तारकासुरदेवेन्द्रयुद्धोपक्रमवर्णनम्
तारक उवाच
राज्येन बुद्बुदाभेन स्त्रीभिरक्षैश्च पानकैः ॥
मोहितो जन्म लब्ध्वात्र त्यजते पौरुषं नरः
॥१॥जन्म तस्य वृथा सर्वमाकल्पांतं न संशयः
॥२॥मातापितृभ्यां न करोति कामान्बन्धूनशोकान्न करोति यो वा ॥
कीर्तिं हि वा नार्जयते न मानं नरः स जातोऽपि मृतोऽत्र लोके
॥३॥तस्माज्जयायामरपुंगवानां त्रैलोक्यलक्ष्मीहरणाय शीघ्रम् ॥
संयोज्यतां मे रथमष्टचक्रं बलं च मे दुर्जयदैत्यचक्रम्
॥४॥ध्वजं च मे कांचनपट्टबन्धं छत्रं च मे मौक्तिकजालबद्धम् ॥
अद्याहमासां सुरकामिनीनां धम्मील्लकांश्चाग्रथितान्करिष्ये
॥५॥यथा पुरा मर्कटको जनन्यास्तस्याश्च सत्येन तु तारकः स्याम्
॥६॥नारद उवाच
तारकस्य वचः श्रुत्वा ग्रसनोनाम दानवः ॥
सेनानीर्दैत्यराजस्य तथा चक्रेऽविलंबितम्
॥७॥आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः ॥
सज्जं चक्रे रथं दैत्यो दैत्यराजस्य धीमतः
॥८॥गरुडानां सहस्रेण गरुडोपमितत्विषा ॥
ते हि पुत्राः सुपर्णस्य संस्थिता मेरुकन्दरे
॥९॥विजित्य दैत्यराजेन वाहनत्वे प्रकल्पिताः ॥
अष्टाष्टचक्रः सरथश्चतुर्योजनविस्तृतः
॥१०॥नानाक्रीडागृहयुतो गीतवाद्यमनोहरः ॥
गंधर्वनगराकारः संयुक्तः प्रत्यदृस्यत
॥११॥आजग्मुस्तत्र दैत्याश्च दशा चंडपराक्रमाः ॥
कोटिकोटिपरिवारा अन्ये च बहवो रणे
॥१२॥तेषामग्रेसरो जम्भः कुजम्भोनंतरस्तथा ॥
महिषः कुञ्जरो मेषः कालनेमिर्निमिस्तथा
॥१३॥मथनो जंभकः शुम्भो दैत्येंद्रा दश नायकाः ॥
दैत्येंद्रा गिरिवर्ष्माणः संति चंडपराक्रमाः
॥१४॥नानाविधप्रहरणा नानाशस्त्रास्त्रपारगाः ॥
तारकस्याभवत्केतुर्बहूरूपो महाभयः
॥१५॥क्वचिच्च राक्षसो घोरः पिशाचध्वांक्षगृध्रकः ॥
एवं बहुविधाकारः स केतुः प्रत्यदृश्यत
॥१६॥केतुना मकरेणापि सेनानीर्ग्रसनो बभौ ॥
पैशाचं यत्र वदनं जंभस्यासीदयस्मयम्
॥१७॥खरो विधुतलांगूलः कुजम्भस्याभवद्ध्वजे ॥
महिषस्य च गोमायुः कांतो हैमस्तथां बभौ
॥१८॥गृध्रो वै कुंजरस्यासीन्मेषस्याभूच्च राक्षसः ॥
कालनेमेर्महाकालो निमेरासीन्महातिमिः
॥१९॥राक्षसी मथनस्यापि ध्वांक्षोऽभूज्जंभकस्य च ॥
महावृकश्च शुम्भस्य ध्वजा एवंविधा बभुः
॥२०॥अनेकाकारविन्यासादन्येषां च ध्वजा भवन् ॥
शतेन शीघ्रवेगानां व्याघ्राणां हेममालिनाम्
॥२१॥ग्रसनस्य रथो युक्तो महामेघरवो बभौ ॥
शतेन चापि सिंहानां रथो जंभस्य योजितः
॥२२॥कुजंभस्य रथो युक्तः पिशाचवदनैः खरैः ॥
तावद्भिर्महिषस्योष्टैर्गजस्य च हयैर्युतः
॥२३॥मेषस्य द्वीपिभिर्भीमैः कुञ्जरैः कालनेमिनः ॥
पर्वतं वै समारूढो निश्चित्य विधृतं गजैः
॥२४॥चतुर्दंष्ट्रैर्गंधवद्भिश्चर्भिर्मेघसन्निभैः ॥
शतहस्तायते कृष्णे तुरंगे हेमभूषणे
॥२५॥सितचामरजालेन शोभिते पुष्पदामनि ॥
मथनोनाम दैत्येन्द्रः पाशहस्तो व्यराजत
॥२६॥किंकिणीमालिनं चोष्ट्रमारूढोऽभूच्च जंभकः ॥
कालमुंचं महामेघमारूढः शुम्भदानवः
॥२७॥अन्ये च दानवा वीरा नानावाहनहेतयः ॥
प्रचण्डचित्रवर्माणः कुण्डलोष्णीषभूषिताः
॥२८॥नानाविधोत्तरासंगा नानामाल्यविभूषणाः ॥
नानासुगंधगंधाढ्या नानाबंधिशतस्तुताः
॥२९॥नानावाद्यपरिस्यंदसाग्रेसरमहारथाः ॥
नानाशौर्यकथासक्तास्तस्मिन्सैन्ये महारथाः
॥३०॥तद्बलं दैत्यसिंहस्य भीमरूपं व्यदृश्यत ॥
भूमिरेणुसमालिंगत्तुरंगरथपत्तिकम्
॥३१॥स च दैत्येश्वरः क्रुद्धः समारूढो महारथम् ॥
दशभिः शुशुबे दैत्यैर्दशबाहुरिवेश्वरः ॥
जगद्धंतुं प्रवृत्तो वा प्रतस्थेऽसौ सुरान्प्रति
॥३२॥एतस्मिन्नंतरे वायुर्देवदूतः सुरालयम् ॥
दृष्ट्वा तद्दानव बलं जगामेंद्रस्य शंसितुम्
॥३३॥स गत्वा तु सभां दिव्यां महेंद्रस्य महात्मनः ॥
शशंस मध्ये देवानामिदं कार्यमुपस्थितम्
॥३४॥तच्छ्रुत्वा देवराजः स निमीलितविलोचनः ॥
बृहस्पतिमुवाचेदं वाक्यं काले महामतिः
॥३५॥इन्द्र उवाच
संप्राप्तोऽतिविमर्दोऽयं देवानां दानवैः सह ॥
कार्यं किमत्र तद्ब्रुहि नीत्युपायोपबृंहितम्
॥३६॥एतच्छ्रुत्वा च वचनं महेंद्रस्य गिरांपतिः ॥
प्रत्युवाच महाभागो बॉहस्पति रुदारधीः
॥३७॥बृहस्पतिरुवाच
सामपूर्वं स्मृता नीतिश्चतुरंगामनीकिनीम् ॥
जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी
॥३८॥साम दानं च भेदश्च चतुर्थो दंड एव च ॥
नीतौ क्रमात्प्रयोज्याश्च देशकालविशेषतः
॥३९॥तत्र साम प्रयोक्तव्यमार्येषु गुणवत्सु च ॥
दानं लुब्धेषु भेदश्च शंकितोष्वितो निश्चयः
॥४०॥दण्डश्चापि प्रयोक्तव्यो नित्यकालं दुरात्मसु ॥
साम दैत्येषु नैवास्ति निर्गुणत्वाद्दुरात्मसु
॥४१॥श्रिया तेषां च किं कार्यं समृद्धानां तथापि यत् ॥
जातिधर्मेण चाभेद्या विधातुरपि ते मताः
॥४२॥एको ह्युपायो दंडोऽत्र भवतां यदि रोचते ॥
दुर्जनः सुजनत्वाय कल्पते न कदाचन
॥४३॥लालितः पालितो वापि स्वस्वभावं न मुंचति ॥
एवं मे मन्यते बुद्धिर्भवंतो यद्व्यवस्यताम्
॥४४॥एवमुक्तः सहस्राक्ष एवमेवेत्युवाच ह ॥
कर्तव्यतां च संचिंत्य प्रोवाचामरसंसदि
॥४५॥बहुमानेन मे वाचं श्रृणुध्वं नाकवासिनः
॥४६॥भवंतो यज्ञभोक्तारः सतामिष्टाश्च सात्त्विकाः ॥
स्वेस्वे पदे स्थिता नित्यं जगतः पालने रताः
॥४७॥भवतां च निमित्तेन बाधंते दानवेश्वराः ॥
तेषां समादि नैवास्ति दंड एव विधीयताम्
॥४८॥क्रियतां समरे बुद्धिः सैन्यं संयोज्यतामिति ॥
आवाद्यंतां च शस्त्राणि पूज्यं तां शस्त्रदेवताः
॥४९॥इत्युक्ताः समनह्यंत देवानां ये प्रधानतः ॥
वाजिनामयुतेनाजौ हेमपट्टपरिष्कृताः
॥५०॥वाहनानि विमानानि योजयंतु ममामराः ॥
यमं सेनापतिं कृत्वा शीघ्रं निर्यात देवताः
॥५१॥नानाश्चर्यगुणोपेता दुर्जया देवदानवैः ॥
रथो मातलिना युक्तो महेंद्रस्याप्यदृश्यत
॥५२॥यमो महिषमास्थाय सेनाग्रे समवर्तत ॥
चंडकिंकिणिवृंदेन सर्वतः परिवारितः
॥५३॥कल्पकालोज्जवालापूरितांबरगोचरः ॥
हुताश उरणारूढः शक्तिहस्तो व्यवस्थितः
॥५४॥पवनोंऽकुशपाणिस्तु विस्तारितमहाजवः ॥
महाऋक्षं समारूढं सेनाग्रे समदृश्यत
॥५५॥भुजगेन्द्रं समारूढो जलेशो भगवान्स्वयम् ॥
महापाशधरो वीरः सेनायां समवर्तत
॥५६॥नरयुक्ते रथे दिव्ये धनाध्यक्षो व्यचीचरत् ॥
महासिंहरवो युद्धे गदाहस्तो व्यवस्थितः
॥५७॥राक्षसेशोऽथ निर्ऋती रथे रक्षोमुखैर्हयैः ॥
धन्वी रक्षोगणवृतो महारावो व्यदृश्यत
॥५८॥चंद्रादित्यावश्विनौ च वसवः साध्यदेवताः ॥
विश्वेदेवाश्च रुद्राश्च सन्नद्धास्तस्थुराहवे
॥५९॥हेमपीठत्तरासंगाश्चित्रवर्मायुधध्वजाः ॥
गंधर्वाः प्रत्यदृश्यन्त कृत्वा विश्वावसुं मुखे
॥६०॥तथा रक्तोत्तरासंगा निर्मलायोविभूषणाः ॥
गृध्रध्वजा अदृश्यंत राक्षसा रक्तमूर्धजाः
॥६१॥तथा भीमाशनिकराः कृष्णवस्त्रा महारथाः ॥
यक्षास्तत्र व्यदृश्यंत मणिभद्रादिकोटिशः
॥६२॥ताम्रोलूकध्वजा रौद्रा द्वीपिचर्मांबरास्तथा ॥
पिशाचास्तत्र राजंते महावेगपुरःसराः
॥६३॥तथैव श्वेतवसनाः सितपट्टपताकिनः ॥
मत्तेभवाहनप्रायाः किंनरास्तस्थुराहवे
॥६४॥मुक्ताजाल पिरष्कारो हंसो हारसमप्रभः ॥
केतुर्जलधिनाथस्य सौम्यरूपो व्यराजत
॥६५॥पंचरागमहारत्नविटंको धनदस्य च ॥
ध्वजः समुत्थितो भाति यातुकाम इवांबरम्
॥६६॥कार्ष्णलोहमयो ध्वांक्षो यमस्याभून्महाध्वजः ॥
राक्षसेशस्य वदनं प्रेतस्य ध्वज आबभौ
॥६७॥हेमसिंहध्वजौ देवौ चन्द्रार्कवमितद्युति ॥
कुंभेन चित्रवर्णेन केतुराश्विनयोरभूत्
॥६८॥मातंगो हेमरचितश्चित्ररत्नपरिष्कृतः ॥
ध्वजः शतक्रतोरासीत्सितचा मरसंस्थितः
॥६९॥अन्येषां च ध्वजास्तत्र नानारूपा बभू रणे ॥
सनागयक्षगंधर्वमहोरगनिशाचरा
॥७०॥सेना सा देवराजस्य दुर्जया प्रत्यदृश्यत ॥
कोटयस्तास्त्रयस्त्रिंशन्नानादेवकायिनाम्
॥७१॥हैमाचलाभे सितकर्णचामरे सुवर्णपद्मामलसुंदरस्रजि ॥
कृताभिरामोज्ज्वलकुंकुमांकुरे कपोललीताविविमुक्तरावे
॥७२॥श्रितस्तदैरावणनामकुंजरे महाबलश्चित्रविशेषितांबरः ॥
विशालवज्रांगवितानभूषितः प्रकीर्णकेयूरभुजाग्रमंडलः
॥७३॥सहस्रदृग्बंदिसहस्रसंस्तुतस्त्रिविष्टपेऽशोभत पाकशासनः
॥७४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारीकाखण्डे तारकासुरदेवेन्द्रयुद्धोपक्रमवर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥