पंचलिंगोपाख्यानसमाप्तिवर्णनम्
नारद उवाच
एवं दृष्ट्वा क्षितौ तानि लिंगानि हरसूनुना ॥
हरिब्रह्मेंद्रप्रमुखा देवाः प्रोचुः परस्परम्
॥१॥अहो धन्यः कुमारोऽयं महीसागरसंगमे ॥
येन चत्वारी लिंगानि स्तापितानि सुदुर्लभे
॥२॥वयमप्यत्र शुद्ध्यर्थं तोषार्थं स्कन्दरुद्रयोः ॥
साध्वर्थे चात्मलाभाय कुर्मो लिंगपरंपराम्
॥३॥अथवा कोटिशो देवा मुनयो नैव संख्यया ॥
सर्वे चेत्स्थापयिष्यंति लिंगान्यत्र महीतटे
॥४॥पूजा तेषां कतं भावि बहुत्वाच्चात्र पठ्यते ॥
यस्य राष्ट्रे रुद्रलिंगं पूज्यते नैव शक्तितः
॥५॥तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः ॥
संभूय स्थापयिष्यामो लिंगमेकं ततः शुभम्
॥६॥इति कृत्वा मतिं सर्वे प्राप्यानुज्ञां महेश्वरात् ॥
प्रहर्षिता सुहश्चैव हरिब्रह्ममुखाः सुराः
॥७॥भूमिभागं शुभं वीक्ष्य विजने लिंगमुत्तमम् ॥
स्थापयामासुरथ ते स्वयं ब्रह्मविनिर्मितम्
॥८॥सिद्धार्थैः स्तापितं यस्मा द्देवैर्ब्रह्मादिभिः स्वयम् ॥
सिद्धेश्वरमिति प्राह नाम लिंगस्य वै गुहः
॥९॥सर्वैर्देवैस्तत्र लिंगे खानितं सर उत्तमम् ॥
सर्वतीर्थोदकैः शुभ्रैः पूरितं च महात्मभिः
॥१०॥एतस्मिन्नंतरे पार्थ पातालाच्छेषनंदनः ॥
कुमुदोनाम आगत्य प्राह शेषाहिपन्नगान्
॥११॥अस्मिंस्तारकयुद्धे तु प्रलंबोनाम दानवः ॥
पलायित्वा स्कंदभीत्या पापः पातालमाविशत्
॥१२॥स वो वसूनि पुत्रांश्च भार्याः कन्या गृहाणि च ॥
विध्वंसयति नागेंद्राः शीघ्रं धावतधावत
॥१३॥शेषात्मजस्य तद्वाक्यं कुमदस्य निशम्यते ॥
औत्सुक्यमापुर्नागेंद्रा यामयामेति वादिनः
॥१४॥तान्निवार्य ततः स्कंदः क्रुद्धः शक्तिमथाददे ॥
पातालाय मुमोचाथ प्रोच्य दैत्यो निहन्यताम्
॥१५॥ततः स्कंदभुजोत्सृष्टा भुवं निर्भिद्य वेगतः ॥
प्रविष्टा सहसा शक्तिर्यथा दैवं नरं प्रति
॥१६॥सा तं हत्वा प्रलंबं च कोटिभिर्दशभिर्वृतम् ॥
नंदयित्वा गता नागाञ्जलकल्लोपूर्विका
॥१७॥यांत्या शक्त्या तया पार्थ यत्कृतं विवरं भुवि ॥
पातालगंगातोयेन पूरितं पापहारिणा
॥१८॥तस्य नाम ददौ स्कंदः सिद्धकूप इति स्मृतः ॥
कृष्माष्टम्यां चतुर्दश्यामुपवासी नरः स्वयम्
॥१९॥स्नात्वा कूपेऽर्चयेदीशं सिद्धेश्वरमनन्यधीः ॥
प्रभूतभवसंभूतपापं तस्य विलीयते
॥२०॥सिद्धकुंडे च यः स्नात्वा श्राद्धं कुर्याद्विचक्षणः ॥
सर्वकल्मषनिर्मुक्तो भक्तियोग्यो भवेभवे
॥२१॥वृश्चाप्यक्षयस्तस्य तुष्टो रुद्रो वरं ददौ ॥
प्रयाग वटतुल्योऽयमेतत्सत्यं न संशयः
॥२२॥अत्रागत्य महाभागः क्षाद्धं कुर्यात्सुभक्तितः ॥
पितॄणामक्षयं तच्च सर्वेषां पिंडपातनम्
॥२३॥ततो ब्रह्मादयो देवाः स्कंदेन सहितास्तदा ॥
सिद्धांबिकां महाशक्तिं प्रार्थयामासुरीश्वरीम्
॥२४॥त्वयाविष्टो हि भगवान्मत्स्यरूपी जनार्दनः ॥
जगदुद्धारणार्थाय चक्रे कर्माम्यनेकशः
॥२५॥इति तां प्रार्थयामासुरत्र त्याज्यं न ते शुभे ॥
अत्र स्थिताः सर्व इमे क्षेत्रपाला महाबलाः
॥२६॥अष्टम्यां वा चतुर्दश्यां बलिपुष्पैश्च त्वां शुभे ॥
ये पूजयंति ते पाल्याः सर्वापत्सु च या सदा
॥२७॥एवमुक्ता सिद्धमाता तथेति प्रत्यपद्यत ॥
स्थापयामासुरथ तां लिंगादुत्तरभागतः
॥२८॥ततः क्षेत्रपतीन्देवाश्चतुःषष्टिं महेश्वरम् ॥
सिद्धेयं नाम क्षेत्रस्य रक्षार्थं निदधुः स्वयम्
॥२९॥त्वां च ये पूजयिष्यंति कार्यारभेषु सर्वदा ॥
वर्षे वर्षे राजमाषबलिना च विशेषतः
॥३०॥तानसौ पालयेत्तुष्टः पिता लोकानिव स्वकान् ॥
सिद्धिकृतो देवास्तत्र सिद्धिविनायकम्
॥३१॥कपर्दितनयं प्रार्थ्य स्थापयाचक्रिरे मुदा ॥
तं च ये पूजयंत्यत्र कार्यारंभेषु सर्वदा
॥३२॥तेषां सिद्धिं ददात्येष प्रबलो विघ्नराड्भवः ॥
यद्यत्र पूजयेद्यस्तु सततं सिद्धसप्तकम्
॥३३॥पश्येद्वा स्मरते वापि सर्वदोषैर्विमुच्यते ॥
सिद्धेश्वरः सिद्धवटश्च साक्षात्सिद्धांबिका सिद्धविनायकश्च ॥
सिद्धेयक्षेत्राधिपतिश्च सिद्धसरस्तथा सिद्धकूपश्च सप्त
॥३४॥अत्र तुष्टो ददौ रुद्रः सुराणां दुर्लभान्वरान् ॥
वैशाखमासस्याष्टम्यां कृष्णायां सिद्धकूपके
॥३५॥स्नात्वा पिंडान्वटे कृत्वा पूजयन्मां च सिद्धभाक् ॥
सदा योऽभ्यर्चयेन्मां च ब्रह्मचारी जितेंद्रियः
॥३६॥अष्टाविष्टकरा नित्यं भवेयुस्तस्य सिद्धयः ॥
मंत्रजाप्यं बलिं होममत्र यः कुरुते नरः
॥३७॥एकचित्तः शुचिर्भूत्वा सोऽभूष्टां सिद्धिमाप्नुयात् ॥
समाहितमनाश्चाथ सिद्धेशं यस्तु पश्यति
॥३८॥तस्य सिद्धिर्भवत्येव विघ्नैर्यदि न हन्यते ॥
सिद्धांबिका महादेवी ह्यत्र संनिहितास्ति या
॥३९॥सिद्धिदा साधकेंद्राणां महाविद्यां जपंति ये ॥
धीरेभ्यो ब्रह्मचारिभ्यः सत्यचित्तेभ्य एव च
॥४०॥मंत्रजाप्याद्ददात्येषा सर्वसिद्धीर्यथोप्सिताः ॥
पातालस्य बिलं चैतद्गुहशक्त्या कृतं महत्
॥४१॥सिद्धां बिकाप्रसादेन विघ्नक्षेत्रपयोर्मम ॥
प्रत्यक्षं भविता यत्र नानाश्चर्याणि भूरिशः
॥४२॥अत्र सिद्धिं प्रयास्यंति कोटिशः पुरुषाः सुराः ॥
विद्याधरत्वं देवत्वं गंधर्वत्वं च नागता
॥४३॥यक्षत्वं चामरत्वं च प्राप्स्यंत्यत्र च साधकाः ॥
अत्र वै विजयोनाम स्थंडिलस्य प्रभावतः
॥४४॥सिद्धांबिकां समाराध्य सिद्धिमाप्स्यति दुर्लभाम् ॥
यो मां द्रक्ष्यति चात्रस्थं यश्च मां पूजयिष्यति ॥
वादप्रचारतो वापि पुण्यावाप्तिर्भविष्यति
॥४५॥नारद उवाच
त्र्यंबकेण वरेष्वेवं दत्तेष्वपि सुरोत्तमाः
॥४६॥प्रहृष्टाः समपद्यंत गाथां चेमां जगुस्तदा ॥
तेन यज्ञैर्जपैःस्तोत्रैस्तपो भिस्तोषिता वयम्
॥४७॥सर्वे देवाः सिद्धिलिंगं यो नरः पूजयिष्यति ॥
सर्वकामफलावाप्तिरित्येवं शंकरोऽब्रवीत्
॥४८॥इत्युक्त्वा ते जयं प्राप्ताः स्कंदेन सहिताः सुराः ॥
काराय्यं रम्यप्रासादान्रम्यैस्तारकसंभवैः
॥४९॥चतुर्वर्गफलावाप्तिं दत्त्वा क्षेत्रस्य संययुः ॥
केचित्स्कंदं प्रशंसंतस्तीर्थमन्ये हरिं परे
॥५०॥केचिल्लिंगानि पंचापि युद्धं केचिद्दिवं ययुः ॥
ततोंऽतरिक्षे चालिंग्य महासेनं हरोऽब्रवीत्
॥५१॥सप्तमे मारुतस्कंधे व स नित्यं प्रियात्मज ॥
कार्येष्वहं त्वया पुत्र संप्रष्टव्यः सदैव हि
॥५२॥दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि ॥
स्तंभतीर्थे च वत्स्येऽहं न विमोक्ष्यामि कर्हिचित्
॥५३॥इत्युक्त्वा विससर्जैनं परिष्वज्य महेश्वरः ॥
ब्रह्मविष्णुमुखांश्चैव भक्त्या तैरभिनंदितः
॥५४॥विसर्जिताः सुराजग्मुः स्वानिस्वान्यालयानि च ॥
शर्वो जगाम कैलासं स्कंधं वै सप्तमं गुहः
॥५५॥इत्येतत्कथितं पार्थ लिंगपंचकसंभवम् ॥
यः पठेत्स्कंदसंबद्धां कथां मर्त्यो महामतिः
॥५६॥श्रृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः ॥
बह्वायुः सुभगः श्रीमान्कांतिमाञ्छुभदर्शनः
॥५७॥भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः ॥
शुचिर्भूत्वा पुमान्यश्च कुमारेश्वरसन्निधौ
॥५८॥श्रृणुयात्स्कंदचरितं महाधनपतिर्भवेत् ॥
बालानां व्याधिदुष्टानां राजद्वारोपसेविनाम्
॥५९॥इदं तत्परमं धन्यं सर्वदोषहरं सदा ॥
तनुक्षये च सायुज्यं षण्मुखस्य व्रजेन्नरः
॥६०॥वरमेनं ददुर्देवाः स्कंदस्याथ गता दिवम्
॥६१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे पंचलिंगोपाख्यानसमाप्तिवर्णनंनाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥