मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ३२

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 32

कुमारकृततारकवधवर्णनम्

नारद उवाच

श्रुत्वैतं संस्तवं दैत्यः संघुष्टं देवबंदिभिः ॥

सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितम्

॥१॥

श्रुत्वा स क्लिन्नसर्वांगो द्वाःस्थं राजा वचोऽब्रवीत् ॥

अमात्यान्द्रष्टुमिच्छामि शीघ्रमानय मा चिरम्

॥२॥

ततस्ते राजवचनात्कालनेमि मुखागताः ॥

प्राह तांस्तारको दैत्यः किमिदं वो विचेष्टितम्

॥३॥

यैः शत्रुसंभवा वार्ता कापि न श्रीवितस्त्वहम् ॥

मदिराकाममत्तानां मंत्रित्वं वो न युज्यते ॥

हितं मन्त्रयते राज्ञस्तेन मंत्री निगद्यते

॥४॥

अमात्या ऊचुः

को जानाति सुरान्दीनान्दैत्यानामिति नो मतिः

॥५॥

मा विषीद महाराज वयं जेष्यामहे सुरान् ॥

बालादपि भयं किं वा लज्जायै चिंतितं त्विदम्

॥६॥

सर्वमेतत्सुसाध्यं च भेरी संताड्यतां दृढम् ॥

ततो दैत्येन्द्रवचनात्संनाहजननी तदा

॥७॥

भृशं संताडिता भेरी कंपयामास सा जगत् ॥

स्मरणाद्दैत्यराजस्य पर्वतेभ्यो महासुराः

॥८॥

निम्नगाभ्यः समुद्रेभ्यः पातालेभ्योंऽबरादपि ॥

सहसा समनुप्राप्ता युगांतानलसप्रभाः

॥९॥

कोटिकोटिसहस्रैस्तु परार्धैर्दशभिः शतैः ॥

सेनापतिः कालनेमिः शीघ्रं देवानुपाययौ

॥१०॥

चतुर्योजनविस्तीर्णे नानाश्चर्यसमन्विते ॥

रथे स्थितो मनाग्दीनस्तारकः समदृश्यत

॥११॥

एतस्मिन्नंतरे पार्थ क्रुद्धैः स्कन्दस्य पार्षदैः ॥

प्राकारः पातितः सर्वो भग्नान्युपवनानि च

॥१२॥

ततश्चचाल वसुधा देवी सवनकानना ॥

जज्वाल खं सनक्षत्रं प्रमूढं भुवनं भृशम्

॥१३॥

तमोभूतं जगच्चसीद्गृध्रैर्व्याप्तं नभोऽभवत् ॥

ततो नानाप्रहरणं प्रलयांबुदसन्निभम्

॥१४॥

कालनेमिमुखं पार्थ अदृश्यत महद्बलम् ॥

तद्धि घोरमसंख्येयं जगर्ज विविधा गिरः

॥१५॥

अभ्यद्रवद्रणे देवान्भगवंतं च शंकरम् ॥

विनदद्भिस्ततो दैत्यैन्देवानीकं महायुधैः

॥१६॥

पर्वतैश्च शतघ्नीभिरायसैः परिधैरपि ॥

क्षणेन द्रावितं सर्वं विमुखं चाप्यदृश्यत

॥१७॥

असुरैर्वध्यमाने तु पावकैरिव काननम् ॥

अपतद्दावभूमिष्ठ महाद्रुमवनं यथा

॥१८॥

ते भिन्नास्थिशि रोदेहाः प्राद्रवंत दिवौकसः ॥

न नाथमध्यगच्छंत वध्यमाना महासुरैः

॥१९॥

अथ तद्विद्रुतं सैन्यं दृष्ट्वाः पुरंदरः ॥

आश्वासयन्नुवाचेदं बलवद्दानवार्दितम्

॥२०॥

भयं त्यजत भद्रं वः शुराः शस्त्राणि गृह्णत ॥

कुरुध्वं विक्रमे बुद्धि मा च काचिद्व्यथास्तु वः

॥२१॥

एष कालानलप्रख्यो मयूरं समुपस्थितः ॥

रक्षिता वो महासेनः कथं भीतिस्तथापि वः

॥२२॥

शक्रस्य वचनं श्रुत्वा समाश्वस्ता दिवोकसः ॥

दानवान्प्रत्ययुध्यंत शक्रं कृत्वा व्यपाश्रयम्

॥२३॥

कालनेमिर्महेन्द्रेण संयुगे समयुज्यत ॥

सहस्राक्षौहिणीयुक्तो जंभकः शंकरेण च

॥२४॥

कुजंभो विष्णुना चैव तावत्य क्षौहिणीवृतः ॥

अन्ये च त्रिदशाः सव मरुतश्च महाबलाः

॥२५॥

प्रत्ययुध्यंतं दैत्येंद्रेः साध्याश्च वसुभिः सह ॥

ततो बहुविधं युद्धं कालनेमिर्विधायच

॥२६॥

उत्सृज्य सहसा पार्थ ऐरावणशिरःस्थितः ॥

स तु पादप्रहारेण मुष्टिना चैव तं गजम्

॥२७॥

शक्रं च चघ्ने विनदन्पेततुस्तावुभौ भुवि ॥

ततः शक्रं समादाय कालनेमिर्विचेतसम्

॥२८॥

रथमाश्रित्य भूयोपि तारकाभिमुखो ययौ ॥

अथ क्रुद्धं तदा देवैः सहसा चांतकादिभिः

॥२९॥

ह्रियते ह्रियते राजा त्राता कोऽपि न विद्यते ॥

एतस्मिन्नंतरे शर्वं पिनाकधनुषश्च्युतैः

॥३०॥

बाणैः ससैन्यं कृत्वा च जंभकं गृध्रमोदनम् ॥

कालनेमिं समागम्य रथस्थो वाक्यमब्रवीत्

॥३१॥

किमेतेन महेन्द्रेण मया युध्यस्व दानव ॥

वीरंमन्य सुदुर्बुद्धे ततो ज्ञास्यसि वीरताम्

॥३२॥

कानेमिरुवाच

नग्नेन सह को युध्येद्धतेनापि च येन वा ॥

शंसत्सु दैत्यवीराणामुपहासः प्रजायते

॥३३॥

आत्मनस्तु समं किंचिद्विलोक्य सुदुर्मते ॥

तदाकर्ण्य च सावज्ञं वचः शर्वो विसिष्मिये

॥३४॥

ततः कुमारः सहसा मयूरस्थोऽभ्यधावत ॥

कुजंभं सानुगं हत्वा वासुदेवोप्यधावत

॥३५॥

ततो हरिः स्कंदमाह किमेतेन तव प्रभो ॥

दैत्याधमेन पापेन मुहूर्तं पश्य मे बलम्

॥३६॥

एवमुक्त्वा निवार्यैनं केशवो गरुडस्थितः ॥

शार्ङ्गकोदंडनिर्मुक्तैर्बाणैर्दैत्यमवाकिरत्

॥३७॥

स तैर्बाणैस्ताड्यमानो वज्रैरिव महासुरः ॥

विमुच्य वासवं क्रुद्धो बाणांस्तान्व्यधमच्छरैः

॥३८॥

यान्यान्बाणान्हरिर्दिव्यानस्त्राणि च मुमोच ह ॥

निवारयति दैत्यस्तान्प्रहसँल्लीलयैव च

॥३९॥

ततः कौमोदकीं गृह्य क्षिप्रकारी जनार्दनः ॥

मुमोच सैन्यनाथाय सारथिं च व्यचूर्णयत्

॥४०॥

ततो रथादवप्लुत्य विवृत्य वदनं महत् ॥

गरुडं चंचुनादाय स विष्णुं क्षिप्तवान्मुखे

॥४१॥

ततोऽभूत्सर्वदेवानां विमोहो जगतामपि ॥

चचाल वसुधा चेलुः पर्वताः सप्त चार्णवाः

॥४२॥

कालनेमिर्नश्चैव प्रानृत्यत महारणे ॥

असंमूढस्ततो विष्णुस्त्वराकाल उपस्थिते

॥४३॥

कुक्षिं विदार्य चक्रेण भास्करोऽभादिवोदितः ॥

बहिर्भूतो हरिश्चैनं महोयित्वा स्वनिन्दया

॥४४॥

पातालस्य तलं निन्ये तत्र शिश्ये स काष्ठवत् ॥

ततश्चक्रेण दैत्यानां निहता दशकोट्यः

॥४५॥

प्रमोदितास्तथा देवा विमोहास्तत्क्षणाद्बभुः ॥

ततःशर्वस्तमालिंग्य साधुसाधु जनार्दन

॥४६॥

त्वया यद्विहितं कर्म तत्कर्तान्यो न विद्यते ॥

महिषाद्याः सुदुर्जेया देव्या ये विनिपतिताः

॥४७॥

तेषामतिबलो ह्येष त्वया विष्णो विनिर्जितः ॥

तारकामयसंग्रामे वध्यस्तेसौ जनार्दन

॥४८॥

कंसरूपः पुनस्तेऽयं हंतव्योऽष्टमजन्मनि ॥

एवं प्रशंसमानास्ते वासुदेवं जगद्गुरुम्

॥४९॥

शस्त्रजालैर्लब्धसंज्ञान्दैत्यसैन्याननाशयत् ॥

तानि दैत्यशरीराणि जर्जराणि महायुधैः

॥५०॥

अपतन्भूतले पार्थ च्छिन्नाभ्राणीव सर्वशः ॥

ततस्तद्दानवं सैन्यं हतनाथमभूत्तदा

॥५१॥

देवैः स्कंदानुगैश्चैव कृतं शस्त्रैः पराङ्मुखम् ॥

अथो क्रुष्टं तदा हृष्टैः सर्वैर्देवैर्मुदायुतैः

॥५२॥

संहतानि च सर्वाणि तदा तूर्याण्यवादयन् ॥

अथ भग्नं बलं प्रेक्ष्य हतवीरं महारणे

॥५३॥

देवानां च महामोदं तारकः प्राह सारथिम् ॥

सारथे पश्य सैन्यानि द्राव्यमाणानि मे सुरैः

॥५४॥

येस्माभिस्तृणवद्दृष्टाः पश्य कालस्य चित्रताम् ॥

तन्मे वाहय शीघ्रं त्वं रथमेनं सुरान्प्रति

॥५५॥

पश्यंतु मे बलं बाह्वोर्द्रवंतु च सुराधमाः ॥

ब्रुवन्नेवं सारथिं स विधुन्वन्सुमहद्धनुः

॥५६॥

क्रोध रक्तेक्षणो राजा देवसैन्यं समाविशत् ॥

आगच्छमानं तं दृष्ट्वा हरिः स्कंदमथाब्रवीत्

॥५७॥

कुमार पश्य दैत्येंद्रं कालं यद्वद्युगात्यये ॥

अयं स येन तपसा घोरेणाराधितः शिवः

॥५८॥

अयं स येन शक्राद्याः कृता मर्काः समार्बुदम् ॥

अयं स सर्वशस्त्रैगैर्योऽस्माभिर्न जितो रणे

॥५९॥

नावज्ञया प्रद्रष्टव्यस्तारकोऽयं महासुरः ॥

सप्तमं हि दिनं तेऽद्य मध्याह्नोऽयं च वर्तते

॥६०॥

अर्वागस्तमनादेनं जहि वध्योऽन्यथा नहि ॥

एवमुक्त्वा स शक्रादींस्त्वरितः केशवोऽब्रवीत्

॥६१॥

आयासयत दैत्येंद्रं सुखवध्यो यथा भवेत् ॥

ततस्ते विष्णुवचनाद्विनदन्तो दिवौकसः

॥६२॥

तमासाद्य शरव्रातैर्मुदिताः समवाकिरन् ॥

प्रहसन्निव देवांस्तान्द्रावयामास तारकः

॥६३॥

यथा नास्तिकदुर्वृत्तो नानाशास्त्रोपदेशकान् ॥

सोढुं शक्ता न ते वीरं महति स्यंदने स्थितम्

॥६४॥

महापस्मारसंक्रांतं यथैवाप्रियवादिनम् ॥

विधूय सकलान्देवान्क्षणमात्रेण तारकः

॥६५॥

आजगाम कुमाराय विधुवन्स महाधनुः ॥

आगच्छमानं तं दृष्ट्वा स्कंदः प्रत्युद्ययौ ततः

॥६६॥

तस्यारक्षद्भवः पार्श्वं दक्षिणं चैव तं हरिः ॥

पृष्ठे च पार्षदास्तस्य कोटिशोऽर्बदशस्तथा

॥६७॥

ततस्तौ सुमहायुद्धे संसक्तौ देवदैत्ययौः ॥

धर्माधर्माविवोदग्रौ जगदाश्चर्यकारकौ

॥६८॥

ततः कुमारमासाद्य लीलया तारकोऽब्रवीत् ॥

अहो बालातिबालस्त्वं यत्त्वं गीर्वाणवाक्यतः

॥६९॥

आसादयसि मां युद्धे पतंग इव पावकम् ॥

वधेन तव को लाभो मम मुक्तोऽसि बालक

॥७०॥

पिष क्षीरं गृहाणेमं कंदुकं क्रीड लीलया ॥

एवमुक्तः प्रहस्याह तारकं योगिनां गुरुः

॥७१॥

शिशुत्वं मावमंस्था मे शिशुः कष्टो भुजंगमः ॥

दुष्प्रेक्ष्यो भास्करो बालो दुःस्पर्शोऽल्पोऽपि पावकः

॥७२॥

अल्पाक्षरो न मंत्रः किं सस्फुरो दैत्य दृश्यते ॥

एवमुक्त्वा दैत्यमुक्तं गृहीत्वा कंदुकं च तम्

॥७३॥

तस्मिञ्छक्त्यस्त्रमादाय दैत्याय प्रमुमोच ह ॥

तस्य तेन प्रहारेम रथश्चूर्णिकृतोऽभवत्

॥७४॥

चतुर्योजनमात्रो यो नानाश्चर्यसमन्वितः ॥

गरुडस्य सुता ये च शीर्यमाणे रथोत्तमे

॥७५॥

मुक्ताः कथंचिदुत्पत्य सागरांतरमाविशन् ॥

ततः क्रुद्धस्तारकश्च मुद्गरं क्षिप्तवान्गुहे

॥७६॥

विंध्याद्रिमिव तं स्कंदो गृहीत्वा तं व्यताडयत् ॥

स्थिरे तस्योरसि व्यूढे मुद्गरः शतधाऽगमत्

॥७७॥

मेने च दुर्जयं दैत्यस्तदा षड्वदनं रणे ॥

चिंतयामास बुद्ध्या च प्राप्तं तद्ब्रह्मणो वचः

॥७८॥

तं भीतमिव चालक्ष्य दैत्यवीराश्च कोटिशः ॥

नदंतोऽतिमहासेनं नानाशस्त्रैरवाकिरन्

॥७९॥

क्रुद्धस्तेषु ततः स्कंदः शक्तिं घोरामथाददे ॥

अभ्यस्यमाने शक्त्यस्त्रे स्कंदनामिततेजसा

॥८०॥

उल्काजालं महाघोरं पपात वसुधातले ॥

चाल्यमाना तथा शक्तिः सुघोरा भवसूनुना

॥८१॥

ततः कोट्यो विनिष्पेतुः शक्तीनां भर्तर्षभ ॥

स शक्त्यस्त्रेण बलवान्करस्थेनाहनत्प्रभुः

॥८२॥

अष्टौ पद्मानि दैत्वानां दशकोटिशतानि च ॥

तथा नियुतसाहस्रं वाहनं कोटिरेव च

॥८३॥

ह्रंदोदरं च दैत्येंद्रं निखर्वैर्दशभिर्वृतम् ॥

तत्राकुर्वन्सुतुमुलं नादं वध्येषु शत्रुषु

॥८४॥

कुमारानुचराः पार्थ पूरयंतो दिशो दश ॥

शक्त्यस्त्रस्यार्चिः संभूतशक्तिभिः केऽपि सूदिताः

॥८५॥

पताकयावधूताश्च हताः केचित्सहस्रशः ॥

केचिद्धंटारवत्रस्ताश्छिन्नभिन्नहृदोऽपतन्

॥८६॥

केचिन्मयूरपक्षाभ्यां चरणाभ्यां च सूदिताः ॥

कोटिशस्ताम्रचूडेन विदार्यैव च भक्षिताः

॥८७॥

पार्षदैर्मातृभिः सार्धं पद्मशो निहताः परे ॥

एवं निहन्यमानेषु दानवेषु गुहादिभिः

॥८८॥

अभाग्यैरिव लोकेषु तारकः स्कंदमाययौ ॥

जग्राह च गदां दिव्यां लक्षघंटादुरासदाम्

॥८९॥

तया मयूरमाजघ्ने मयूरो विमुखोऽभवत् ॥

दृष्ट्वा पराङ्मुखं लोकेषु वासुदेवोऽब्रवीत्त्वरन्

॥९०॥

देवसेनापते शीघ्रं शक्तिं मुंच महासुरे ॥

प्रतिज्ञामात्मनः पाहि लंबते रविमंडलम्

॥९१॥

स्कंद उवाच

त्वयैव रुद्रभक्तोऽयं जनार्दन ममेरितम् ॥

वधार्थं रुद्रभक्तस्य बाहुः शक्तिं मुंचति

॥९२॥

नारुद्रः पूजयेद्रुद्रं भक्तरूपस्य यो हरः ॥

रुद्ररूपममुं हत्वा कीदृशं जन्मनो भवेत्

॥९३॥

तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ताः प्रपीडिताः ॥

रुद्रभक्ताः कुलं सर्वं निर्दहंति हताः किमु

॥९४॥

एष चेद्धंति तद्भद्रं हन्यतामेष मां रणे ॥

रुद्रभक्ते पुनर्विष्णो नाहं शस्त्रमुपाददे

॥९५॥

श्रीभगवानुवाच

नैतत्तवोचितं स्कंद रुद्रभक्तो यथा श्रृणु ॥

द्वे तनू गिरिजाभर्तुर्वेदज्ञा मुनयो विदुः

॥९६॥

एका जीवात्मिका तत्र प्रत्यक्षा च तथापरा ॥

द्रोग्धा भूतेषु भक्तश्च रुद्रभक्तो न स स्मृतः

॥९७॥

भक्तो रुद्रो कृपावांश्च जंतुष्वेव हरव्रतः ॥

तदेनं भूतमर्त्येषु द्रोग्धारं त्वं पिनाकिनः

॥९८॥

जहि नैवात्र पश्यामि दोषं कंचन ते प्रभो ॥

श्रुत्वेति वाचं गोविंदात्सत्यार्थामपि भारत

॥९९॥

हंतुं न कुरुते बुद्धिं रुद्रभक्त इति स्मरन् ॥

तारकस्तु ततः क्रुद्धो ययौ वेगेन केशवम्

॥१००॥

प्राह चैवं सुदुर्बुद्धे हन्मि त्वां पश्य मे बलम् ॥

देवानां चापि धर्माणां मूलं मतिमतां तथा ॥

हत्वा त्वामद्य सर्वांस्तांश्छेत्स्ये पश्याद्य मे बलम्

॥१०१॥

विष्णुरुवाच

दैत्येंद्र तव चास्माभिः किमहो श्रृणु सत्यताम्

॥१०२॥

रथे य एष शर्वोऽयं हतेऽस्मिन्सकलं हतम् ॥

श्रुत्वेति तारकः क्रुद्धस्तूर्णं रुद्ररथं ययौ

॥१०३॥

अभिसृत्य स जग्राह रुद्रस्य रथकूबरम् ॥

यदा स कूबरं क्रुद्धस्तारकः सहसाऽग्रहीत्

॥१०४॥

रेसतू रोदसी तूर्णं मुमुहुश्च महर्षयः ॥

व्यनदंश्च महाकाया दैत्या जलधरोपमाः

॥१०५॥

आसीच्च निश्चितं तेषां जितमस्माभिरित्युत ॥

तार कस्याप्यभिप्रायं भगवान्वीक्ष्य शंकरः

॥१०६॥

उमया सह संत्यक्त्वा रथं वृषभमावहत् ॥

ओमित्यथ जपन्ब्रह्मा आकाशं सहसाश्रितः

॥१०७॥

ततस्तं शतसिंहं च रथं रुद्रेण निर्मितम् ॥

उत्क्षिप्य पृथ्व्यामास्फोट्य चूर्णयामास तारकः

॥१०८॥

शूलपाशुपतादीनि सहसोपस्थितानि च ॥

वारयामास गिरिशो भवः साध्य इति ब्रुवन्

॥१०९॥

ततः स्ववंचितं ज्ञात्वा रुद्रेणात्मानमीर्ष्यया ॥

विनदन्सहसाऽधावद्वृषभस्थं महेश्वरम्

॥११०॥

ततो जनार्दनोऽधावच्चक्रमुद्यम्य वेगतः ॥

वज्रमिंद्रस्तथोद्यम्य दंडं चापि यमो नदन्

॥१११॥

गदां धनेश्वरः क्रुद्धः पाशं च वरुणो नदन् वायुर्महांकुशं घोरं शक्तिं वह्निर्महाप्रभाम्

॥११२॥

निर्ऋतिर्निशितं खड्गं रुद्राः शूलानि कोपिताः ॥

धनूंषि साध्या देवाश्च परिघान्वसवस्तथा

॥११३॥

विश्वेदेवाश्च मुसलं चंद्रार्कौ स्वप्रभामपि ॥

ओषधीश्चाश्विनौ देवौ नागाश्च ज्वलितं विषम्

॥११४॥

हिमाद्रि प्रमुखाश्चापि समुद्यम्य महीधरान् ॥

भृशमुन्नदतो देवान्धावतो वीक्ष्य तारकः

॥११५॥

निवृत्तः सहसा पार्थ महागज इवोन्नदन् ॥

स वज्रमुष्टि नाहत्य भुजे शक्रमपातयत्

॥११६॥

दंडं यमादुपादाय मूर्ध्न्याहत्य न्यपातयत् ॥

उरसाहत्य सगदं धनदं भुव्यपातयत्

॥११७॥

वरुणात्पाशमादाय तेन बद्धा न्यपातयत् ॥

महांकुशेन वायुं च चिरं मूर्ध्नि जघान सः

॥११८॥

फूल्कारैरुद्धतं वह्निं शमयामास तारकः ॥

निर्ऋतिंखड्गमादाय हत्वा तेन न्यपातयत्

॥११९॥

शूलैरेव तथा रुद्राः साध्याश्च धनुषार्दिताः ॥

परिघैरेव वसवो मुशलैरेव विश्वकाः

॥१२०॥

रेणुनाच्छाद्य चंद्रार्कौ वल्मीकस्थाविवेक्षितौ ॥

महोग्राश्चौषधीस्तालैरश्विभ्यां सोऽभ्यवर्तयत्

॥१२१॥

सविषाश्च कृता नागा निर्विषाः पादकुट्टनैः ॥

पर्वताः पर्वतैरेव निरुच्छ्वासा भृशं कृताः

॥१२२॥

एवं तद्देवसैन्यं च हाहाभूतमचेतनम् ॥

कृत्वा मुहूर्तादाधावच्चक्रपाणिं तमुन्नदन्

॥१२३॥

ततश्चांतर्दधे सद्यः प्रहसन्निव केशवः ॥

कुयोगिन इव स्वामी सदा बुद्धिमतां वरः

॥१२४॥

अपश्यंस्तारको विष्णुं पुनर्वृषभवा हनम् ॥

आधावत्कुपितो दैत्यो मुष्टिमुद्यम्य वेगतः

॥१२५॥

अचिरांशुरिवालक्ष्यो लक्ष्योथ भगवान्हरिः ॥

आबभाषे ततो देवान्बाहुमुद्यम्यचोच्चकैः

॥१२६॥

पलायध्वमहो देवाः शक्तिश्चेद्वः पलायितुम् ॥

विमूढा हि वयं सर्वे ये बालवचसागताः

॥१२७॥

किं न श्रुतः पुरा गीतः श्लोकः स्वायंभुवेन यः ॥

यथा बालेषु निक्षिप्ताः स्त्रीषु षंडितकेषु च ॥

अपस्मारीषु चैवापि सर्वे ते संशयं गताः

॥१२८॥

प्रत्यक्षं तदिदं सर्वमाधुना चात्र दृस्यते

॥१२९॥

अज्ञासिष्म पुरैवैतद्रुद्रभक्तं न हंत्यसौ ॥

यत्प्रतिज्ञां नाकरिष्यन्न स्यान्नः कदनं महत्

॥१३०॥

अथैष यदि दैत्येंद्रं न निहंति कुबुद्धिमान् ॥

मा भयं वो महाभागा निहनिष्यामि वो रिपून्

॥१३१॥

अद्य मे विपुलं बाह्वोर्बलं पश्यत दैत्याधमं नाशयामि मुष्टिनैकेन पश्यत

॥१३२॥

मया हि दक्षिणो बाहुर्दत्तश्च भवतां सदा ॥

रिपून्वा निहनिष्यामि सत्यं तत्परिपालये

॥१३३॥

येंऽबरे ये च पाताले भुवि ये च महासुराः ॥

क्षणात्तान्नासयिष्यामि महावातो घनानिव

॥१३४॥

एवमुक्ता जगन्नाथो मुष्टिमुद्यम्य दक्षिणम् ॥

निरायुधस्तार्क्ष्यपृष्ठादवप्लुत्याभ्यधावत

॥१३५॥

तस्मिन्धावति गोविंदे चचाल भुवनत्रयम् ॥

विमूर्छितमभूद्विश्वं देवा भीतिं परां ययुः

॥१३६॥

धावतश्चापि कल्पांतं रुद्रकल्पस्य तस्य याः ॥

मुखात्समुद्यजुर्ज्वालास्ताबिः खर्वशतं हतम्

॥१३७॥

ततोंऽतरिक्षे वाचश्च प्रोचुः सिद्धाः स्वयं तदा ॥

जहि कोपं वासुदेव त्वयि क्रुद्धे क्व वै जगत्

॥१३८॥

अनादृत्येव तद्वाक्यं ब्रुवन्नान्यत्करोम्यहम् ॥

आह्वयंश्च महादैत्यं क्रुद्धो हरिरधावत

॥१३९॥

उवाच वाचं साधूंश्च यत्नात्पालयतां फलम् ॥

दुष्टान्विनिघ्नतां चैव तत्फलं मम जायताम्

॥१४०॥

अथापश्यन्महासेनो रुद्रं यांतं च तारकम् ॥

तारकं चान्वधावन्तं पुरामपुरुषं हरिम्

॥१४१॥

जगच्च क्षुब्धमत्यर्थं स्वां प्रतिज्ञां पुरा कृताम् ॥

पश्चिमां प्रतिलंबंतं भास्करं चापि लोहितम्

॥१४२॥

आकाशवाणीं श्रृण्वंश्च किं स्कन्द त्वं विषीदसी ॥

पश्चात्तापो यदि भवेत्कृत्वा ब्रह्मवधं त्वयि

॥१४३॥

स्थापयेर्लिगमीशस्य मोक्षो हत्याशतैरपि ॥

आविवेश महाक्रोधं दिधक्षुरिव मेदिनीम्

॥१४४॥

अथोत्प्लुत्य मयूरात्स प्रहसन्निव केशवम् ॥

बाहुभ्यामप्युपादाय प्रोवाच भवनंदनः

॥१४५॥

जानामि त्वामहं विष्णो महाबुद्धिपराक्रमम् ॥

भूतभव्यविष्यांश्च दैत्यान्हंस्यपि हूंकृतैः

॥१४६॥

त्वमेव हंता दैत्यानां देवानां परिपालकः ॥

धर्मसंस्थापकश्च त्वमेव ते रचितोंऽजलिः

॥१४७॥

क्षणार्धं पश्य मे वीर्यं भास्करो लोहितायते ॥

एवं प्रणम्य स्कन्देन वासुदेवः प्रसादितः

॥१४८॥

विरोषोऽभूत्तमालिंग्य वचनं केशवोऽब्रवीत् ॥

सनाथस्त्वद्य धर्मोऽयं सुराश्चैव त्वया गुह

॥१४९॥

स्मरात्मानं यदर्थं त्वमुत्पन्नोऽसि महेश्वरात् ॥

साधूनां पालनार्थाय दुष्टसंहरणाय च ॥

सुरविप्रकृते जन्म जीवितं च महात्मनाम्

॥१५०॥

रुद्रस्य देव्या गंगायाः कृत्तिकानां च तेजसा ॥

स्वाहावह्नेश्च जातस्त्वं तत्तेजः सफलीकुरु ॥

साधूनां च कृते यस्य धनं वीर्यं च संपदः

॥१५१॥

सफलं तस्य तत्सर्वं नान्यथा रुद्रनंदन

॥१५२॥

अद्य धर्मश्च देवाश्च गावः साध्याश्च ब्राह्मणाः ॥

नंदंतु तव वीर्येण प्रदर्शय निजं बलम्

॥१५३॥

स्कन्द उवाच

या गतिः शिवत्यागेन त्वत्त्यागेन च केशव ॥

तां गतिं प्राप्नुयां क्षिप्रं हन्मि चेन्न हि तारकम्

॥१५४॥

या गतिः श्रुतित्यागेन साध्वी भार्यातिपीडनात् ॥

साधूनां च परित्यागाद्वृथा जीवितसाधनात् ॥

निष्ठुरस्य गतिर्या च तां गतिं यामि केशव

॥१५५॥

इत्युक्ते सुमहान्नादः संप्रजज्ञे दिवौकसाम् ॥

प्रशशंसुर्गुहं केचित्केचिन्नारायणं प्रभुम्

॥१५६॥

ततस्तार्क्षअयं समारुद्य हरिस्तस्मिन्महारणे ॥

ताम्रचूडं महासेन स्तारकं चाप्यधावताम्

॥१५७॥

लोहितांबरसंवीतो लोहितस्रग्विभूषणः ॥

लोहिताक्षो महाबाहुर्हिरण्यकवचः प्रभुः

॥१५८॥

भुजेन तोलयञ्छक्तिं सर्वभूतानि कम्पयन् ॥

प्राप्य तं तारकं प्राह महासेनो हसन्निव

॥१५९॥

तिष्ठतिष्ठ सुदुर्बुद्धे जीवितं ते मयि स्थितम् ॥

सुहृष्टः क्रियतां लोको दुर्लभः सर्वसिद्धिदः

॥१६०॥

यत्ते सुनिष्ठुरत्वं च धर्मे देवेषु गोषु च ॥

तस्य ते प्रहराम्यद्य स्मर शस्त्रं सुशिक्षितम्

॥१६१॥

एवमुक्ते गुहेनाथ निवृत्तस्यास्य भारत ॥

तारकस्य शिरोदेशात्कापि नारी विनिर्ययौ

॥१६२॥

तेजसा भासयंती तमध ऊर्ध्वं दिशो दश ॥

दृष्ट्वा नारीं गुहः प्राह कासि कस्माच्च निर्गता

॥१६३॥

नार्युवाच

अहं शक्तिर्गुहाख्याता भूतलेषु सदा स्थिता ॥

अनेन दैत्यराजेन महता तपसार्ज्जिता

॥१६४॥

सुरेषु सर्वेषु वसामि चाहं विप्रेषु शास्त्रार्थरतेषु चाहम् ॥

साध्वीषु नारीषु तथा वसामि विना गुणान्नास्मि वसामि कुत्रचित्

॥१६५॥

तदस्य पुण्यसंघस्य संप्राप्तोद्यावधिर्गुह ॥

तदेनं त्यज्य यास्यामि जह्येनं विश्वहेतवे

॥१६६॥

तस्यां ततो निर्गतायां दैत्यशीर्षं व्यकम्पयत् ॥

कंपितं चास्य तद्देहं गतवीर्योऽभवत्क्षणात्

॥१६७॥

एतस्मिन्नंतरे शक्तिं सोऽक्षिपद्गिरिजात्मजः ॥

उल्काज्वाला विमुञ्चंतीमतिसूर्याग्निसप्रभाम्

॥१६८॥

कल्पांभोधिसमुन्नादां दिधक्षंतीं जगद्यथा ॥

तारकस्यांतकालाय अभाग्यस्य दशामिव

॥१६९॥

दारणीं पर्वतानां च सर्वसत्त्वबलाधिकाम् ॥

उत्क्षिप्य तां विनद्योच्चैरमुञ्चत्कुपितो गुहः

॥१७०॥

धर्मश्चेद्बलवाँल्लोके धर्मो जयति चेत्सदा ॥

तेन सत्येन दैत्योयं प्रलयं यात्वितीरयन्

॥१७१॥

सा कुमारभुजोत्सृष्टा दुर्निवार्या दुरासदा ॥

विभेद हृदयं चास्य भित्त्वा च धरणिं गता

॥१७२॥

निःसृत्य जलकल्लोलपूर्विका स्कंदमाययौ ॥

स च संताडितः शक्त्या विभिन्नहृदयोसुरः ॥

नादयन्वसुधां सर्वां पपातायोमुखो मृतः

॥१७३॥

एवं प्रताप्य त्रैलोक्यं निर्जित्य बहुशः सुरान् ॥

महारणे कुमारेण निहतः पार्थ तारकः

॥१७४॥

एतस्मिन्निहते दैत्ये प्रहर्षं विश्वमाययौ

॥१७५॥

ववुर्वातास्तथा पुण्याः सुप्रभोभूद्दिवाकरः ॥

जज्वलुश्चाग्नयः शांताः शांता दिग्जनितस्वनाः

॥१७६॥

ततः पुनः स्कंदमाह प्रहृष्टः केशवोऽरिहा ॥

स्कंदस्कंद महाबाहो बाणोनाम बलात्मजः

॥१७७॥

क्रौंचपर्वतमादाय देवसंघान्प्रबाधते ॥

सोऽधुना ते भयाद्वीर पलायित्वा नगं गतः ॥

जहि तं पापसंकल्पं क्रौंचस्थं शक्तिवेगतः

॥१७८॥

ततः क्रौंचं महातेजा नानाव्यालविनादितम् ॥

शक्त्या बिभेद बहुभिर्वृक्षैर्जीवैश्च संकुलम्

॥१७९॥

तत्र व्यालसहस्राणि दैत्यकोट्ययुतं तथा ॥

ददाह बाणां च गिरं भित्त्वा शक्तिर्महारवा

॥१८०॥

अद्यापि छिद्रं तत्पार्थ क्रौंचस्य परिवर्तते

॥१८१॥

येन हंसाश्च क्रौंचाश्च मानसाय प्रयांति च ॥

हत्वा बाणं महाशक्तिः पुनः स्कंदं समागता ॥

प्रत्यायाति मनः साधोराहृतं प्रहितं तथा

॥१८२॥

ततो हरींद्रप्रमुखाः प्रतुष्टुवुर्ननृतुश्च रंभाप्रमुखा वरांगनाः ॥

वाद्यानि सर्वाणि च वादयंतस्तं साधुसाध्वित्यमरा जगुर्भुशम्

॥१८३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेस्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कुमारकृततारकवधवर्णनंनाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥