मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ५५

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 55

गौतमेश्वरमाहात्म्यसविस्तरयोगलक्षणवर्णनम्

सूत उवाच

इति बाभ्रव्यवचनमाकर्ण्य कुरुनन्दनः ॥

प्राणमन्नारदं भक्त्या विस्मितः पुलकान्वितः

॥१॥

प्रशस्य च चिरं कालं पुनर्नारदमब्रवीत्

॥२॥

गुप्तक्षेत्रस्य माहात्म्यं शृण्वानस्त्वन्मुखान्मुने ॥

तृप्तिं नैवाधिगच्छामि भूयस्तद्वक्तुमर्हसि

॥३॥

नारद उवाच

महालिंगस्य वक्ष्यामि महिमानं कुरूद्वह ॥

गौतमेश्वर लिंगस्य सावधानः शृणुष्व तत्

॥४॥

अक्षपादो महायोगी गौतमाख्योऽभवन्मुनिः ॥

गोदावरीसमानेता अहल्यायाः पतिः प्रभुः

॥५॥

गुप्त क्षेत्रस्य माहात्म्यं स च ज्ञात्वा महोत्तमम् ॥

योगसंसाधनं कुर्वन्नत्र तेपे तपो महत्

॥६॥

योगसिद्धिं ततः प्राप्य गौतमेन महात्मना ॥

अत्र संस्थापितं लिंगं गौतमेश्वरसंज्ञया

॥७॥

संस्नाप्यैतन्महालिंगं चन्दनेन विलिप्य च ॥

संपूज्य पुष्पैर्विविधैर्गुग्गुलं दाहयेत्पुरः ॥

सर्वपापविनिर्मुक्तो रुद्रलोके महीयते

॥८॥

अर्जुन उवाच

योगस्वरूपमिच्छामि श्रोतुं नारद तत्त्वतः ॥

योगं सर्वे प्रशंसंति यतः सर्वोत्तमोत्तमम्

॥९॥

नारद उवाच

समासात्तव वक्ष्यामि योगतत्त्वं कुरूद्वह ॥

श्रवणादपि नैर्मल्यं यस्य स्यात्सेवनात्किमु

॥१०॥

चित्तवृत्तिनिरोधाख्यं योगतत्त्वं प्रकीर्त्यते ॥

तदष्टांगप्रकारेण साधयंतीह योगिनः

॥११॥

यमश्च नियमश्चैव प्राणायामस्तृतीयकः ॥

प्रत्याहारो धारणा च ध्येयं ध्यानं च सप्तमम्

॥१२॥

समाधिरिति चाष्टांगो योगः संपरिकीर्तितः ॥

प्रत्येकं लक्षणं तेषामष्टानां शृणु पांडव

॥१३॥

अनुक्रमान्नरो येषां साधनाद्योगमश्नुते ॥

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ

॥१४॥

एते पंच यमाः प्रोक्ताः शृण्वेषामपि लक्षणम् ॥

आत्मवत्सर्वभूतेषु यो हिताय प्रवर्तते

॥१५॥

अहिंसैषा समाख्याता वेदसंविहिता च या ॥

दृष्टं श्रुतं चानुमितं स्वानुभूतं यथार्थतः

॥१६॥

कथनं सत्यमित्युक्तं परपीडाविवर्जितम् ॥

अनादानं परस्वानामापद्यपि कथंचन

॥१७॥

मनसा कर्मणा वाचा तदस्तेयं प्रकीर्तितम् ॥

अमैथुनं यतीनां च मनोवाक्कायकर्मभिः

॥१८॥

ऋतौ स्वदारगमनं गेहिनां ब्रह्मचर्यता ॥

यतीनां सर्वसंन्यासो मनोवाक्कायकर्मणा

॥१९॥

गृहस्थानां च मनसा स्मृत एषोऽपरिग्रहः ॥

एते यमास्तव प्रोक्ताः पंचैव नियमाञ्छृणु

॥२०॥

शौचं तुष्टिस्तपश्चैव जपो भक्तिर्गुरोस्तथा ॥

एतेषामपि पंचानां पृथक्संशृणु लक्षणम्

॥२१॥

बाह्यमाभ्यतरं चैव द्विविधं शौचमुच्यते ॥

बाह्यं तु मृज्जलैः प्रोक्तमांतरं शुद्धमानसम्

॥२२॥

न्यायेनागतया वृत्त्या भिक्षया वार्तयापि च ॥

संतोषो यस्य सततं सा तुष्टिरिति चोच्यते

॥२३॥

चांद्रायणादीनि पुनस्तपांसि विहितानि च ॥

आहारलाघवपरः कुर्यात्तत्तप उच्यते

॥२४॥

स्वाध्यायस्तु जपः प्रोक्तः प्रणवाभ्यसनादिकः ॥

शिवे ज्ञाने गुरौ भक्तिर्गुरुभक्तिरिति स्मृता

॥२५॥

एवं संसाध्य नियमान्संयमांश्च विचक्षणः ॥

प्राणायामाय संदध्यान्नान्यथा योगसाधकः

॥२६॥

यतोऽशुचिशरीरस्य वायुकोपो महान्भवेत् ॥

वायुकोपात्कुष्ठता च जडत्वादीनुपाश्नुते

॥२७॥

तस्माद्विचक्षणः शुद्धं कृत्वा देहं यतेत्परम् ॥

प्राणायामस्य वक्ष्यामि लक्षणं शृणु पांडव

॥२८॥

प्राणापाननिरोधश्च प्राणायामः प्रकीर्तितः ॥

लघुमध्योत्तरीयाख्यः स च धीरैस्त्रिधोदितः

॥२९॥

लघुर्द्वादशमात्रस्तु मात्रा निमिष उन्मिषः ॥

द्विगुणो मध्यमश्चोक्तस्त्रिगुणश्चोत्तमः स्मृतः

॥३०॥

प्रथमेन जयेत्स्वेदं मध्यमेन तु वेपथुम् ॥

विषादं च तृतीयेन जयेद्दोषाननुक्रमात्

॥३१॥

पद्माख्यमासनं कृत्वा रेचकं पूरकं तथा ॥

कुंभकं च सुखासीनः प्राणायामं त्रिधाऽभ्यसेत्

॥३२॥

प्राणानामुपसंरोधात्प्राणायाम इति स्मृतः ॥

यथा पर्वतधातूनां ध्मातानां दह्यते मलः

॥३३॥

तथेंद्रियवृतो दोषः प्राणायामेन दह्यते ॥

गोशतं कापिलं दत्त्वा यत्फलं तत्फलं भवेत्

॥३४॥

प्राणायामेन योगज्ञस्तस्मात्प्राणं सदा यमेत् ॥

प्राणायामेन सिद्ध्यन्ति दिव्याः शान्त्यादयः क्रमात्

॥३५॥

शांतिः प्रशान्तिर्दीप्तिश्च प्रसादश्च यथाक्रमम् ॥

स हजागंतुकामानां पापानां च प्रवर्तताम्

॥३६॥

वासनाशांतिरित्याख्यः प्रथमो जायते गुणः ॥

लोभमोहात्मकान्दोषान्निराकृत्यैव कृत्स्नशः

॥३७॥

तपसां च यदा प्राप्तिः सा शांतिरिति चोच्यते ॥

सर्वेन्द्रियप्रसादश्च बुद्धेर्वै मरुतामपि

॥३८॥

प्रसाद इति स प्रोक्तः प्राप्यमेवं चतुष्टयम् ॥

एवंफलं सदा योगी प्राणायामं समभ्यसेत्

॥३९॥

मृदुत्वं सेव्यमानास्तु सिंहशार्दूलकुंजराः ॥

यथा यान्ति तथा प्राणो वश्यो भवति साधितः

॥४०॥

प्राणायामस्त्वयं प्रोक्तः प्रत्याहारं ततः शृणु ॥

विषयेषु प्रवृत्तस्य चेतसो विनिवर्तनम्

॥४१॥

प्रत्याहारं विनिर्दिष्टतस्य संयमनं हि यत् ॥

प्रत्याहारस्त्वयं प्रोक्तो धारणालक्षणं शृणु

॥४२॥

यथा तोयार्थिनस्तोयं पत्रनालादिभिः शनैः ॥

आपिबेयुस्तथा वायुं योगी नयति साधितम्

॥४३॥

प्राग्नाभ्यां हृदये वायुरथ तालौ भ्रुवोंऽतरे ॥

चतुर्दले षड्दशे च द्वादशे षोडशद्विके

॥४४॥

आकुंचनेनैव मूर्द्धमुन्नीय पवनं शनैः ॥

मूर्धनि ब्रह्मरंध्रे तं प्राणं संधारयेत्कृती

॥४५॥

प्राणायामा दश द्वौ च धारणैषा प्रकीर्त्यते ॥

दशैता धारणाः स्थाप्य प्राप्नोत्यक्षरसाम्यताम्

॥४६॥

धारणास्थस्य यद्ध्येयं तस्य त्वं शृणु लक्षणम् ॥

ध्येयं बहुविधं पार्थ यस्यांतो नोपलभ्यते

॥४७॥

केचिच्छिवं हरिं केचित्केचित्सूर्यं विधिं परे ॥

केचिद्देवीं महद्भूतामुत ध्यायन्ति केचन

॥४८॥

तत्र यो यच्च ध्यायेत स च तत्र प्रलीयते ॥

तस्मात्सदा शिवं देवं पंचवक्त्रं हरं स्मरेत्

॥४९॥

पद्मासनस्थं तं गौरं बीजपूरकरं स्थितम् ॥

दशहस्तं सुप्रसन्नवदनं ध्यानमास्थितम्

॥५०॥

ध्येयमेतत्तव प्रोक्तं तस्माद्ध्यानं समाचरेत् ॥

ध्यानस्य लक्षणं चैतन्निमेषार्धमपि स्फुटम्

॥५१॥

न पृथग्जायते ध्येयाद्धारणां यः समास्थितः ॥

एवमेतां दुरारोहां भूमिमास्थाय योगवित्

॥५२॥

न किंचिच्चिंतयेत्पश्चात्समाधिरिति कीर्त्यते ॥

समाधेर्लक्षणं सम्यग्ब्रुवतो मे निशामय

॥५३॥

शब्दस्पर्शरसैर्हीनं गंधरूपविवर्जितम् ॥

परं पुरुषं संप्राप्तः समाधिस्थः प्रकीर्तितः

॥५४॥

तां तु प्राप्य नरो विघ्नैर्नाभिभूयेत कर्हिचित् ॥

समाधिस्थश्च दुःखेन गुरुणापि न चाल्यते

॥५५॥

शंखाद्याः शतशस्तस्य वाद्यन्ते यदि कर्णयोः ॥

भेर्यश्च यदि हन्यंते शब्दं बाह्यं न विंदति

॥५६॥

कशाप्रहाराभिहतो वह्निदग्धतनुस्तथा ॥

शीताढ्येव स्थितो घोरे स्पर्शं बाह्यं न विन्दति

॥५७॥

रूपे गंधे रसे बाह्ये तादृशस्य तु का कथा ॥

दृष्ट्वा य आत्मनात्मानं समाधिं लभते पुनः

॥५८॥

तृष्णा वाथ बुभुक्षा वा बाधेते तं न कर्हिचित्

॥५९॥

न स्वर्गे न च पाताले मानुष्ये क्व च तत्सुखम् ॥

समाधिं निश्चलं प्राप्य यत्सुखं विंदते नरः

॥६०॥

एवमारूढयोगस्य तस्यापि कुरुनदन ॥

पंचोपसर्गाः कटुकाः प्रवर्तंते यथा शृणु

॥६१॥

प्रातिभः श्रावणो दैवो भ्रमावर्तोऽथ भीषणः ॥

प्रतिभा सर्वशास्त्राणां प्रातिभोऽयं च सात्त्विकः

॥६२॥

तेन यो मदमादद्याद्योगी शीघ्रं च चेतसः ॥

योजनानां सहस्रेभ्यः श्रवणं श्रावणस्तु सः

॥६३॥

द्वितीयः सात्विकश्चायमस्मान्मत्तो विनश्यति ।

अष्टौ पश्यति योनीश्च देवानां दैव इत्यसौ

॥६४॥

अयं च सात्त्विको दोषो मदादस्माद्विनश्यति ॥

आवर्त इव तोयस्य जनावर्ते यदाकुलः

॥६५॥

आवर्ताख्यस्त्वयं दोषो राजसः स महाभयः ॥

भ्राम्यते यन्निरालम्बं मनो दोषैश्च योगिनः

॥६६॥

समस्ताधारविभ्रंशाद्भ्रमाख्यस्तामसो गुणः ॥

एतैर्नाशितयोगाश्च सकला देवयोनयः

॥६७॥

उपसर्गैर्महाघोरैरावर्त्यंते पुनः पुनः ॥

प्रावृत्य कंबलं शुक्लं योगी तस्मान्मनोमयम्

॥६८॥

चिंतयेत्परमं ब्रह्म कृत्वा तत्प्रवणं मनः ॥

आहाराः सात्त्विकाश्चैव संसेव्याः सिद्धिमिच्छता

॥६९॥

राजसैस्तामसैश्चैव योगी सिद्धयेन्न कर्हिचित् ॥

श्रद्दधानेषु दांतेषु श्रोत्रियेषु महात्मसु

॥७०॥

स्वधर्मादनपेतेषु भिक्षा याच्या च योगिना ॥

भैक्षं यवान्नं तक्रं वा पयो यावकमेव वा

॥७१॥

फलमूलं विपक्वं वा कणपिण्याकसक्तवः ॥

श्रुता इत्येत आहारा योगिनां सिद्धिकारकाः

॥७२॥

मृत्युकालं विदित्वा च निमित्तैर्योगसाधकः ॥

योगं युञ्जीत कालस्य वंचनार्थं समाहितः

॥७३॥

निमित्तानि च वक्ष्यामि मृत्युं यो वेत्ति योगवित् ॥

रक्तकृष्णांबरधरा गायंतीह सती च यम्

॥७४॥

दक्षिणाशां नयेन्नारी स्वप्ने सोऽपि न जीवति ॥

नग्नं क्षपणकं स्वप्ने हसमानं प्रदृश्य च

॥७५॥

एनं च वीक्ष्य वल्गन्तं तं विद्यान्मृत्युमागतम् ॥

ऋक्षवानरयुग्यस्थो गायन्यो दक्षिणां दिशम्

॥७६॥

याति मज्जेदधौ पंके गोमये वा न जीवति ॥

केशांगारैस्तथा भस्मभुजंगैर्निजलां नदीम्

॥७७॥

एषामन्यतमैः पूर्णां दृष्ट्वा स्वप्ने न जीवति ॥

करालैर्विकटै रूक्षैः पुरुषैरुद्यतायुधैः

॥७८॥

पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं भजेन्नरः ॥

सूर्योदये यस्य शिवा क्रोशंती याति सम्मुखम्

॥७९॥

विपरीतं परीतं वा स सद्यो मृत्युमृच्छति ॥

दीपाधिगंधं नो वेत्ति वमत्यग्निं तथा निशि

॥८०॥

नात्मानं परनेत्रस्थं वीक्षते न स जीवति ॥

शक्रायुधं चार्धरात्रे दिवा वा ग्रहणं तथा

॥८१॥

दृष्ट्वा मन्येत स क्षीणमात्मजीवितमाप्तवान् ॥

नासिका वक्रतामेति कर्णयोर्न्नमनोन्नती

॥८२॥

नेत्रं च वामं स्रवति यस्य तस्यायुरुद्गतम् ॥

आरक्ततामेति मुखं जिह्वा चाप्यसिता यदा

॥८३॥

तदा प्राज्ञो विजानीयादासन्नं मृत्युमात्मनः ॥

उष्ट्ररासभयानेन स्वप्ने यो याति दक्षिणाम्

॥८४॥

दिशं कर्णौ पिधायापि निर्घोषं शृणुयान्न च ॥

न स जीवेत्तथा स्वप्ने पति तस्य पिधीयते

॥८५॥

द्वारं न चोत्तिष्ठति च शुभ्रा दृष्टिश्च लोहिता ॥

स्वप्नेऽग्निं प्रविशेद्यश्च न च निष्क्रमते पुनः

॥८६॥

जलप्रवेशादपि वा तदंतं तस्य जीवितम् ॥

यश्चाभिहन्यते दुष्टैर्भूतै रात्रावथो दिवा

॥८७॥

प्रकृतैर्विकृतैर्वापि तस्यासन्नौ यमांतकौ ॥

देवतानां गुरूणां च पित्रोर्ज्ञानविदां तथा

॥८८॥

निन्दामवज्ञां कुरुते भक्तो भूत्वा न जीवति ॥

एवं दृष्ट्वा निमित्तानि विपरीतानि योगवित्

॥८९॥

धारणां सम्यगास्थाय समाधावचलो भवेत् ॥

यदि नेच्छति ते मृत्युं ततो नासौ प्रपद्यते

॥९०॥

विमुक्तिमथवा वांछेद्विसृजेद्ब्रह्ममूर्धनि ॥

संति देहे विमुक्ते च उपसर्गाश्च ये पुनः

॥९१॥

योगिनं समुपायांति शृणु तानपि पांडव ॥

ऐशान्ये राक्षसपुरे यक्षो गन्धर्व एव च

॥९२॥

ऐन्द्रे सौम्ये प्रजापत्ये ब्राह्मे चाष्टसु सिद्धयः ॥

भवंति चाष्टौ शृणु ताः पार्थिवी या च तैजसी

॥९३॥

वायवी व्योमात्मिका चैव मानसाहम्भवा मतिः ॥

प्रत्येकमष्टधा भिन्ना द्विगुणा द्विगुणा क्रमात

॥९४॥

पूर्वे चाष्टौ चतुःषष्टिरन्ते शृणुष्व तद्यथा ॥

स्थूलता ह्रस्वता बाल्यं वार्धक्यं योवनं तथा

॥९५॥

नानाजाति स्वरूपं च चतुर्भिर्देहधारणम् ॥

पार्थिवांशं विना नित्यमष्टौ पार्थिवसिद्धयः

॥९६॥

विजिते पृथिवीतत्त्वे यदैशान्ये भवन्ति च ॥

भूमाविव जले वासो नातुरोऽर्णवमापिबेत्

॥९७॥

सर्वत्र जलप्राप्तिश्च अपि शुष्कं द्रवं फलम् ॥

त्रिभिर्देहस्य धरणं नदीर्वा स्थापयेत्करे

॥९८॥

अव्रणत्वं शरीरस्य कांतिश्चाथाष्टकं स्मृतम् ॥

अष्टौ पूर्वा इमाश्चाष्टौ राक्षसानां पुरे स्मृताः

॥९९॥

देहादग्निविनिर्माणं तत्तापभयवर्जनम् ॥

शक्तिदत्वं च लोकानां जलमध्येग्निज्वालनम्

॥१००॥

अग्निग्रहश्च हस्तेन स्मृतिमात्रेण पावनम् ॥

भस्मीभूतस्य निर्माणं द्वाभ्यां देहस्य धारणम्

॥१०१॥

पूर्वाः षोडश चाप्यष्टौ तेजसो यक्षसद्मनि ॥

मनोगतित्वं भूतानामन्तर्निवेशनं तथा

॥१०२॥

पर्वतादिमहाभारवहनं लीलयैव च ॥

लघुत्वं गौरवत्वं च पाणिभ्यां वायुवारणम्

॥१०३॥

अंगुल्यग्रनिपातेन भूमेः सर्वत्र कम्पनम् ॥

एकेन देहनिष्पत्तिर्गांधर्वे वांति सिद्धयः

॥१०४॥

चतुर्विंशतिः पूर्वाश्चाप्यष्टावेताश्च सिद्धयः ॥

गन्धर्वलोके द्वात्रिंशदत ऊर्ध्वं निशामय

॥१०५॥

छायाविहीननिष्पत्तिरिंद्रियाणामदर्शनम् ॥

आकाशगमनं नित्यमिंद्रियादिशमः स्वयम्

॥१०६॥

दूरे च शब्दग्रहणं सर्वशब्दावगाहनम् ॥

तन्मात्रलिंगग्रहणं सर्वप्राणिनिदर्शनम्

॥१०७॥

अष्टौ वातात्मिकाश्चैन्द्रे द्वात्रिंशदपि पूर्वकाः ॥

यथाकामोपलब्धिश्च यथाकामविनिर्गमः

॥१०८॥

सर्वत्राभिभवश्चैव सर्वगुह्यनिदर्शनम् ॥

संसारदर्शनं चापि मानस्योऽष्टौ च सिद्धयः

॥१०९॥

चत्वारिंशच्च पूर्वाश्च सोमलोके स्मृतास्त्विमाः ॥

छेदनं तापनं बन्धः संसारपरिवर्तनम्

॥११०॥

सर्वभूत प्रसादत्वं मृत्युकालजयस्तथा ॥

अहंकारोद्भवश्चाष्टौ प्राजापत्ये च पूर्विकाः

॥१११॥

आकारेण जगत्सष्टिस्तथानुग्रह एव च ॥

प्रलयस्याधिकारं च लोकचित्रप्रवर्तनम्

॥११२॥

असादृश्यमिदं व्यक्तं निर्वाणं च पृथक्पृथक् ॥

शुभेतरस्य कर्तृत्वमष्टौ बुद्धिभवास्त्वमी

॥११३॥

षट्पंचाशत्तथा पूर्वाश्चतुःषष्टिरिमे गुणाः ॥

ब्राह्मये पदे प्रवर्तंते गुह्यमेतत्तवेरितम्

॥११४॥

जीवतो देहभेदे वा सिद्ध्यश्चैतास्तु योगिनाम् ॥

संगो नैव विधातव्यो भयात्पतनसंभवात्

॥११५॥

एतान्गुणान्निराकृत्य युञ्जतो योगिनस्तदा ॥

सिद्धयोऽष्टौ प्रवर्तंते योगसंसिद्धिकारकाः

॥११६॥

अणिमा लघिमा चैव महिमा प्राप्तिरेव च ॥

प्राकाम्यं च तथेशित्वं वशित्वं च तथापरे

॥११७॥

यत्र कामावसायित्वं माहेश्वरपदस्थिताः ॥

सूक्ष्मात्सूक्ष्मत्वमणिमा शीघ्रत्वाल्लघिमा स्मृता

॥११८॥

महिमा शेषपूज्यत्वात्प्राप्तिर्नाप्राप्यमस्य यत् ॥

प्राकाम्यमस्य व्यापित्वादीशित्वं चेश्वरो यतः

॥११९॥

वशित्वाद्वशिता नाम सप्तमी सिद्धिरुत्तमा ॥

यत्रेच्छा तत्र च स्थानं तत्र कामावसायिता

॥१२०॥

ऐश्वरं पदमाप्तस्य भवंत्येताश्च सिद्धयः ॥

ततो न जायते नैव वर्धते न विनश्यति

॥१२१॥

एष मुक्त इति प्रोक्तो य एवं मुक्तिमाप्नुयात् ॥

यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति

॥१२२॥

तथैवं सात्म्यमभ्येति योगिनामात्मा परात्मना ॥

एवं ज्ञात्वा फलं योगी सदा योगं समभ्यसेत्

॥१२३॥

अत्रोपमां व्याहरंति योगार्थं योगिनोऽ मलाः ॥

शशांकरश्मिसंयोगादर्ककांतो हुताशनम्

॥१२४॥

समुत्सृजति नैकः सन्नुपमा सास्ति योगिनः ॥

कपिंजलाखुनकुला वसंति स्वामिव द्गृहे

॥१२५॥

ध्वस्ते यांत्यन्यतो दुःखं न तेषां सोपमा यतेः ॥

मृद्देहकल्पदेहोऽपि मुखाग्रेण कनीयसा

॥१२६॥

करोति मृद्भागचयमुपदेशः स योगिनः ॥

पशुपक्षिमनुष्याद्यैः पत्रपुष्पफलान्वितम्

॥१२७॥

वृक्षं विलुप्यमानं च लब्ध्वा सिध्यंति योगिनः ॥

रुरुगात्रविषाणाग्रमालक्ष्य तिलकाकृतिम्

॥१२८॥

सह तेन विवर्धेत योगी सिद्धिमुपाश्नुते ॥

द्रव्यं पूर्णमुपादाय पात्रमारोहते भुवः

॥१२९॥

तुंगमार्गं विलोक्यैवं विज्ञातं कि न योगिनाम् ॥

तद्गेहं यत्र वसति तद्भोज्यं येन जीवति

॥१३०॥

येन निष्पाद्यते चार्थः स्वयं स्याद्योगसिद्धये ॥

तथा ज्ञानमुपासीत योगी यत्कार्यसाधकम्

॥१३१॥

ज्ञानानां बहुता येयं योगविघ्नकरी हि सा ॥

इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत्

॥१३२॥

अपि कल्पसहस्रायुर्नैव ज्ञेयमवाप्नुयात् ॥

त्यक्तसंगो जितक्रोधो लब्धाहारो जितेंद्रियः

॥१३३॥

पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत् ॥

आहारं सात्त्विकं सेवेन्न तं येन विचेतनः

॥१३४॥

स्यादयं तं च भुंजानो रौरवस्य प्रियातिथिः ॥

वाग्दण्डः कर्मदण्डश्च मनोदंडश्च ते त्रयः

॥१३५॥

यस्यैते नियता दंडाः स त्रिदंडी यतिः स्मृतः ॥

अनुरागं जनो याति परोक्षे गुणकीर्तनम्

॥१३६॥

न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुच्यते

॥१३७॥

अलौल्यमारोग्यमनिष्ठुरत्वं गंधः शुभो मूत्रपुरीषयोश्च ॥

कांतिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम्

॥१३८॥

समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैकांतरतिर्जितेन्द्रियः ॥

समाप्नुयाद्योगमिमं महामना विमुक्तिमाप्नोति ततश्च योगतः

॥१३९॥

कुलं पवित्रं जननी कृतार्था वसुन्धरा भाग्यवती च तेन ॥

अवाह्यमार्गे सुखसिन्धुमग्नं लग्नं परे ब्रह्मणि यस्य चेतः

॥१४०॥

विशुद्धबुद्धिः समलोष्टकांचनः समस्तभूतेषु वसन्समो हि यः ॥

स्थानं परं शाश्वतमव्ययं च यतिर्हि गत्वा न पुनः प्रजायते

॥१४१॥

इदं मया योगरहस्यमुक्तमेवंविधं गौतमः प्राप योगम् ॥

तेनैतच्च स्थापितं पार्थ लिंगं संदर्शनादर्चनात्कल्मषघ्नम्

॥१४२॥

यश्चाश्विने कृष्णचतुर्दशीदिने रात्रौ समभ्यर्चति लिंगमेतन् ॥

स्नात्वा अहल्यासरसि प्रधाने श्रद्धाय सर्वं प्रविधाय भक्तितः

॥१४३॥

महोपकारेण विमुक्तपापः स याति यत्रास्ति स गौतमो मुनिः

॥१४४॥

इदं मया पार्थ तव प्रणीतं गुप्तस्य क्षेत्रस्य समासयोगात् ॥

माहात्म्यमेतत्सकलं शृणोति यः स स्याद्विशुद्धः किमु वच्मि भूयः

॥१४५॥

य इदं शृणुयाद्भक्त्या गौतमाख्यानमुत्तमम् ॥

पुत्रपौत्रप्रियं प्राप्य स याति पदमव्ययम्

॥१४६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे गौतमेश्वरमाहात्म्यसविस्तरयोगलक्षणवर्णनंनाम पञ्चपंचाशत्तमोऽध्यायः ॥ ५५ ॥