मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ६५

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 65

वत्सेश्वरीदुर्गादेवीगयत्राडामाहात्म्यवर्णनम्

सूत उवाच

उषित्वा सप्तरात्राणि तीर्थेस्मिन्भ्रातृभिः सह ॥

युधिष्ठिरो महातेजा गमनायोपचक्रमे

॥१॥

प्रभाते विमले स्नात्वा देवीर्लिंगान्यथार्च्य च ॥

कृत्वा प्रदक्षिणं क्षेत्रं देवीस्तोत्रं जजाप सः ॥

प्रयाणकालेषु सदा जप्यं कृष्णेन कीर्तितम्

॥२॥

युधिष्ठिर उवाच

देवि पूज्ये महाशक्ते कृष्णस्य भगिनि प्रिये ॥

नत्वा त्वां शरणं यामि मनोवाक्कायकर्मभिः

॥३॥

संकर्षणाभयदाने कृष्णच्छविसमप्रभे ॥

एकानंशे महादेवि पुत्रवत्त्राहि मां शिव

॥४॥

त्वया ततमिदं विश्वं जगदव्यक्तरूपया ॥

इति मत्वा त्वां गतोऽस्मि शरणं त्राहि मां शुभे

॥५॥

कार्यारम्भेषु सर्वेषु सानुगेन मया तव ॥

स्व आत्मा कल्पितो भद्रे ज्ञात्वैतदनुकंप्यताम

॥६॥

सूत उवाच

इति ब्रुवाणं राजानं शिरोबद्धाजलिं तदा ॥

वायुपुत्रः प्रहस्यैव सासूयमिदमब्रवीत्

॥७॥

ये त्वां राजन्वदंत्येवं सर्वज्ञोऽयं युधिष्ठिरः ॥

वृथैव वचनं तेषां यतस्त्वं वेत्सि नाण्वपि

॥८॥

को हि प्रज्ञावतां मुख्यः सर्वशास्त्रविदांवरः ॥

स्त्रीणां शरणमापद्येदृजुर्बुद्धिर्यथा भवान्

॥९॥

यतस्त्वमेव वेत्सीदं सर्वशास्त्रेषु कीर्त्यते ॥

जडेयं प्रकृतिर्मूढा यया संमोह्यते जगत्

॥१०॥

सचेतनं च पुरुषं प्रकृतिं च विचेतनाम् ॥

प्राहुर्बुधा नराध्यक्ष पुंसश्चप्रकृतिः प्रिया

॥११॥

तत्स्वयं पुरुषो भूत्वा युधिष्ठिर वृथामते ॥

प्रकृतिं नौषि नत्वा तां हासो मेऽतीव जायते

॥१२॥

आरोहयेच्छिरो नैव क्वचिद्धित्वा उपानहौ ॥

यथा स मूढो भवति देवीभक्तिरतस्तथा

॥१३॥

यदि ते बन्दिवत्पार्थ तिष्ठेद्वाण्यनिवारिता ॥

तत्किमर्थं महादेवं न स्तौषि त्रिपुरान्तकम्

॥१४॥

अलक्ष्यमिति वा मत्वा महेशानं महामते ॥

ततः किमर्थ दाशार्हं न स्तौषि पुरुषोत्तमम्

॥१५॥

यस्य प्रसादादस्माभिः प्राप्ता द्रुपदनंदिनी ॥

इन्द्रप्रस्थे तथा राज्यं राजसूयस्त्वया कृतः

॥१६॥

विजयेन धनुर्लब्धं जरासन्धो मया हतः ॥

प्रत्याहर्तुं तथेच्छामः कौरवेभ्यः स्वकां श्रियम्

॥१७॥

यस्य प्रसादात्तं मुक्त्वा कृष्णं हा स्तौषि यज्जयी ॥

अथ स्वयं कौरवाणामुत्पन्नं कुलसत्तमे

॥१८॥

जानन्नात्मानमल्पत्वाद्बुद्धेर्न स्तौषि यादवम् ॥

तत्किमर्थं महावीर्यं न स्तौष्यर्जुनमुत्तमम्

॥१९॥

येन विद्धं पुरा लक्ष्यं येन कर्णादयो जिताः ॥

येन तत्खांडवं दग्धं यज्ञे येन नृपा जिताः

॥२०॥

श्रूयते येन विक्रम्य महेशानोऽपि निर्जितः ॥

स्वर्लोकसंस्थितस्यास्य शरणं याहि स्तौषि च

॥२१॥

अथवा तेन शक्रेण राज्यं मे नार्पितं कुतः ॥

इति मत्वा वृथैव त्वं न स्तौषि भ्रातरं मम

॥२२॥

ततो मां वा कथं वीरं न स्तौषि त्वं युधिष्ठिर ॥

येन त्वं रक्षितः पूर्वं लाक्षागेहाग्निमध्यतः

॥२३॥

वृक्षेणाहत्य मद्रेशो नदीं शुष्कां प्रसारितः ॥

राजराजस्तथा येन जरासंधो निपातितः

॥२४॥

पूर्वा दिङ्निर्जिता येन येन पूर्वं बको हतः ॥

हिडम्बश्च महावीरः किर्मीरश्चाधुना वने

॥२५॥

कालेकाले च रक्षामि त्वामेवाहं सदानुगः ॥

न तां पश्यामि रक्षंतीं नत्वा यां स्तौषि भारत

॥२६॥

अथ क्षुधाबलं ज्ञात्वा मामौदरिकसत्तमम् ॥

क्रूरं साहसिकं चैव न स्तौषि क्षमिणां वरः

॥२७॥

ततः सुसंयतो भूत्वा प्रणवं समुदीरयन् ॥

कथं न यासि मार्गे त्वं वृथालापो हि दोषभाक्

॥२८॥

प्रेताः पिशाचा रक्षांसि वृथालापरतं नरम् ॥

आविशंति तदाविष्टो वक्ताबद्धं पुनः पुनः

॥२९॥

वृथालापी यदश्नाति यत्करोति शुभं क्वचित् ॥

प्रेतादितृप्तये सर्वमिति शास्त्रविनिश्चयः

॥३०॥

नायं तस्यास्ति वै लोकः कुत एव परो भवेत् ॥

तस्माद्विजानता यत्नात्त्याज्यमेव वृथा वचः

॥३१॥

एवं संस्मारितोऽपि त्वं यदि भूयः प्रवर्तसे ॥

भूताविष्टश्चिकित्स्यो नो विविधैरौषधैर्भवान्

॥३२॥

सूत उवाच

इति प्रवर्णितां श्रुत्वा भीमसेनेन भारतीम् ॥

पटीमिव प्रविततां विहस्याह युधिष्ठिरः

॥३३॥

नूनं त्वमल्पविज्ञानो वेदाधीतास्त्वया वृथा ॥

मातरं सर्वभूतानामंबिकां यन्न मन्यसे

॥३४॥

स्त्रीपक्ष इति मत्वा तामवजानासि भोः कथम् ॥

स्त्री सती न प्रणम्या किं त्वया कुन्ती वृकोदर

॥३५॥

यदि न स्यान्महामाया ब्रह्मविष्णुशिवार्चिता ॥

तव देहोद्भवः पार्थ कथं स्यात्तत्त्वतो वद

॥३६॥

ईश्वरः परमात्मा तां त्यक्तुं शक्तः कथं न हि ॥

पुनर्भेजे यतो देवीं तेन मन्ये महोर्जिताम्

॥३७॥

वासुदेवोऽपि नित्यं तां स्तौति शक्तिं परात्पराम् ॥

अहं यदि चिकित्स्यः स्यां चिकित्स्यः सोऽपि किं भवान्

॥३८॥

नैवं भूयः प्रवक्तव्यं मौर्ख्यात्प्रति महेश्वरीम् ॥

भूमौ निपत्य शरणं याहि चेत्सुखमिच्छसि

॥३९॥

भीम उवाच

सर्वोपायैर्बोधयंति चाटा हस्तगतं नरम् ॥

इदमेवौषधं तत्र तैः सार्धं जल्पनं न हि

॥४०॥

मुण्डे मुण्डे मतिर्भिन्ना सत्यमेतन्नृप स्फुटम् ॥

स्वाभीष्टं कुरुते सर्वः कुर्मोऽभीष्टं वयं तथा

॥४१॥

नागायुतसमप्राणो वायुपुत्रो वृकोदरः ॥

न स्त्रियं शरणं गच्छेद्वाङ्मात्रेण कथंचन

॥४२॥

इत्युक्त्वा वचनं भीमो ह्यनुवव्राज तं नृपम् ॥

राजापि सानुगो यातो न साध्विति मुहुर्ब्रुवन्

॥४३॥

ततः क्षणेन विकलस्त्वितश्चेतश्च प्रस्खलत् ॥

उवाच वचनं भीमः सुसंभ्रांतो नृपं प्रति

॥४४॥

धर्मराज महाबुद्धे पश्य मां नृपसत्तम ॥

चक्षुर्भ्यां नैव पश्यामि वैकल्यं किमिदं मम

॥४५॥

राजोवाच

भीमभीम ध्रुवं देवी कुपिता ते महेश्वरी ॥

तेन नष्टे चक्षुषी ते महासाहसवल्लभ

॥४६॥

तत्सांप्रतमभिप्रैहि शरणं परमेश्वरीम् ॥

पुनः प्रसन्ना ते दद्यात्कदाचिन्नयने पुनः

॥४७॥

भीम उवाच

अहमप्यंग जानामि समो देव्या न कश्चन ॥

प्रभावप्रत्ययार्थं हि सदा निन्दामि तां पुनः

॥४८॥

तस्मात्प्रभावं दृष्ट्वैवं निपत्य वसुधातले ॥

मनोवाग्बुद्धिभिर्नत्वा शरणं स्तौमि मातरम्

॥४९॥

सूत उवाच

इत्युक्त्वा भ्रातरं ज्येष्ठं साष्टांगं प्रणिपत्य च ॥

गत्वैव देव्याः शरणं भीमस्तुष्टाव मातरम्

॥५०॥

भीम उवाच

सर्वभूतांबिके देवि ब्रह्मांडशतपूरके ॥

बालिशं बालकं स्वीयं त्राहित्राहि नमोऽस्तु ते

॥५१॥

त्वं ब्राह्मी ब्रह्मणः शक्तिर्वैष्णवी त्वं च शांभवी ॥

त्रिमूर्तिः शक्तिरूपा त्वं रक्षरक्ष नमोऽस्तु ते

॥५२॥

त्वमैन्द्री च त्वमाग्नेयी त्वं याम्या त्वं च नैर्ऋती ॥

त्वं वारुणी त्वं वायव्या त्वं कौबेरी नमोऽस्तु ते

॥५३॥

ऐशानि देवि वाराहि नारसिंहि जयप्रदे ॥

कौमारि कुलकल्याणि कृपेश्वरि नमोऽस्तु ते

॥५४॥

त्वं सूर्ये त्वं तथा सोमे त्वं भौमे त्वं बुधे गुरौ ॥

त्वं शुक्रे त्वं स्थिता राहौ त्वं केतुषु नमोऽस्तु ते

॥५५॥

वससि ध्रुवचक्रे त्वं मुनिचक्रे च ते स्थितिः ॥

भचक्रेषु खचक्रेषु भूचक्रे च नमोऽस्तु ते

॥५६॥

सप्तद्वीपेषु त्वं देवि समुद्रेषु च सप्तसु ॥

सप्तस्वपि च पातालेष्ववसंस्थे नमोऽस्तु ते

॥५७॥

त्वं देवि चावतारेषु विष्णोः साहाय्यकारिणी ॥

विष्णुनाभ्यर्थ्यसे तस्मात्त्राहि मातर्नमोऽस्तु ते

॥५८॥

चतुर्भुजे चतुर्वक्त्रे फलदे चत्वरप्रिये ॥

चराचरस्तुते देवि चरणौ प्रणमामि ते

॥५९॥

महाघोरे कालरात्रि घंटालि विकटोज्वले ॥

सततं सप्तमीपूज्ये नेत्रदे शरणं भव

॥६०॥

मेरुवासिनि पिंगाक्षि नेत्रत्राणैककारिणि ॥

हुंहुंकारध्वस्तदैत्ये शरण्ये शरणं भव

॥६१॥

महानादे महावीर्ये महा मोहविनाशिनि ॥

महाबन्धापहे देवि देहि नेत्रत्रयं मम

॥६२॥

सर्वमंगलमंगल्या यदि त्वं सत्यतोंबिके ॥

ततो मे मंगलं देहि नेत्रदानान्नमोस्तु ते

॥६३॥

यदि सर्वकृपालुभ्यः सत्यतस्त्वं कृपावती ॥

ततः कृपां कुरु मयि देहि नेत्रे नमोऽस्तु ते

॥६४॥

पापोयमिति यद्देवि प्रकुप्यसि वृथैव तत् ॥

त्वं मां मोहयसि त्वेवं न ते तत्किं नमोऽस्तु ते

॥६५॥

स्वयमुत्पाद्य यो रेणुं वेष्टितस्तेन कुप्यति ॥

तथा कुप्यसि मे मातरनाथस्यास्य दर्शय

॥६६॥

इति स्तुता पांडवेन देवी कृष्णच्छविच्छविः ॥

रामा रामाभिवदना प्रत्यक्षा समजायत

॥६७॥

विद्युत्कोटिसमाभास मुकुटेनातिशोभिता ॥

सूर्यबिंबप्रभाभ्यां च कुण्डलाभ्यां विभूषिता

॥६८॥

प्रवाहेनेव हारेण सुरनद्या विराजिता ॥

कल्पद्रुमप्रसूनैश्च पूर्णावतंसमंडिता

॥६९॥

दन्तेन्दुकांतिविध्वस्तभक्तमोहमहाभया ॥

खड्गचर्मशूलपात्रचतुर्भुजविराजिता

॥७०॥

वाससा तडिदाभेन मेघलेखेव वेष्टिता ॥

मालया सुममालिन्या भ्राजिता सालिमालया

॥७१॥

सतां शरणदाभ्यां च पद्भ्यां नूपुरराजिता ॥

जयेति पुष्पवर्षैश्च शक्राद्यैरभिपूजिता

॥७२॥

गणैर्देवीभिराकीर्णा शतपद्मैर्महामलैः ॥

तां तादृशीं व्योम्नि दृष्ट्वा मातरं व्योमवाहिनीम्

॥७३॥

भूमौ निपत्य राजेंद्रो नमोनम इति स्थितः ॥

भीमोपि मातरं दृष्ट्वा यथा बालोऽभिधावति

॥७४॥

तथा सम्मुखमाधावज्जय मातरिति ब्रुवन् ॥

दर्शनेनैव देव्याश्च शुभनेत्रत्रयस्तदा

॥७५॥

प्रणिपत्य नमस्तुभ्यं नमस्तुभ्यं मुहुर्जगौ ॥

प्रसीद देवि पद्माक्षि पुनर्मातः प्रसीद मे

॥७६॥

पुनः प्रसीद पापस्य क्षमाथीले प्रसीद मे

॥७७॥

एवं स्तुता भगवती स्वयमुत्थाय पार्थिवम् ॥

भीमं चोत्संगमारोप्य कृपयेदं वचोऽब्रवीत्

॥७८॥

श्रीदेव्युवाच

यत्त्वयाभिहितं स्तोत्रं तेन तुष्टा तवोपरि ॥

अतो नेत्रत्रयं दत्तं द्वे बाह्ये चांतरं परम्

॥७९॥

नाहं कोपं यत्र तत्र दर्शयामि वृकोदर ॥

त्वं तु प्रमाणपुरुषस्त्वत्तः क्रोधमदर्शयम्

॥८०॥

नैतत्प्रियं च कृष्णस्य भ्रातुर्मे क्रोधमाचरम् ॥

भवन्तो वासुदेवस्य यत्र प्राणा बहिश्चराः

॥८१॥

त्वं च निन्दसि मां नित्यं तच्च जाने वृकोदर ॥

मत्प्रभावपरिज्ञानहेतवे कीदृशस्त्विति

॥८३॥

तदेवं नैव भूयस्ते प्रकर्तव्यं कथंचन ॥

अक्षिक्षेपो हि पूज्यानामावहत्यधिकं रुजम्

॥८४॥

तदिदानीं सर्वमेवं क्षन्तव्यं च परस्परम् ॥

यच्च ब्रवीमि त्वां वीर तन्निशामय भारत

॥८५॥

यदा यदा हि धर्मस्य ग्लानिराविर्भवेद्धरिः ॥

तदातदावतीर्याहं विष्णोरस्य सहायिनी

॥८६॥

इदानीं च हरिर्जातो वसुदेवसुतो भुवि ॥

अहं च गोपनन्दस्य एकानंशाभिधा सुता

॥८७॥

तद्यथा भगवान्कृष्णो मम भ्राताभिपूजितः ॥

भवन्तोऽपि तथा मह्यं भ्रातरः पांडवा सदा

॥८८॥

ये भीमभगिनीत्येवं मां स्तोष्यंति नरोत्तमाः ॥

आबाधा नाशयिष्यामि तेषां हर्षसमन्विता

॥८९॥

त्वं च भ्रातुर्जयं वीर प्रदास्यसि महारणे ॥

भुजयोस्ते वसिष्यामि धार्तराष्ट्रनिपातने

॥९०॥

कृत्वा राज्यं च वर्षाणि षट्त्रिंशत्तदनन्तरम् ॥

महाप्रस्थानधर्मेण पृथिवीं परिचरिष्यथ

॥९१॥

अस्मिन्नेव ततो देशे लोहोनाम महासुरः ॥

भवतां न्यस्तशस्त्राणां वधार्थं प्रक्रमिष्यति

॥९२॥

ततस्तं सर्वभूतानामवध्यं भवतां कृते ॥

अन्धं कृत्वा पातयिष्ये ततो यूयं प्रयास्यथ

॥९३॥

निस्तीर्य च हिमं सर्वं निमग्नाः बालुकार्णवे ॥

स्वर्गं यास्यति राजैकः सशरीरो गमिष्यति

॥९४॥

अन्धो यत्र कृतो लोहो लोहाणाभिधया पुरम् ॥

भविष्यति च तत्रैव स्थास्येऽहं कलया सदा

॥९५॥

ततः कलियुगे प्राप्ते केलो नाम भविष्यति ॥

मम भक्तस्तस्य नाम्ना भाव्या केलेश्वरीत्यहम्

॥९६॥

वैलाकश्चापरो भक्तो भविष्यति ममोत्तमः ॥

तस्याराधनतः ख्यातिं प्रयास्यामि कलौ युगे

॥९७॥

लोहाणासंस्थितां चैव येर्चयिष्यंति मां जनाः ॥

श्रद्धया सितसप्तम्यां तैश्च सर्वत्र पूजिता

॥९८॥

अंधानां च प्रदास्यामि भावीनि नयनान्यहम् ॥

तस्मिन्दिने तर्पिताहं भक्तिभावेन पांडव

॥९९॥

पादांगुष्ठेन च भवांस्तत्र कुंडं विधास्यति ॥

सर्वतीर्थस्नान तुल्यं तत्र स्नानं च तद्दिने

॥१००॥

मत्स्यानां नेत्रनेत्रस्थतेजस्तन्मात्रमुत्तमम् ॥

उद्धृत्य योजयिष्यामि प्रत्यक्षं तद्भविष्यति

॥१०१॥

एवं मम महास्थानं कलौ ख्यातं भविष्यति

॥१०२॥

लोहाणाख्यं महाबाहो नाम केलेश्वरीति च ॥

दुर्गमाख्यं ततो हत्वा अस्मिन्क्षेत्रे च भारत

॥१०३॥

दुर्गा नाम भविष्यामि महीसागरपूर्वतः ॥

धर्मारण्ये वसिष्यामि भवतां त्राणकारणात्

॥१०४॥

धर्मारण्ये स्थितां चैव येऽर्चयिष्यंति मानवाः ॥

आश्विने मासि चैत्रे वा नवम्यां शुक्लपक्षके

॥१०५॥

स्नात्वा महीसागरे च तेषां दास्यामि वांछितम् ॥

विधिना येऽर्चयिष्यंति मां च श्रद्धास मन्विताः

॥१०६॥

पुत्रपौत्रान्प्रदास्यामि स्वर्गं मोक्षं न संशयः ॥

प्रवेशे च कलेः काले भवतां वंशसंभवः ॥

वत्सराजः पांडवानां तोषयिष्यति यत्नतः

॥१०७॥

यस्य नाम्ना ततः ख्याता भविष्यामि कलौ युगे ॥

वत्सेश्वरीति वत्सस्य राज्ञः सर्वार्थदायिनी

॥१०८॥

मत्प्रसादात्स राजा वै भवनोत्तापकारिणीम् ॥

अट्टालयांनाम तदा राक्षसीं निहनिष्यति

॥१०९॥

तस्याश्चापि वधस्थानमट्टालजमिति स्थितम् ॥

भविष्यति पुरं तत्र मां च संस्थापयिष्यति

॥११०॥

अट्टालयाजग्रामे मामर्चयिष्यंति ये जनाः ॥

वत्सेश्वरीं सिताष्टम्यामाश्विने तैः सदार्चिता

॥१११॥

वत्सेश्वरीं च ये देवीं पूजयिष्यंति मानवाः ॥

तेषां सर्वफलावाप्तिर्भविष्यति न संशयः

॥११२॥

इत्थमट्टालये वासो लोहाणे च भविष्यति ॥

धर्मारण्ये महाक्षेत्रे महीसागरसंनिधौ

॥११३॥

मम लोकहितार्थाय लोहस्य च निशम्यताम् ॥

अधीकृतो मया लोहो बह्वीस्तप्तां तपः समाः

॥११४॥

वृत्रासुर इवाजेयो लोकानुत्सादयिष्यति ॥

तं च विश्वपतिर्धीमानवतीर्य बुधो हरिः

॥११५॥

यत्र हंता तत्र ग्रामं लोहाटीति भविष्यति ॥

गयोनाम महादैत्यो भवतां विघ्नकृत्तदा

॥११६॥

प्रस्थाने लोहवद्भावी करिष्ये तं नपुंसकम् ॥

गयत्राडेति मां तत्र पूजयिष्यंति मानवाः

॥११७॥

ग्रामं चापि गयत्राडं तत्र ख्यातं भविष्यति ॥

गयत्राडे गयत्राडां येऽर्चयिष्यंति मानवाः

॥११८॥

माघाष्टम्यां न शिष्यंति तस्य सर्वेऽप्युपद्रवाः ॥

ये च मां कोपयिष्यंति पांडवाराधितां सदा

॥११९॥

तेषां पुंस्त्वं हरिष्यामि महारौद्राधितिष्ठति ॥

परिवारश्च मे चात्र षण्ढः सर्वो भविष्यति

॥१२०॥

तस्मिन्कलियुगे घोरे रौद्रे रुद्रेऽतिनिर्घृणे ॥

एवं तृतीयं तन्मह्यं स्थानमत्र भविष्यति

॥१२१॥

भवत्सु च स्वर्गतेषु गयोऽपि सुमहत्तपः ॥

तप्त्वा प्राप्य पुनः पुंस्त्वं लोकान्संपीडयिष्यति

॥१२२॥

गयातीर्थं गतं तं च गयाध्वंसनकाम्यया ॥

बुध एव जगत्स्वामी तत्र तं सूदयिष्यति

॥१२३॥

इत्थं श्रीमान्पीतवासा अवतीर्य बुधः प्रभुः ॥

बहूनि कृत्वा कर्माणि स्वस्थानं प्रतिपत्स्यते

॥१२४॥

इति संक्षेपतः प्रोक्तं भविष्यं पांडवा मया ॥

भवतां चित्तनिर्वृत्यै श्रूयतां भूय एव च

॥१२५॥

इदं तीर्थवरं मह्यं संसेव्यं सर्वदा प्रियम् ॥

कृतं यदत्रागमनं तेन प्रीतिः परा मम

॥१२६॥

भीमस्य चापि पौत्रेण दृढं संतोषिताऽस्मि च ॥

देव्यः सर्वाश्च मद्रूपं नैतज्ज्ञेयम तोऽन्यथा

॥१२७॥

व्रजध्वं चापि तीर्थानि यानि वो न कृतानि च ॥

आबाधास्वस्मि सर्वासु स्मरणीया स्वसेव च

॥१२८॥

आपृच्छे चापि वः सर्वान्यूयं कृष्णसमा मम

॥१२९॥

सूत उवाच

इति देव्या वचः श्रुत्वा विस्मयोत्फुल्ललोचनाः ॥

पुनःपुनः प्रणम्यैनां नापश्यन्दीपवद्गताम्

॥१३०॥

ततस्ते बर्बरीकं च संस्थाप्यात्रैव निष्ठितम् ॥

आगच्छ योगे चोक्त्वेदं चक्रुस्तीर्थानि मुख्यशः

॥१३१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्बरीकोपाख्याने केलेश्वरी वत्सेश्वरीदुर्गादेवीगयत्राडामाहात्म्यवर्णनंनाम पञ्चषष्टितमोऽध्यायः ॥ ६५ ॥