मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ४३

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 43

भट्टादित्यमाहात्म्यवर्णनम्

श्रीनारद उवाच

ततोऽहं पार्थ भूयोऽपि जनानुग्रहकाम्यया ॥

प्रत्यक्षदेवं मार्तंडमत्रानेतुमियेष ह

॥१॥

सर्वेषां प्राणिनां यस्मादुडुपो भगवान्रविः ॥

इहामुत्र च कौंतेय विश्वद्धारी रविर्मतः

॥२॥

ये स्मरंति रविं भक्त्या कीर्तयंति च ये नराः ॥

पूजयंति च ये नित्यं कृतार्थास्ते न संशयः

॥३॥

सूर्यभक्तिपरा ये च नित्यं तद्गतमानसाः ॥

ये स्मरंति सदा सूर्यं न ते दुःखस्य भाजिनः

॥४॥

भवनानि मनोज्ञानि विविधाभरणाः स्त्रियः ॥

धनं चादृष्टपर्यंतं सूर्यपूजाविधेः फलम्

॥५॥

दुर्लभा भक्तिः सूर्ये वा दुर्लभं तस्य चार्चनम् ॥

दानं च दुर्लभं तस्मै ततो होमश्च दुर्लभः

॥६॥

नमस्कारादिसंयुक्तं रविरित्यक्षरद्वयम् ॥

जिह्वाग्रे वर्तते यस्य सफलं तस्य जीवितम्

॥७॥

इत्यहं हृदि संचिंत्य माहात्म्यं रविजं महत् ॥

पूर्णं वर्षशतं पार्थ रविं भक्त्या ह्यतोषयम्

॥८॥

जपेन सुविशुद्धेन च्छन्दसां वायुभोजनः ॥

ततः खाद्द्वितीयां मूर्तिं कृत्वा योगबलाद्विभुः

॥९॥

तेजसा दुर्दृशो भास्वान्प्रत्यक्षः समजायत

॥१०॥

तमहं प्रांजलिर्भूत्वा नमस्कृत्य रविं प्रभुम् ॥

सामभिर्विविधैर्देवं पर्यतोषयमीश्वरम्

॥११॥

तुष्टो मामाह वरदो देवर्षे सुचिरं त्वया ॥

तपसाराधितोऽस्मीति वरं वृणु यथेप्सितम्

॥१२॥

इत्युक्तोऽहं लोकनाथं प्रांजलिः प्रास्तुवं वचः ॥

यदि तुष्टो भवान्मह्यं यदि देयो वरो मम

॥१३॥

ततस्ते कामरूपे या कला नाथ प्रवर्तते ॥

राजवर्धनराज्ञा याऽऽराधिता च जनैः पुरा

॥१४॥

तया च कलया भानो सदात्र स्थातुमर्हसि ॥

ततस्तथेति देवेन प्रोक्ते तुष्टेन भारत

॥१५॥

अस्थापयमहं सूर्यं भट्टादित्याभिधानकम् ॥

भट्टेनस्थापितं यस्मान्मया तस्माद्रविर्जगौ

॥१६॥

ततः संपूज्य तं पुष्पैः कृतावेशमहं रविम् ॥

भक्त्युद्रेकाप्लुतांगोऽथ स्तुतिमेतामथाचरम्

॥१७॥

सर्ववेदरहस्यैश्च नामभिश्च शताष्टभिः ॥

सप्तसप्तिरचिंत्यात्मा महाकारुणिकोत्तमः

॥१८॥

संजीवनो जयो जीवो जीवनाथो जगत्पतिः ॥

कालाश्रयः कालकर्ता महायोगी महामतिः

॥१९॥

भूतांतकरणो देवः कमलानन्दनन्दनः ॥

सहस्रपाच्च वरदो दिव्यकुण्डलमण्डितः

॥२०॥

धर्मप्रियोचितात्मा च सविता वायुवाहनः ॥

आदित्योऽक्रोधनः सूर्यो रश्मिमाली विभावसुः

॥२१॥

दिनकृद्दिनहृन्मौनी सुरथो रथिनांवरः ॥

राज्ञीपतिः स्वर्णरेताः पूषा त्वष्टा दिवाकरः

॥२२॥

आकाशतिलको धाता संविभागी मनोहरः ॥

प्रज्ञः प्रजापतिर्धन्यो विष्णुः श्रीशो भिषग्वरः

॥२३॥

आलोककृल्लोकनाथो लोकपालनमस्कृतः ॥

विदिताशयश्च सुनयो महात्मा भक्तवत्सलः

॥२४॥

कीर्तिकीर्तिकरो नित्यो रोचिष्णुः कल्मषापहः ॥

जितानन्दो महावीर्यो हंसः संहारकारकः

॥२५॥

कृतकृत्यः सुसंगश्च बहुज्ञो वचसां पतिः ॥

विश्वपूज्यो मृत्युहारि घृणी धर्मस्य कारणम्

॥२६॥

प्रणतार्तिहरोऽरोग आयुष्यमान्सुखदः सुखी ॥

मङ्गलं पुण्डरीकाक्षो व्रती व्रतफलप्रदः

॥२७॥

शुचिः पूर्णो मोक्षमार्गदाता भोक्ता महेश्वरः ॥

धन्वंतरिः प्रियाभाषी धनुर्वेदविदेकराट

॥२८॥

जगत्पिता धूमकेतुर्विधूतो ध्वांतहा गुरुः ॥

गोपतिश्च कृतातिथ्यः शुभाचारः शुचिप्रियः

॥२९॥

सामप्रियो लोकबन्धुर्नैकरूपो युगादिकृत् ॥

धर्मसेतुर्लोकसाक्षी खेटतऋ सर्वदः प्रभुः

॥३०॥

मयैवं संस्तुतो भानुर्नाम्नामष्टशतेन च ॥

तुष्यतां सर्वलोकानां सर्वलोकप्रियो विभुः

॥३१॥

इत्येवं संस्तवात्प्रीतो भास्करो मामवोचत ॥

सदात्र कलया स्थास्ये देवर्षे त्वत्प्रियेप्सया

॥३२॥

यो मामत्र महाभक्त्या भट्टादित्यं प्रपूजयेत् ॥

सहस्रशः का मरूपे संपूज्याप्नोति तत्फलम्

॥३३॥

मामुद्दिश्य च यो विप्रः स्वल्पं वा यदि वा बहु ॥

दास्यतेऽत्राक्षयं तच्च ग्रहीष्ये करजं यथा

॥३४॥

रक्तोत्पलैश्च कह्लारैः केसरैः करवीरकैः ॥

शतत्रयैर्महाप्दमै रविवारेण मानवः

॥३५॥

सप्तम्यामथ षष्ठ्यां वा येऽर्चयिष्यंति मामिह ॥

यान्यान्प्रार्थयते कामांस्तांतान्प्राप्स्यति निश्चितम्

॥३६॥

दर्शनान्मम भक्त्या च नाशो व्याधिदरिद्रयोः ॥

प्रणामात्स्वर्गमाप्नोति श्रुत्वा मोक्षं च नित्यशः

॥३७॥

अभक्तिं यश्च कर्ता मे स गच्छेन्निश्चिंतं क्षयम् ॥

अष्टोत्तरशतं नाम ममाग्रे यत्त्वयेरितम्

॥३८॥

त्रिकालमेककालं वा पठतः श्रृणुयत्फलम् ॥

कीर्तिमान्सुभगो विद्वान्सुसुखी प्रियदर्शनः

॥३९॥

भवेद्वर्षशतायुश्च सर्वरोगविवर्जितः ॥

यस्त्विदं श्रृणुयान्नित्यं पठेद्वा प्रयतः शुचिः

॥४०॥

अक्षयं स्वल्पमप्यन्नं भवेत्तस्योपसाधितम् ॥

विजयी च भवेन्नित्यं तथा जातिस्मरो भवेत्

॥४१॥

तस्मादेतत्त्वया जाप्यं परं स्वस्त्ययनं महत् ॥

तथा ममाग्रे कुंडं च कुरु स्नानार्थमुत्तमम्

॥४२॥

कामरूपकला यत्र तत्र कुंडं वने भवेत् ॥

एवं दत्त्वा वरान्भानुस्तत्रैवां तरधीयत

॥४३॥

ततो भास्करवाक्येन सिद्धेशस्य च सव्यतः ॥

वनमध्ये मया कुंडं कृतं दर्भशलाकया

॥४४॥

कामरूपभवं कुंडं वृक्षास्ते चापि भारत ॥

संलीनास्तन्महाश्चर्यं ममाजायत चेतसि

॥४५॥

माघमासस्य शुक्लायां सप्तम्यां स्त्री नरोऽपि वा ॥

स्नानं कुंडे शुभं कृत्वा भट्टादित्यं प्रपश्यति

॥४६॥

तस्यानंतं भवेत्पुण्यं रथं यश्च प्रपूजयेत् ॥

रथयात्रां च कुरुते यस्मिन्यस्मिन्नसौ पथि

॥४७॥

ये च पश्यंति लोकास्ते धन्याः सर्वे न संशयः ॥

पुत्रधान्यधनैर्युक्ता नीरुजस्तेजसाऽन्विताः

॥४८॥

भविष्यंति नरास्ते ये कारयंति रथोत्सवम् ॥

गंगादिसर्वतीर्थेषु यत्फलं कीर्तितं बुधैः

॥४९॥

भट्टादित्यस्य कुंडे च तत्फलं सप्तमीदिने ॥

तत्र कुंडे च यः स्नात्वा सूर्यार्घ्यं प्रयच्छति ॥

कपिला गोशतस्यासौ दत्तस्य फलमश्नुते

॥५०॥

अर्जुर उवाच

वासुदेवादयः सर्वे वदंत्येवं महामुने

॥५१॥

भास्करार्घं विना पातः कृतं सर्वं च निष्फलम् ॥

तस्याहं श्रोतुमिच्छामि विधिं विधिविदां वर

॥५२॥

नारद उवाच

यथा ब्रह्मादयो देवा यच्छंत्यर्घं महात्मने ॥

भास्कराय श्रृणु त्वं तं विधिं सर्वाघनाशनम्

॥५३॥

प्रथमं तावत्प्रत्युषे उदिते सूर्ये शुचिर्भूत्वा गोमयकृतमंडलस्योपरि रक्तचंदनेन मंडलकं कृत्वा ततस्ताम्रपात्रे रक्तचंदनोदकश्वेतचंदनादिद्रव्यैः प्रपूरणं कृत्वा तन्मध्ये हेमाक्षतदूर्वादधिसर्पीषि परिक्षिप्य स्थापयेत्

॥५४॥

स्वशरीरमालभेत् अनेन मंत्रेण ॥

ॐखखोल्काय नमः ॥

सप्तवारानुच्चार्य स्थातव्यम् ॥

तेन शुद्धिरुपसंजायते देहस्यार्चार्हता भवति ॥

पश्चादासनस्थं देवं सवितारं मंडलमध्ये द्वादशात्मकं सुरादिभिः संपूज्यमानं ध्यात्वा पूर्वोक्तमर्घपात्रं शिरसि कृत्वा भूमौ जानुनी निपात्य सूर्याभिमुखस्तद्गतमनाभूत्वार्घमंत्रमुदाहरेत् ॥

तदुच्यते सूर्यवक्त्राद्विनिर्गतमिति

॥५५॥

यस्योच्चारणशब्देन रथं संस्थाप्य भास्करः ॥

प्रतिगृह्णाति चैवार्घ्यं वरमिष्टं च यच्छति

॥५६॥

ॐयस्याहुः सप्त च्छंदांसि रथे तिष्ठंति वाजिनः ॥

अरुणः सारथिर्यस्य रथवाहोऽग्रतः स्थितः

॥५७॥

जया च विजया चैव जयंती पापनाशनी ॥

इडा च पिंगला चैव वहंतोऽश्वमुखास्तथा

॥५८॥

डिंडिश्च शेषनागश्च गणाध्यक्षस्तथैव च ॥

स्कंदरेवंततार्क्ष्याश्च तथा कल्माषपक्षिणौ

॥५९॥

राज्ञी च निक्षुभा देवी ललिता चैव संज्ञिका ॥

तथा यज्ञभुजो देवा ये चान्ये परिकीर्तिताः

॥६०॥

एभिः परिवृतो योऽसावधरोत्तरवासिभिः ॥

तमहं लोककर्तारमाह्वयामि तमोपहम्

॥६१॥

अम्मयो भगवान्भानुरमुं यज्ञं प्रवर्तयन् ॥

इदमर्घ्यं च पाद्यं च प्रगृहाण नमोनमः

॥६२॥

आवाहनम् ॥

सहस्रकिरण वरद जीवनरूप ते नमः ॥

इति सांनिध्यकरणम् ॥

ॐवषट् इत्युच्चार्य सूर्यस्य चरणयुगलं पश्यन् भुवि पद्म्यां पात्रीं निर्वापयेत् पाद्यं तदुच्यते ॥

एवं पाद्यं दत्त्वा बद्धांजलिः सुस्वागतमिति कुर्यात् ॥

स्वागतं भगवन्नेहि मम प्रसादं विधाय आस्यताम् ॥

इह गृहाण पूजां च प्रसादं च धिया कुरु ॥

तिष्ठ त्वं तावदत्रैव यावत्पूजां करोम्यहम्

॥६३॥

एवं विज्ञापनं दद्यादनेन मंत्रेण कमलासनम् ॥

तत्कमलासनं कमलनंदन उपाविशति ॥

आसन उपविष्टस्य शेषां पूजां नियोजयेत् अनेन विधानेन ॥

ॐसोममूर्तिक्षीरोदपतये नमः ॥

इति क्षीरादिस्नपनम् ॥

ॐभास्कराय नीरव सिने नमः ॥

इति जलस्नानम् ॥

ततो वासोयुगं शुभ्रं दद्यात् अनेन मंत्रेण ॥

इदं वासोयुगं सूर्य गृहाण कृपया मम ॥

कटिभूषणमेकं ते द्वितीयं चांगप्रावरणम्

॥६४॥

ततो यज्ञोपवीतं दद्यात् अनेन मंत्रेण ॥

सूत्रतंतुमयं शुद्धं पवित्रमिदमुत्तमम् ॥

यज्ञोपवीतं देवेश प्रगृहाण नमोऽस्तु ते

॥६५॥

ततो यथाशक्ति श्वेतमुकुटमुद्रिकादिभूषणानि दद्यात् अनेन मंत्रेण ॥

मुकुटो रत्ननद्धोऽयं मुद्रिकां भूषणानि च ॥

अलंकारं गृहणेमं मया भक्त्या समर्पितम्

॥६६॥

एवमलंकारं निवेद्य पश्चात्केशरकुंकुमकर्पूररक्तचंदनमिश्रमनुलेपनं दद्यात्

॥६७॥

ॐतवातिप्रिय वृक्षाणां रसोऽयं तिग्मदीधिते ॥

स तवैवोचितः स्वामिन्गृहाण कृपया मम

॥६८॥

ततश्चंपकजपाकरवीरकर्णककेसरकोकनदादिभिः पूजां कुर्यात्

॥६९॥

ॐवनस्पतिरसो दिव्यो गंधाढ्यो गंध उत्तमः ॥

आहारः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्

॥७०॥

शल्लकीधूपमंत्रः ॥

ततः पायसादिनिष्पन्नं नैवेद्यं निवेदयेदनेन मंत्रेण ॥

नैवेद्यममृतं सर्वभूतानां प्राणवर्धनम् ॥

पूर्णपात्रे मया दत्तं प्रतिगृह्ण प्रसीद मे

॥७१॥

ततः शौचोदकतांबूलदीपारार्तिकशीतलिकापुनः पूजादि निवेद्य यथाशक्त्या स्तुत्वा सुकृतं दुष्कृतं वा क्षमस्वेति प्रोच्य विसर्जयेत् ॥

ततो भूयो नमस्य हेमवस्त्रोपवीतालंकारान् ब्राह्मणाय निवेद्य निर्माल्यं संहृत्यांभसि निक्षिपेत्

॥७२॥

इत्यर्घ्यदानविधिः ॥

य एवं भास्करायार्घ्यं मूर्तौ मंडलकेऽपि वा ॥

नित्यं निवेदयेत्प्रातः स्याद्रवेरात्मवत्प्रियः

॥७३॥

अनेन विधिना कर्णो भास्करार्घ्यं प्रयच्छति ॥

ततः सूर्यस्य पार्थासावात्मवद्वल्लभो मतः

॥७४॥

अशक्तश्चेन्नित्यमेकमर्घ्यं दद्याद्दिवाकृते ॥

ततोऽत्र रथसप्तम्यां कुंडे देयः प्रयत्नतः

॥७५॥

अश्वमेधफलं प्राप्य सूर्यलोक मवाप्नुयात् ॥

तस्मात्सर्वप्रयत्नेन दातव्योऽर्घोऽत्र भारत

॥७६॥

एवंविधस्त्वसौ देवो भट्टादित्योऽत्र तिष्ठति ॥

भूयानतोऽपि बहुशः पापहा धर्मवर्धनः

॥७७॥

दिव्यमष्टविधं चात्र सद्यः प्रत्ययकारकम् ॥

पापानां चोपभुक्तं हि यथा पार्थ हलाहलम्

॥७८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे सागरसंगमे भट्टादित्यमाहात्म्यवर्णनंनाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥