मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय १२

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 12

शिवपूजनमाहात्म्यवर्णनम्

नारद उवाच

अथ ते ददृशुः पार्थ संयमस्थं महामुनिम् ॥

क्रियायोगसमायुक्तं तपोमूर्तिधरं यथा

॥१॥

जटास्त्रिषवणस्नानकपिलाः शिरसा तदा ॥

धारयन्तं लोमशाख्यमाज्यसिक्तमिवानलम्

॥२॥

सव्यहस्ते तृणौघं च च्छायार्थे विप्रसत्तमम् ॥

दक्षिणे चाक्षमालां च बिभ्रतं मैत्रमार्गगम्

॥३॥

अहिंसयन्दुरुक्ताद्यैः प्राणिनो भूमिचारिणः ॥

यः सिद्धिमेति जप्येन स मैत्रो मुनिरुच्यते

॥४॥

बकभूपद्विजोलूकगृध्रकूर्मा विलोक्य च ॥

नेमुः कलापग्रामे तं चिरंतनतपोनिधिम्

॥५॥

स्वागतासनसत्कारेणामुना तेऽति सत्कृताः ॥

यथोचितं प्रतीतास्तमाहुः कार्यं हृदि स्थितम्

॥६॥

कूर्म उवाच

इन्द्रद्युम्नोऽयमवनीपतिः सत्रिजनाग्रणीः ॥

कीर्तिलोपान्निरस्तोऽयं वेधसा नाकपृष्ठतः

॥७॥

मार्कंडेयादिभिः प्राप्य कीर्त्युद्धारंच सत्तम ॥

नायं कामयते स्वर्गं पुनःपातादिभीषणम्

॥८॥

भवतानुगृहीतोऽयमिहेच्छति महोदयम् ॥

प्रणोद्यस्तदयं भूपः शिष्यस्ते भगवन्मया ॥

त्वत्सकाशमिहानीतो ब्रूहि साध्वस्य वांछितम्

॥९॥

परोपकरणं नाम साधूनां व्रतमाहितम् ॥

विशेषतः प्रणोद्यानां शिष्यवृत्तिमुपेयुषाम्

॥१०॥

अप्रणोद्येषु पापेषु साधु प्रोक्तमसंशयम् ॥

विद्वेषं मरणं चापि कुरुतेऽन्यतरस्य च

॥११॥

अप्रमत्तः प्रणोद्येषु मुनिरेष प्रयच्छति ॥

तदेवेति भवानेवं धर्मं वेत्ति कुतो वयम्

॥१२॥

लोमश उवाच

कूर्म युक्तमिदं सर्वं त्वयाभिहितमद्य नः ॥

धर्मशास्त्रोपनतं तत्स्मारिताः स्म पुरातनम्

॥१३॥

ब्रूहि राजन्सुविश्रब्धं सन्देहं हृदयस्थितम् ॥

कस्ते किमब्रवीच्छेषं वक्ष्याम्यहं न संशयः

॥१४॥

इन्द्रद्युम्न उवाच

भगवन्प्रथमः प्रश्रस्तावदेव ममोच्यताम् ॥

ग्रीष्मकालेऽपि मध्यस्थै रवौ किं न तवाश्रमः

॥१५॥

कुटीमात्रोऽपि यच्छाया तृणैः शिरसि पाणिगैः

॥१६॥

लोमश उवाच

मर्तव्यमस्त्यवश्यं च काय एष पतिष्यति ॥

कस्यार्थे क्रियते गेहमनित्यभवमध्यगैः

॥१७॥

यस्य मृत्युर्भवेन्मित्रं पीतं वाऽमृतमुत्तमम् ॥

तस्यैतदुचितं वक्तुमिदं मे श्वो भविष्यति

॥१८॥

इदं युगसहस्रेषु भविष्यमभविद्दिनम् ॥

तदप्यद्यत्वमापन्नं का कथामरणावधेः

॥१९॥

कारणानुगतं कार्यमिदं शुक्रादभूद्वपुः ॥

कथं विशुद्धिमायाति क्षालितांगारवद्वद

॥२०॥

तदस्यापि कृते पापं शत्रुषड्वर्गनिर्जिताः ॥

कथंकारं न लज्जन्ते कुर्वाणा नृपसत्तम

॥२१॥

तद्ब्रह्मण इहोत्पन्नः सिकताद्वयसम्भवः ॥

निगमोक्तं पठञ्छृण्वन्निदं जीविष्यते कथम्

॥२२॥

तथापि वैष्णवी माया मोहयत्यविवेकिनम् ॥

हृदयस्थं न जानंति ह्यपि मृत्यु शतायुषः

॥२३॥

दन्ताश्चलाश्चला लक्ष्मीर्यौवनं जीवितं नृप ॥

चलाचलमतीवेदं दानमेवं गृहं नृणाम्

॥२४॥

इति विज्ञाय संसारसारं च चलाचलम् ॥

कस्यार्थे क्रियते राजन्कुटजादि परिग्रहः

॥२५॥

इन्द्रद्युम्न उवाच

चिरायुर्भगवानेव श्रूयते भुवनत्रये ॥

तदर्थमहमायातस्तत्किमेवं वचस्तव

॥२६॥

लोमश उवाच

प्रतिकल्पं मच्छरीरादेकरोमपरिक्षयः ॥

जायते सर्वनाशे च मम भावि प्रमापणम्

॥२७॥

पश्य जानुप्रदेशं मे द्व्यंगुलं रोमवर्जितम् ॥

जातं वपुस्तद्बिभेमि मर्तव्ये सति किं गृहैः

॥२८॥

नारद उवाच

इत्थं निशम्य तद्वाक्यं स प्रहस्यातिविस्मितः ॥

भूपालस्तस्य पप्रच्छ कारणं तादृशायुषः

॥२९॥

इन्द्रद्युम्न उवाच

पृच्छामि त्वामहं ब्रह्मन्यदायुरिदमीदृशम् ॥

तव दीर्घं प्रभावोऽसौ दानस्य तपसोऽथवा

॥३०॥

लोमश उवाच

श्रृणु भूप प्रवक्ष्यामि पूर्वजन्मसमुद्भवाम् ॥

शिवधर्मयुतां पुण्यां कथां पापप्रणाशनीम्

॥३१॥

अहमासं पुरा शूद्रो दरिद्रोऽतीवभूतले ॥

भ्रमामि वसुधापृष्ठे ह्यशनपीडितो भृशम्

॥३२॥

ततो मया महल्लिंगं जालिमध्यगतं तदा ॥

मध्याह्नेऽस्य जलाधारो दृष्टश्चैवा विदूरतः

॥३३॥

ततः प्रविश्य तद्वारि पीत्वा स्नात्वा च शांभवम् ॥

तल्लिंगं स्नापितं पूजा विहिता कमलैः शुभैः

॥३४॥

अथ क्षुत्क्षामकंठोऽहं श्रीकंठं तं नमस्य च ॥

पुनः प्रचलितो मार्गे प्रमीतो नृपसत्तम

॥३५॥

ततोऽहं ब्राह्मणगृहे जातो जातिस्मरः सुतः ॥

स्नापनाच्छिवलिंगस्य सकृत्कमलपूजनात्

॥३६॥

स्मरन्विलसितं मिथ्या सत्याभासमिदं जगत् ॥

अविद्यामयमित्येवं ज्ञात्वा मूकत्वमास्थितः

॥३७॥

तेन विप्रेण वार्धक्ये समाराध्य महेश्वरम् ॥

प्राप्तोऽहमिति मे नाम ईशान इति कल्पितम्

॥३८॥

ततः स विप्रो वात्सल्यादगदान्सुबहून्मम ॥

चकार व्यपनेष्यामि मूकत्वमिति निश्चयः

॥३९॥

मंत्रवादान्बहून्वैद्यानुपायानपरानपि ॥

पित्रोस्तथा महामायासंबद्धमनसोस्तथा

॥४०॥

निरीक्ष्य मूढतां हास्यमासीन्मनसि मे तदा ॥

तथा यौवनमासाद्य निशि हित्वा निजं गृहम्

॥४१॥

संपूज्य कमलैः शंभुं ततः शयनमभ्यगाम् ॥

ततः प्रमीते पितरि मूढइत्यहमुज्झितः

॥४२॥

संबंधिभिः प्रतीतोऽथ फलाहारमवस्थितः ॥

प्रतीतः पूजयामीशमब्जैर्बहुविधैस्तथा

॥४३॥

अथ वर्षशतस्यांते वरदः शशिशेखरः ॥

प्रत्यक्षो याचितो देहि जरामरणसंक्षयम्

॥४४॥

ईश्वर उवाच

अजरामरता नास्ति नामरूपभृतोयतः ॥

ममापि देहपातः स्यादवधिं कुरु जीविते

॥४५॥

इति शंभोर्वचः श्रुत्वा मया वृतिमिदं तदा ॥

कल्पांते रोमपातोऽस्तु मरणं सर्वसंक्षये

॥४६॥

ततस्तव गणो भूयामिति मेऽभीप्सितो वरः ॥

तथेत्युक्त्वा स भगवान्हरश्चादर्शनं गतः

॥४७॥

अहं तपसिनिष्ठश्च ततः प्रभृति चाभवम् ॥

ब्रह्महत्यादिभिः पापैर्मुच्यते शिवपूजनात्

॥४८॥

ब्रध्नाब्जैरितरैर्वपि कमलैर्नात्र संशयः ॥

एवं कुरु महाराज त्वमप्याप्स्यसि वांछितम्

॥४९॥

हरभक्तस्य लोकस्य त्रिलोक्यां नास्ति दुर्लभम् ॥

बहिःप्रवृत्तिं सगृह्य ज्ञानकर्मेन्द्रियादि च

॥५०॥

लयः सदाशिवे नित्यमतर्यो गोऽयमुच्यते ॥

दुष्करत्वाद्वहिर्योगं शिव एव स्वयं जगौ

॥५१॥

पंचभिश्चार्चनं भूतैर्विशिष्टफलदं ध्रुवम् ॥

क्लेशकर्मविपाकाद्यैराशयैश्चाप्य संयुतम्

॥५२॥

ईशानमाराध्य जपन्प्रणवं मुक्तिपाप्नुयात् ॥

सर्वपापक्षये जाते शिवे भवति भावना

॥५३॥

पापोपहतबुद्धीनां शिवे वार्तापि दुर्लभा ॥

दुर्लभं भारते जन्म दुर्लभं शिवपूजनम्

॥५४॥

दुर्लभं जाह्नवीस्नानं शिवे भक्तिः सुदुर्लभा ॥

दुर्लभं ब्राह्मणे दानं दुर्लभं वह्निपूजनम्

॥५५॥

अल्पपुण्यैश्च दुष्प्रापं पुरुषोत्तमपूजनम्

॥५६॥

लक्षेण धनुषां योगस्तदर्धेन हुताशनः ॥

पात्रं शतसहस्रेण रेवा रुद्रश्च षष्टिभिः

॥५७॥

इति दमुक्तमखिलं मया तव महीपते ॥

यथायुरभवद्दीर्घं समाराध्य महेश्वरम्

॥५८॥

न दुर्लभं न दुष्प्रापं न चासाध्यं महात्मनाम् ॥

शिवभक्तिकृतां पुंसां त्रिलोक्यामिति निश्चितम्

॥५९॥

नंदीश्वरस्य तेनैव वपुषा शिवपूजनात् ॥

सिद्धिमालोक्य को राजञ्छंकरं न नमस्यति

॥६०॥

श्वेतस्य च महीपस्य श्रीकंठं च नमस्यतः ॥

कालोपि प्रलयं यातः कस्तमीशं न पूजयेत्

॥६१॥

यदिच्छया विश्वमिदं जायते व्यवतिष्ठते ॥

तथा संलीयते चांते कस्तं न शरणं व्रजेत्

॥६२॥

एतद्रहस्यमिदमेव नृणां प्रधानं कर्तव्यमत्र शिवपूजनमेव भूप ॥

यस्यांतरायपदवीमुपयांति लोकाः सद्योः नरः शिवनतः शिवमेव सत्यम्

॥६३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीप्रादुर्भावे लोमशवृत्तान्ते शिवपूजनमाहात्म्यवर्णनंनाम द्वादशोऽध्यायः ॥ १२ ॥