मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ६२

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 62

साधनवर्णनम्

शौनक उवाच

सूत श्रुता पुरास्माभिरुत्पत्तिर्गणपस्य च ॥

क्षेत्रनाथः कथं जज्ञे वदैतच्छृण्वतां हि नः

॥१॥

सूत उवाच

यदा दारुकदैत्येन पीड्यमाना दिवौकसः ॥

शिवं देव्या सहासीनं प्रणिपत्येदमब्रुवन्

॥२॥

देव दैत्येन घोरेण दुर्जयेन सुरासुरैः ॥

पीडिता दारुकेण स्मः स्वस्थानाच्चापि च्याविताः

॥३॥

न विष्णुना न चंद्रेण न चान्येनापि केनचित् ॥

शक्यो हंतुं स दुष्टात्मा अर्धनारीश्वरं विना

॥४॥

तेन संपीड्यमानानामस्माकं शरणं भव ॥

इत्युक्त्वा रुरुदुर्देवास्त्राहित्राहीति चाब्रुवन्

॥५॥

ततोऽतिकृपयाविष्टहरकंठस्य कालिमाम् ॥

गृहीत्वा पार्वती चक्रे नारीमेकां महाभयाम्

॥६॥

आत्मशक्तिं तत्र मुक्त्वा प्रोवाचेदं वचः शुभा ॥

यस्मादतीव कालासि नाम्ना त्वं कालिका भव

॥७॥

देवारिं च दुरात्मानं शीघ्रं नाशय शोभने ॥

एवमुक्ता महारावा कालिका प्राप्य तं तदा

॥८॥

रवेणैव मृतं चक्रे सानुगं स्फुटितहृदम् ॥

ततोवन्ती श्मशानस्था महारावानमुंचत

॥९॥

यैरासन्विकला लोकास्त्रयोऽपि प्रमृता यथा ॥

ततो रुद्रो बालरूपं कृत्वा विश्वकृते विभुः

॥१०॥

रुदंस्तस्याः समीपे चाप्यागतः प्रेतसद्मनि ॥

रुदंतं च ततो बालं कृत्वोत्संगे कृपान्विता

॥११॥

कालिकाऽपाययत्स्तन्यं मा रुदेति प्रजल्पती ॥

स्तन्य व्याजेन बालोऽपि पपौ क्रोधं तदंगजम्

॥१२॥

योऽसौ हरकंठभवविषादासीत्सुदुर्धरः ॥

पीतक्रोधस्वभावे च सौम्यासीत्कालिका तदा

॥१३॥

बालोऽपि बालरूपं तत्त्यक्तुमैच्छत्कृतक्रिहया:

॥१४॥

ततो देवाः कालिकायाः शंकमानाः पुनर्भयम् ॥

ऊचुर्मा बाल बालत्वं परित्यज कृपां कुरु

॥१५॥

बाल उवाच

न भेतव्यं कालिकायाः सौम्या देवी यतः कृता ॥

अस्ति चेद्भवतां भीतिरन्यान्स्रक्ष्यामि बालकान् ॥

चतुःषष्टिक्षेत्रपालानित्युक्त्वा सोऽसृजन्मुखात्

॥१६॥

प्राह तान्बालरूपांश्च बालरूपी महेश्वरः ॥

स्वर्गेषु पंचविशानां पातालेषु च तावताम्

॥१७॥

चतुर्दशानां भूर्लोके वासो वः पालनं तथा ॥

अयमेव श्मशानस्थो भविता श्वा च वाहनम्

॥१८॥

नैवेद्यं भवतां राजमाषतंदुलमिश्रकाः ॥

अनभ्यर्च्य च यो युष्मान्किंचित्कृत्यं विधास्यति

॥१९॥

तस्य तन्निष्फलं भावि भुक्तं प्रेतैश्च राक्षसैः ॥

इत्युक्त्वा भगवान्रुद्रस्तत्रैवां तरधीयत

॥२०॥

क्षेत्रपालाः स्थिताश्चैव यथास्थाने निरूपिताः ॥

इति वः क्षेत्रपालानां सृष्टिः प्रोक्ता समासतः

॥२१॥

आराधनं प्रवक्ष्यामि येन प्रीता भवंति ते

॥२२॥

ॐक्षां क्षेत्रपालाय नमः ॥

इति नवाक्षरो महामंत्रः

॥२३॥

अनेनात्र चंदनादि दत्त्वा राजमाषतण्डुलमिश्रकाश्च चतुःषष्टिकृतभागान्वटकान्निवेद्य तावत्यो दीपिकास्तावन्ति पत्राणि पूगानि निवेद्य दण्डवत्प्रणम्य महास्तुतिमेतां जपेत्

॥२४॥

ॐऊर्ध्वकेशा विरू पाक्षा नित्यं ये घोररूपिणः ॥

रक्तनेत्राश्च पिंगाक्षाः क्षेत्रपालान्नमामि तान्

॥२५॥

अह्वरो ह्यापकुम्भश्च इडाचारस्तथैव यः ॥

इंद्रमूर्तिश्च कोलाक्ष उपपाद ऋतुंसनः

॥२६॥

सिद्धेयश्चैव वलिको नीलपादेकदंष्ट्रिकः ॥

इरापतिश्चाघहारी विघ्नहारी तथांतकः

॥२७॥

ऊर्ध्वपादः कम्बलश्च खंजनः खर एव च ॥

गोमुखश्चैव जंघालो गणनाथश्च वारणः

॥२८॥

जटालोप्यजटालश्च नौमि स्वःक्षेत्रपालकान् ॥

ऋकारो हठकारी च टंकपाणिः खणिस्तथा

॥२९॥

ठंठंकणो जंबरश्च स्फुलिंगास्यस्तडिद्रुचिः ॥

दंतुरो घननादश्च नन्दकश्च तथा परः

॥३०॥

फेत्कारकारी पंचास्यो बर्बरी भीमरूपवान् ॥

भग्नपक्षः कालमेघो युवानो भास्करस्तथा

॥३१॥

रौरवश्चापि लंबोष्ठो वणिजः सुजटालिकः ॥

सुगंधो हुहुकश्चैव नौमि पातालरक्षकान्

॥३२॥

सर्वलिंगेषु हुंकारः स्मशानेषु भयावहः ॥

महालक्षो वने घोरे ज्वालाक्षो वसतौ स्थितः

॥३३॥

एकवृक्षश्च वृक्षेषु करालवदनो निशि ॥

घण्टारवो गुहावासी पद्मखंजो जले स्थितः

॥३४॥

चत्वरेषु दुरारोहः पर्वते कुरवस्तथा ॥

निर्झरेषु प्रवाहाख्यो माणिभद्रो निधिष्वपि

॥३५॥

रसक्षेत्रे रसाध्यक्षो यज्ञवाटेषु कोटनः ॥

चतुर्दश भुवं व्याप्य स्थिताश्चैवं नमामि तान्

॥३६॥

एवं चतुःषष्टिमिताञ्छरणं यामि क्षेत्रपान् ॥

प्रसीदंतु प्रसीदंतु तृप्यंतु मम पूजया

॥३७॥

सर्वकार्येषु यश्चैवं क्षेत्रपानर्चयेच्छुचिः ॥

क्षेत्रपास्तस्य तुष्यंति यच्छंति च समीहितम्

॥३८॥

इमं क्षेत्रपकल्पं च विजानन्विजयस्तथा ॥

यथोक्तविधिनाभ्यर्च्य सिद्धेयं तुष्टुवे च तम्

॥३९॥

प्रणम्य च ततो देवीमानर्च वटयक्षिणीम् ॥

पुरा यदा नारदेन कलापग्रामतो द्विजाः

॥४०॥

समानीतास्तैश्च साकं सुनंदा नाम ब्राह्मणी ॥

विधवाभ्यागता तत्र तपस्तप्तुं महीतटे

॥४१॥

सा कृच्छ्राणि पराकांश्च अतिकृच्छ्राणि कुर्वती ॥

ज्यैष्ठे भाद्रपदे चक्रे सावित्र्या द्वे त्रिरात्रिके

॥४२॥

मासोपवासं च तथा कार्तिके कुलनंदिनी ॥

सप्तलिंगानि संपूज्य देवीपूजां सदा व्यधात्

॥४३॥

दर्शे स्नानं तथा चक्रे महीसागरसंगमे ॥

इत्यादिबहुभिस्तैस्तैर्नित्यं नियमपालनैः

॥४४॥

धूतपापा ययौ लोकमुमायाः कृतस्वागता ॥

अंशेन च तटे तस्मिन्संभूता वटयक्षिणी

॥४५॥

तस्यास्तुष्टो वरं प्रादात्सिद्धलिंगस्थितो हरः ॥

अनभ्यर्च्य य एनां च मत्पूजां प्रकरिष्यति

॥४६॥

तस्य तन्निष्फलं सर्वमित्युक्तं पाल्यमेव मे ॥

तस्मात्प्रपूजयेन्नित्यं वटस्थां वटयक्षिणीम् ॥

पुष्पैर्धूपैस्तु नैवेद्यैर्मंत्रेणानेन भक्तितः

॥४७॥

सुनंदे नंदनीयासि पूजामेतां गृहाण मे ॥

प्रसीद् सर्वकालेषु मम त्वं वटयक्षिणि

॥४८॥

एवं संपूज्य तां नत्वा क्षमाप्य वटयक्षिणीम् ॥

सर्वान्कामानवाप्नोति नरो नारी च सर्वदा

॥४९॥

विजयश्चापि माहात्म्यमिदं जानन्महामतिः ॥

आनर्च वटवृक्षस्थां भक्तितो वटयक्षिणीम्

॥५०॥

ततः सिद्धांबिकां स्तुत्वा जप्तवानपराजिताम् ॥

महाविद्यां वैष्णवीं तु साधनेन समन्विताम्

॥५१॥

यस्याः स्मरणमात्रेण सर्वदुःखक्षयो भवेत् ॥

तां विद्यां कीर्तयिष्यामि शृणुध्वं विप्रपुंगवाः

॥५२॥

ॐ नमो भगवते वासुदेवाय नमोऽनंताय सहस्रशीर्षाय क्षीरोदार्णवशायिने शेषभोगपर्यंकाय गरुडवाहनाय पीतवाससे वासुदेव संकर्षण प्रद्युम्नानिरुद्ध हयशिरो वराह नरसिंह वामन त्रिविक्रम राम राम वरप्रद नमोऽस्तु ते नमोऽ स्तुते असुरदैत्यदानवयक्षराक्षस भूतप्रेतपिशाचकुंभांड सिद्धयोगिनी डाकिनी स्कंदपुरोगमान्ग्रहान्नक्षत्रग्रहांश्चान्यांश्च हन २ दह २ पच २ मथ २ विध्वंसय २ विद्रावय २ शंखेन चक्रेण वज्रेण गदया मुशलेन हलेन भस्मीकुरु सहस्रबाहवे सहस्रचरणायुध जय २ विजय २ अपराजित अप्रतिहत सहस्रनेत्र ज्वल २ प्रज्वल २ विश्वरूप बहुरूप मधुसूदन महावराह महापुरुष वैकुंठ नारायण पद्मनाभ गोविंद दामोदर हृषीकेश सर्वासुरो त्सादन सर्वभूतवशंकर सर्वदुःखप्रभेदन सर्वयंत्रप्रभंजन सर्वनागप्रमर्दन सर्वदेवमहेश्वर सर्वबंधविमोक्षण सर्वाहितप्रमर्दन सर्वज्वरप्रणाशन सर्वग्रह निवारण सर्वपापप्रशमन जनार्दन जनानंदकर नमोऽस्तु ते स्वाहा

॥५३॥

इमामपराजितां परमवैष्णवीं महाविद्यां जपति पठति शृणोति स्मरति धारयति कीर्तयति न च तस्य वाय्वग्निवज्रोपलाशनिवर्षभयं न समुद्रभयं न ग्रहभयं न च चौरभयं न च श्वापदभयं वा भवेत्

॥५४॥

क्वचिद्रात्र्यंधकारस्त्रीराजकुलविषोपविषगरदवशीकरण विद्वेषणोच्चाटनवधबंधभयं वा न भवेदेतैर्मंत्रपदैरुदाहृतैर्हृदा बद्धैः संसिद्धपूजितैः

॥५५॥

तद्यथा ॥

नमोनमस्तेऽस्तु अभये अनघे अजिते अत्रसिते अमृते अपराजिते पठितसिद्धे स्मरितसिद्ध एकानंशे उमे ध्रुवे अरुंधति सावित्रि गायत्रि जातवेदसि मानस्तोके सरसि सरस्वति धरणि धारिणि सौदामिनि अदिते विनते गौरि गांधारि मातंगि कृष्णे यशोदे सत्यवादिनि ब्रह्मवादिनि कालि कपालिनि सद्योवयवचयनकरि स्थलगतं जलगतमंतरिक्षगतं वा रक्ष २ सर्वभूतभयोपद्रवेभ्यो रक्ष २ स्वाहा

॥५६॥

यस्याः प्रणश्यते पुष्पं गर्भो वा पतते यदि ॥

म्रियंते बालका यस्याः काकवंध्या च या भवेत् ॥

धारयेत इमां विद्यामेभिर्दोषैर्न लिप्यते

॥५७॥

रणे राजकुले द्यूते नित्यं तस्य जयो भवेत् ॥

शस्त्र धारयते ह्येषां समरे कांडधारिणी

॥५८॥

गुल्मशूलाक्षिरोगाणां नित्यं नाशकरी तथा ॥

शिरोरोगज्वराणां च नाशनी सर्वदेहिनाम्

॥५९॥

तद्यथा ॥

हन २ कालि सर २ कालि सर २ गौरि धम २ गौरि धम २ विद्ये आले ताले माले गंधे वधे पच २ विद्ये नाशय पापं हन् दुःस्वप्नं विनाशय कष्टनाशिनि रजनि संध्ये दुंदुभिनादे मानसवेगे शंखिनि चक्रिणि वज्रिणि शूलिनि अपमृत्युविनाशिनि विश्वेश्वरि द्रविडि द्राविडि केशवदयिते पशुपतिमहिते दुर्द्दमदमिनि शर्वरि किराति मातंगि ॐह्राँह्रँह्रँह्रँक्राँक्रँक्रँक्रँत्वर २ ये मां द्विषति प्रत्यक्षं परोक्षं वा सर्वान्दम २ मर्द्द २ तापय २ पातय २ शोषय २ उत्सादय २ ब्रह्माणि माहेश्वरि वाराहि विनायकि ऐंद्रि आग्नेयि चामुंडे वारुणि प्रचंडविद्योते इंदोपेंद्रभगिनि विजये शांतिस्वस्तिपुष्टिविवर्धिनि कामांकुशे कामदुधे सर्वकामवरप्रदे सर्वभूतेषु वासिनि प्रति विद्यां कुरु २ आकर्षिणि वेशिनि ज्वालामालिनि रमणि रामणि धरणि धारिणि मानोन्मानिनि रक्ष २ वायव्ये ज्वालामालिनि तापनि शोषणि नीलपताकिनि महागौरि महाश्रये महामयूरि आदित्यरश्मि जाह्नवि यमधंटे किणि २ चिंतामणि सुरभि सुरोत्पन्ने कामदुघे यथा मनीषितं कार्यं तन्मम सिध्यतु स्वाहा ॐस्वाहा ॐभूः स्वाहा ॐभुवः स्वाहा ॐस्वः स्वाहा ॐभूर्भुवःस्वःस्वाहा यत्रैवागतं पापं तत्रैव प्रतिगच्छतु स्वाहा ॐबले महाबले उासिद्धसाधिनि स्वाहा

॥६०॥

इतीमां साधयामास वैष्णवीमपरा जिताम् ॥

विजयः संयतो भूत्वा मनोबुद्धिसमाधिभिः

॥६१॥

य इमां पठते नित्यं साधनेन विनापि च ॥

तस्यापि सर्वविघ्नानि नश्यंति द्विजपुंगवाः

॥६२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्बरिकोपाख्याने महाविद्या साधनवर्णनंनाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥