मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय २६

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 26

हरगौरीविवाहवर्णनम्

नारद उवाच

अथ ब्रह्मा महादेवमभिवाद्य कृतांजलिः ॥

उद्वाहः क्रियतां देव इत्युवाच महेश्वरम्

॥१॥

तस्य तद्वचनं श्रुत्वा प्राहेदं भगवान्हरः ॥

पराधीना वयं ब्रह्मन्हिमाद्रेस्तव चापि यत्

॥२॥

यद्युक्तं क्रियतां तद्धि वयं युष्मद्वशेऽधुना ॥

ततो ब्रह्मा स्वयं दिव्यं पुरं रत्नमयं शुभम्

॥३॥

उद्वाहार्थं महेशस्य तत्क्षणात्समकल्पयत् ॥

शतयोजनविस्तीर्णं प्रासादशतशोभितम्

॥४॥

पुरेतस्मिन्महादेवः स्वयमेव व्यतिष्ठत ॥

ततः सप्तमुनीन्देवश्चिंतिताब्यागतान्पुरः

॥५॥

प्राहिणोदंबिकायाश्च स्थिरपत्रार्थमीश्वरः ॥

सारुंधतीकास्ते तत्र ह्लादयंतो हिमाचलम्

॥६॥

सभार्यामीश्वरगुणैः स्थिरपत्राणि चादधुः ॥

ततः संपूजितास्तेन पुनरागम्य तेऽचलात्

॥७॥

न्यवेदयंस्र्यंबकाय स च तानभ्यनंदत ॥

उद्वाहार्थं ततो देवो विश्वं सर्वं न्यमंत्रयत्

॥८॥

समागतं च तत्सव विना दैत्यैर्दुरात्मभिः ॥

स्थावरं जंगमं यच्च विश्वं विष्णुपुरोगमम्

॥९॥

सब्रह्यकं पुरारातेर्महिमानमवर्धयत् ॥

ततस्तं विधिराहेदं गन्धमादनपर्वते

॥१०॥

पुरे स्थितं विवाहस्य देव कालः प्रवर्तते ॥

ततस्तस्य जटाजूटे चंद्रखंडं पितामहः

॥११॥

बबंध प्रणयोदारविस्फारितविलोचनः ॥

कपर्द्दं शोभनं विष्णुः स्वय चक्रेऽस्य हर्षतः

॥१२॥

कपालमालां विपुलां चामुण्डा मूर्ध्न्यबंधत ॥

उवाच चापि गिरिशं पुत्रं जनय शंकर

॥१३॥

यो दैत्येंद्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति ॥

सूर्यो ज्वलच्छिखारक्तं भाबासितजगत्त्रयम्

॥१४॥

बबंध देवदेवस्यच स्वयमेव प्रमोदतः ॥

शेषवासुकिमुख्याश्च ज्वलंतस्तेजसा शुभाः

॥१५॥

आत्मानं भूषणस्थाने स्वयं ते चक्रुरीश्वरे ॥

वायवश्च ततस्तीक्ष्णश्रृंगं हिमगिरिप्रभम्

॥१६॥

वृषं विभूषयामासुर्नानारत्नोपपत्तिभिः ॥

शक्रो गजजिनं गृह्य स्वयमग्रे व्यवस्थितः

॥१७॥

विना भस्म समाधाय कपाले रजतप्रभम् ॥

मनुजास्थिमयीं मालां प्रेतनाथश्च वन्दनम्

॥१८॥

वह्निस्तेजोमयं दिव्यमजिनं प्रददौ स्थितः ॥

एवं विभूषितः सर्वैर्भृत्यैरीशो बभौ भृशम्

॥१९॥

ततो हिमाद्रेः पुरुषा वीरकं प्रोचिरे वचः ॥

मा भूत्कालात्ययः शीघ्रं भवस्यैतन्निवेद्यताम्

॥२०॥

ततो देवं प्रणम्याह वीरकः करसंपुटी ॥

त्वरयंति महेशानं हिमाद्रेः पुरुषास्त्वमी

॥२१॥

इति श्रुत्वा वचो देवः शीघ्रमित्येव चाब्रवीत् ॥

सप्त वारिधयस्तस्य चक्रुर्दर्पणदर्शनम्

॥२२॥

तत्रैक्षत महादेवः स्वरूपं स जगन्मयम् ॥

ततो बद्धांजलिर्धीमान्स्थाणुं प्रोवाच केशवः

॥२३॥

देवदेव महादेव त्रिपुरांतक शंकर ॥

शोभसेऽनेन रूपेण जगदानंददायिना

॥२४॥

महेश्वर यथा साक्षादपरस्त्वं महेश्वरः ॥

ततः स्मयन्महादेवो जयेति भुवने श्रुतः

॥२५॥

करमालंब्य विष्णोश्च वृषभं रुरुहेशनैः ॥

ततश्च वसवो देवाः शूलं तस्य न्यवेदयन्

॥२६॥

धनदो निदिभिर्युक्तः समीपस्थस्ततोऽभवत् ॥

स शूलपाणिर्विश्वात्मा संचचाल ततो हरः

॥२७॥

देवदुंदुभिनादैश्च पुष्पासारैश्च गीतकैः ॥

नृत्यद्भिरप्सरोभिश्च जयेति च महास्वनैः

॥२८॥

सव्यदक्षिणसंस्थानौ ब्रह्मविष्णूतु जग्मतुः ॥

हंसं च गरुडं चैव समारुह्य महाप्रभौ

॥२९॥

अथादितिर्दितिः सा च दनुः कद्रूः सुपर्णजा ॥

पौलोमी सुरसा चैव सिंहिका सुरभिर्मुनिः

॥३०॥

सिद्धिर्माया क्षमा दुर्गा देवी स्वाहा स्वधा सुधा ॥

सावित्री चैव गायत्री लक्ष्मीः सा दक्षिणा द्युतिः

॥३१॥

स्पृहामतिर्धृतिर्बुद्धिर्मंथिर्ऋद्धिः सरस्वती ॥

राका कुहूः सिनीवाली देवी भानुमती तथा

॥३२॥

धरणी धारणी वेला राज्ञी चापि च रोहिणी ॥

इत्येताश्चान्यदेवानां मातरः पत्नयस्तथा

॥३३॥

उद्वाहं देवदेवस्य जग्मुः सर्वा मुदान्विताः ॥

उरगा गरुडा यक्षा गंधर्वाः किंनरा नराः

॥३४॥

सागरा गिरयो मेघा मासाः संवत्सरास्तथा ॥

वेदा मंत्रास्तथा यज्ञाः श्रौता धर्माश्च सर्वशः

॥३५॥

हुंकाराः प्रणवाश्चैव इतिहासाः सहस्रशः ॥

कोटिशश्च तथा देवा महेंद्राद्याः सवाहनाः

॥३६॥

अनुजग्मुर्महादेवं कोटिशोऽर्बुदशश्च हि ॥

गणाश्च पृष्ठतो जग्मुः शंखवर्णाश्च कोटिशः

॥३७॥

दशभिः केकराख्याश्च विद्युतोऽष्टाभिरेव च ॥

चतुःषष्ट्या विशाखाश्च नवभिः पारियात्रिकाः

॥३८॥

षड्भिः सर्वांतकः श्रीमांस्तथैव विकृताननः ॥

ज्वालाकेशो द्वादशभिः कोटिभिः संवृतो ययौ

॥३९॥

सप्तभिः समदः श्रीमान्दुंदुभोष्ठाभिरेव च ॥

पंचभिश्च कपालीशः षड्भिः संह्रादकः शुभः

॥४०॥

कोटिकोटिभिरेवैकः कुंडकः कुंभकस्तथा ॥

विष्टंभोऽष्टाभिरेवेह गणपः सर्वसत्तमः

॥४१॥

पिप्पलश्च सहस्रेण सन्नादश्च तथा बली ॥

आवेशनस्तथाष्टाभिः सप्तभिश्चंद्रतापनः

॥४२॥

महाकेशः सहस्रेण नंदिर्द्वादशभिस्तथा ॥

नगः कालः करालश्च महाकालः शतेन च

॥४३॥

अग्निकः शतकोट्या वै कोट्याग्निमुख एव च ॥

आदित्यमूर्धा कोट्या च कोट्या चैव धनावहः

॥४४॥

सन्नागश्च शतेनैव कुमुदः कोटिभिस्त्रिभिः ॥

अमोघः कोकिलश्चैव कोटिकोट्या सुमंत्रकः

॥४५॥

काकपादस्तता षष्ट्या षष्ट्या संतानको गणः ॥

महाबलश्च नवभिर्मधुपिंगश्च पिंगलः

॥४६॥

नीलो नवत्या सप्तत्या चतुर्वक्त्रश्च पूर्वपात् ॥

वीरभद्रश्चश्चतुःषष्ट्या करणो बालकस्तथा

॥४७॥

पंचाक्षः शतमन्युश्च मेघमन्युश्च विंशतिः ॥

काष्ठकोटिश्चतुःषष्ट्या सुकोशो वृषभस्तथा

॥४८॥

विश्वरूपस्तालकेतुः पंचाशच्च सिताननः ॥

ईशानो वृद्धदेवश्च दीप्तात्मा मृत्युहा तथा

॥४९॥

विषादो यमहा चैव गणो भृंगरिटिस्तथा ॥

अशनी हासकश्चैव चतुःषष्ट्या सहस्रपात्

॥५०॥

एते चान्ये च गणपा असंख्याता महाबलाः ॥

सर्वे सहस्रहस्ताश्च जटामुकुटधारीणः

॥५१॥

चंद्रलेखावतंसाश्च नीलकंठास्त्रिलोचनाः ॥

हारकुंडलकेयूरमुकुटाद्यैरलंकृताः

॥५२॥

अणिमादिगुणैर्युक्ताः शक्ताः शापप्रसादयोः ॥

सूर्यकोटिप्रतीकाशास्तत्राजग्मुर्गणेश्वराः

॥५३॥

पातालांबरभूमिस्थाः सर्वलोकनिवासिनः ॥

तुंबुरुर्नारदो हाहा हूहूश्चैव तु सामगाः

॥५४॥

तंत्रीमादाय वाद्यांश्चाऽवादयञ्छंकरोत्सवे ॥

ऋषयः कृत्स्नशश्चैव वेदगीतांस्तपोधनाः

॥५५॥

पुण्यान्वैवाहिकान्मंत्राञ्जेषुः संहृष्टमानसाः ॥

एवं प्रतस्थेगिरिशो वीज्यमानश्च गंगया

॥५६॥

तथा यमुनया चापांपतिना धृतच्छत्रया ॥

स्त्रीभिर्नानाविधालापैलाजाभिश्चानुमोदितः

॥५७॥

महोत्सवेन देवेशो गिरिस्थानं विवेश सः ॥

प्रभासत्स्वर्णकलशं तोरणानां शतैर्युतम्

॥५८॥

वैडूर्यबद्धभूमिस्थं रत्नजैश्च गृहैर्युतम् ॥

तत्प्रविश्य स्तूयमानो द्वारमभ्याससाद ह

॥५९॥

ततो हिमाचलस्तत्र दृश्यते व्याकुलाकुलः ॥

आदिशदात्मभृत्यानां महादेव उपस्थिते

॥६०॥

ततो ब्रह्माणमचलो गुरुत्वे प्रार्थयत्तदा ॥

कृत्यानां सर्वभारेषु वासुदेवं च बुद्धिमान्

॥६१॥

प्रत्याह च विवाहऽस्मिन्कुमारीभ्रातरं विना ॥

भविष्यति कथं विष्णो लाजहोमादिकर्मसु

॥६२॥

सुतो हि मम मैनाकः स प्रविष्टोऽर्णवे स्थितः ॥

इति चिंताविषण्णं तं विष्णुराहमहामतिः

॥६३॥

अत्र चिंता न कर्तव्या गिरिराज कथंचन ॥

अहं भ्राता जगन्मातुरेतदे वं च नान्यथा

॥६४॥

ततः प्रमुदितः शैलः पार्वतीं च स्वलंकृताम् ॥

सखीभिः कोटिसंख्याभिर्वृतां प्रवेशयत्सदः

॥६५॥

ततो नीलमयस्तंभं ज्वलत्कांचनकुट्टिमम् ॥

मुक्ताजालपरिष्कारं ज्वलितौ षधिदीपितम्

॥६६॥

रत्नासनसहस्राढ्यं शतयोजनविस्तृतम् ॥

विवाहमंडपं शर्वो विवेशानुचरावृतः

॥६७॥

ततः शैलः सपत्नीकः पादौ प्रक्षाल्य हर्षितः ॥

भवस्य तेन तोयेन सिषिचे स्वं जगत्तथा

॥६८॥

पाद्यमाचमनं दत्त्वा मधुपर्कं च गां तथा ॥

प्रदानस्य प्रयोगं च संचिंतयंति ब्राह्मणाः

॥६९॥

दौहित्रीं कव्यवाहानां दद्मि पुत्रीं स्वकामहम् ॥

इत्युक्त्वा तस्थिवाञ्छैलो न जानाति हरस्य सः

॥७०॥

ततः सर्वानपृच्छत्स कुलं कोऽपि न वेद तत् ॥

ततो विष्णुरिदं प्राह पृछ्यंतेऽन्ये किमर्थतः

॥७१॥

अज्ञातकुलतां तस्य पृछ्यतामयमेव च ॥

अहिरेव अहेः पादान्वेत्ति नान्यो हिमाचल

॥७२॥

स्वगोत्रं यदि न ब्रूते न देया भगिनी मम ॥

ततो हासस्तदा जज्ञे सर्वेषां सुमहास्वनः

॥७३॥

निवृत्तश्च क्षणाद्भूयः किं वक्ष्यति हरस्त्विति ॥

ततो विमृश्य बहुधा किंचिद्भीताननो यता

॥७४॥

लज्जाजडः स्मितं चक्रे ततः पार्थ स वै हरः ॥

ततो विशिष्टा ब्रुवति शीघ्रं कालोऽतिवर्तते

॥७५॥

हरिः प्राह महेशानं बिभ्यदावेद्मयहं तव ॥

मातामहं च पितरं प्रयोगं श्रृणु भूधर

॥७६॥

आत्मपुत्राय ते शंभो आत्मदौहित्रकाय ते ॥

इत्युक्ते विष्णुना सर्वे साधुसाध्विति ते जगुः

॥७७॥

देवोऽप्युदाहरेद्वुद्धिं सर्वेभ्योऽप्यधिकां वराम् ॥

ततः शैलस्तथा चोक्त्वा दत्त्वा देवीं च सोदकम्

॥७८॥

आत्मानं चापि देवाय प्रददौ सोदकं नगः ॥

ततः सर्वे तुष्टुवुस्तं विवाहं विस्मयान्विताः

॥७९॥

दाता महीभृतां नाथो होता देवश्चतुर्मुखः ॥

वरः पशुपतिः साक्षात्कन्या विश्वरणिस्तथा

॥८०॥

ततः स्तुवत्सु मुनिषु पुष्पवर्षे महत्यपि ॥

नदत्सु देवतूर्येषु करं जग्राह त्र्यम्बकः

॥८१॥

देवो देवीं समालोक्य सलज्जां हिमशैलजाम् ॥

न तृप्यति न चाह्लादत्सा च देवां वृषध्वजम्

॥८२॥

तत्र ब्रह्मादिमुनयो देवीमद्भुतरूपिणीम् ॥

पश्यंतः शरणं जग्मुर्मनसा परमेश्वरम्

॥८३॥

मा मुह्याम पार्वतीं च यथा नारदपर्वतौ ॥

ततस्तथैव तच्चक्रे सर्वेषामीप्सितं वचः

॥८४॥

ततो देवैश्च मुनिभिः संस्तुतः परमेश्वरः ॥

प्रविवेश शुभां वेदीं मूर्तिमज्ज्वलनाश्रिताम्

॥८५॥

वेधाः श्रुतीरितैर्मं त्रैर्मूर्तिमद्भिरुपस्थितैः ॥

मूर्तमग्निं जुहाव त्रिः परिक्रम्य च तं हरः

॥८६॥

लाजाहोम उमाभ्राता प्राह तं सस्मितं हरिः ॥

बहवो मिलिताः संति लोकाः संमर्द ईश्वर

॥८७॥

सावधानेन रक्ष्याणि भूषणानि त्वया हर ॥

ततो हरश्च तं प्राह स्वजने माऽतिगोपय

॥८८॥

किंचित्प्रार्थय दास्यामि प्राह विष्णुस्ततो वरम् ॥

त्वयि भक्तिर्दृढा मेऽस्तु स च तद्दुर्लभं ददौ

॥८९॥

ददतुः सृष्टिसंरक्षां ब्रह्मणे दक्षिणामुभौ ॥

अग्नये यज्ञभागांश्च प्रीतौ हरजनार्दनौ

॥९०॥

भृग्वादीनां ततो दत्त्वा श्रुतिरक्षणदक्षिणाम् ॥

ततो गीतैश्च नृत्यैश्च भोजनैश्च यथेप्सितैः

॥९१॥

महोत्सवैरनेकैश्च विस्मयं समपद्यत ॥

विसृज्य लोकं तं सर्वं किमिच्छादानकैर्भवः

॥९२॥

सरस्वत्या च पितरौ देव्याश्चाऽऽश्वास्य दुःखितौ ॥

आमंत्र्य हिमशैलेंद्रं ब्रह्मणं च सकेशवम्

॥९३॥

जगाम मंदरगिरिं गिरिणा यानुगोर्चितः

॥९४॥

ततो गते भगवति नीललोहिते सहोमया गिरिममलं हि भूधरः ॥

सबांधवो रुदिति हि कस्य नो मनो विसंष्ठँलं जगति हि कन्यकापितुः

॥९५॥

इमं विवाहं गिरिराजपुत्र्याः श्रृणोति चाध्येति च यो नरः शुचिः ॥

विशेषतश्चापि विवाहमंगले स मंगलं वृद्धिमवाप्नुते चिरम्

॥९६॥

इति श्रीस्कांदे महापुराम एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारेशमाहात्म्ये हरगौरीविवाहवर्णनंनाम षडिंशोऽध्यायः ॥ २६ ॥