च सप्त वा ॥

स्नापयेद्गंधतोयेन कुंकुमेन विलेपयेत्

॥५९॥

करवीरै रक्तपुष्पैर्जपापुष्पैस्तथैव च ॥

अर्चयेत्पुष्पमालाभिः परिधायारुणवाससी

॥६०॥

भोजयेद्ब्रह्णांश्चैव तापसाञ्छंसिवव्रतान् ॥

लक्षहोमं प्रकुर्वीत शिवहोमं ग्रहादिकम्

॥६१॥

भूमिदानं ततः कुर्यात्तत्तो दद्याद्गवाह्निकम् ॥

आघोषयेच्छिवां शांतिं रुद्रजाप्यं हि कारयेत्

॥६२॥

अनेनैव विधानेन कृतेन तु द्विजोत्तमैः ॥

आगर्भितास्तदा मेघा वर्षते नात्र संशयः

॥६३॥

विविधैः पूर्यते धान्यः शाद्वलैश्च वसुन्धरा ॥

आरोग्यं हि भवेच्चैव जने गोपकुले तथा

॥६४॥

धर्मयुक्तो भवेद्राजा परचक्रैर्न पीड्यते ॥

गृतेन स्नापयेन्मां च अर्कक्रांतौ नरोऽत्र यः

॥६५॥

कन्यादान फलं तस्य नात्र कार्या विचारणा ॥

क्षीरेण स्नापयेद्देवं तथा पंचामृतेन यः

॥६६॥

अग्निष्टोमस्य यज्ञस्य फलं तस्योपजायते ॥

कुमारेश्वरतीर्थेयः प्राणत्यागं करोति हि

॥६७॥

रुद्रलोके वसेत्तावद्यावदाभूतसंप्लवम् ॥

अयने विषुवे चैव ग्रहणे चंद्रसूर्ययोः

॥६८॥

पौर्णमास्याममावास्यां संक्रांतौ वैधृते तथा ॥

कुमारेशं नरः स्नात्वा महीसागरसंगमे

॥६९॥

भक्त्या योभ्यर्चयेन्मां च तस्य पुण्यफलं श्रृणु ॥

यन्महीतलतीर्थेषु स्नाने स्यात्तु महत्फलम्

॥७०॥

यच्चर्चितेषु लिंगेषु सर्वेषु स्यात्फलं च तत् ॥

आरोग्यं पुत्रलाभं च धनलाभं सुखंसुतम्

॥७१॥

निश्चितं लभते मर्त्यः कुमारेश्वरसेवया ॥

ब्रह्मचारी शुचिर्भूत्वा यस्तिष्ठेदत्र तापसः

॥७२॥

परं पाशुपतं योगं प्राप्य याति लयं मयि ॥

पापात्मनां च मर्त्यानां सद्योऽस्मि फलदर्शकः

॥७३॥

दिव्येनाष्टविधेनात्र कोशः साधारणोऽत्र च ॥

अघोराद्यैः पंचमंत्रैः स्नाप्य लिंगं महोज्जवलम्

॥७४॥

अघोरेणैव तत्तोयं दद्याद्दिव्यस्य कारणे ॥

पिबेदेतदुदीर्या प्रसृतित्रयमेव च

॥७५॥

यदि धर्मस्तथा सत्यमीश्वरोऽत्र जगत्त्रये ॥

कोशपानात्फलं सद्यो द्रक्ष्याम्यस्मि शुभा शुभम्

॥७६॥

यास्ये चेति कुलं हन्याद्गमने च कुटुम्बकम् ॥

दर्शने च शुभं पाने हन्याद्देहं च मिथ्यया

॥७७॥

त्रिभिर्दिनैस्त्रिभिः पक्षैस्त्रिभिर्मासैस्त्रिभिः समैः ॥

अत्युग्रपुण्यपापानां मानेन फलमश्नुते

॥७८॥

एते वरामया लिंगे दत्तात्रं स्थापिते त्वया ॥

तव प्रीत्यभिवृद्ध्यर्थं ब्रूहि भूयोऽप्युमात्मज

॥७९॥

स्कन्द उवाच

कृतकृत्यो वरैर्दत्तैस्त्वया चैतैर्महेश्वर ॥

नमोनमो नमस्तेस्तु नात्र त्याज्यं त्वया विभो

॥८०॥

एवं प्रणम्य देवं स मातरं प्रणतोऽब्रवीत् ॥

त्वयापि मातर्नैवात्र त्याज्यं मम प्रियेप्सया

॥८१॥

त्वामप्यत्र स्थापयिष्ये वरदा भव पर्वति

॥८२॥

श्रीदेव्युवाच

यत्र शर्वः स्वभावेन तत्र तिष्ठाम्यहं सुत

॥८३॥

तव भक्त्या विशेषेण स्थास्ये स्त्रीणां वरप्रदा ॥

युद्धेषु तवकर्माणि रुद्रभक्तेषु ते कृपाम्

॥८४॥

पश्यंति पुत्रिणां मुख्या प्रीणिता च भृशं त्वया ॥

गर्भक्लेशः स्त्रियो मन्ये साफल्यं भजते तदा

॥८५॥

सुतो यदा रुद्रभक्तः सानंदं सद्भिरीर्यते ॥

भव तस्मात्प्रियार्थाय तिष्ठाम्यत्र षडानन

॥८६॥

स्त्रीभिराराधिता दास्ये सौभाग्यं सुपतिं सुतान् ॥

चैत्रे चापि तृतीयायां स्नात्वा शीतेन वारिणा

॥८७॥

अर्चयिष्यंति मां याश्च पुष्पैर्धूपैर्विलेपनैः ॥

दास्यामि चाष्टसौभाग्यं या नारी भक्तितत्परा

॥८८॥

पितरौ श्वशुरौ पुत्रान्पतिं सौभाग्यसंपदः ॥

कुंकुमं पुष्पश्रीखंडं तांबूलांजनमिक्षवः

॥८९॥

सप्तमं लवणं प्रोक्तमष्टमं च सुजीरकम् ॥

तोलयेत्तुलया वापि सांघ्रिश्च तुलिता भवेत्

॥९०॥

सुवर्मेनाथ सौगन्ध्यद्रव्यैः शुभफलैरपि ॥

भुंक्ते वा लवणं पश्चान्नासौ वै विधवा भवेत्

॥९१॥

माघे वा कार्तिके वापि चैत्रे स्नात्वार्चयेत् माम् ॥

दौर्भाग्यदुःखदारिद्र्यैर्न सा संयोगमाप्नुयात्

॥९२॥

श्रुत्वेति गिरिजावाचं सानंदः पार्वतीसुतः ॥

स्थापयित्वा गिरिसुतां कपर्दिनमथाब्रवीत्

॥९३॥

पुष्पैर्धूपैर्मोदकैश्च पूर्वमभ्यर्च्य त्वां प्रभो ॥

पुजयंति कुमारेशं तेषां विघ्नहरो भव

॥९४॥

कपर्द्युवाच

भ्रातस्त्वया स्थापितेऽस्मिँल्लिंगे भक्ताश्च ये नराः ॥

न तेषां मम विघ्नानि मम वागनुगामिनी

॥९५॥

एवमुक्ते विघ्नराज्ञा प्रतीतेऽस्थापयच्च तम् ॥

तस्मादसौ सदाभ्यर्च्यश्चतुर्थ्यां च विशेषतः

॥९६॥

एवं स्थाप्य कुमारेशं लब्ध्वा चैतान्वराञ्छिवात् ॥

मनसा कृतकृत्यं चात्मानं मेने षडाननः

॥९७॥

तस्थावंशेन तत्रैव कुमारेश्वरसंनिधौ ॥

अत्र स्थितं कुमारं ये पश्यन्ति स्वामियात्रिमः

॥९८॥

सफला स्वामियात्रा च तेषां भवति भारत ॥

कार्तिक्यां च विशेषेण कार्तिकेयं समर्चयेत्

॥९९॥

यत्फलं स्वामियात्रायां तत्फलं समावाप्नुयात् ॥

एवंविधमिदं पार्थ महीसागरसंगमम्

॥१००॥

निमित्तीकृत्य चात्मानं साध्वर्थे लिंगमर्चितम् ॥

रोगाभिभूतो रोगैर्वा नाम्नामष्टोत्तरं शतम्

॥१०१॥

जप्त्वा शुचिर्ब्रह्मचारी मासं मुच्येत पातकात् ॥

एतदाराध्य संजाता रजिरामादयः पुरा

॥१०२॥

शतसंख्याबलं राज्यं रुद्रलोक च भेजिरे ॥

जामदग्न्यस्त्विदं लिंगमाराध्य च समायुतम्

॥१०३॥

लेभे कुठारमुज्जह्ने येनार्जुनभुजान्युधि ॥

अग्रतो देवदेवस्य ज्ञात्वा तीर्थे महागुणान्

॥१०४॥

रामेश्वरमिति ख्यातं स्थापितं लिंगमुत्तमम् ॥

तच्च योऽभ्यर्चयेद्भक्त्या रुद्रलोकं स गच्छति

॥१०५॥

प्रीतः स्यात्तस्य रामश्च कुमारेशश्च फाल्गुन ॥

इति संक्षेपतः प्रोक्तं कुमारेशस्य वर्णनम्

॥१०६॥

कुमारेशस्य माहात्म्यं कीर्तयेद्यस्तदग्रतः ॥

ये च श्रृण्वंत्यनुदिनं रुद्रलोके वसंति ते

॥१०७॥

अस्य लिंगस्य माहात्म्यं श्राद्धकाले तु यः पठेत् ॥

पितॄणामक्षयं जायते नात्र संशयः

॥१०८॥

अस्य लिंगस्य माहात्म्यं गुर्विणीं श्रावयेद्यदि ॥

गुणवाञ्जायते पुत्रः कन्या चापि पतिव्रता

॥१०९॥

एतत्पुण्यं पापहरं धर्म्यं चाह्लादकारकम् ॥

पठतां चापि सर्वाभीष्टफल प्रदम्

॥११०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेशस्थापनपूर्वकमाहात्म्यवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥