मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ५९

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 59

अत्यद्भुतमिदं सूत गुप्तक्षेत्रस्य पावनम्

शौनक उवाच

अत्यद्भुतमिदं सूत गुप्तक्षेत्रस्य पावनम् ॥

महन्माहात्म्यमतुलं कीर्तितं हर्षवर्धनम्

॥१॥

पुनर्यत्सिद्धलिंगस्य पूर्वं माहात्म्यकीर्तने ॥

इत्युक्तं यत्प्रसादेन सिद्धमातुस्तु सेत्स्यति

॥२॥

विजयोनाम पुण्यात्मा साहाय्याच्चंडिलस्य च ॥

को न्वसौ चंडिलोनाम विजयोनाम कस्तथा

॥३॥

कथं च प्राप्तवान्सिद्धिं सिद्धमातुः प्रसादतः ॥

एतदाचक्ष्व तत्त्वेन श्रोतुं कौतूहलं हि नः

॥४॥

सतां चरित्रश्रवणे कौतुकं कस्य नो भवेत् ॥

उग्रश्रवा उवाच ॥

साधु पृष्टमिदं विप्रा दूरांतरितमप्युत

॥५॥

श्रुता द्वैपायनमुखात्कथां वक्ष्यामि चात्र वः ॥

पुरा द्रुपदराजस्य पुत्रीमासाद्य पांडवाः

॥६॥

धृतराष्ट्रमते पश्चादिंद्रप्रस्थं न्यवेशयन् ॥

रक्षिता वासुदेवेन कदाचित्तत्र पांडवाः

॥७॥

उपविष्टाः सभामध्ये कथाश्चक्रुः पृथग्विधाः ॥

देवर्षिपितृभूतानां राज्ञां चापि प्रकीर्तने

॥८॥

क्रियमाणेऽथ तत्रागाद्भीमपुत्रो घटोत्कचः ॥

तं दृष्ट्वा भ्रातरः पंच वासुदेवश्च वीर्यवान्

॥९॥

उत्थाय सहसा पीठादालिलिंगुर्मुदा युताः ॥

स च तान्प्रणतः प्रह्वो ववंदे भीमनंदनः

॥१०॥

साशिषं च ततो राज्ञा स्वोत्संग उपवेशितः ॥

आघ्राय स्नेहतो मूर्ध्नि प्रोक्तश्च जनसंसदि

॥११॥

युधिष्ठिर उवाच

कुत आगम्यते पुत्र क्व चायं विहृतस्त्वया ॥

कालः क्वचित्सुखं राज्यं कुरुषे मातुलं तव

॥१२॥

कश्चिद्देवेषु विप्रेषु गोषु साधुषु सर्वदा ॥

हैडंबे नापकुरुषे प्रियमेतद्धरेश्च नः

॥१३॥

हेडंबस्य वनं सर्वं तस्य ये सैन्यराक्षसाः ॥

पाल्यमानास्त्वया साधो वर्धंते जनक्षेमकाः

॥१४॥

कच्चिन्नंदति ते माता भृशं नः प्रियकारिणी ॥

कन्यैव या पुरा भीमं त्यक्त्वा मानं पतिं श्रिता

॥१५॥

इति पृष्टो धर्मराज्ञा स्मयन्हैडंबिरब्रवीत् ॥

हते तस्मिन्दुराचारे मातुलेऽस्मि नियोजितः

॥१६॥

तद्राज्यं शासने स्थाप्य दुष्टान्निघ्नंश्चराम्यहम् ॥

माता कुशलिनी देवी तपो दिव्यमुपाश्रिता

॥१७॥

मामुवाच सदा पुत्र पितॄणां भक्तिकृद्भव ॥

सोऽहं मातुर्वचः श्रुत्वा मेरुपादात्समागतः

॥१८॥

प्रणामायैव भवतां भक्तिप्रह्वेण चेतसा ॥

आत्मानं च महत्यर्थे कस्मिंश्चित्तु नियोजितम् ॥

भवद्भिरहमिच्छामि फलं यस्मादिदं महत्

॥१९॥

यदाज्ञापालनं पुत्रः पितॄणां सर्वदा चरेत् ॥

अथोर्द्ध्वलोकान्स जयेदिह जायेत कीर्तिमान्

॥२०॥

सूत उवाच

इत्युक्तवंतं तं राजा परिरभ्य पुनःपुनः ॥

उवाच धर्मराट् पुत्रमानंदाश्रुः सगद्गदम्

॥२१॥

त्वमेव नो भक्तिकारी सहायश्चापि वर्तसे

॥२२॥

एतदर्थं च हैडंबे पुत्रानिच्छंति साधवः ॥

इहामुत्र तारयंते तादृशाश्चापि पुत्रकाः

॥२३॥

अवश्यं यादृशी माता तादृशस्तनयो भवेत् ॥

माता च ते भक्तिमती दृढं नस्त्वं च तादृशः

॥२४॥

अहो सुदुष्करं देवी कुरुते मे प्रिया वधूः ॥

या भर्तृश्रियमुल्लंघ्य तप एव समाश्रिता

॥२५॥

नूनं कामेन भोगैर्वा कृत्यं वध्वा न मे मनाक् ॥

या पुत्रसुखमन्वीक्ष्य परलोकार्थमाश्रिता

॥२६॥

दुष्कुलीनापि या भक्ता सूतेऽपत्यं च भक्तिमत् ॥

कुलीनमेव तन्मन्ये ममेदं मतमुत्तमम्

॥२७॥

एवं बहूनि वाक्यानि तानि तानि वदन्नृपः ॥

धर्मराजः समाभाष्य केशवं वाक्यमब्रवीत्

॥२८॥

पुंडरीकाक्ष जानासि यथा भीमादभूदयम् ॥

जातमात्रस्तु यश्चासीद्यौवनस्थो महाबलः

॥२९॥

अष्टानां देवयोनीनां यतो जन्म च यौवनम् ॥

सद्य एव भवेत्तस्मात्सद्योऽस्यासीच्च यौवनम्

॥३०॥

तदस्योचितदारार्थे सदा चिंतास्ति कृष्ण मे ॥

उचितं बत हैडंबेः क्व कलत्रं करोम्यहम्

॥३१॥

तद्भवान्कृष्णसर्वज्ञ त्रिलोकीमपि वेत्सि च ॥

हैडंबेरुचिता दारान्वक्तुमर्हसि यादव

॥३२॥

सूत उवाच

एवमुक्तो धर्मराज्ञा क्षणं ध्यात्वा जनार्दनः ॥

धर्मराजमिदं वाक्यं पदांतरितमब्रवीत्

॥३३॥

अस्ति राजन्प्रवक्ष्यामि दारानस्योचितां शुभाम् ॥

सांप्रतं संस्थिता रम्ये प्राग्ज्योतिषपुरे वरे

॥३४॥

सा च पुत्री मुरोः पार्थ दैत्यस्याद्भुतकर्मणः ॥

योऽसौ नरकदैत्यस्य प्राणतुल्यः सखाऽभवत्

॥३५॥

स च मे निहतो घोरः पाशदुर्गसमन्वितः ॥

नरकश्च दुराचारस्त्वमेतद्वेत्सि सर्वशः

॥३६॥

ततो हते मुरौ दैत्ये मया तस्य सुताव्रजत् ॥

योद्धुं मामतिवीर्यत्वाद्घोरा कामकटंकटा

॥३७॥

तां ततोऽहं महायुद्धे खड्गखेटकधारिणीम् ॥

अयोधयं महाबाणैः सुशार्ङ्गधनुषश्च्युतैः

॥३८॥

खड्गेन चिच्छेद बाणान्मम सा च मुरोः सुता ॥

समागम्य च खड्गेन गरुडं मूर्ध्न्यताडयत्

॥३९॥

स च मोहसमाविष्टो गरुडोऽभूदचेतनः ॥

ततस्तस्या वधार्थाय मया चक्रं समुद्यतम्

॥४०॥

चक्रं समुद्यतं दृष्ट्वा मया तस्मिन्रणाजिरे ॥

कामाख्या नाम मां देवी पुरः स्थित्वा वचोऽब्रवीत्

॥४१॥

नैनां हंतुं भवानर्हो रक्षैतां पुरुषोत्तम ॥

अजेयत्वं मया ह्यस्या दत्तं खड्गं च खेटकम्

॥४२॥

बुद्धिरप्रतिमा चापि शक्तिश्च परमा रणे ॥

ततस्त्वया त्रिरात्रेऽपि न जितासीन्मुरोः सुता

॥४३॥

एवमुक्ते तदा देवीं वचनं चाहमब्रवम् ॥

अयमेष निवृत्तोऽस्मि वारयैनां च त्वं शुभे

॥४४॥

ततश्चालिंग्य तां भक्तां कामाख्या वाक्यमब्रवीत् ॥

भद्रे रणान्निवर्तस्व नायं हंतुं कथंचन

॥४५॥

शक्यः केनापि समरे माधवो रणदुर्जयः ॥

नाभूदस्ति भविष्यो वा य एनं संयुगे जयेत्

॥४६॥

अपि वा त्र्यंबकः पुत्रि नैनं शक्तः कुतोऽन्यकः ॥

तस्मादेनं नमस्कृत्य भाविनं श्वशुरं शुभे

॥४७॥

रणादस्मान्निवर्तस्व तवोचितमिदं स्फुटम् ॥

अस्य भ्रातुर्हि भीमस्य स्नुषा त्वं च भविष्यसि

॥४८॥

तस्मात्त्वं श्वशुरं भद्रे सम्मानय जनार्दनम् ॥

न च शोकस्त्वया कार्यः पितरं प्रति पंडिते

॥४९॥

जातस्य हि ध्रुवो मृत्युर्ध्रुव जन्म मृतस्य च ॥

बहवश्चाऽस्य वेत्तारो वद केनापि वार्यते

॥५०॥

ऋषींश्च देवांश्च महासुरांश्च त्रैविद्यविद्यान्पुरुषान्नृपांश्च ॥

कान्मृत्युरेको न पतेत काले परावरज्ञोऽत्र न मुह्यते क्वचित्

॥५१॥

श्लाघ्य एव हि ते मृत्युः पितुरस्माज्जनार्दृनात् ॥

सर्वपातकनिर्मुक्तो गतोऽसौ धाम वैष्णवम्

॥५२॥

एवं कामाख्यया प्रोक्ता सा च कामकटंकटा ॥

त्यक्त्वा क्रोधं च संवृत्य गात्राणि प्रणता च माम्

॥५३॥

तामहं साशिषं चापि प्रावोचं भरतर्षभ ॥

अस्मिन्नेव पुरे तिष्ठ भगदत्तप्रपूजिता

॥५४॥

मया देव्या पृथिव्या च भगदत्तः कृतो नृपः ॥

स ते पूजां बहुविधां करिष्यति स्वसुर्यथा

॥५५॥

वसंती चात्र तं वीरं हैडिंबं पतिमाप्स्यसि ॥

एवमाश्वास्य तां देवीं मौर्वीं चाहं व्यसर्जयम्

॥५६॥

सा स्थिता च पुरे तत्र गतोऽहं शक्रसद्म च ॥

ततो द्वारवतीं प्राप्य त्वया सह समागतः

॥५७॥

एवमेषोचिता दारा हैडंबेर्विद्यते शुभा ॥

कामाख्ये च रणे घोरा या विद्युदिव भासते

॥५८॥

न च रूपं वर्णितं मे श्वशुरस्योचितं यतः ॥

साधोर्हि नैतदुचितं सर्वस्त्रीणां प्रवर्णनम्

॥५९॥

पुनरेकश्च समयः कृतस्तं शृणु यस्तया ॥

यो मां निरुत्तरां प्रश्ने कृत्वैव विजयेत्पुमान्

॥६०॥

यो मे प्रतिबलश्चापि स मे भर्ता भविष्यति ॥

एवं च समयं श्रुत्वा बहवो दैत्यराक्षसाः

॥६१॥

तस्या जयार्थमगमंस्तेऽपि जित्वा हतास्तया ॥

यो य एनां गतः पूर्वं न स भूयो न्यवर्तत

॥६२॥

वह्नेरिव प्रभां दीप्तां पतंगानां समुच्चयः ॥

एवमेतादृशीं मौर्वीं जेतुमुत्सहते यदि

॥६३॥

घटोत्कचो महावीर्यो भार्यास्य नियतं भवेत्

॥६४॥

युधिष्ठिर उवाच

अलं सर्वगुणैस्तस्या यस्यास्त्वेको गुणो महान् ॥

क्रियते किं हि क्षीरेण यदि तद्विषमिश्रितम्

॥६५॥

प्राणाधिकं भैमसेनिं कथं केवलसाहसात् ॥

क्षिपेयं तव वाक्यानां शुद्धानां चाथ कोविदम्

॥६६॥

अन्या अपि स्त्रियः संति देशे देशे जनार्दन ॥

बह्व्यस्तासां वरां कांचिद्योषितं वक्तुमर्हसि

॥६७॥

भीम उवाच

सम्यगुक्तं केशवेन वाक्यं बह्वर्थमुत्तमम् ॥

राज्ञा पुनः स्नेहवशाद्यदुक्तं तन्न भाति मे

॥६८॥

कार्ये दुःसाध्य एव स्यात्क्षत्रियस्य पराक्रमः ॥

करींद्रस्येव यूथेषु गजानां न मृगेषु च

॥६९॥

आत्मा प्रख्यातिमानेयः सर्वथा वीरपुंगवैः ॥

सा च ख्यातिः कथं जायेद्दुःसाध्यकरणादृते

॥७०॥

न ह्यात्मवशगं पार्थ हैडंबेरस्य रक्षणम् ॥

येन दत्तस्त्वयं धात्रा स एनं पालयिष्यति

॥७१॥

सर्वथोच्चपदारोहे यत्नः कार्यो विजानता ॥

तन्न सिध्यति चेद्दैवान्नासौ दोषो विजानतः

॥७२॥

यथा देवव्रतस्त्वेको जह्रे काशिसुताः पुरा ॥

तथैक एव हैडंबिर्मौर्वीं प्राप्नोतु मा चिरम्

॥७३॥

अर्जुन उवाच

केवलं पौरुषपरं भीमेनोक्तमिदं वचः ॥

अबलं दैवहेतुत्वात्प्रबलं प्रतिभाति मे

॥७४॥

न मृषा हि वचो ब्रूते कामाख्या या पुराऽब्रवीत् ॥

भीमसेनसुतः पाणिं तव भद्रे ग्रहीष्यति

॥७५॥

अनेन हेतुना यातु शीघ्रं तत्र घटोत्कचः ॥

इति मे रोचते कृष्ण तव किं ब्रूहि रोचते

॥७६॥

कृष्ण उवाच

रोचते मे वचस्तुभ्यं भीमस्य च महात्मनः ॥

न हि तुल्यो भैमसेनेर्बुद्धौ वीर्ये च कश्चन

॥७७॥

अंतरात्मा च मे वेत्ति प्राप्तामेव मुरोः सुताम् ॥

तच्छीघ्रं यातु हैडंबिस्त्वं च किं पुत्र मन्यसे

॥७८॥

घटोत्कच उवाच

न हि न्याय्याः स्वका वक्तुं पूज्यानामग्रतो गुणाः ॥

प्रवृत्ता एव भासंते सद्गुणाश्च रवेः कराः

॥७९॥

सर्वथा तत्करिष्यामि पितरो येन मेऽमलाः ॥

लज्जिष्यंति न संसत्सु मया पुत्रेण पांडवाः

॥८०॥

एवमुक्त्वा महाबाहुरुत्थाय प्रणनाम तान् ॥

जयाशीर्भिश्च पितृभिर्वर्द्धितो गंतुमैच्छत

॥८१॥

तं गतुकाममाहेदमभिनंद्य जनार्दनः ॥

कथाकथनकाले मां स्मरेथास्त्वं जयावहम्

॥८२॥

यथा बुद्धिं सुदुर्भेद्यां वर्धयामि बलं च ते ॥

इत्युक्त्वालिंग्य तं कृष्णो व्यससर्जत साशिषम्

॥८३॥

ततो हिडंबातनयो महौजाः सूर्याक्षकालाक्षमहोदरानुगः ॥

वियत्पथं प्राप्य जगाम तत्पुरं प्राग्ज्योतिषं नाम दिनव्यपाये

॥८४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे बर्बरिकोपा ख्याने घटोत्कचस्य प्राग्ज्योतिषपुरं प्रति गमनवर्णनंनामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥