मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ३३

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 33

ततस्तं गिरिवर्ष्माणं पतितं वसुधोपरि

नारद उवाच

ततस्तं गिरिवर्ष्माणं पतितं वसुधोपरि ॥

आलिंगितमिव पृथ्व्या गुणिन्या गुणिनं यथा

॥१॥

दृष्ट्वा देवा विस्मितास्ते जयं जगुस्तथा मुहुः ॥

केचित्समीपमागंतुं बिभ्यति त्रिदिवौकसः

॥२॥

उत्थाय तारको दैत्यः कदा चिन्नो निहंति चेत् ॥

तं तथा पतितं दृष्ट्वा वसुधामण्डले गुहः

॥३॥

आसीद्दीनमनाः पार्थ शुशोच च महामतिः ॥

स्तवनं चापि देवानां वारयित्वा वचोऽब्रवीत्

॥४॥

शोच्यं पातकिनं मां च संस्तुवध्वं कथं सुराः ॥

पंचानामपि यो भर्ता प्राकृतोऽसौ न कीर्त्यते

॥५॥

स तु रुद्रांशजः प्रोक्तस्तस्य द्रुह्यन्न रुद्रँवत् ॥

स्वायंभुवेन गीतश्च श्लोकः संश्रूयते तथा

॥६॥

वीरं हि पुरुषं हत्वा गोसहस्रेण मुच्यते ॥

यथाकथंचित्पुरुषो न हंतव्यस्ततो बुधैः

॥७॥

पापशीलस्य हनने दोषो यद्यपि नास्ति च ॥

तथापि रुद्रभक्तोऽयं संस्मरन्निति शोचिमि

॥८॥

तदहं श्रोतुमिच्छामि प्रायाश्चित्तं च किंचन ॥

प्रायश्चित्तैरपैत्येनो यतोपि महदर्जितम्

॥९॥

इति संशोचतस्तस्य शिवपुत्रस्य धीमतः ॥

वासुदेवो गुरुः पुंसां देवमध्ये वचोऽब्रवीत्

॥१०॥

श्रुतिः स्मृतिश्चेतिहासाः पुराणं च शिवात्मज ॥

प्रमाणं चेत्ततो दुष्टवधे दोषो न विद्यते

॥११॥

स्वप्राणान्यः परप्राणैः प्रपुष्णात्यघृणः पुमान् ॥

तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान्

॥१२॥

अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्या पचारिणी ॥

गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम्

॥१३॥

पापिनं पुरुषं यो हि समर्थो न निहंति च ॥

तस्य तावंति पापानि तदर्धं सोऽप्यवाश्रुते

॥१४॥

पापिनो यदि वध्यंते नैव पालनसंस्थितैः ॥

ततोऽयमक्षमो लोकः कं याति शरणं गुह

॥१५॥

कथं यज्ञाश्च वेदाश्च वर्तते विश्वधारकाः ॥

तस्मात्त्वया पुण्यमाप्तं न च पापं कथंचन

॥१६॥

अथ चेद्रुद्रभक्तेषु बहुमानस्तव प्रभो ॥

तत्र ते कीर्तयिष्यामि प्रायश्चित्तं महोत्तमम्

॥१७॥

आजन्मसंभवैः पापैः पुमान्येन विमुच्यते ॥

आकल्पांत च वा येन रुद्रलोके प्रमोदते

॥१८॥

कृते पापेऽनुतापो वै यस्य स्कन्द प्रजायते ॥

रुद्राराधनतोऽन्यच्च प्रायश्तित्तं परं न हि

॥१९॥

न यस्यालमपि ब्रह्मामहिमानं विवर्णितुम् ॥

श्रुतिश्च भीता यं वक्ति किं तस्मात्परमं भवेत्

॥२०॥

अकांडे यच्च ब्रह्मांडक्षयोद्युक्तं हलाहलम् ॥

कण्ठे दधार श्रीकण्ठः कस्तस्मात्परमो भवेत्

॥२१॥

दुःखतांडवदीनोऽभूदण्डसंकीर्णमानसः ॥

मारमारश्च यो देवः कस्तस्मात्परमो भवेत्

॥२२॥

वियद्व्यापी सुरसरित्प्रवाहो विप्रुषाकृतिः ॥

बभूव यस्य शिरसि कस्तस्मात्परमो भवेत्

॥२३॥

यज्ञादिकाश्च ये धर्मा विना यस्यार्चनं वृथा ॥

दक्षोऽत्र सत्यदृष्टांतः कस्तस्मात्परमो भवेत्

॥२४॥

क्षोणी रथो विधिर्यंता शरोऽहं मन्दरो धनुः ॥

रथांगे चापि चंद्रार्कौ युद्धे यस्य च त्रैपुरे

॥२५॥

आराधनं तस्य केचिद्योगमार्गेण कुर्वते ॥

दुःखसाध्यं हि तत्तेषां नित्यं शून्यमुपासताम्

॥२६॥

तस्मात्तस्यार्चयेल्लिंगं भुक्तिमुक्ती य इच्छति ॥

सृष्ट्यादौ लिंगरूपी स विवादो मम ब्रह्मणः

॥२७॥

अभूद्यस्य परिच्छेदे नालमावां बभूविव ॥

चराचरं जगत्सर्वं यतो लीनं सदात्र च

॥२८॥

तस्माल्लिंगमिति प्रोक्तं देवै रुद्रस्य धीमतः ॥

तोयेन स्नापयेल्लिंगं श्रद्धया शुचिना च यः

॥२९॥

ब्रह्मादितृणपर्यंतं तेनेदं तर्पितं जगत् ॥

पंचामृतेन तल्लिंगं स्नापयेद्यश्च बुद्धिमान्

॥३०॥

तर्पितं तेन विश्वं स्यात्सुधया पितृभिः समम् ॥

पुष्पैरभ्यर्चयेल्लिंगं यथाकालोद्भवैश्चयः

॥३१॥

तेन संपूजितं विश्वं सकलं नात्र संशयः ॥

नैवेद्यं तत्र यो दद्याल्लिंगस्याग्रे विचक्षणः

॥३२॥

भोजितं तेन विश्वं स्याल्लिंगस्यैवं फलं महत् ॥

किमत्र बहुनोक्तेन स्वल्पं वा यदि व बहु

॥३३॥

लिंगस्य क्रियते यच्च तत्सर्वं विश्वप्रीतिदम् ॥

तच्च लिगं स्थापयेद्यः शुचौ देशे सुभक्तितः

॥३४॥

स सर्वपापनिर्मुक्तो रुद्रलोके प्रमोदते ॥

यन्नित्यं यजतो यज्ञैः फलमाहुर्मनीषिणः

॥३५॥

तच्च स्थापयतो लिंगं शिवस्य शुभलक्षणम् ॥

यथाग्निः सर्वदेवानां मुखं स्कन्द प्रकीर्त्यते

॥३६॥

तथैव सर्वजगतां मुखं लिंगं न संशयः ॥

प्रारंभान्मुच्यते पापैः सर्वजन्मकृतैरपि

॥३७॥

अतीतं च तथागामि कुलानां तारयेच्छतम् ॥

मृन्मयं काष्ठनिष्पन्नं पक्वेष्टं शैलमेव च

॥३८॥

कृतमायतनं दद्यात्क्रमाच्छतगुणं फलम् ॥

कलशं तत्र चारोप्य एकविंशत्कुलैर्युतः

॥३९॥

आकल्पांतं रुद्रलोके मोदते रुद्रवत्सुखी ॥

एवंविधफलं लिंगमतो भूयोऽप्यधो न हि

॥४०॥

तस्मादत्र महासेन लिंगं स्थापितुमर्हसि ॥

यदुक्तमेतदश्लीलं यदि किंचन चात्र चेत्

॥४१॥

तद्ब्रवीतु महा सेन स्वयं साक्षी महेश्वरः ॥

एवं वदति गोविंदे साधुवादो महानभूत्

॥४२॥

महादेवो ह्यथालिंग्य स्कन्दं वचनब्रवीत् ॥

यद्भवान्मम भक्तेषु प्रकरोति कृपां पराम्

॥४३॥

तेनापि परमा प्रीतिर्मम जाता तवोपरि ॥

किं तु यद्भगवानाह वासुदेवो जगद्गुरुः

॥४४॥

तत्त्था नान्यथा किंचिदत्र प्रोक्तं हि विष्णुना ॥

यो ह्यहं स हरिर्ज्ञेयो यो हरिः सोऽहमित्युता

॥४५॥

नावयोरंतरं किंचिद्दीपयोरिव सुव्रत ॥

एनं द्वेष्टि स मां द्वेष्टियोन्वेत्येनं स माऽनुगः

॥४६॥

इति स्कन्द विजानाति स मद्भक्तोन्यथा न हि

॥४७॥

स्कन्द उवाच

एवमेवास्मि जानामि त्वां च विष्णुं च शंकर

॥४८॥

यच्च लिंगकृते प्राह हरिर्मां धर्मवत्सलः ॥

खे वाणी तारकवधे एवमेव पुराह माम्

॥४९॥

लिंगं संस्थापयिष्यामि सर्वपापा पहं ततः ॥

एकं यत्र प्रतिज्ञा मे गृहीतास्य वधाय च

॥५०॥

द्वितीयं यत्र निःसत्त्वसत्यक्तः शक्त्याऽसुरोऽभवत् ॥

तृतीयं यत्र निहतो हत्या पापोपशांतिदम्

॥५१॥

इत्युक्त्वा विश्वकर्माणमाहूय प्राह पावकिः ॥

त्रीणि लिंगानि शुद्धानि शीघ्रं त्वं कर्तुमर्हसि

॥५२॥

वचनाद्बाहुलेयस्य निर्ममे देववर्द्धकिः ॥

त्रीणि लिंगानि शुद्धानि न्यवेदयत तानि च

॥५३॥

ततो ब्रह्मादिभिः सार्धं विष्णुना शंकरेण च ॥

पूर्वं संस्थापयामास पश्चिमायामदूरतः

॥५४॥

प्रतिज्ञेश्वरमित्येव लिंगं परमशोभनम् ॥

अष्टम्यां बहुले चात्र चैत्रे स्नात्वा उपोष्य च

॥५५॥

पूजां च जागरं कृत्वा मुच्येत्पारुष्यपापतः ॥

इत्याह स्कंदप्रीत्यर्थं स्वयं तत्र महेश्वरः

॥५६॥

ततो द्वितीयं लिंगं तु वह्निकोणाश्रितं तथा ॥

स्थापयामास सरसो यत्र शक्तिर्विनिर्ययौ

॥५७॥

कपालेश्वरमित्येव लिंगं पापापहं शुभम् ॥

शक्तिं च तामभिष्टूय स्थापयामास तत्र च

॥५८॥

कपालेश्वरसांनिध्यं देवीं कापालिकेश्वरीम् ॥

तत्र चोत्तरदिग्भागे शक्तिच्छिद्रं प्रचक्षते

॥५९॥

पातालगंगा यत्रास्तिं सर्वपापहरा शिवा ॥

तत्र स्नात्वा ददौ स्कंदः कृपयाभिपरिप्लुतः

॥६०॥

तदा तोयं तारकाय सहितः सर्वदैवतैः

॥६१॥

काश्यपेयाय वज्रांगतनयाय महात्मने ॥

रुद्रभक्ताय सतिलमक्षय्योदकमस्त्विति

॥६२॥

ततो महेश्वरः प्रीतः प्राह स्कंदस्य श्रृण्वतः ॥

चतुर्दश्यां कृष्णपक्षे मधौ चैवात्र यो नरः ॥

स्नात्वोपोष्य समभ्यर्च्य कपालेश्वरमीश्वरीम्

॥६३॥

तेजोवधसमुद्भूतपातकेन स मुच्यते

॥६४॥

अस्यामेव तिथौ सोमः शिवयोगश्च तैतिलम् ॥

षड्योगः शक्तिच्छिद्रेयो दिनं रुद्रं जपन्निशि ॥

स्नात्वात्र सशरीरो वै रुद्रलोकं व्रजीष्यति

॥६५॥

कपालेशस्य सांनिध्ये शक्तिच्छिद्रं हि कीर्त्यते ॥

तस्य तुल्यं परं तीर्थं पृथिव्यां नैव विद्यते

॥६६॥

इति श्रुत्वा रुद्रवाक्यं स्कंदः प्रीतोऽभवद्भृशम् ॥

देवाश्च मुदिताः सर्वे साधुसाध्विति ते जगुः

॥६७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारस्थापितज्ञेश्वरशक्तिच्चिद्रेश्वर माहात्म्यवर्णनं नाम त्रयस्त्रिंशो.़ध्यायः ॥ ३३ ॥