शांडिल्य इति विख्यातः पुराहमभवं द्विजः
कूर्म उवाच
शांडिल्य इति विख्यातः पुराहमभवं द्विजः ॥
बालभावे मया भूप क्रीडमानेन निर्मितम्
॥१॥पुरा प्रावृषि पांशूत्थं शिवायतनमुच्छ्रितम् ॥
जलार्द्रवालुकाप्रायं प्रांशुप्राकारशोभितम्
॥२॥पंचायतनविन्यासमनोहरतरं नृप ॥
विनायकशिवासूर्यमधुसूदनमूर्तिमत्
॥३॥पीतमृत्स्वर्णकलशं ध्वजमालाविभूषितम् ॥
काष्ठतोरणविन्यस्तं दोलकेन विभूषितम्
॥४॥दृढप्रांशुसमुद्भूतसोपानश्रेणिभासुरम् ॥
सर्वाश्चर्यमयं दिव्यं वयस्यैः संवृतेन मे
॥५॥तत्र जागेश्वरं लिंगं गृत्वाथ विनिवेशितम् ॥
बाल्यादुपलरूपं तद्वर्षावारिविशुद्विमत्
॥६॥बकपुष्पैस्तथान्यैश्च केदारोत्थैः समाहृतैः ॥
कोमलैरपरैः पुष्पैर्वृतिवल्लीसमुद्भवैः
॥७॥कूष्मांडैश्चैव वर्णाद्यैरुन्मत्तकुसुमायुतैः ॥
मंदारैर्बिल्वपत्रैश्च दूर्वाद्यैश्च नवांकुरैः
॥८॥पूजा विरचिता रम्या शंभोरिति मया नृप ॥
ततस्तांडवमारब्धमनपेक्षितसत्क्रियम्
॥९॥शिवस्य पुरतो बाल्याद्गीतं च स्वस्वर्जितम् ॥
अकार्षं सकृदेवाहं बाल्ये शिशुगणावृतः
॥१०॥ततो मृतोऽहं जातश्च विप्रो जातिस्मरो नृप ॥
वैदिशे नगरेऽकार्षं शिवपूजां विशेषतः
॥११॥शिवदीक्षामुपागम्यानुगृहीतः शिवागमैः ॥
शिवप्रासाद आधाय लिंगं श्रद्धासमन्वितः
॥१२॥कल्पकोटिं वसेत्स्वर्गेयः करोति शिवालयम् ॥
यावंति परमाणूनि शिवस्यायतने नृप
॥१३॥भवंति तावद्वर्षाणि करकः शिवसद्मनि ॥
इति पौराणवाक्यानि स्मरञ्छैलं शिवालयम्
॥१४॥अकारिषमहं रम्यं विश्वकर्मविधानतः ॥
मृन्मयं काष्ठनिष्पन्नं पाक्वेष्टं शैलमेव वा
॥१५॥कृतमायतनं दद्यात्क्रमाद्दशगुणं फलम् ॥
भस्मशायी त्रिषवणो भिक्षान्नकृतभोजनः
॥१६॥जटाधरस्तपस्यंश्च शिवाराधनतत्परः ॥
इत्थं मे कुर्वतो जातं पुनर्भूप प्रमापणम्
॥१७॥जातो जाति स्मरस्तत्र कारिता तृतीयेहं भवांतरे ॥
सार्वभौमो महीपालः प्रतिष्ठाने पुरोत्तमे
॥१८॥जयदत्त इति ख्यातः सूर्यवंशसमुद्भवः ॥
ततो मया बहुविधाः प्रासादाः कारिता नृप
॥१९॥तस्मिन्भवांतरे शंभोराराधनपरेण च ॥
ततो निरूपिता जाता बकपुष्पपुरस्सराः
॥२०॥सौवर्णै राजतै रत्ननिर्मितैः कुसुमैर्नृप ॥
तथाविधेऽन्नदानादि करोमि नृपसत्तम
॥२१॥केवलं शिवलिंगानां पूजां पुष्पैः करोम्यहम् ॥
ततो मे भगवाञ्छंभुः संतुष्टोऽथ वरं ददौ
॥२२॥अजरामरतां राजंस्तेनैव वपुषावृतः ॥
ततस्तथाविधं प्राप्यानन्यसाधारणं वरम्
॥२३॥विचरामि महीमेतां मदांध इव वारणः ॥
शिवभक्तिं विहायाथ नृपोऽहं मदनातुरः
॥२४॥प्रधर्षयितुमारब्धः स्त्रियः परपरिग्रहाः ॥
आयुषस्तपसः कीर्तेस्तेजसो यशसः श्रियः
॥२५॥विनाशकारणं मुख्यं परदारप्रधर्षणम् ॥
सकर्णः श्रुतिहीनोऽसौ पश्यन्नंधो वदञ्जडः
॥२६॥अचेतनश्चेतनावान्मूर्खो विद्वानपि स्फुटम् ॥
तदा भवति भूपाल पुरुषः क्षणमात्रतः
॥२७॥यदैव हरिणाक्षीणां गोचरं याति चक्षुषाम् ॥
मृतस्य निरये वासो जीवतश्चेश्वराद्भयम्
॥२८॥एवं लोकद्वयं हंत्री परदारप्रधर्षणा ॥
जरामरणहीनोहमिति निश्चयमास्थितः
॥२९॥ऐहिकामुष्मिकभयं विहायांह ततः परम् ॥
प्रधर्षयितुमारब्धस्तदा भूप परस्त्रियः
॥३०॥अथ मां संपरिज्ञाय मर्यादारहितं यमः ॥
वरप्रदानादीशस्य तदंतिकसुपाययौ ॥
व्यजिज्ञपन्मदीयं च शंभोर्धर्मव्यतिक्रमम्
॥३१॥यम उवाच
नाहं तवानुभावेन गुप्तस्यास्य विनिग्रहम्
॥३२॥शक्रोमि पापिनो देव मन्नियोगेऽन्यमादिश ॥
जगदाधारूपा हि त्वयेशोक्ताः पतिव्रताः
॥३३॥गावो विप्राः सनिगमा अलुब्धा दानशीलिनः ॥
सत्यनिष्ठा इति स्वामिंस्तेषां मुख्यतमा सती
॥३४॥तास्तेन धर्षिता लुप्तं मदीयं धर्मशासनम् ॥
वरदानप्रमत्तेन तवैव परिभूय माम्
॥३५॥जयदत्तेन देवेश प्रतिष्ठानाधिवासिना ॥
इमां धर्मस्य भगवान्गिरमाकर्ण्य कोपितः ॥
शशाप मां समानीय वेपमानं कृतांजलिम्
॥३६॥ईश्वर उवाच
यस्माद्दुष्टसमाचार धर्षितास्ते पतिव्रताः
॥३७॥कामार्तेन मया शप्तस्तस्मात्कूर्मः क्षणाद्भव ॥
ततः प्रणम्य विज्ञप्तः शापतापहरो मया
॥३८॥प्राह षष्टितमे कल्पे विशापो भविता गणः ॥
मदीय इति संप्रोच्य जगामादर्शनं शिवः
॥३९॥अहं कूर्मस्तदा जातो दशयोजनविस्तृतः ॥
समुद्रसलिले नीतस्त्वयाहं यज्ञसाधने
॥४०॥पुरस्ताद्यायजूकेन स्मरंस्तच्च बिभेमि ते ॥
दग्धस्त्वयाहं पृष्ठेत्र व्रणान्येतानि पश्य मे
॥४१॥चयनानि बहून्यत्र कल्पसूत्रविधानतः ॥
पृष्ठोपरि कृतान्यासन्निंद्रद्युम्न तदा त्वया
॥४२॥भूयः संतापिता यज्ञैः पृथिवी पृथिवीपते ॥
सुस्राव सर्वतीर्थानां सारं साऽभून्महीनदी
॥४३॥तस्यां च स्नानमात्रेण सर्वपापैः प्रमुच्यते ॥
ततो नैमित्तिके कस्मिन्नपि प्रलय आगतः
॥४४॥प्लवमानमिदं राजन्मानसं शतयोजनम् ॥
षट्पंचाशत्प्रमाणेन कल्पा मम पुरा नृप
॥४५॥व्यतीता इह चत्वारः शेषे मोक्षस्ततः परम् ॥
एवमायुरिदं दीर्घमेवं शापाच्च कूर्मता
॥४६॥ममाभूदीश्वरस्यैव सतीधर्मद्रुहो नृप ॥
ब्रूहि किं क्रियतां शत्रोरपि ते गृहगामिनः
॥४७॥मम पृष्ठिश्चिरं भूप त्वया दग्धाग्निनाऽपुरा ॥
अहं ज्वलंतीमिव तां पश्याम्यद्यापि सत्रिणा
॥४८॥इदं विमानमायातं त्वया कस्मान्निराकृतम् ॥
देवदूतसमायुक्तं भुंक्ष्व भोगान्निजार्जितान्
॥४९॥इंद्रद्युम्न उवाच
चतुर्मुखेन तेनाहं स्वर्गान्निर्वासितः स्वयम् ॥
विलक्ष्योन प्रयास्यामि पाताधिक्यादिदूषिते
॥५०॥तस्माद्विवेकवैराग्यमविद्यापापनाशनम् ॥
आलिंग्याहं यतिष्यामि प्राप्य बोधं विमुक्तये
॥५१॥तन्मे गृहगतस्याद्य यथातिथ्यकरो भवान् ॥
तदादिश यथाऽपारपारदः कोपि मे गुरुः
॥५२॥कूर्म उवाच
लोमशोनाम दीर्घायुर्मत्तोऽप्यस्ति महामुनिः ॥
मया कलापग्रामे स पूर्वं दृष्टः क्वचिन्नृप
॥५३॥इंद्रद्युम्न उवाच
तस्मादागच्छ गच्छामस्तमेव सहितावयम् ॥
प्राहुः पूततमां तीर्थादपि सत्संगतिं बुधाः
॥५४॥इत्थं निशम्य नृपतेर्वचनं तदानीं सर्वेऽपि ते षडथ तं मुनिमुख्यमाशु ॥
चित्ते विधाय मुदिताः प्रययुर्द्विजेंद्रं जिज्ञासवः सुचिरजीवितहेतुमस्य
॥५५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीप्रादुर्भावे कूर्माख्यानंनामैकादशोऽध्यायः ॥ ११ ॥