मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ४

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 4

दानभेदप्रशंसावर्णनम्

नारद उवाच

ततस्त्वहं चिंतयामि कथं स्थानमिदं भवेत् ॥

ममायत्तं यतो राज्ञां भूमिरेषा सदा वशे

॥१॥

यत्त्वहं धर्मवर्णाणं गत्वा याचे ह मेदिनीम् ॥

अर्पयत्येव स च मे याचितो न पुनः परः

॥२॥

तथा हि मुनिभिः प्रोक्तं द्रव्यं त्रिविधमुत्तमम् ॥

शुक्लं मध्यं च शबलमधमं गृष्णमुच्यते

॥३॥

श्रुतेः संपादनाच्छिष्यात्प्राप्तं शुक्लं च क्न्ययया ॥

तथा कुसीदवाणिज्यकृषियाचितमेव च

॥४॥

शबलं प्रोच्यते सद्भिर्द्यूतचौर्येण साहसैः ॥

व्याजेनोपार्जितं यच्च तत्कृष्णं समुदाहृतम्

॥५॥

शुक्लवित्तेन यो धर्मं प्रकुर्याच्छ्रद्धयान्वितः ॥

तीर्थं पात्रं समासाद्य देवत्वे तत्समश्नुते

॥६॥

राजसेन च भावेन वित्तेन शबलेन च ॥

प्रदद्याद्दानमर्थिभ्यो मानुष्यत्वे तदश्नुते

॥७॥

तमोवृतस्तु यो दद्यात्कृष्णवित्तेन मानवः ॥

तिर्यक्त्वे तत्फलं प्रेत्य समश्राति नराधमः

॥८॥

तत्तु याचितद्रव्यं मे राजसं हि स्फुटं भवेत् ॥

अथ ब्राह्मणभावेन नृपं याचे प्रतिग्रहम्

॥९॥

तदप्यहो चातिकष्ट हेतुना तेन मे मतम् ॥

अयं प्रतिग्रहो घोरो मध्वास्वादो विषोपमः

॥१०॥

प्रतीग्रहेण संयुक्तं ह्यमीवमाविशोद्द्विजम् ॥

तस्मादहं निवृत्तश्च पापादस्मात्प्रतिग्रहात्

॥११॥

ततः केनाप्युपायेन द्वयोरन्यतरेण तु ॥

स्वायत्तं स्थानक कुर्म एतत्सञ्चिंतये मुहुः

॥१२॥

यथा कुभार्यः पुरुषश्चिन्तांतं न प्रपद्यते ॥

तथैव विमृशंश्चाहं चिंतांतं न लभाम्यणु

॥१३॥

एतस्मिन्नन्तरे पार्थ स्नातुं तत्र समागताः ॥

बहवो मुनयः पुण्ये महीसागरसंगमे

॥१४॥

अहं तानब्रवं सर्वान्कुतो यूयं समागताः ॥

ते मामूचुः प्रणम्याथ सौराष्ट्रविषये मुने

॥१५॥

धर्मवर्मेति नृपतिर्योऽस्य देशस्य भूपतिः ॥

स तु दानस्य तत्त्वार्थी तेपे वर्षगणान्बहून्

॥१६॥

ततस्तं प्राह खे वाणी श्लोकमेकं नृप श्रृणु ॥

द्विहेतु षडधिष्ठानं षडंगं च द्विपाकयुक्

॥१७॥

चतुःप्रकारं त्रिविधं त्रिनाशं दानमुच्यते ॥

इत्येकं श्लोकमाभाष्य खे वाणी विरराम ह

॥१८॥

श्लोकस्यार्थं नावभाषे पृच्छमानापि नारद ॥

ततो राजा धर्मवर्मा पटहेनान्वघोषयत्

॥१९॥

यस्तु श्लोकस्य चैवास्य लब्धस्य तपसा मया ॥

करोति सम्यगव्याख्यानं तस्य चैतद्ददाम्यहम्

॥२०॥

गवां च सप्त नियुतं सुवर्णं तावदेव तु ॥

सप्तग्रामान्प्रयच्छामि श्लोकव्याख्यां करोति यः

॥२१॥

पटहेनेति नृपतेः श्रुत्वा राज्ञो वचो महत् ॥

आजग्मुर्बहुदेशीया ब्राह्मणाः कोटिशो मुने

॥२२॥

पुनर्दुर्बोधविन्यासः श्लोकस्तैर्विप्रपुंगवैः ॥

आख्यातुं शक्यते नैव गुडो मूकैर्यथा मुने

॥२३॥

वयं च तत्र याताः स्मो धनलोभेन नारद ॥

दुर्बोधत्वान्नमस्कृत्य श्लोकं चात्र समागताः

॥२४॥

दुर्व्याख्येयस्त्वयं श्लोको धनं लभ्यं न चैव नः ॥

तीर्थयात्रां कथं यामीत्येवाचिंत्यात्र चागताः

॥२५॥

एवं फाल्गुन तेषां तु वचः श्रुत्वा महात्मनाम् ॥

अतीव संप्रहृष्टोऽहं तान्विसृज्येत्यचिंतयम्

॥२६॥

अहो प्राप्त उपायो मे स्थानप्राप्तौ न संशयः ॥

श्लोकं व्याख्याय नृपतेर्लप्स्ये स्थानं धनं तथा

॥२७॥

विद्यामूल्येन नैवं च याचितः स्यात्प्रतिग्रहः ॥

सत्यमाह पुराणार्षिर्वासुदेवो जगद्गुरुः

॥२८॥

धर्मस्य यस्य श्रद्धा स्यान्न च सा नैव पूर्यते ॥

पापस्य यस्य श्रद्धास्यान्न च सापि न पूर्यते

॥२९॥

एवं विचिंत्य विद्वांसः प्रकुर्वंति यथारुचि ॥

सत्यमेतद्विभोर्वाक्यं दुर्लभोऽपि यथा हि मे

॥३०॥

मनोरथोऽयं सफलः संभूतोंकुरितः स्फुटम् ॥

एनं च दुर्विदं श्लोकमहं जानामि सुस्फुटम्

॥३१॥

अमूर्तैः पितृभिः पूर्वमेव ख्यातो हि मे पुरा ॥

एवं हर्षान्वितः पार्थ संचिंत्याऽहं ततो मुहुः

॥३२॥

प्रणम्य तीर्थं चलितो महीसागरसंगमम् ॥

वृद्धब्राह्मणरूपेण ततोहं यातवान्नृपम्

॥३३॥

इदं भणितवानस्मि श्लोकव्याख्यां नृप श्रृणु ॥

यत्ते पटहविख्यातं दानं च प्रगुणीकुरु

॥३४॥

एवमुक्ते नृपः प्राह प्रोचुरेवं हि कोटिशः ॥

द्विजोत्तमाः पुनर्नस्यं प्रोक्तुमर्थो हि शक्यते

॥३५॥

के द्विहेतू षडाख्यातान्यधिष्ठानानि कानि च ॥

कानि चैव षडंगानि कौ द्वौ पाकौ तथा स्मृतौ

॥३६॥

के च प्रकाराश्चत्वारः किंस्वित्तत्त्रिविधं द्विज ॥

पयो नाशाश्च के प्रोक्ता दानस्यैतत्स्फुटं वद

॥३७॥

स्फुटान्प्रश्नानिमान्सप्त यदि वक्ष्यसि ब्राह्मण ॥

ततो गवां सप्तनियुतं सुवर्णं तावदेव तु

॥३८॥

सप्त ग्रामांश्च दास्यामि नो चेद्यास्यसि स्वं गृहम् ॥

इत्युक्त्वा वचनं पार्थ सौराष्ट्रस्वामिनं नृपम्

॥३९॥

धर्मवर्माणमस्त्वेवं प्रावोचमवधारय ॥

श्लोकव्याख्यां स्फुटां वक्ष्ये दानहेतू च तौ श्रृणु

॥४०॥

अल्पत्वं वा बहुत्वं वा दानस्याभ्युदयावहम् ॥

श्रद्धा शक्तिश्च दानानां वृद्ध्यक्षयकरेहि ते

॥४१॥

तत्र श्रद्धाविषये श्लोका भवन्ति ॥

कायक्लेशैश्च बहुभिर्न चैवारथस्य राशिभिः

॥४२॥

धर्मः संप्राप्यते सूक्ष्मः श्रद्धा धर्मोऽद्भुतं तपः ॥

श्रद्धा स्वर्गश्च मोक्षश्च श्रद्धा सर्वमिदं जगत्

॥४३॥

सर्वस्वं जीवितं चापि दद्यादश्रद्धया यदि ॥

नाप्नुयात्स फलं किंचिच्छ्रद्दधानस्ततो भवेत्

॥४४॥

श्रद्धया साध्यते धर्मो महद्भिर्नार्थराशिभिः ॥

अकिंचना हि मुनयः श्रद्धावंतो दिवं गताः

॥४५॥

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ॥

सात्त्विकी राजसी चैव तामसी चेति तां श्रृणु

॥४६॥

यजंते सात्त्विका देवान्यक्षरक्षांसि राजसाः ॥

प्रेतान्भूतपिशाचांश्च यजंते तामसा जनाः

॥४७॥

तस्माच्छ्रद्धावता पात्रे दत्तं न्यायार्जितं हि यत् ॥

तेनैव भगवान्रुद्रः स्वल्पकेनापि तुष्यति

॥४८॥

शक्तिविषये च श्लोका भवंति ॥

कुटुंबभुक्तवसनाद्देयं यदतिरिच्यते ॥

मध्वास्वादो विषं पश्चाद्दातुर्धर्मोऽन्यथा भवेत्

॥४९॥

शक्ते परजने दाता स्वजने दुःखजीविनि ॥

मध्वापानविषादः स धर्माणां प्रतिरूपकः

॥५०॥

भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदैहिकम् ॥

तद्भवत्यसुखोदकं जीवतोऽस्य मृतस्य च

॥५१॥

सामान्यं याचितं न्यासमाधिर्दाराश्च दर्शनम् ॥

अन्वाहितं च निक्षेपः सर्वस्वं चान्वये सति

॥५२॥

आपत्स्वपि न देयानि नववस्तूनि पंडितैः ॥

यो ददाति स मूढात्मा प्रायाश्चित्तीयते नरः

॥५३॥

इति ते गदितौ राजन्द्वौ हेतू श्रूयतामतः ॥

अधिष्ठानानि वक्ष्यामि षडेव श्रृणु तान्यपि

॥५४॥

धर्ममर्थं च कामं च व्रीडाहर्षभयानि च ॥

अधिष्ठानानि दानानां षडेतानि प्रचक्षते

॥५५॥

पात्रेभ्यो दीयते नित्यमनपेक्ष्य प्रयोजनम् ॥

केवलं धर्मबुद्ध्या यद्धर्मदानं तदुच्यते

॥५६॥

धनिनं धनलोभेन लोभयित्वार्थमाहरेत् ॥

तदर्थदानमित्याहुः कामदानमतः श्रृणु

॥५७॥

प्रयोजनमपेक्ष्यैव प्रसंगाद्यत्प्रदीयते ॥

अनर्हेषु सरागेण कामदानं तदुच्यते

॥५८॥

संसदि व्रीडयाऽऽश्रुत्य आर्थिभ्यः प्रददाति च ॥

प्रतिदीयते च यद्दानं व्रीडादानमिति श्रुतम्

॥५९॥

दृष्ट्वा प्रियाणि श्रुत्वा वा हर्षवद्यत्प्रदीयते ॥

हर्षदानमिति प्रोक्तं दानं तद्धर्मचिंतकैः

॥६०॥

आक्रोशानर्थहिंसानां प्रतीकाराय यद्भवेत् ॥

दीयतेऽनुपकर्तृभ्यो भयदानं तदुच्यते

॥६१॥

प्रोक्तानि षडधिष्ठानान्यंगान्यपि च षट्च्छ्रुणु ॥

दाता प्रतिग्रहीता च शुद्धिर्देयं च धर्मयुक्

॥६२॥

देशकालौ च दानानामंगान्येतानि षड्विदुः ॥

अपरोगी च धर्मात्मा दित्सुरव्यसनः शुचिः

॥६३॥

अनिंद्याजीवकर्मा च षड्भिर्दाता प्रशस्यते ॥

अनृजुश्चाश्रद्दधानोऽशांतात्मा धृष्टभीरुकः

॥६४॥

असत्यसंधो निद्रालुर्दातायं तामसोऽधमः ॥

त्रिशुक्लः कृशवृत्तिश्च घृणालुः सकलेंद्रियः

॥६५॥

विमुक्तो योनिदोषेभ्यो ब्राह्मः पात्रमुच्यते ॥

सौमुख्यादभिसंप्रीतिरर्थिनां दर्शने सदा ॥

सत्कृतिश्चानसूया च तदा शुद्धिरिति स्मृता

॥६६॥

अपराबाधमक्लेशं स्वयत्नेनार्जितं धनम् ॥

स्वल्पं वा विपुलं वापि देयमित्यभिधीयते

॥६७॥

तेनापि किल धर्मेण उद्दिश्य किल किंचन ॥

देयं तद्धर्मयुगिति शून्ये शून्यं फलं मतम्

॥६८॥

न्यायेन दुर्लभं द्रव्यं देशे कालेपि वा पुनः ॥

दानार्हौ देशकालौ तौ स्यातां श्रेष्ठौ न चान्यथा

॥६९॥

षंडगानीति चोक्तानि द्वौ च पाकावतः श्रृणु ॥

द्वौ पाकौ दानजौ प्राहुः परत्राथ त्विहोच्यते

॥७०॥

सद्भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्ठति ॥

असत्सु दीयते किंचित्तद्दानमिह भुज्यते

॥७१॥

द्वौ पाकाविति निर्दिष्टौ प्रकारांश्चतुरः श्रृणु ॥

ध्रुवमाहुस्त्रिकं काम्यं नैमित्तिकमिति क्रमात्

॥७२॥

वैदिको दानमार्गोऽयं चतुर्धा वर्ण्यते द्विजैः ॥

प्रपारामतडागादिसर्वकामफलं ध्रुवम्

॥७३॥

तदाहुस्त्रिकामित्याहुर्दीयते यद्दिनेदिने ॥

अपत्यविजयैश्वर्यस्त्रीबालार्थं प्रदीयते

॥७४॥

इच्छासंस्थं च यद्दानं काम्यमित्यभिधीयते ॥

कालापेक्षं क्रियापेक्षं गुणापेक्षमिति स्मृतौ

॥७५॥

त्रिधा नौमित्तिकं प्रोक्तं सदा होमविवर्जितम् ॥

इति प्रोक्ताः प्रकारास्ते त्रैविध्यमभिधीयते

॥७६॥

अष्टोत्तमानि चत्वारि मध्यमानि विधानतः ॥

कानीयसानि शेषाणि त्रिविधत्वमिदं विदुः

॥७७॥

गृहप्रासादविद्याभूगोकूपप्राणहाटकम् ॥

एतान्युत्तमदानानि उत्तमद्रव्यदानतः

॥७८॥

अन्नारामं च वासांसि हयप्रभृतिवाहनम् ॥

दानानि मध्यमानीति मध्यमद्रव्यदानतः

॥७९॥

उपानच्छत्रपात्रादिदधिमध्वासनानि च

॥८०॥

दीपकाष्ठोपलादीनि चरमं बहुवार्षिकम् ॥

इति कानीयसान्याहुर्दाननाशत्रयं श्रृणु

॥८१॥

यद्दत्त्वा तप्यते पश्चादासुरं तद्धृथा मतम् ॥

अश्रद्धया यद्ददाति राक्षसं स्याद्वृथैव तत्

॥८२॥

यच्चाक्रुश्य ददात्यंग दत्त्वा वाक्रोशति द्विजम् ॥

पैशाचं तद्वृथा दानंदाननाशास्त्रयस्त्वमी

॥८३॥

इति सप्तपदैर्बद्धं दानमाहात्म्य मुत्तमम् ॥

शक्त्या ते कीर्तितं राजन्साधु वाऽसाधु वा वद

॥८४॥

धर्मवर्मोवाच

अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥

अद्य ते कृतकृत्योऽस्मि कृतः कृतिमतां वर

॥८५॥

पठित्वा सकलं जन्म ब्रह्मचारि यथा वृथा ॥

बहुक्लेशात्प्राप्तभार्यः सावृथाऽप्रियवादिनी

॥८६॥

क्लेशेन कृत्वा कूपं वा स च क्षारोदको वृथा ॥

बहुक्लेशैर्जन्म नीतं विना धर्मं तथा वृथा

॥८७॥

एवं मे यद्वृथा नाम जातं तत्सफलं त्वया ॥

कृतं तस्मान्नमस्तुभ्यं द्विजेभ्यश्च नमोनमः

॥८८॥

सत्यमाह पुरा विष्णुः कुमारान्विष्णुसद्भनि

॥८९॥

नाहं तथाद्भि यजमानहविर्वितानश्चयोतद्‌घृतप्लुतमदन्हुतभुङ्मुखेन ॥

यद्ब्राह्मणस्य मुखतश्चरतोनुघासं तुष्टस्य मय्यवहितैर्निजकर्मपाकैः

॥९०॥

तन्मयाऽशर्मणा वापि यद्विप्रेष्वप्रियं कृतम् ॥

सर्वस्य प्रभवो विप्रास्तत्क्षमतां प्रसादये

॥९१॥

त्वं च कोसि न सामान्यः प्रणम्याहं प्रसादये ॥

आत्मानं ख्यापय मुने प्रोक्तश्चेत्यब्रवं तदा

॥९२॥

नारद उवाच

नारदोऽस्मि नृपश्रेष्ठ स्थानकार्थी समागतः ॥

प्रोक्तं च देहि मे द्रव्यं भूमिं च स्थानहेतवे

॥९३॥

यद्यपीयं देवतानां भूमिर्द्रव्यं च पार्थिव ॥

तथापि यस्मिन्यः काले राजा प्रार्थ्यः स निश्चितम्

॥९४॥

सहीश्वरस्यावतारो भर्त्ता दाताऽभयस्य सः ॥

तथैव त्वामहं याचे द्रव्यशुद्धिप्सया ॥

पूर्व ममालयं देहि देयार्थे प्रार्थनापरः

॥९५॥

राजोवाच

यदि त्वं नारदो विप्र राज्यमस्त्वखिलं तव ॥

अहं हि ब्राह्मणानां ते दास्यं कर्ता न संशयः

॥९६॥

नारद उवाच

यद्यस्माकं भवान्भक्तस्तत्ते कार्यं च नो वचः

॥९७॥

सर्वं यत्तद्देहि मे द्रव्यमुक्तं भुवं च मे सप्तगव्यूतिमात्राम् ॥

भूयात्त्वत्तोप्यस्य रक्षेति सोऽपि मेने त्वहं चिंतये चार्थशेषम्

॥९८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारि काखण्डे नारदार्जुनसंवादे दानभेदप्रशंसावर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥