मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ४१

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 41

केचिच्छिवं समाश्रित्य विष्णुमाश्रित्य वेधसम्

करधम उवाच

केचिच्छिवं समाश्रित्य विष्णुमाश्रित्य वेधसम् ॥

वर्णयंति परे मोक्षं त्वं तु कस्मात्तु मन्यसे

॥१॥

महाकाल उवाच

अपारवैभवा देवास्त्रयोऽप्येते नरर्षभ ॥

योगींद्राणामपि त्वत्र चेतो मुह्यति किं मम

॥२॥

पुरा किलैवं मुनयो नैमिषारण्यवासिनः ॥

संदिह्यांतः श्रेष्ठतायां ब्रह्मलोकमुपागमन्

॥३॥

तस्मिन्क्षणे विरिंचोऽपि श्लोकं प्रह्वोऽब्रवीत्किल ॥

अनंताय नमस्तस्मै यस्यांतो नोपलभ्यते

॥४॥

महेशाय च भक्ते द्वौ कृपायेतां सदा मयि ॥

ततः श्रेष्ठं च तं मत्वा क्षीरोदं मुनयो ययुः

॥५॥

तत्र योगेश्वरः श्लोकं प्रबुध्यन्नमुमब्रवीत् ॥

ब्रह्माणं सर्वभूतेषु परमं ब्रह्मरूपिणम्

॥६॥

सदाशिवं च वंदे तौ भवेतां मंगलाय मे ॥

ततस्ते विस्मिता विप्रा अपसृत्य ययुः पुनः

॥७॥

कैलासे ददृशुः स्थाणुं वदंतं गिरिजां प्रति ॥

एकादश्यां प्रनृत्यानि जागरे विष्णुसद्मनि

॥८॥

सदा तपस्यां चरामि प्रीत्यर्थं हरिवेधसोः ॥

श्रुत्वेति चापसृत्यैव खिन्नास्ते मुनयोऽब्रुवन्

॥९॥

यद्वा देवा न संयांति पारं ये च परस्परम् ॥

तत्सृष्टसृष्टसृष्टेषु गणना काऽस्मदादिषु

॥१०॥

उत्तमाधममध्यत्वममीषां वर्णयंति ये ॥

असत्यवादिनः पापास्ते यांति निरयं ध्रुवम्

॥११॥

एवं ते निश्चियामासुर्नैमिषेया स्तपस्विनः ॥

सत्यमेतच्च राजेंद्र ममापीदं मतं स्फुटम्

॥१२॥

जापकानां सहस्राणि वैष्णवानां तथैव च ॥

शैवानां च विधिं विष्णुं स्थाणुं चाप्यन्वमूमुचन्

॥१३॥

तस्माद्यस्य मनोरागो यस्मिन्देवे भवेत्स्फुटम् ॥

स तं भजेद्विपापः स्यान्ममेदं मतमुत्तमम्

॥१४॥

करंधम उवाच

कानि पापानि विप्रेंद्र यैस्तु संमूढचेतसः ॥

न वेदेषु न धर्मेषु रतिमापद्यते मनः

॥१५॥

महाकाल उवाच

अधर्मभेदा विज्ञेयाश्चित्तवृत्तिप्रभेदतः ॥

स्थूलाः सूक्ष्मा असूक्ष्माश्च कोटिभेदैरनेकशः

॥१६॥

तत्र ये पापनिचयाः स्थूला नरकहेतवः ॥

ते समासेन कथ्यंते मनोवाक्कायसाधनाः

॥१७॥

तु. महाभारत अनुशासन १३.२ परस्त्रीद्रव्यसंकल्पश्चेतसानिष्टचिंतनम् ॥

अकार्याभिनिवेशश्च चतुर्द्धा कर्म मानसम्

॥१८॥

अनिबद्धप्रलापित्वमसत्यं चाप्रियं च यत् ॥

परापवादपैशुन्यं चतुर्धा कर्म वाचिकम्

॥१९॥

अभक्ष्यभक्षणं हिंसा मिथ्या कामस्य सेवनम् ॥

परस्वानामुपादानं चतुर्धा कर्म कायिकम्

॥२०॥

इत्येतद्द्वादशविधं कर्म प्रोक्तं त्रिसंभवम् ॥

अस्य भेदान्पुनर्वक्ष्ये येषां फलमनंतकम्

॥२१॥

ये द्विषंति महादेवं संसारार्णवतारकम् ॥

सुमहात्पातकोपेतास्ते यांति नरकाग्निषु

॥२२॥

महांति पातकान्याहुर्निरंतरफलानि षट्‌ ॥

नाभिनंदंति ये दृष्ट्वा शंकरं न स्तुवंति ये

॥२३॥

यथेष्टचेष्टा निःशंकाः संतिष्ठंति रमंति च ॥

उपचारविनिर्मुक्ताः शिवस्य गुरुसंनिधौ

॥२४॥

शिवाचारं न मन्यंते शिवभक्तान्द्विषंति षट् ॥

गुरुमार्त्तमशक्तं वा विदेशप्रस्थितं तथा

॥२५॥

अरिभिः परिभूतं वा यस्त्यजति स पापकृत् ॥

तद्भार्यापुत्रमित्रेषु यश्चावज्ञां करोति वा

॥२६॥

इत्येतत्पातकं ज्ञेयं गुरुनिंदासमं महत् ॥

ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः

॥२७॥

महापातकिनस्त्वेते तत्संसर्गी च पंचमः ॥

क्रोधाद्द्वेषाद्भयाल्लोभाद्ब्राह्मणस्य वदंति ये

॥२८॥

मर्मांतिकं महादोषं ब्रह्मघ्नः स प्रकीर्तितः ॥

ब्राह्मणं यः समाहूय याचमानमकिंचनम्

॥२९॥

पश्चान्नास्तीति यो ब्रूयात्स च वै ब्रह्महा स्मृतः ॥

यश्च विद्याभिमानेन निस्तेजयति सद्द्विजम्

॥३०॥

उदासीनः सभामध्ये ब्रह्महा स प्रकीर्तितः ॥

मिथ्यागुणैः स्वमात्मानं नयत्युत्कर्षतां बलात्

॥३१॥

विरुद्धं गुरुभिः सार्धं ब्रह्मघ्नः स प्रकीर्तितः ॥

क्षुत्तृष्णातप्तदेहानां द्विजानां भोक्तुमिच्छताम्

॥३२॥

यः समाचरते विघ्नं तमाहुर्ब्रह्मगातकम् ॥

पिशुनः सर्वलोकानां छिद्रान्वेषणतत्परः

॥३३॥

उद्वेगजननः क्रूरः स च वै ब्रह्महा स्मृतः ॥

गवां तृषाभिभूतानां जलार्थमुपसर्पताम्

॥३४॥

यः समाचरते विघ्नं तमाहुर्ब्रह्मघातकम् ॥

परदोषं परिज्ञाय नृपकर्णे जपेत यः

॥३५॥

पापीयान्पिशुनः क्रूरस्तमाहुर्ब्रह्मघातकम् ॥

न्यायेनोपार्जितं विप्रैस्तद्द्रव्यहरणं च यत्

॥३६॥

छद्मना वा बलाद्वापि ब्रह्महत्यासमं मतम् ॥

अधीत्य यश्च शास्त्राणि परित्यजति मूढधीः

॥३७॥

सुरापानसमं ज्ञेयं जीवनायैव वा पठेत् ॥

अग्निहोत्रपरित्यागः पंचयज्ञोपकर्मणाम्

॥३८॥

मातृपितृपरित्यागः कूटसाक्षी सुहृद्वधः ॥

अभक्ष्यभक्षणं वन्यजंतूनां काम्यया वधः

॥३९॥

ग्रामं वनं गवावासं यश्च क्रोधेन दीपयेत् ॥

इति घोराणि पापानि सुरापानसमानि च

॥४०॥

दीनसर्वस्वहरणं नरस्त्रीगजवाजिनाम् ॥

गोभूरत्नसुवर्णानामौषधीनां रसस्य च

॥४१॥

चंदनागरुकर्पूरकस्तूरीपट्टवाससाम् ॥

हस्तन्यासापहरणं स्कमस्तेयसमं स्मृतम्

॥४२॥

कन्यानां वरयोग्यानामदानं सदृशे वरे ॥

पुत्रमित्रकलत्रेषु गमनं भगिनीषु च

॥४३॥

कुमारीसाहसं घोरमंत्यजस्त्रीनिषेवणम् ॥

सवर्णायाश्च गमनं गुरुतल्पसमं स्मृतम्

॥४४॥

द्विजायार्थं प्रतिश्रुत्य न प्रयच्छति यः पुनः ॥

न च चस्मारयते विप्रं तुल्यं तदुपपपातकम्

॥४५॥

अभिमानोतिकोपश्च दांभिकत्वं कृतघ्नता ॥

अत्यंतविषयासक्तिः कार्पण्यं शाठ्यमत्सरम्

॥४६॥

भृत्यानां च परित्यागः साधुबंधुतपस्विनाम् ॥

गवां क्षत्रियवैश्यानां स्त्रीशूद्राणां च ताडनम्

॥४७॥

शिवाश्रमतरूणां च पुष्पारामविनाशनम् ॥

अयाज्यानां याजनं चाप्ययाच्यानां च याचनम्

॥४८॥

यज्ञारामतडागादिदारापत्यस्य विक्रयः ॥

तीर्थयात्रोपवासानां व्रतायतनकर्मणाम्

॥४९॥

स्त्रीधनान्युपजीवंति स्त्रीभिरत्यंतनिर्जिताः ॥

अरक्षणं च नारीणां मद्यपस्त्रीनिषेवणम्

॥५०॥

ऋणानामप्रदानं च मिथ्याघृद्ध्युपजीवनम् ॥

निंदितानां धनादानं साद्वीकन्योक्तिदूषणम्

॥५१॥

विषमारणयंत्राणां प्रोयगो मूलकर्मणाम् ॥

उच्चाटनाभिचाराश्च रागविद्वेषणक्रिया

॥५२॥

जिह्वाकामोपभो गार्थं यस्यारंभः स्वकर्मसु ॥

मूल्येनाध्यापयेद्यस्तु मूल्येनाधीयते च ये

॥५३॥

व्रात्यता व्रतसंत्यागः सर्वाहारनिषेवणम् ॥

असच्छास्त्राभिगमनं शुष्कतर्काव लंबनम्

॥५४॥

देवाग्निगुरुसाधूनां निंदा गोब्राह्मणस्य च ॥

प्रत्यक्षं वा परोक्षं वा राज्ञां मंडलिनामपि

॥५५॥

उत्सन्नपतृदेवेज्याः स्वकर्मत्यागिनश्च ये ॥

दुःशीला नास्तिकाः पापा न सदा सत्यवादिनः

॥५६॥

पर्वकाले दिवा चाप्सु वियोनौ पशुयोनिषु ॥

रजस्वलास्वयोनौ च मैथुनं यः समाचरेत्

॥५७॥

स्त्रीपुत्रमित्रसुहृदामाशाच्छेदकराश्च ये ॥

जनस्याप्रियवक्तारः क्रूराः समयभेदिनः

॥५८॥

भेत्ता तडागकूपानां संक्रमाणांरसस्य च ॥

एकपंक्तिस्थितानां च पाकभेदं करोति यः

॥५९॥

इत्येतैश्च नराः पापैरुपपातकिनः स्मृताः ॥

युक्तास्तदुनकैः पापैः पापिनस्तान्निबोध मे

॥६०॥

ये गोब्राह्मणकन्यानां स्वामिमित्रतपस्विनाम् ॥

अन्तरं यांति कार्येषु ते स्मृताः पापिनो नराः

॥६१॥

परश्रियाभितप्यंते हीनां सवंति ये स्त्रियाम् ॥

पंक्त्यर्थं ये न कुर्वंति दानयज्ञादिकाः क्रियाः

॥६२॥

गोष्ठाग्निजलरथ्यासु तरुच्छायानगेषु च ॥

त्यजंति ये पुरीषाद्यमारामायतनेषु च

॥६३॥

गीतवाद्यरता नित्या मत्ताः किलकिलापराः ॥

कूटवेषक्रियाचाराः कूटसंव्यवहारिणः

॥६४॥

कूटशासनकर्तारः कूटयुद्धकराश्च ये ॥

निर्दयोऽतीव भृत्येषु पशूनां दमनश्च यः

॥६५॥

मिथ्याप्रसादितो वाक्यमाकर्णयति यः शनैः ॥

चपलश्चापि मायावी शठो मिथ्याविनीतकः

॥६६॥

यो भार्यापुत्रमित्राणि बालवृद्धकृशातुरान् ॥

भृत्यानतिथिबंधूंश्च त्यक्त्वाश्नाति बुभुक्षितान्

॥६७॥

यः स्वयं मृष्टमश्नाति विप्रायान्यत्प्रयच्छति ॥

वृथापाकः स विज्ञेयो ब्रह्मवादिविगर्हितः

॥६८॥

नियमान्स्वयमादाय ये त्यजंत्यजितेंद्रियाः ॥

ये ताडयंति गां नित्यं वाहयंति मुहुर्मुहुः

॥६९॥

दुर्बलान्नैव पुष्णंति प्रणष्टार्था द्विषंति च ॥

पीडयन्त्यभिचारेण सक्षतान्वाहयंति च

॥७०॥

तेषा मदत्त्वा चाश्रंति चिकित्संति न रोगिणः ॥

अजाविको माहिषिकः समुद्री वृषलीपतिः

॥७१॥

हीनवर्णात्मवृत्तिश्च वैद्यो धर्मध्वजी च यः ॥

यश्च शास्त्रमतिक्रम्य स्वेच्छयैवाहरेत्करम्

॥७२॥

सदा दण्डरुचिर्यश्च यो वा दण्डरुचिर्न हि ॥

उत्कोचकैरधिकृतैस्तस्करैस्च प्रपीड्यते

॥७३॥

यस्य राज्ञः प्रजा राष्ट्रे पच्यते नरकेषु सः ॥

अचौरं चौरवत्पश्येच्चौरं वाऽचौररूपिणम्

॥७४॥

आलस्योपहतो राजा व्यसनी नरकं व्रजेत् ॥

एवमादीनि चान्यानि पापान्याहुः पुराविदः

॥७५॥

यद्वातद्वा परद्रव्यमपि सर्षपमात्रकम् ॥

अपहृत्य नरः पापो नारकी नात्र संशयः

॥७६॥

एवमाद्यैर्नरः पापैरुत्क्रान्तैः समनंतरम् ॥

शरीरं यातनार्थाय पूर्वाकारमवाप्नुयात्

॥७७॥

तस्मात्त्रिविधमप्येतन्नारकीयं विवर्जयेत् ॥

सदाशिवं च शरणं व्रजेत्सच्छ्रद्धया युतः

॥७८॥

नमस्कारः स्तुतिः पूजा नामसंकीर्तनं तथा ॥

संपर्कात्कौतुकाल्लोभान्न तस्य विफलं भवेत्

॥७९॥

करंधम उवाच

संक्षेपाच्छिवपूजाया विधानं वक्तुमर्हसि ॥

कृतेन येन मनुजः शिवपूजाफलं लभेत्

॥८०॥

महाकाल उवाच

प्रातर्मध्याह्नसायाह्ने शंकरं सर्वदा भजेत् ॥

दर्शनात्स्पर्शनान्मर्त्यः कृततृत्यो भवेत्स्फुटम्

॥८१॥

आदौ स्नानं प्रकुर्वित भस्मस्नानमथापि वा ॥

आपद्गतः कण्ठस्नानं मन्त्रस्नानमथापि वा

॥८२॥

आविकं परिदध्याच्च ततो वासः सितं च वा ॥

धातुरक्तमथो नव्यं मलिनं संधितं न च

॥८३॥

उत्तरीयं च संदध्याद्विना तन्निष्फलार्चनम् ॥

भस्मत्रिपुण्ड्रधारी च ललाटे हृति चांसयोः

॥८४॥

पूजयेद्यो महादेवं प्रीतः पश्यति तं मुहुः ॥

सर्वदोषान्बहिः क्षिप्य शिवायतनमाविशेत्

॥८५॥

प्रविश्य च प्रणम्येशं ततो गर्भगृहं विशेत् ॥

पाणी प्रक्षाल्य तच्चित्तो निर्माल्यमवरोपयेत्

॥८६॥

येन रुद्रायते भक्त्या कुरुते मार्जनक्रियाम् ॥

तस्मान्मार्जयते त्वेवं स्थाणुनैतत्परस्परम्

॥८७॥

रुद्रभक्त्या च संतिष्ठेनमालिन्यं मार्जयेत्ततः ॥

भक्तिर्देवस्य तिष्ठेन्न मालिन्यं मार्जतः सदा

॥८८॥

गडुकान्पूरयेत्पश्चान्निर्मलेन जलेन वै ॥

गडुकास्तु समाः सर्वे सर्वे च शुभदर्शनाः

॥८९॥

निर्व्रणाः सौम्यरूपाश्च सर्वे चोदकपूरिताः ॥

वस्त्रपूतजलैः पूर्णागन्धधूपैश्च वासिताः

॥९०॥

क्षालिताः पूरिता नीताः षडक्षरजपेन च ॥

गडुकाष्चशतं कुर्यादथवाप्यष्टविंशतिः

॥९१॥

अष्टादशापि चतुरस्ततोन्यूनं न कारयेत् ॥

पयो दधि घृतं चैव क्षौद्रमिक्षुरसं तथा

॥९२॥

एवं सर्वं च तद्द्रव्यं वामतः संन्यसेद्भवात् ॥

ततो बहिर्विनिष्क्रम्य पूजयेत्प्रतिहारकान्

॥९३॥

सर्वेषां वाचका मन्त्राः कथ्यंतेऽतः परं क्रमात्

॥९४॥

ॐगं गणपतये नमः ॥

ॐक्षां क्षेत्रपालाय नमः ॥

ॐगं गुरुभ्यो नमः ॥

इति आकाशे ॥

ॐकौं कुलदेव्यै नमः ॥

ॐ नंदिने नमः ॥

ॐमहाकालाय नमः ॥

ॐधात्रे विधात्रै नमः ॥

ततः प्रविस्य लिंगाच्च किञ्चिद्दक्षिणतः शुचिः ॥

उदङ्मुखः क्षणं ध्यायेत्समकायासनस्थितः

॥९५॥

दर्भादिभिः परिवृतं मध्यपद्मार्कमंडलम् ॥

सोममण्डलमध्यस्थं ध्यायेद्वै वह्निमंडलम्

॥९६॥

तन्मध्ये विश्वरूपं च वामाद्यष्टादिशक्तिकम् ॥

पंचवक्त्रं दशभुजं त्रिनेत्रं चंद्रभूषितम्

॥९७॥

वामांकगिरिजं देवं ध्यायेत्सिद्धैः स्तुतं मुहुः ॥

ततः पूर्वं प्रदद्याच्च पाद्यार्घं शंभवे नृप

॥९८॥

पानीयमक्षता दर्भा गंधपूष्पं ससर्पिषम् ॥

क्षीरं दधि मधु पुनर्नवांगोऽर्घः प्रकीर्तितः

॥९९॥

ततः श्रद्धार्द्रचित्तस्य स्नानं लिंगस्य चाचरेत् ॥

गृहीत्वा गडुकं पूर्वं मलस्नानं समाचरेत्

॥१००॥

अर्द्धेन स्नापयेत्पूर्वं कुर्याच्च मलघर्षणम् ॥

सर्वेण स्नापयेत्पश्चात्पूजयेत्स्नापयेत्ततः

॥१०१॥

प्रणम्य च ततो भक्त्या स्नापयेन्मूलमंत्रतः ॥

ॐहूं विश्वमूर्तये शिवाय नम ॥

इति द्वादशाक्षरो मूलमंत्रः

॥१०२॥

वारिक्षरदधिक्षौद्रघृतेनेक्षुरसेन च ॥

स्नापयेन्मूलमन्त्रेण जलधूपार्चनात्पृथक्

॥१०३॥

गडुकैः स्नापयेत्सर्वैः स्नातं गन्धैर्विरूक्षयेत्

॥१०४॥

विरूक्षितं ततः स्नाप्य श्रीखण्डेन विलेपयेत् ॥

पूजयेद्विविधैः पुष्पैर्विधिना येन तच्छृणु

॥१०५॥

आग्नेयपादे ॥

ॐधर्माय नमः ॥

नैर्ऋतके ॥

ॐज्ञानाय नमः ॥

वायव्ये ॥

ॐवैराग्याय नमः ॥

ईशानपादे ॥

ॐऐश्वर्याय नमः ॥

पूर्वपादे ॥

ॐअधर्माय नमः ॥

दक्षिणे ॥

ॐअज्ञानाय नमः ॥

पश्चिमे ॥

ॐअवैराग्याय नमः ॥

उत्तरे ॐअनैश्वर्याय नमः ॥

ॐअनन्ताय नमः ॥

ॐपद्माय नमः ॐअर्कमण्डला नमः ॥

ॐसोममण्डलाय नमः ॥

ॐवह्निमण्डला नमः ॥

ॐवामाज्येष्ठादिपंचमन्त्रशक्तिभ्यो नमः ॥

ॐपरमप्रकृत्यै देव्यै नमः ॥

ॐईशानतत्पुरुषाघोरवामदेवसद्योजातपञ्चवक्त्राय रुद्रसाध्यवस्वादित्यविश्वेदेवादिदेवविश्वरूपाय अण्डजस्वेदजोद्भिज्जजरायुजरूपस्थावरजङ्गममूर्तये परमेश्वराय ॐहूं विश्वमूर्तये शिवाय नमस्त्रिशूलधनुःखड्गकपालदण्डकुठारेभ्यः

॥१०६॥

ततो जलाधारमुखे चण्डीश्वराय नमः ॥

एवं संपूज्य विधिवत्ततोऽर्घं संनिवेशयेत्

॥१०७॥

पानीयमक्षताः पुष्पमेतैर्युक्तं फलोत्तमैः ॥

गृहाणार्घ्यं महादेव पूजासंपूर्तिहेतवे

॥१०८॥

अर्घादनंतरं शक्तः पूजयेद्वसुपूजया ॥

धूपं दीपं च नैवेद्यं क्रमात्पश्चान्निवेदयेत्

॥१०९॥

घण्टां च वादयेत्तत्र ततो नीराजनं चरेत् ॥

भ्रामयेद्देवदेवस्य शंखवादित्रनिःस्वनैः

॥११०॥

नीराजनं च यः पश्ये द्देवदेवस्य शूलिनः ॥

स मुच्येत्पातकैः सर्वैः किं पुनर्यः करिष्यति

॥१११॥

नृत्यं गीतं च वाद्यं च अलीकमपि यश्चरेत् ॥

तस्य तुष्येदनंतंहि गीतवाद्यफलं यतः

॥११२॥

स्तोत्रैस्ततश्च संस्तूय दण्डवत्प्रणमेद्भुवि ॥

क्षमापयेच्च देवेशं सुकृतं कुकृतं क्षम

॥११३॥

य एवं यजते रुद्रमस्मिँल्लिंगे विशेषतः ॥

पितरं पितामहं चैव तथैव प्रपितामहम्

॥११४॥

सर्वात्पापात्समुत्तार्य रुद्रलोके वसेच्चिरम् ॥

एवं माहेश्वरो भूत्वा सदाचारव्रतस्थितः

॥११५॥

पशुपाशविमोक्षार्थं पूजयेत्तन्मना यदि ॥

य एवं यजते रुद्रं तेनैतत्तर्पितं जगत्

॥११६॥

किं त्वेतत्सफलं राजन्नाचारयो न लंघयेत् ॥

आचारात्फलते धर्मो ह्याचारात्स्वर्गमश्नुते

॥११७॥

आचाराल्लभते ह्यायुराचारो हंत्यलक्षणम् ॥

यज्ञदानतपांसीह पुरुषस्य न भूतये

॥११८॥

भवन्ति यः सदाचारं समुल्लंघ्य प्रवर्तते ॥

तस्य किञ्चित्समुद्देशं वक्ष्ये तं श्रृणु पार्थिव

॥११९॥

त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना ॥

तत्संसिद्धौ गृहस्थस्य सिद्धिरत्र परत्र च

॥१२०॥

ब्राह्मे मुहूर्ते बुध्येन धर्मार्थौ चापि चिन्तयेत् ॥

समुत्थाय तथाचम्य दंतधावनपूर्वकम्

॥१२१॥

सन्ध्यामुपासीत बुधः संशांतः प्रयतः शुचिः ॥

पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकराम्

॥१२२॥

उपासीत यथान्यायं नैनां जह्यादनापदि ॥

वर्जयेदनृतं चासत्प्रलापं परुषं तथा

॥१२३॥

असत्सेवां ह्यसद्वादं ह्यसच्छास्त्रं च पार्थिव ॥

आदर्शदर्शनं दंतधावनं केशसाधनम्

॥१२४॥

देवार्चनं च पूर्वाह्णे कार्याण्याहुर्महर्षयः ॥

पालाशमासनं चैव पादुके दंतधावनम् ॥

वर्जयेदासनं चैव पदा नाकर्षयेद्बुधः

॥१२५॥

जलमग्निं च निनयेद्यगपन्न विचक्षणः

॥१२६॥

पादौ प्रसारयेन्नैव गुरुदेवाग्निसंमुखौ ॥

चतुष्पथं चैत्यतरुं देवागारं तथा यतिम्

॥१२७॥

विद्याधिकं गुरुं वृद्धं कुर्यादेतान्प्रदक्षिणान्

॥१२८॥

आहारनीहारविहारयोगाः सुसंवृता धर्मविदानुकार्याः ॥

वाग्बुद्धिवीर्याणि तपस्तथैव वार्तायुषी गुप्ततमे च कार्ये

॥१२९॥

उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ॥

दक्षिणाभिमुखो रात्रौ ह्येवमायुर्न रिष्यते

॥१३०॥

प्रत्यग्निं प्रति सूर्यं च प्रति गां व्रतिनं प्रति ॥

प्रति सोमोदकं सन्ध्यां प्रज्ञा नश्यति मेहतः

॥१३१॥

भोजने शयने स्थाने उत्सर्गे मलमूत्रयोः ॥

रथ्याचंक्रमणे चार्द्रपञ्चकश्चाचमेत्सदा

॥१३२॥

न नद्यां मेहनं कुर्यान्न श्मशाने नभस्मनि ॥

न गोमये न कृष्टे च नैवालूने न शाड्वले

॥१३३॥

उद्धृत्ताभिस्तथाद्भिस्तु शौचं कुर्याद्विचक्षणः ॥

अंतर्जलाद्देवकुलाद्वल्मीकान्मूषकस्थलात्

॥१३४॥

अपविद्धापशौचाश्च वर्जयेत्पंच मृत्तिकाः ॥

गन्धलेपापहरणं शौचं कुर्यात्तथा बुधः

॥१३५॥

नात्मानं ताडयेन्नैव दद्याद्दुः खेभ्य एव च ॥

उभाभ्यामपि पाणिभ्यां कण्डूयेन्नात्मनः शिरः

॥१३६॥

रक्षेद्दारांस्त्यजेदीष्यां तासु निष्कारणं बुधः ॥

सूर्यास्तं न विनाकाश्चित्क्रिया नैवाचरेत्तथा

॥१३७॥

अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ॥

शिवचित्तोर्जयोद्वित्तं न चातिकृपणो भवेत्

॥१३८॥

नेर्ष्युः स्यान्न कृतघ्नः स्यान्न परद्रोहकर्मधीः ॥

न पाणिपादचपलो न नेत्रचपलोऽनृजुः

॥१३९॥

न च वागङ्गचपलो न चाशिष्टस्य गोचरः ॥

न शुष्कवादं कुर्वीत शुष्क्रवैरं तथैव च

॥१४०॥

उपायैः साधयेदर्थान्दण्डस्त्वगतिका गतिः ॥

भिन्नाशनं भिन्नशय्यां वर्जयेद्भिन्नभाजनम्

॥१४१॥

अंतरेण न गच्छेन द्वयोर्ज्वलनलिंगयोः ॥

नाग्न्योर्न विप्रयोश्चैव न दंपत्योर्नृपोत्तम

॥१४२॥

न सूर्यव्योमयोर्नैव हरस्य वृषभस्य च ॥

एतेषामंतरं कुर्वन्यतः पापमवाप्नुयात्

॥१४३॥

नैकवस्त्रश्च भुंजीत नाग्नौ होममथाचरेत् ॥

न चार्चयेद्द्विजान्नैव कुर्याद्देवार्चनं बुधः

॥१४४॥

खंडनं पेषणं मार्ष्टिं जलसंशोधनं तथा ॥

रंधनं भोजनं स्वाप उत्थानं गमनं क्षुतम्

॥१४५॥

कार्यारंभं समाप्तिं च वचः प्रोच्य तथा प्रियम् ॥

पिबञ्जिघ्रन्स्पृशञ्छृण्वन्विवक्षुर्मैथुनं तथा

॥१४६॥

शुचित्वं च जपं स्थाणुं यः कुर्याद्विंशतिं तथा ॥

माहेश्वरः स विज्ञेयः शेषोन्यो नामधारकः

॥१४७॥

स वै रुद्रमयो भूत्वा ततश्चांते शिवं व्रजेत् ॥

परस्त्रियं नाभिभाषेत्तथा संभाषयेद्यदि

॥१४८॥

मातः स्वसरथो पुत्रि आर्येति च वदेद्बुधः ॥

उचछिष्टो नालभेत्किंचिन्न च सूर्यं विलोकयेत्

॥१४९॥

नेन्दुं न तारकाश्चैव नादयेन्नात्मनः शिरः ॥

स्वस्रा दिहित्रा मात्रा वा नैकांतासन माचरेत्

॥१५०॥

दुर्जयो हींद्रियग्रामो मुह्यते पंडितोऽपि सन् ॥

गुरुमभ्यागतं गेहे स्वयमुत्थाय यत्नतः

॥१५१॥

आसनं कल्पयेत्तस्य कुर्यात्पादाभिवंदनम् ॥

नोदक्छिराः स्वपेज्जातु न च प्रत्यक्छिरा बुधः

॥१५२॥

शिरस्यगस्त्यमाधाय तथैव च पुरंदरम् ॥

उदक्यादर्शनं स्पर्शं वर्ज्यं संभाषणं तथा

॥१५३॥

नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् ॥

कृत्वा विभवतो देवमनुष्यर्षिसमर्चनाम्

॥१५४॥

पितॄणां च ततः शेषं भोक्तुं माहेश्वरोऽर्हति ॥

वाग्यतः शुचिराचांतः प्राङ्मुखोदङ्मुखोऽपि वा

॥१५५॥

अन्तर्जानुश्च तच्चित्तो भुञ्जीतान्नमकुत्सयन् ॥

नोपघातं विना दोषान्न तस्योदाहरेद्बुधः

॥१५६॥

नग्नस्नानं न कुर्वीत न शयीत व्रजेत वा ॥

दुष्कृतं न गुरोर्ब्रूयात्क्रुद्धं चैनं प्रसादयेत्

॥१५७॥

परिवादं न श्रृमुयादन्येषामपि जल्पताम् ॥

सदा चा कर्णयेद्धमास्त्यक्त्वा कृत्यशतान्यपि

॥१५८॥

नित्यं नित्यं हि संमार्ष्टि गेहदर्पणयोरिव ॥

शुक्लायां च चतुर्दश्यां नक्तभोजी सदा भवेत्

॥१५९॥

तिस्रो रात्रीर्न शक्तश्चेदेवं माहेश्वरो भवेत् ॥

संयावकृशरामांसं नात्मानमुपसाधयेत्

॥१६०॥

सायंप्रातश्च भोक्तव्यं कृत्वा ह्यतिथि भोजनम् ॥

स्वप्नाध्ययनभोज्यानि संध्ययोश्च विवर्जयेत्

॥१६१॥

भुंजानः संध्ययोर्मोहादसुरावसथो भवेत् ॥

स्नातो न धूनयेत्केशान्क्षुते निष्ठीवितेऽध्वनि

॥१६२॥

आलभेद्दक्षिणं कर्णं सर्वभूतानि क्षामयेत् ॥

न चापि नीलीवासाः स्यान्न विपर्यस्तवस्त्रधृक्

॥१६३॥

वर्ज्यं च मलिनं वस्त्रं दशाभिश्च विवर्जितम् ॥

प्रक्षाल्य मुखहस्तौ च पादौ चाप्युपविश्य च

॥१६४॥

अंतजानुस्त्रिराचामेद्दिर्मुखं परिमार्जयेत् ॥

तोयेन स्पर्शयेत्खानि स्वमूर्धानं तथैव च

॥१६५॥

आचम्य पुनराचम्य क्रियाः कुर्वीत सर्वशः ॥

क्षुते निष्ठीविते चैव दंतलग्ने तथैव च

॥१६६॥

पतितानां च संभाषे कुर्यादाचमनिक्रियाम् ॥

अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता

॥१६७॥

धर्मतो धनमाहार्य यष्टव्यं चापि यत्नतः ॥

हीनेभ्योपि न युंजीत त्वंकारं कर्हिचिद्बधः ॥

त्वंकारो वा वधो वापि गुरूणामुभयं समम्

॥१६८॥

सत्यं वाच्यं नित्यमैत्रेण भाव्यं कार्यं त्याज्यं नित्यमायासकारि ॥

लोकेऽमुष्मिन्यद्दिनं स्यात्तथास्मिन्नात्मा योगे येजनीयो गभीरैः

॥१६९॥

तीर्थस्नानैः सोपवासैर्व्रतैश्च पात्रे दानैर्होमजप्यैश्चयज्ञैः ॥

भवार्चनैर्देवपूजाविशेषैरात्मा नित्यं शोधनीयो मलाक्तः

॥१७०॥

यत्रापि कुर्वतो नात्मा जुगुप्सामेति पार्थिव ॥

तत्कर्तव्यसमसंगेन यन्नगोप्यं महाजने

॥१७१॥

इति ते वै समुद्देशः कीर्तितः किंचिदेव च ॥

शेषः स्मृतिपुराणेभ्यस्त्वया श्रोतव्य एव च

॥१७२॥

एवमाचरतो धर्मं महेशस्य गृहे सतः ॥

धर्मार्थकामसंप्राप्तौ परत्रेह च शोभनम्

॥१७३॥

एवं नानाविधान्धर्मान्महाकालस्य फाल्गुन ॥

वदतो ध्वनिराकाशे सुमहानभ्यजायत

॥१७४॥

यावत्पश्यंति ये तत्र समाजग्मुः श्रृणुष्व तान् ॥

ब्रह्मा विष्णुः स्वयं रुद्रो दे वी रुद्रगणास्तथा

॥१७५॥

इंद्रादयस्तथा देवा वसिष्ठाद्या मुनीश्वराः ॥

तुंबरुप्रवराश्चापि गंधर्वाप्सरसां गणाः

॥१७६॥

तान्महेशमुखान्सर्वान्महाकालो महामतिः ॥

अर्चयामास बहुधा भक्त्युद्रेकातिपूरितः

॥१७७॥

ततो ब्रह्मादिभिर्देवैर्वरे रत्नमयासने ॥

उपविष्टोऽभिषिक्तश्च महीसागरसंगमे

॥१७८॥

ततो देव्या समालिंग्य नीत्वोत्संगं स्वकं मुदा ॥

पुत्रत्वे कल्पितः पार्थ महाकालो महामतिः

॥१७९॥

उक्तञ्च यावद्ब्रह्माण्डमिदमास्ते शिवव्रत ॥

तावत्तिष्ठ शिवस्थाने शिववच्छिवभक्तितः

॥१८०॥

देवेन च वरो दत्तस्त्वल्लिंगं योऽर्चयिष्यति ॥

जितेन्द्रियः शुचिर्भूत्वा ऊर्ध्वं मल्लोकमेष्यति

॥१८१॥

दर्शनं स्तवनं पूजा प्रणामश्च ततो जपः ॥

दानं चात्र कृतं लिंगे ममातितृप्तिकारणम्

॥१८२॥

इत्युक्ते विस्मिता देवाः साधु साध्विति ते जगुः ॥

ब्रह्मविष्णुमुखाश्चैव महाकालं प्रतुष्टुवुः

॥१८३॥

ततः सुरैःस्तूयमानो वंद्यमानश्च चारणैः ॥

नृत्यद्भिरप्सरोभिश्च कीतैर्गंधर्वजैः शुभैः

॥१८४॥

कोटिकोटिगणैश्चैव स्तुवद्भिः सर्वतो वृतः

॥१८५॥

महाकालो रुद्रभवनं गतो भवपुरस्सरः ॥

एवमेतन्महालिंगमुत्पन्नं कुरुनंदन

॥१८६॥

कूपश्चापि सरः पुण्यं महाकालस्य सिद्धिदम् ॥

अत्र ये मनुजाः पार्थ लिंगस्याराधने रताः

॥१८७॥

महाकालः समालिंग्य ताञ्छिवाय निवेदयेत् ॥

एतदत्यद्भुतं लिंगं त्रिषु लोकेषु विश्रुतम्

॥१८८॥

दृष्टं स्पृष्टं पूजितं च गतास्ते भवसद्म तत् एवमेतानि लिंगानि सप्त जातानि फाल्गुन

॥१८९॥

ये श्रृण्वंति गृणंत्येतत्तेपि धन्या नरोत्तमाः

॥१९०॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीमहाकालमाहात्म्ये महाकालकरंधमसंवादे शिवपूजनविधिनित्यकर्तव्यधर्मनिरूपणपूर्वकमहाकालशिवलोकप्राप्तिवर्णनंनामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥