मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ४७

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 47

श्रीदेव्याख्यानवर्णनम्

नारद उवाच

ततो मयास्य तीर्थस्य रक्षणाय पुनर्जय ॥

समाराध्य यथा देव्यः स्थापितास्तच्छृणुष्व भोः

॥१॥

यथात्मा सर्वभूतेषु व्यापकः परमेश्वरः ॥

तथैव प्रकृतिर्नित्या व्यापका परमेश्वरी

॥२॥

शक्ति प्रसादादाप्नोति वीर्यं सर्वाश्च संपदः ॥

ईश्वरी सर्वभूतेषु सा चैवं पार्थ संस्थिता

॥३॥

बुद्धिह्रीपुष्टिलज्जेति तुष्टिः शांतिः क्षमा स्पृहा ॥

श्रद्धा च चेतना शक्तिर्मंत्रोत्साहप्रभूद्भवा

॥४॥

इयमेव च बंधाय मोक्षायेयं च सर्वदा ॥

एनामाराध्य चैश्वर्यमिन्द्राद्याः समवाप्नुयुः

॥५॥

ये च शक्तिं न मन्यंते तिरस्कुर्वंति चाधमाः ॥

योगीन्द्रा अपि ते व्यक्तं भ्रश्यंते काशिजा यथा

॥६॥

वाराणस्यां किल पुरा सिद्धयोगीश्वराः पुनः ॥

अवमन्य च ते शक्तिं पुनर्भ्रंशमुपागताः

॥७॥

तस्मात्सदा देहिनेयं शक्तिः पूज्यैव नित्यदा ॥

तुष्टा ददाति सा कामान्रुष्टा संहरते क्षणात्

॥८॥

परमा प्रकृतिः सा च बहुभेदैर्व्यवस्थिता ॥

तासां मध्ये महादेव्यो ह्यत्र संस्थापिताः शृणु

॥९॥

चतस्रस्तु महाशक्त्यश्चतुर्दिक्षु व्यवस्थिताः ॥

सिद्धांबिका तु पूर्वस्यां स्थापिता सा गुहेन च

॥१०॥

जगदादौ मूलप्रकृतेरुत्पन्ना सा प्रकीर्त्यते ॥

आराधिता यतः सिद्धैस्तस्मात्सिद्धांबिका च सा

॥११॥

दक्षिणस्यां तथा तारा संस्थिता स्थापिता मया ॥

तारणार्थाय देवानां यस्मात्कूर्मं समाश्रिता

॥१२॥

ययाविष्टः समुज्जह्रे वेदान्कूर्मो जगद्गुरुः ॥

अनयाविष्टदेहश्च बुधो बौद्धान्हनिष्यति

॥१३॥

कोटिशो वेदमार्गस्य ध्वंसकान्पापकर्मिणः ॥

इयं मया समाराध्य समानीता गिरेः सुता

॥१४॥

कोटिसंख्याभिरत्युग्रदेवीभिः संवृता च सा ॥

दक्षिणां दिशमाश्रित्य संस्थिता मम गौरवात्

॥१५॥

पश्चिमायां तथा देवी संस्थिता भास्करा शुभा ॥

ययाविष्टानि भासंते भास्करप्रमुखानि च

॥१६॥

बिंबानि सर्वताराणां गच्छन्त्यायांति च द्रुतम् ॥

सैषा महाबला शक्तिर्भास्वरा कुरुनन्दन

॥१७॥

मयाराध्य समानीता कटाहादत्र संस्थिता ॥

कोटिकोटिवृता नित्यं त्रायते पश्चिमां दिशम्

॥१८॥

उत्तरस्यां तथा देवी संस्थिता योगनंदिनी ॥

परमप्रकृतेर्देहात्पूर्वं निःसृतया यया

॥१९॥

दृष्ट्या दृष्टा निर्मलया योगमापुश्चतुःसनाः ॥

योगीश्वरी च सा देवी सनकाद्यैः सुतोषिता

॥२०॥

सैव चांडकटाहान्मे समाराध्यात्र प्रापिता ॥

योगिनीभिः परिवृता संस्थिता चोत्तरां दिशम्

॥२१॥

एवमेता महाशक्त्यश्चतस्रः संस्थिताः सदा ॥

पूजिताः कामदा नित्यं रुष्टाः संहरणक्षमाः

॥२२॥

ततश्च नव मे दुर्गाः समानीताः शृणुध्व ताः

॥२३॥

त्रिपुरानाम परमा देवी स्थाणुर्यया पुरा ॥

आविष्टस्त्रिपुरं निन्ये भस्मत्वं जगदीश्वरः

॥२४॥

त्रिपुरेति ततस्तां तु प्रोक्तवान्भगवान्हरः ॥

तुष्टाव च स्वयं तस्मात्पूज्या सा जगतामपि

॥२५॥

सा चाराध्य समानीता मयामरेश्वरपर्वतात् ॥

भक्तानां कामदा सास्ति भट्टादित्यसमीपतः

॥२६॥

अपरा चापि कोलंबा महाशक्तिः सनातनी ॥

कोलरूपी ययाविष्टः केशवश्चोज्जहार गाम्

॥२७॥

तस्मात्सा विष्णुना चोक्ता कोलंबेति स्तुतार्चिता ॥

सा च देवी मया पार्थ भक्तियोगेन तोषिता

॥२८॥

वाराहगिरिसंस्था मां समानीता च साब्रवीत् ॥

यत्राहं नारद सदा तिष्ठामि कृपयार्थिनाम्

॥२९॥

तत्र कूपेन संस्थेयं रुद्राणीसंस्थितेन वै ॥

तं हि कूपं विना मह्यं न रतिर्जायते क्वचित्

॥३०॥

तस्माद्भवान्कूपवरं स्वयमत्र खन द्विज ॥

एवमुक्ते पार्थ देव्या दर्भमूलेन मे तदा

॥३१॥

कूपोऽखनि यत्र साक्षाद्रुद्राणी कूप आबभौ ॥

ततो मया तत्र देवाः स्नात्वा जप्त्वा च तर्पिताः

॥३२॥

पूजिता च ततो दैवी कोलंबा जगदीश्वरी ॥

परितुष्टा तदा देवी प्रणतं मा ततोऽब्रवीत्

॥३३॥

सदात्र चाहं स्थास्यामि प्रसादं प्रापिता त्वया ॥

ये च कूपेत्र संस्नात्वा माघाष्टम्यां विशेषतः

॥३४॥

पूजयिष्यंति मां मर्त्यास्तेषां छेत्स्यामि दुष्कृतम् ॥

सर्वतीर्थमयी यश्च सर्वर्तुकवनेस्थितः

॥३५॥

मेरोः समीपे रुद्राण्याः कूप एष स एव च

॥३६॥

प्रयागादपि गंगाया गयायाश्च विशेषतः ॥

कूपेस्मिन्नधिकं स्नानं मया नारद कीर्तितम्

॥३७॥

तदहं तव वाक्येन संस्थितात्र तपोधन ॥

गुहेनाथ सरः पुण्यं पालयिष्याम्यतंद्रिता

॥३८॥

कुमारेशं पूजयित्वा पूजयिष्यंति ये च माम् ॥

देवीभिः षष्टिकोटीभिर्युता तेषामभीष्टदा

॥३९॥

नारद उवाच

इत्युक्तोऽहं पार्थ देव्या तदानीं प्रीयमाणया ॥

प्रत्यब्रवं प्रमुदितः कोलंबां विश्वमातरम्

॥४०॥

अत्रास्य माता त्वं देवि गुप्तक्षेत्रस्यकारणम् ॥

तीर्थयात्रा वृथा तेषां नार्च्चयंतीह त्वां च ये

॥४१॥

इदं च यत्सरः पुण्यं त्वन्नाम्ना ख्यातिमेष्यति ॥

ईश्वरी सरसोऽस्य त्वं तीर्थस्यास्य तथेश्वरी

॥४२॥

एवं दीर्घं तपस्तप्त्वा स्थापिता मयका शुभा ॥

महादुर्गा नरैस्तस्मात्पूज्येयं सततं बुधैः

॥४३॥

तृतीया च दिशि तस्यां स्थिता संस्थापिता मया ॥

गुहेन च कपालेश्याः प्रभावोस्याः पुरेरितः

॥४४॥

धन्यास्ते ये प्रपश्यंति नित्यमेनां नरोत्तमाः ॥

कपालेश्वरमभ्यर्च्य विश्वशक्तिरियं यतः

॥४५॥

एवमेतास्तिस्रो दुर्गाः पूर्वस्यां दिशि संस्थिताः ॥

पश्चिमायां प्रवक्ष्यामि तिस्रो दुर्गा महोत्तमा

॥४६॥

सुवर्णाक्षी तु या देवी ब्रह्मांडपरिपालिनी ॥

सा मयात्र समाराध्य तीर्थे देवी निवेशिता

॥४७॥

ये चैनां प्रणमिष्यंति पूजयिष्यंति भक्तितः ॥

त्रयस्त्रिंशद्भिः कोटीभिर्देवीभिः पूजिता च तैः

॥४८॥

अपरा च महादुर्गा चर्चिता चेति संस्थिता ।

रसातलतलात्तत्र मयानीता सुभक्तितः

॥४९॥

इयमर्च्या च चिंत्या च वीरत्वं समभीप्सुभिः ॥

बहुभिर्देवदैतेयैर्ददौ तेभ्यश्च वीरताम्

॥५०॥

इयमेव महादुर्गा शूद्रकं वीरसत्तमम् ।

चौरैर्बद्धं कलौ चाग्रे मोक्षयिष्यति विक्रमात्

॥५१॥

ततस्त्वेतां स चाराध्य वीरेंद्रत्वमवाप्स्यति ॥

निहनिष्यति चाक्रम्य कालसेनमुखान्रिपून्

॥५२॥

तस्मादियं समाराध्या वीर्यकामैर्नरैः सदा ॥

चर्चिता या महादुर्गा पश्चिमायां दिशि स्थिता

॥५३॥

तथा त्रैलोक्यविजया तृतीयस्यां दिशि स्थिता ।

यामाराध्य जयं प्राप्तस्त्रिलोक्यां रोहिणीपतिः ॥

सोमलोकान्मयानीता पूजिता जयदा सदा

॥५४॥

एवमेताः पश्चिमायामुत्तरस्यामतः शृणु ॥

तिस्रो देव्यश्चोत्तरस्यामेकवीरामुखाः स्थिताः

॥५५॥

एकवीरेति या देवी साक्षात्सा शिवपूजिता ॥

ययाविष्टो जगत्सर्वं संहरत्येष भूतराट्

॥५६॥

वीर्येणाद्येकवीरायाः कृत्वा लोकांश्च भस्मसात् ॥

युगैकादशपूर्णत्वे विलक्षोऽभूत्स भस्मनि

॥५७॥

एवंविधा त्वेकवीरा शक्तिरेषा सनातनी ॥

पूजिताराधिता चैव सर्वाभीप्सितदा नृणाम्

॥५८॥

ब्रह्मलोकात्समानीता मयाराध्यात्र भारत ॥

नामकीर्तनमप्यस्या दुष्टानां घातनं विदुः

॥५९॥

द्वितीया हरसिद्ध्याख्या देवी दुर्गा महाबला ॥

शीकोत्तरात्समाराध्य मयानीतात्र पांडव

॥६०॥

यदा शीकोत्तरस्थेन पार्वत्या प्रार्थितेन च ॥

रुद्रेण डाकिनीमंत्रः प्रोक्तो देव्याः कृपालुना

॥६१॥

तदा मंत्रप्रभावेण मोहिता गिरिजा सती ॥

तमेवाक्रम्य मांसं च शोणितं च भवं पपौ

॥६२॥

ततो रुद्रशरीरात्तु विनिष्क्रांतार्तिनाशिनी ॥

हरसिद्धिर्महादुर्गा महामंत्रविशारदा

॥६३॥

सा सहस्रभुजा देवी समाक्रम्याभिपीड्य च ॥

मोक्षयामास गिरिशमशापयत तां तथा

॥६४॥

ततः प्रभृति सा लोके हरसिद्धिः प्रकीर्त्यते ॥

देवीनां षष्टिकोटीभिरावृता पूज्यते सुरैः

॥६५॥

एतामाराध्य सुग्रीवप्रमुखा दोषनाशिनीम् ॥

अभूवन्त्सुमहावीर्या डाकिनीसंघनाशनाः

॥६६॥

तस्मादेतां पूजयेत्तु मनोवाक्कायकर्मभिः ॥

डाकिन्याद्या न सर्पंति हरसिद्धेरनंतरम्

॥६७॥

तृतीयेशानकोणस्था चंडिका नवमी स्थिता ॥

वागीशोऽपि लभेत्पारं नैव यस्याः प्रवर्णने

॥६८॥

या पुरा पार्वतीदेहाद्विनिःसृत्य महासुरौ ॥

चंडमुंडौ निहत्यैव भक्षयामास क्रोधतः

॥६९॥

अक्षौहिणीशतं त्वेकं चंडमुंडौ च तावुभौ ॥

नापूर्यतैकग्रासोऽस्याः किंलक्ष्या यात्वियं हि सा

॥७०॥

इयमेवांधकानां च तृषिता शोणितं पुनः ॥

पपौ ततो निजग्राह चांधकं भगवान्भवः

॥७१॥

इयं च रक्तबीजानां कृत्वा पानं च रक्तजम् ॥

अर्पयामास तं देव्याश्चामुण्डापीतशोणितम्

॥७२॥

एषा तृप्यति भक्तानां प्रणामेनापि भारत ॥

अर्बुदानां च कोटीभिर्दैत्यानां पापकर्मिणाम्

॥७३॥

कुण्डं चास्या मया देव्याः पुण्यं निष्पादितं शुभम् ॥

यत्र वै स्पर्शमात्रेण सर्वतीर्थफलं लभेत्

॥७४॥

हरसिद्धिर्देवसिद्धिर्धर्मसिद्धिश्च भारत ॥

विविधा प्राप्यते सिद्धिस्तीर्थेऽस्मिंश्चंडिकारतैः

॥७५॥

यश्च पूजयते देवीं स्वल्पेन बहुनापि वा ॥

कात्यायनी कोटिशतैर्वृता तस्य विभूतिदा

॥७६॥

एवमेता महादुर्गा नवतीर्थेऽत्र संस्थिताः ॥

चतस्रश्चापि दिग्देव्यो नित्यमर्च्याः शुभेप्सुभिः

॥७७॥

आश्विनस्य च मासस्य नवरात्रे विशेषतः ॥

उपोष्य चैकभक्तैर्वा देवीस्त्वेताः प्रपूजयेत्

॥७८॥

बलिपूपकनैवेद्यैस्तर्पणैर्धूपगंधिभिः ॥

तस्य रक्षां चरंत्येता रथ्यासु त्रिकचत्वरे

॥७९॥

भूतप्रेतपिशाचाद्या नोपकुर्युः प्रपीडनम् ॥

आपदो विद्रवंत्याशु योगिन्यो नंदयंति तम्

॥८०॥

पुत्रार्थी लभते पुत्रान्धनार्थी धनमाप्नुयात् ॥

रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्

॥८१॥

आसां यः कुरुते भक्तिं नरो नारी च श्रद्धया ॥

सर्वान्कामानवाप्नोति यांश्चिंतयति चेतसि

॥८२॥

कामगव्य इमा देव्यश्चिन्तामणिनिभास्तथा ॥

कल्पवल्ल्योऽऽथ भक्तानां प्रतिच्छन्दोऽत्र नव हि

॥८३॥

तथात्र भूतमातास्ति हरसिद्धेस्तु दक्षिणे ॥

तस्या माहात्म्यमतुलं संक्षेपात्प्रब्रवीमि ते

॥८४॥

पूर्वं किल गुहो विद्वान्पुण्ये सारस्वते तटे ॥

भूतप्रेतपिशाचानामाधिराज्येऽभ्यषिच्यत

॥८५॥

स च सर्वाणि भूतानि मर्यादायामधारयत् ॥

एतदन्नं प्रदायैव कृपया भगवान्गुहः

॥८६॥

यदमंत्रहुतं किंचिद्वेदबाह्यं च यत्कृतम् ॥

अश्रद्धया च क्रोधेन तद्वस्तृप्त्यै भविष्यति

॥८७॥

ततस्त्वनेन भोगेन तानि नंदंति कृत्स्नशः ॥

ततः केनापि कालेन श्रद्धयाऽश्रद्धया कृतम्

॥८८॥

पुण्यं तान्येव भूतानि ग्रसंत्याक्रम्य देवताः ॥

ततो देवाः क्षुधार्त्तास्ते गुहायैतन्न्यवेदयन्

॥८९॥

स वै तदाकर्ण्य क्रुद्धो गुहः काल इवाभवत् ॥

तस्य क्रुद्धस्य भ्रूपद्ममध्यात्काचिद्विनिर्गता

॥९०॥

ज्वालामाला सुदुर्दर्शा नारी द्वादशलोचना ॥

सा च प्रणम्य तं प्राह तव शक्तिरहं प्रभो ॥

शीघ्रमादिश मां कृत्ये किं करोमि तवेप्सितम्

॥९१॥

स्कन्द उवाच

एतैर्भूतगणैः पापैरुल्लंघ्य मम शासनम्

॥९२॥

मनुष्यदत्तं सकलं भुज्यते स्वेच्छयाधमैः ॥

शीघ्रमेतानि त्वं तस्मान्मर्यादायामुपानय

॥९३॥

एतास्त्वानुव्रजिष्यंति देव्यः कोटिशतं शुभे ॥

ततस्तथेति सा चोक्ता देवीभिः संवृता तदा

॥९४॥

मयूरं समुपास्थाय गुहशक्तिः समागता ॥

सरोजवनमासाद्य भूतसंघानपश्यत

॥९५॥

जघान च समासाद्य देवी नानाविधायुधैः ॥

ततः प्रेतपिशाचाद्या हन्यमाना महारणे

॥९६॥

प्रसादयंति तां देवीं नानावेषैः सुदीनवत् ॥

केचिद्ब्राह्मणवेषैश्च तापसानां तथो क्तिभिः

॥९७॥

नृत्यंति देवि पद्माक्षि प्रसीदेति पुनःपुनः ॥

ततः प्रसन्ना सा देवी व्रियतां स्वेच्छयाऽऽह तान्

॥९८॥

तां ते प्रोचुस्त्राहि नस्त्वं भूतमाता भवेश्वरि ॥

मर्यादां नैव त्यक्ष्यामो वयं स्कन्दविनिर्मिताम्

॥९९॥

ये चैवं त्वां तोषयन्ति तेषां देहि वरान्सदा

॥१००॥

श्रीदेव्युवाच

वैशाखे दर्शदिवसे ये चैवं तोषयंति माम् ॥

अरिष्टाभरणैः पुष्पैर्दधिभक्तैश्च पूजनैः ॥

तेषां सर्वोपसर्गा वै यास्यंति विलयं स्फुटम्

॥१०१॥

एवं दत्त्वा वरं देवी मुमुदे भूतसंवृता ॥

एवंप्रभावा सा देवी मयानीतात्र भारत

॥१०२॥

य एनां प्रणमेन्मर्त्यः सर्वारिष्टैर्विमुच्यते

॥१०३॥

एवं प्रभावाः परिकीर्तिता मया समासतस्तीर्थवरेऽत्र देव्यः ॥

चतुर्दशैवार्जुन पूजिता याश्चतुर्दशस्थानवरैर्नृमुख्यैः

॥१०४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीदेव्याख्यानवर्णनंनाम सप्तचत्वारिंशत्तमोऽध्यायः ॥ ४७ ॥