मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय २

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 2

दानप्रशंसावर्णनम्

सूत उवाच

ततो द्विजौः परिवृतं नारदं देवपूजितम् ॥

अभिगम्योपजग्राह सर्वानथ स पाण्डवः

॥१॥

ततस्तं नारदः प्राह जयारातिधनंजय ॥

धर्मे भवति ते बुद्धिर्देवेषु ब्राह्मणेषु च

॥२॥

कच्चिदेतां महायात्रां वीर द्वादशवारषिकीम् ॥

आचरन्खिद्यसे नैवमथ वा कुप्यसे न च

॥३॥

मुनीनामपि चेतांसि तीर्थयात्रासु पांडव ॥

खिद्यंति परिकृप्यंति श्रेयसां विघ्नमूलतः

॥४॥

कच्चिन्नैतेन दोषेण समाश्लिष्टोऽसि पांडव ॥

अत्र चांगिरसा गीतां गाथामेतां हि शुश्रुम

॥५॥

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥

निर्विकाराः क्रियाः सर्वाः स तीर्थफलमश्नुते

॥६॥

तदिदं हृदि धार्यं ते किं वा त्वं तात मन्यसे ॥

भ्राता युधिष्ठिरो यस्य सखा यस्य स केशवः

॥७॥

पुनरेतत्समुचितं यद्विप्रैः शिक्षणं नृणाम् ॥

वयं हि धर्मगुरवः स्थापितास्तेन विष्णुना

॥८॥

विष्णुना चात्र श्रृणुमो गीतां गाथां द्विजान्प्रति

॥९॥

यस्यामलामृतयशःश्रवणावगाहः सद्यः पुनाति जगदा श्वपचाद्विकुंठः ॥

सोहं भवद्भिरुपलब्ध सुतीर्थकीर्तिश्छद्यां स्वबाहुमपि यः प्रतिकूलवर्ती

॥१०॥

प्रियं च पार्थ ते ब्रूमो येषां कुशलकामुकः ॥

सर्वे कुशलिनस्ते च यादवाः पांडवास्तथा

॥११॥

अधुना भीमसेनेन कुरूणामुपतापकः ॥

शासनाद्धृतराष्ट्रस्य वीरवर्मा नृपो हतः

॥१२॥

स हि राज्ञामजेयोऽभूद्यथापूर्वं बलिर्बली ॥

कंटकं कंटकेनेव धृतराष्ट्रो जिगाय तम्

॥१३॥

इत्यादिनारदप्रोक्तां वाचमाकर्ण्य फाल्गुनः ॥

अतीव मुदितः प्राह तेषामकुशलं कुतः

॥१४॥

ये ब्राह्मणमते नित्यं ये च ब्राह्मणपूजकाः ॥

अहं च शक्त्या नियतस्तीर्थानि विचरन्ननु

॥१५॥

आगतस्तीर्थमेतद्धि प्रमोदोऽतीव मे हृदि ॥

तीर्थानां दर्शनं धन्यमवगाहस्ततोऽधिकः

॥१६॥

माहात्म्यश्रवणं तस्मादौर्वोपि मुनिरब्रवीत् ॥

तदहं श्रोतुमिच्छामि तीर्थस्यास्य गुणान्मुने

॥१७॥

एतेनैव श्राव्यमेतद्यत्त्वयांगीकृतं मुने ॥

त्वं हि त्रिलोकीं विचरन्वेत्सि सर्वां हि सारताम्

॥१८॥

तदेतत्सर्वतीर्थेभ्योऽधिकं मन्ये त्वदा हृतम्

॥१९॥

नारद उवाच

उचितं तव पार्थैतद्यत्पृच्छसि गुणिन्गुणान् ॥

गुणिनामेव युज्यन्ते श्रोतुं धर्मोद्भवा गुणाः ॥

साधूनां धर्मश्रवणैः कीर्तनैर्याति चान्वहम्

॥२०॥

पापानामसदालापैरायुर्याति यथान्वहम् ॥

तदहं कीर्तयिष्यामि तीर्थस्यास्य गुणान्बहून्

॥२१॥

यथा श्रुत्वा विजानासि युक्तमंगीकृतं मया ॥

पुराहं विचरन्पार्थ त्रिलोकीं कपिलानुगः

॥२२॥

गतवान्ब्रह्मणो लोकं तत्रापश्यं पितामहम् ॥

स हि राजर्षिदेवर्‌षिमूर्तामूर्तैः सुसंवृतः

॥२३॥

विभाति विमलो ब्रह्मा नक्षत्रैरुडुराडिव ॥

तमहं प्रणिपत्याथ चक्षुषा कृतस्वागतः

॥२४॥

उविष्टः प्रमुदितः कपिलेन सहैव च ॥

एतस्मिन्नंतरे तत्र वार्तिकाः समुपागताः

॥२५॥

प्रहीयंते हि ते नित्यं जगद्द्रष्टुं हि ब्रह्मणा ॥

कृतप्रणामानथ तान्समासीनान्पितामहः

॥२६॥

चक्षुषामृतकल्पेन प्लावयन्निव चाब्रवीत् ॥

कुत्र कुत्र विचीर्णं वो दृष्टं श्रुतमथापि वा

॥२७॥

किंचिदेवाद्भुतं ब्रूत श्रवणाद्येन पुण्यता ॥

एवमुक्ते भगवता तेषां यः प्रवरो मतः

॥२८॥

सुश्रवानाम ब्रह्माणं प्रणिपत्येदमूचिवान् ॥

प्रभोरग्रे च विज्ञप्तिर्यथा दीपो रवेस्तथा

॥२९॥

तथापि खलु वाच्यं मे परार्थं प्रेरितेन ते ॥

मुनिः कात्यायनोनाम श्रुत्वा धर्मान्पुनर्बहून्

॥३०॥

सारजिज्ञासया तस्थावेकांगुष्ठः शतं समाः ॥

ततः प्रोवाच तं दिव्या वाणी कात्यायन श्रृणु

॥३१॥

पुण्ये सरस्वतीतीरे पृच्छ सारस्वतं मुनिम् ॥

स ते सारं धर्मसाध्यं धर्मज्ञोऽभिवदिष्यति

॥३२॥

इति श्रुत्वा मुनिवरो मुनिश्रेष्ठमुपेत्य तम् ॥

प्रणम्य शिरसा भूमौ पप्रच्छेदं हृदि स्थितम्

॥३३॥

सत्यं केचित्प्रशंसंतितपः शौचं तथा परे ॥

सांख्यं केचित्प्रशंसंति योगमन्ये प्रचक्षते

॥३४॥

क्षमां केचित्प्रशंसंति तथैव भृशमार्ज्जवम् ॥

केचिन्मौनं प्रशंसंति केचिदाहुः परं श्रुतम्

॥३५॥

सम्यग्ज्ञानं प्रशंसंति केचिद्वैराग्यमुत्तमम् ॥

अग्निष्टोमादिकर्माणि तथा केचित्परं विदुः

॥३६॥

आत्मज्ञानं परं केचित्समलोष्टाश्मकांचनम् ॥

इत्थं व्यवस्थिते लोके कृत्याकृत्यविधौ जनाः

॥३७॥

व्यामोहमेव गच्छंति किं श्रेय इति वादिनः ॥

यदेतेषु परं कृत्यम् नुष्ठेयं महात्मभिः

॥३८॥

वक्तुमर्हसि धर्मज्ञ मम सर्वार्थसाधकम्

॥३९॥

सारस्वत उवाच

यन्मां सरस्वती प्राह सारं वक्ष्यामि तच्छृणु ॥

छायाकारं जगत्सर्वमुत्पत्तिक्षयधर्मि च ॥

वारांगनानेत्रभंगस्वद्वद्भंगुरमेव तत्

॥४०॥

धनायुर्यौवनं भोगाञ्जलचंद्रवदस्थिरान् ॥

बुद्ध्या सम्यक्परामृश्य स्थाणुदानं समाश्रयेत्

॥४१॥

दानवान्पुरुषः पापं नालं कर्तुमिति श्रुतिः ॥

स्थाणुभक्तो जन्ममृत्यू नाप्नोतीति श्रुति स्तथा

॥४२॥

सावर्णिना च गाथे द्वे कीर्तिते श्रृणु ये पुरा ॥

वृषो हि भगवान्धर्मो वृषभो यस्य वाहनम्

॥४३॥

पूज्यते स महादेवः स धर्मः पर उच्यते ॥

दुःखावर्ते तमोघोरे धर्माधर्मजले तथा

॥४४॥

क्रोधपंके मदग्राहे लोभबुद्बदसंकटे ॥

मानगंभीरपाताले सत्त्वयानविभूषिते

॥४५॥

मज्जंतं तारयत्येको हरः संसारसागरात् ॥

दानं वृत्तं व्रतं वाचः कीर्तिधर्मौ तथायुषः

॥४६॥

परोपकरणं कायादसारात्सारमुद्धरेत् ॥

धर्मे रागः श्रुतौ चिंता दाने व्यसनमुत्तमम्

॥४७॥

इंद्रियार्थेषु वैराग्यं संप्राप्तं जन्मनः फलम् ॥

देशेऽस्मिन्भारते जन्म प्राप्य मानुष्यमध्रुवम्

॥४८॥

न कुर्यादात्मनः श्रेयस्तेनात्मा वंचतश्चिरम् ॥

देवासुराणां सर्वेषां मानुष्यमतिदुर्लभम्

॥४९॥

तत्संप्राप्य तथा कुर्यान्न गच्छेन्नरकं यथा ॥

सर्वस्य मूलं मानुष्यं तथा सर्वार्थसाधकम्

॥५०॥

यदि लाभे न यत्नस्ते मूलं रक्ष प्रयत्नतः ॥

महता पुण्यमूल्येन क्रीयते कायनौस्त्वया

॥५१॥

गंतुं दुःखोदधेः पारं तर यावन्न भिद्यते ॥

अविकारिशरीरत्वं दुष्प्राप्यं वै ततः

॥५२॥

नापक्रामति संसारादात्महा स नराधमः ॥

तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः ॥

दानानि चात्र दीयंते परलोकार्थमादरात्

॥५३॥

कात्यायन उवाच

दानस्य तपसो वापि भगवन्किं च दुष्करम् ॥

किं वा महत्फलं प्रेत्य सारस्वत ब्रवीहि तत्

॥५४॥

सारस्वत उवाच

न दानाद्दुष्करतरं पृथिव्यामस्ति किंचन ॥

मुने प्रत्यक्षमेवैतद्दृश्यते लोकसाक्षिकम्

॥५५॥

परित्यज्य प्रियान्प्राणान्धनार्थे हि महाभयम् ॥

प्रविशंति महालोभात्समुद्रमटवीं गिरिम्

॥५६॥

सेवामन्ये प्रपद्यंते श्ववृत्तिरिति या स्मृता ॥

हिंसाप्रायां बहुक्लेशां कृषिं चैव तथा परे

॥५७॥

तस्य दुःखार्जितस्येह प्राणेभ्योपि गरीयसः ॥

आयासशतलब्धस्य परित्यागः सुदुष्करः

॥५८॥

यद्ददाति यदश्नाति तदेव धनिनो धनम् ॥

अन्ये मृतस्य क्रीडंति दारैरपि धनैरपि

॥५९॥

अहन्यहनि याचंतमहं मन्ये गुरुं यथा ॥

मार्जनं दर्पणस्येव यः करोति दिनेदिने

॥६०॥

दीयमानं हि नापैति भूय एवाभिवर्धते ॥

कूप उत्सिच्यमानो हि भवेच्छुद्धो बहूदकः

॥६१॥

एकजन्मसुखस्यार्थे सहस्राणि विलापयेत् ॥

प्राज्ञो जन्मसहस्रेषु संचिनोत्येकजन्मनि

॥६२॥

मूर्खो हि न ददात्यर्थानिह दारिद्र्यशंकया ॥

प्राज्ञस्तु विसृजत्यर्थानमुत्र तस्य शंकया

॥६३॥

किं धनेन करिष्यंति देहिनो भंगुराश्रयाः ॥

यदर्थं धनमिच्छंति तच्छरीरमशाश्वतम्

॥६४॥

अक्षरद्वयमभ्यस्तं नास्तिनास्तीति यत्पुरा ॥

तदिदं देहिदेहिति विपरीतमुपस्थितम्

॥६५॥

बोधयंति च यावंतो देहीति कृपणं जनाः ॥

अवस्थेयमदानस्य मा भूदेवं भवानपि

॥६६॥

दातुरेवोपकाराय वदत्यर्थीति देहि मे ॥

यस्माद्दाता प्रयात्यूर्ध्वमधस्तिष्ठेत्प्रतिग्रही

॥६७॥

दरिद्रा व्याधिता मूर्खाः परप्रेष्यकराः सदा ॥

अदत्तदानाज्जायंते दुःखस्यैव हि भाजनाः

॥६८॥

धनवंतमदातारं दरिद्रं वाऽतपस्विनम् ॥

उभावंभसि मोक्तव्यौ कंठे बद्धा महाशिलाम्

॥६९॥

शतेषु जायते शूरः सहस्रेषु च पंडितः ॥

वक्ता शतसहस्रेषु दाता जायेत वा न वा

॥७०॥

गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः ॥

अलुब्धैर्दानशीलैश्च सप्तभिर्धार्यते मही

॥७१॥

शिबिरौशीनरोङ्गानि सुतं च प्रियमौरसम् ॥

ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः

॥७२॥

प्रतर्द्दनः काशिपति प्रदाय नयने स्वके ॥

ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते

॥७३॥

निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम् ॥

ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वीं सपत्तनाम्

॥७४॥

अवर्षति च पर्जन्ये सर्वभूतनिवासकृत् ॥

वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः

॥७५॥

ब्रह्मदत्तश्च पांचाल्यो राजा बुद्धिमतां वरः ॥

निधिं शंखं द्विजाग्र्येभ्यो दत्त्वा स्वर्गमवाप्तवान्

॥७६॥

सहस्रजिच्च राजर्षिः प्राणानिष्टान्महायशाः ॥

ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान्

॥७७॥

एते चान्ये च बहवः स्थाणोर्दानेन भक्तितः ॥

रुद्रलोकं गता नित्यं शान्तात्मानो जितेन्द्रियाः

॥७८॥

एषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी ॥

इति संचिंत्य सारार्थी स्थाणुदानपरो भव

॥७९॥

सोऽपि मोह परित्यज्य तथा कात्यायनोऽभवत्

॥८०॥

नारद उवाच

एवं सुश्रवसा प्रोक्तां कथामाकर्ण्य पद्मभूः ॥

हर्षाश्रुसंयुतोऽतीव प्रशशंस मुहुर्मुहुः

॥८१॥

साधु ते व्याहृतं वत्स एवमेतन्न चान्यथा ॥

सत्यं सारस्वतः प्राह सत्या चैवं तथा श्रुतिः

॥८२॥

दानं यज्ञानां वरूथं दक्षिणा लोके दातारँसर्वभूतान्युपजीवंति दानेनारातीरँपानुदंत दानेन द्विषंतो मित्रा भवंति दाने सर्वं प्रतिष्ठितं तस्माद्दानं परमं वदंतीति

॥८३॥

संसारसागरे घोरे धर्माधर्मोर्मिसंकुले ॥

दानं तत्र निषेवेत तच्च नौरिव निर्मितम्

॥८४॥

इति संचिंत्य च मया पुष्करे स्थापिता द्विजाः ॥

गङ्गायमुनयोर्मध्ये मध्यदेशे द्विजाः सृते

॥८५॥

स्थापिताः श्रीहरिभ्यां तु श्रीगौर्या वेदवित्तमाः ॥

रुद्रेण नागराश्चैव पार्वत्या शक्तिपूर्भवाः

॥८६॥

श्रीमाले च तथा लक्ष्म्या ह्येवमादिसुरोत्तमैः ॥

नानाग्रहाराः संदत्ता लोकोद्धरणकांक्षया

॥८७॥

न हि दानफले कांक्षा काचिन्नऽस्ति सुरोत्तमाः ॥

साधुसंरक्षणार्थं हि दानं नः परिकीर्तितम्

॥८८॥

ब्राह्मणाश्च कृतस्थाना नानाधर्मोपदेशनैः ॥

समुद्धरंति वर्णांस्त्रींस्ततः पूज्यतमा द्विजाः

॥८९॥

दानं चतुर्विधं दानमुत्सर्गः कल्पितं तथा ॥

संश्रुतं चेति विविधं तत्क्रमात्परिकीर्तितम्

॥९०॥

वापीकूपतडागानां वृक्षविद्यासुरौकसाम् ॥

मठप्रपागृहक्षेत्रदानमुत्सर्ग इत्यसौ

॥९१॥

उपजीवन्निमान्यश्च पुण्यं कोऽपि चरेन्नरः ॥

षष्ठमंशं स लभते यावद्यो विसृजेद्द्विजः

॥९२॥

तदेषामेव सर्वेषां विप्रसंस्थापनं परम् ॥

देवसंस्थापनं चैव धर्मस्तन्मूल एव यत्

॥९३॥

देवतायतनं यावद्यावच्च ब्राह्मणगृहम् ॥

तावद्दातुः पूर्वजानां पुण्यांशश्चोपतिष्ठति

॥९४॥

एतत्स्वल्पं हि वाणिज्यं पुनर्बहुफलप्रदम् ॥

जीर्णोद्धारे च द्विगुणमेतदेव प्रकीर्तितम्

॥९५॥

तस्मादिदं त्वहमपिब्रवीमि सुरसत्तमाः ॥

नास्ति दानसमं किंचित्सत्यं सारस्वतो जगौ

॥९६॥

नारद उवाच

इति सारस्वतप्रोक्तां तथा पद्मभुवेरिताम् ॥

साधुसाध्वित्यमोदंत सुराश्चाहं सुविस्मिताः

॥९७॥

ततः सभाविसर्गांते सुरम्ये मेरुमूर्धनि ॥

उपविश्य शिलापृष्ठे अहमेतदचिंतयम्

॥९८॥

सत्यमाह विरंचिस्तु स किमर्थं तु जीवति ॥

येनैकमपि तद्धृत्तं नैव येन कृतार्थता

॥९९॥

तदहं दानपुण्यं हि करिष्यामि कथं स्फुटम् ॥

कौपीनदण्डात्मधनो धनं स्वल्पं हि नास्ति मे

॥१००॥

अनर्हते यद्ददाति न ददाति तथार्हते ॥

अर्हानर्हपरिज्ञानाद्दानधर्मो हि दुष्करः

॥१०१॥

देशेकाले च पात्रे च शुद्धेन मनसा तथा ॥

न्यायार्जितं च यो दद्याद्यौवने स तदश्नुते

॥१०२॥

तमोवृतस्तु यो दद्यात्क्रोधात्तथैव च ॥

भुंक्ते दान फलं तद्धि गर्भस्थो नात्र संशयः

॥१०३॥

बालत्वेऽपि च सोऽश्राति यद्दत्तं दम्भकारणात् ॥

दत्तमन्यायतो वित्तं वै चार्थकारणम्

॥१०४॥

वृद्धत्वे हि समश्राति नरो वै नात्र भविष्यति ॥

तस्माद्देशे च काले च सुपात्रे विधिना नरः ॥

शुभार्जितं प्रयुञ्जीत श्रद्धया शाठ्यवर्जितः

॥१०५॥

तदेतन्निर्धनत्वाच्च कथं नाम भविष्यति ॥

सत्यमाहुः पुरा वाक्यं पुराणमुनयोऽमलाः

॥१०६॥

नाधनस्यास्त्ययं लोको न परश्च कथंचन ॥

अभिशस्तं प्रपश्यंति दरिद्रं पार्श्वतः स्थितम्

॥१०७॥

दारिद्र्यं पातकं लोके कस्तच्छंसितुमर्हति ॥

पतितः शोच्यते सर्वैर्निर्धनश्चापि शोच्यते

॥१०८॥

यः कृशाश्वः कृशधनः कृशभृत्यः कृशातिथिः ॥

स वै प्रोक्तः कृशोनाम न शरीरकृशः कृशऋ

॥१०९॥

अर्थवान्दुष्कुलीनोऽपि लोके पूज्यतमो नरः ॥

शशिनस्तुल्यवंशोऽपि निर्धनः परिभूयते

॥११०॥

ज्ञानवृद्धास्तपोवृद्धा ये च वृद्धा बहुश्रुताः ॥

ते सर्वे धनवृद्धस्य द्वारि तिष्ठन्ति किंकराः

॥१११॥

यद्यप्ययं त्रिभुवने अर्थोऽस्माकं पराग्नहि ॥

तथाप्यन्यप्रार्थितो हि तस्यैव फलदो भवेत्

॥११२॥

अथवैतत्पुरा सर्वं चिंतयिष्यामि सुस्फुटम् ॥

विलोकयामि पूर्वं तु किंचिद्योग्यं हि स्थानकम्

॥११३॥

स चिंतयित्वेति बहुप्रकारं देशांश्च ग्रामान्नगराणि चाश्रमान् ॥

बहूनहं पर्यटन्नाप्तवान्हि स्थानं हितं स्थापये यत्र विप्रान्

॥११४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे नारदार्जुनसंवादे दानप्रशंसावर्णनंनाम द्वितीयऽध्यायः ॥ २ ॥