मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ५

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 5

नारदप्रश्नोत्तरकथनम्

ऽ ॥

नारद उवाच ॥

ततोऽहं धर्मवर्माणं प्रोच्य तिष्ठेद्धनं त्वयि ॥

कृत्यकाले ग्रहीष्यामीत्यागमं रैवतं गिरिम्

॥१॥

आसं प्रमुदितश्चाहं पश्यंस्तं गिरिसत्तमम् ॥

आह्वयानं नरान्साधून्भूमेर्भुजमिवोच्छ्रितम्

॥२॥

यस्मिन्नानाविधा वृक्षाः प्रकाशंते समंततः ॥

साधुं गृहपतिं प्राप्य पुत्रभार्यादयो यथा

॥३॥

मुदिता यत्र संतृप्ता वाशंते कोकिलादयः ॥

सद्गुरोर्ज्ञानसंपन्ना यथा शिष्यगणा भुवि

॥४॥

यत्र तप्त्वा तपो मर्त्या यथेप्सितमवाप्नुयुः ॥

श्रीमहादेवमासाद्य भक्तो यद्वन्मनोरथम्

॥५॥

तस्याहं च गिरेः पार्थ समासाद्य महाशिलाम् ॥

शीतसौरभ्यमंदेन प्रीणीतोऽचिंतयं हृदि

॥६॥

तावन्मया स्थानमाप्तं यदतीव सुदुर्लभम् ॥

इदानीं ब्राह्मणार्थेऽहं कुर्वे तावदुपक्रमम्

॥७॥

ब्राह्मणाश्च विलोक्य मे ये हि पात्रतमा मताः ॥

तथा हि चात्र श्रूयंते वचांसि श्रुतिवादिनाम्

॥८॥

न जलोत्तरणे शक्ता यद्वन्नौः कर्णवर्जिता ॥

तद्वच्छ्रेष्ठोऽप्यनाचारो विप्रो नोद्धरणक्षमः

॥९॥

ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति ॥

तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते

॥१०॥

दानपात्रमतिक्रम्य यदपात्रे प्रदीयते ॥

तद्दत्तं गामतिक्रम्य गर्दभस्य गवाह्निकम्

॥११॥

ऊषरे वापितं बीजं भिन्नभांडे च गोदुहम् ॥

भस्मनीव हुतं हव्यं मूर्खे दानमशाश्वतम्

॥१२॥

विधिहीने तथाऽपात्रे यो ददाति प्रतिग्रहम् ॥

न केवलं हि तद्याति शेषं पुण्यं प्रणश्यति

॥१३॥

भूराप्ता गौस्तथा भोगाः सुवर्णं देहमेव च ॥

अश्वश्चक्षुस्तथा वासो घृतं तेजस्तिलाः प्रजाः

॥१४॥

घ्नंति तस्मादविद्वांस्तु बिभियाच्च प्रतिग्रहात् ॥

स्वल्पक केनाप्यविद्वांस्तु पंके गौरिव सीदति

॥१५॥

तस्माद्ये गूढतपसो गूढस्वाध्यायसाधकाः ॥

स्वदारनिरताः शांतास्तेषु दत्तं सदाऽक्षयम्

॥१६॥

देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् ॥

पात्रे प्रदीयते यत्तत्सकलं धर्मलक्षणम्

॥१७॥

न विद्यया केवलया तपसा वापि पात्रता ॥

यत्र वृत्तिमिमे चोभे तद्वि पात्रं प्रचक्षते

॥१८॥

तेषां त्रयाणां मध्ये च विद्या मुख्यो महागुणः ॥

विद्यां विनांधवद्विप्राश्चक्षुष्मंतो हि ते मताः

॥१९॥

तस्माच्चक्षुष्मतो विद्वान्देशे देशे परीक्षयेत् ॥

प्रश्रान्ये मम वक्ष्यंति तेभ्यो दास्याम्यहं ततः

॥२०॥

इति संचिंत्य मनसा तस्माद्देशात्समुत्थितः ॥

आश्रमेषु महर्षीणां विचराम्यस्मि फाल्गुन

॥२१॥

इमाञ्छ्लोकान्गायमानः प्रश्ररूपाञ्छृणुष्व तान् ॥

मातृकां को विजानाति कतिधा कीदृशाक्षराम्

॥२२॥

पंचपंचाद्भुतं गेहं को विजानाति वा द्विजः ॥

बहुरूपां स्त्रियं कर्तुमेकरूपां च वेत्ति कः

॥२३॥

को वा चित्रकथाबंधं वेत्ति संसारगोचरः ॥

को वार्णवमहाग्राहं वेत्ति विद्यापरायणः

॥२४॥

को वाष्टविधं ब्राह्मण्यं वेत्ति ब्राह्मणसत्तमः ॥

युगानां च चतुर्णां वा को मूलदिवसान्वदेत्

॥२५॥

चतुर्दशमनूनां वा मूलवासरं वेत्ति कः ॥

कस्मिंश्चैव दिने प्राप पूर्वं वा भास्करो रथम्

॥२६॥

उद्वेजयति भूतानि कृष्णाहिरिव वेत्ति कः ॥

को वास्मिन्घोरसंसारे दक्षदक्षतमो भवेत्

॥२७॥

पंथानावपि द्वौ कश्चिद्वेत्ति वक्ति च ब्राह्मणः ॥

इति मे द्वादश प्रश्रान्ये विदुर्ब्राह्मणोत्तमाः

॥२८॥

ते मे पूज्यतमास्तेषामहामाराधकश्चिरम् ॥

इत्यहं गायमानो वै भ्रमितः सकलां महीम्

॥२९॥

ते चाहुर्दुःखदाः ख्याताः प्रश्रास्ते कुर्महे नमः ॥

इत्यहं सकलां पृथ्वीं विचिंत्यालब्धब्राह्मणः

॥३०॥

हिमाद्रिशिखरासीनो भूयश्चिंतामवाप्तवान् ॥

सर्वे विलोकिता विप्राः किमतः कर्तुमुत्सहे

॥३१॥

ततो मे चिंतयानस्य पुनर्जाता मतिस्त्वियम् ॥

अद्यापि न गतश्चाहं कलापग्राममुत्तमम्

॥३२॥

यस्मिन्विप्राः संवसंति मूर्तानीव तपांसि च ॥

चतुराशीतिसाहस्राः श्रुताध्ययनशालिनः

॥३३॥

स्थाने तस्मिन्गमिष्यामीत्युक्त्वाहं चलितस्तदा ॥

खेचरो हिममाक्रम्य परं पारं गतस्ततः

॥३४॥

अद्राक्षं पुण्यभूमिस्थं ग्रामरत्नमहं महत् ॥

शतयोजनविस्तीर्णं नानावृक्षसमाकुलम्

॥३५॥

यत्र पुण्यवतां संति शतशः प्रवराश्रमाः ॥

सर्वेषामपि जीवानां यत्रान्योन्यं न दुष्टता

॥३६॥

यज्ञभाजां मुनीनां यदुपकारकरं सदा ॥

सतां धर्मवतां यद्वदुपकारो न शाम्यति

॥३७॥

मुनीनां यत्र परमं स्थानं चाप्यविनाशकृत् ॥

स्वाहास्वधावषट्कार हन्तकारो न नश्यति

॥३८॥

यत्र कृतयुगस्तार्थं बीजं पार्थावशिष्यते ॥

सूर्यस्य सोमवंशस्य ब्राह्मणानां तथैव च

॥३९॥

स्थानकं तत्समासाद्य प्रविष्टोऽहं द्विजाश्रमान् ॥

तत्र ते विविधान्वादान्विवदंते द्विजोत्तमाः

॥४०॥

परस्परं चिंतयाना वेदा मूर्तिधरा यथा ॥

तत्र मेधाविनः केचिदर्थमन्यैः प्रपूरितम्

॥४१॥

विचिक्षिपुर्महात्मानो नभोगतमिवामिषम् ॥

तत्राऽहं करमुद्यम्य प्रावोचं पूर्यतां द्विजाः

॥४२॥

काकारावैः किमतैर्वो यद्यस्ति ज्ञानशालिता ॥

व्याकुरुध्वं ततः प्रश्रान्मम दुर्विषहान्बहून्

॥४३॥

ब्राह्मणा ऊचुः

वद ब्राह्मण प्रश्रान्स्वाञ्छ्रुत्वाऽऽधास्यामहे वयम् ॥

परमो ह्येष नो लाभः प्रश्नान्पृच्छति यद्भवान्

॥४४॥

अहं पूर्विकया ते वै न्यषेधंत परस्परम् ॥

अहं पूर्वमहं पूर्वमिति वीरा यथा रणे

॥४५॥

ततस्तानब्रवं प्रश्रानहं द्वादश पूर्वकान् ॥

श्रुत्वा ते मामवोचंत लीलायंतो मुनीश्वराः

॥४६॥

किं ते द्विज बालप्रश्नैरमीभिः स्वल्पकैरपि ॥

अस्माकं यन्निहीनं त्वं मन्यसे स ब्रवीत्वमून्

॥४७॥

ततोतिविस्मितश्चाहं मन्यमानः कृतार्थताम् ॥

तेषां निहीनं संचिंत्य प्रावोचं प्रब्रवीत्वयम्

॥४८॥

ततः सुतनुनामा स बालोऽबालोऽभ्युवाच माम् ॥

मम मंदायते वाणी प्रश्नैः स्वल्पैस्तव द्विज ॥

तथापि वच्मि मां यस्मान्निहीनं मन्यते भवान्

॥४९॥

सुतनुरुवाच

अक्षरास्तु द्विपंचाशन्मातृकायाः प्रकीर्तिताः

॥५०॥

ॐकारः प्रथमस्तत्र चतुर्दश स्वरास्तथा ॥

स्पर्शाश्चैव त्रयस्त्रिंशदनुस्वारस्तथैव च

॥५१॥

विसर्ज्जनीयश्च परो जिह्वामूलीय एव च ॥

उपध्मानीय एवापि द्विपंचाशदमी स्मृताः

॥५२॥

इति ते कथिता संख्या अर्थं चैषां श्रृणु द्विज ॥

अस्मिन्नर्थे चेतिहासं तव वक्ष्यामि यः पुरा

॥५३॥

मिथिलायां प्रवृत्तोऽभूद्ब्राह्मणस्य निवेशने ॥

मिथिलायां पुरा पुर्यां ब्राह्मणः कौथुमाभिधः

॥५४॥

येन विद्याः प्रपठिता वर्तंते भुवि या द्विज ॥

एकत्रिंशत्सहस्राणि वर्षाणां स कृतादरः

॥५५॥

क्षणमप्यनवच्छिन्नं पठित्वा गेहवानभूत् ॥

ततः केनापि कालेन कौथुमस्याभवत्सुतः

॥५६॥

जडवद्वर्त्तमानः स मातृकां प्रत्यपद्यत ॥

पठित्वा मातृकामन्यन्नाध्येति स कथंचन

॥५७॥

ततः पिता खिन्नरूपी जडं तं समभाषत ॥

अधीष्व पुत्रकाधीष्व तव दास्यामि मोदकान्

॥५८॥

अथान्यस्मै प्रदास्यामि कर्णावुत्पाटयामि ते

॥५९॥

पुत्र उवाच

तात किं मोदकार्थाय पठ्यते लोभहेतवे ॥

पठनंनाम यत्पुंसां परामार्थं हि तत्स्मृतम्

॥६०॥

कौथुम उवाच

एवं ते वदमानस्य आयुर्भवतु ब्रह्मणः ॥

साध्वी बुद्धिरियं तेऽस्तु कुतो नाध्येष्यतः परम्

॥६१॥

पुत्र उवाच

तात सर्वं परिज्ञेयं ज्ञानमत्रैव वै यतः ॥

ततः परं कंठशोषः किमर्थं क्रियते वद

॥६२॥

पितोवाच

विचित्रं भाषसे बाल ज्ञातोऽत्रार्थश्च कस्त्वया ॥

ब्रूहि ब्रूहि पुनर्वत्स श्रोतुमिच्छामि ते गिरम्

॥६३॥

पुत्र उवाच

एकत्रिंशत्सहस्राणि पठित्वापि त्वया पितः ॥

नानातर्कान्भ्रांतिरेव संधिता मनसि स्वके

॥६४॥

अयमयं चायमिति धर्मो यो दर्शनोदितः ॥

तेषु वातायते चेतस्तव तन्नाशयामि ते

॥६५॥

उपदेशं पठस्येव नैवार्थज्ञोऽसि तत्त्वतः ॥

पाठमात्रा हि ये विप्रा द्विपदाः पशवो हि ते

॥६६॥

तत्ते ब्रवीमि तद्वाक्यं मोहमार्तंडमद्भुतम्

॥६७॥

अकारः कथितो ब्रह्मा उकारो विष्णुरुच्यते ॥

मकारश्च स्मृतो रुद्रस्त्रयश्चैते गुणाः स्मृताः

॥६८॥

अर्धमात्रा च या मूर्ध्नि परमः स सदाशिवः ॥

एवमोंकारमाहात्म्यं श्रुतिरेषा सनातनी

॥६९॥

ॐकारस्य च माहात्म्यं याथात्म्येन न शक्यते ॥

वर्षाणामयुतेनापि ग्रंथकोटिभिरेव वा

॥७०॥

पुनर्यत्सारसर्वस्वं प्रोक्तं तच्छ्रूयतां परम् ॥

अःकारांता अकाराद्या मनवस्ते चतुर्दश

॥७१॥

स्वायंभुवश्च स्वारोचिरौत्तमो रैवतस्तथा ॥

तामसश्चाक्षुषः षष्ठस्तथा वैवस्वतोऽधुना

॥७२॥

सावर्णिर्ब्रह्मसावर्णी रुद्रसावर्णिरेव च ॥

दक्षसावर्णिरेवापि धर्मसावर्णिरेव च

॥७३॥

रौच्यो भौत्यस्तथा चापि मनवोऽमी चतुर्दश ॥

श्वेतः पांडुस्तथा रक्तस्ताम्रः पीतश्च कापिलः

॥७४॥

कृष्णः श्यामस्तथा धूम्रः सुपिशंगः पिशंगकः ॥

त्रिवर्णः शबलो वर्णैः कर्कंधुर इति क्रमात्

॥७५॥

वैवस्वतः क्षकारश्च तात कृष्णः प्रदृश्यते ॥

ककाराद्य हकारांतास्त्रयस्त्रिंशच्च देवताः

॥७६॥

ककाराद्याष्ठकारांता आदित्या द्वादश स्मृताः ॥

धाता मित्रोऽर्यमा शक्रो वरुणाश्चांशुरेव च

॥७७॥

भगो विवस्वान्पूषा च सविता दशमस्तथा ॥

एकादशस्तथा त्वष्टा विष्णुर्द्वादश उच्यते

॥७८॥

जघन्यजः स सर्वेषामादित्यानां गुणाधिकः ॥

डकाराद्या बकारांता रुद्राश्चैकादशैव तु

॥७९॥

कपाली पिंगलो भीमो विरुपाक्षो विलोहितः ॥

अजकः शासनः शास्ता शंभुश्चण्डो भवस्तथा

॥८०॥

भकाराद्याः षकारांता अष्टौ हि वसवो मताः ॥

ध्रुवो घोरश्च सोमश्च आपश्चैव नलोऽनिलः

॥८१॥

प्रत्यूषश्च प्रभासश्च अष्टौ ते वसवः स्मृताः ॥

सौ हश्चेत्यश्विनौ ख्यातौ त्रयस्त्रिंशदिमे स्मृताः

॥८२॥

अनुस्वारो विसर्गश्च जिह्वामूलीय एव च ॥

उपध्मानीय इत्येते जरायुजास्तथांडजाः

॥८३॥

स्वेदजाश्चोद्भिजाश्चेति तत जीवाः प्रकीर्तिताः ॥

भावार्थः कथितश्चायं तत्त्वार्थं श्रृणु सांप्रतम्

॥८४॥

ये पुमांसस्त्वमून्देवान्समाश्रित्य क्रियापराः ॥

अर्धमात्रात्मके नित्ये पदे लीनास्त एव हि

॥८५॥

चतुर्णां जीवयोनीनां तदैव परिमुच्यते ॥

यदाभून्मनसा वाचा कर्मणा च यजेत्सुरान्

॥८६॥

यस्मिञ्छास्त्रे त्वमी देवा मानिता नैव पापिभिः ॥

तच्छास्त्रं हि न मंतव्यं यदि ब्रह्मा स्वयं वदेत्

॥८७॥

अमी च देवाः सर्वत्र श्रौते मार्गे प्रतिष्ठिताः ॥

पाषण्डशास्त्रे सर्वत्र निषिद्धाः पापकर्मभिः

॥८८॥

तदमून्ये व्यतिक्रम्य तपो दानमथो जपम् ॥

प्रकुर्वंति दुरात्मानो वेपते मरुतः पथि

॥८९॥

अहो मोहस्य माहात्म्यं पश्यताविजितात्मनाम् ॥

पठंति मातृकां पापा मन्यंते न सुरानिह

॥९०॥

सुतनुरुवाच

इति तस्य वचः श्रुत्वा पिताभूदतिविस्मितः ॥

पप्रच्छ च बहून्प्रश्रान्सोप्यवादीत्तथातथा

॥९१॥

मयापि तव प्रोक्तोऽयं मातृकाप्रश्र उत्तमः ॥

द्वितीयं श्रृणु तं प्रश्नं पंचपंचाद्भुतं गृहम्

॥९२॥

पंचभूतानि पञ्चैव कर्मज्ञानेंद्रियाणि च ॥

पंच पंचापि विषया मनोबुद्ध्यहमेव च

॥९३॥

प्रकृतिः पुरुषश्चैव पञ्चविंशः सदाशिवः ॥

पञ्चपञ्चभिरेततैस्तु निष्पन्नं गृहमुच्यते

॥९४॥

देहमेतदिदं वेद तत्त्वतो यात्यसौ शिवम् ॥

बहुरूपां स्त्रियं प्राहुर्बुद्धिं वेदांतवादिनः

॥९५॥

सा हि नानार्थभजनान्नानारूपं प्रपद्यते ॥

धर्मस्यैकस्य संयोगाद्बहुधाप्येकिकैव सा

॥९६॥

इति यो वेदे तत्त्वार्थं नासौ नरकमाप्नुयात् ॥

मुनिभिर्यश्च न प्रोक्तं यन्न मन्येत दैवतान्

॥९७॥

वचनं तद्बुधाः प्रहुर्बंधं चित्रकथं त्विति ॥

यच्च कामान्वितं वाक्यं पंचमं वाप्यतः श्रुणु

॥९८॥

एको लोभो महान्ग्राहो लोभात्पापं प्रवर्तते ॥

लोभात्क्रोधः प्रभवति लोभात्कामः प्रवर्तते

॥९९॥

लोभान्मोहश्च माया च मानः स्तम्भः परेष्सुता ॥

अविद्याऽप्रज्ञता चैव सर्वं लोभात्प्रवर्तते

॥१००॥

हरणं परवित्तानां परदाराभिमर्शनम् ॥

साहसानां च सर्वेषामकार्याणआं क्रियास्तथा

॥१०१॥

स लोभः सह मोहेन विजेतव्यो जितात्मना ॥

दम्भो द्रोहश्च निंदा च पैशुन्यं मत्सरस्तथा

॥१०२॥

भवन्त्येतानि सर्वाणि लुब्धानामकृतात्मनाम् ॥

सुमहां त्यपि सास्त्राणि धारयंति बहुश्रुताः

॥१०३॥

छेत्तारः संशयानां च लोभग्रस्ता व्रजंत्यधः ॥

लोभक्रोधप्रसक्ताश्च शिष्टाचारबहिष्कृताः

॥१०४॥

अन्तःक्षुरा वाङ्मधुराः कूपाश्धन्नास्तृणौरिव ॥

कुर्वते ये बहून्मार्गांस्तांस्तान्हेतुबलन्विताः

॥१०५॥

सर्वमार्गं विलुंमपंति लोभाज्जातिषु निष्ठुराः ॥

धर्मावतंसकाः क्षुद्रा मुष्णंति ध्वजिनो जगत्

॥१०६॥

एतेऽतिपापिनो ज्ञेया नित्यं लोभसमन्विताः ॥

जनको युवनाश्वश्च वृषादर्भिः प्रसेनजित्

॥१०७॥

लोभक्षयाद्दिवं प्राप्तास्तथैवान्ये जनाधिपाः ॥

तस्मात्त्यजंति ये लोभं तेऽतिक्रामंति सागरम्

॥१०८॥

संसाराख्यमतोऽनये ये ग्राहग्रस्ता न संशयः ॥

अथ ब्राह्मणभेदांस्त्वमष्टो विप्रावधारय

॥१०९॥

मात्रश्च ब्राह्मणश्चैव श्रोत्रियश्च ततः परम् ॥

अनूचानस्तथा भ्रूण ऋषिकल्प ऋषिर्मुनिः

॥११०॥

एते ह्यष्टौ समुद्दिष्टा ब्राह्मणाः प्रथमं श्रुतौ ॥

तेषां परः परः श्रेष्ठो विद्यावृत्तविशेषतः

॥१११॥

ब्राह्मणानां कुले जातो जातिमात्रो यदा भवेत् ॥

अनुपेतः क्रियाहीनो मात्र इत्यभिधीयते

॥११२॥

एकोद्देश्यमतिक्रम्य वेदस्याचारवानृजुः ॥

स ब्राह्मण इति प्रोक्तो निभृतः सत्यवाग्घृणी

॥११३॥

एकां शाखां सकल्पां च षड्भिरंगैरधीत्य च ॥

षट्कर्मनिरतो विप्रः श्रोत्रियोनाम धर्मवित्

॥११४॥

वेदवेदांगतत्त्वज्ञः शुद्धात्मा पापवर्जितः ॥

श्रेष्ठः श्रोत्रियवान्प्राज्ञः सोऽनूचान इति स्मृतः

॥११५॥

अनूचानगुणोपेतो यज्ञस्वाध्याययंत्रितः ॥

भ्रूण इत्युच्यते शिष्टैः शेषभोजी जितेंद्रियः

॥११६॥

वैदिकं लौकिकं चैव सर्वज्ञानमवाप्य यः ॥

आश्रमस्थो वशी नित्यमृषिकल्प इति स्मृतः

॥११७॥

ऊर्ध्वरेता भवत्यग्र्यो नियताशी नसंश यी ॥

शापानुग्रहयोः शक्तः सत्यसंधो भवेदृषिः

॥११८॥

निवृत्तः सर्वतत्त्वज्ञः कामक्रोधविवर्जितः ॥

ध्यानस्थानिष्क्रियो दांतस्तुल्यमृत्कांचनो मुनिः

॥११९॥

एवमन्वयविद्याभ्यां वृत्तेन च समुच्छ्रिताः ॥

त्रिशुक्लानाम विप्रेंद्राः पूज्यन्ते सवनादिषु

॥१२०॥

इत्येवंविधविप्रत्वमुक्तं श्रृणु युगादयः ॥

नवमी कार्तिके शुक्ला कृतादिः परिकीर्तिता

॥१२१॥

वैशाखस्य तृतीया या शुक्ला त्रेतादिरुच्यते ॥

माघे पञ्चदशीनाम द्वापरादिः स्मृता बुधैः

॥१२२॥

त्रयोदशी नभस्ये च कृष्णा सा हि कलेः स्मृता ॥

युगादयः स्मृता ह्येता दत्तस्याक्षयकारकाः

॥१२३॥

एताश्चतस्रस्तिथयो युगाद्या दत्तं हुतं चाक्षयमाशु विद्यात् ॥

युगेयुगे वर्षशतेन दानं युगादिकाले दिवसेन तत्फलम्

॥१२४॥

युगाद्याः कथिता ह्येता मन्वाद्याः श्रृणु सांप्रतम् ॥

अश्वयुक्छुक्लनवमी द्वादशी कार्तिके तथा

॥१२५॥

तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥

फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा

॥१२६॥

आषाढस्यापि दशमी माघमासस्य सप्तमी ॥

श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा

॥१२७॥

कार्तिकी फाल्गुनी चैत्री ज्येष्ठे पञ्चदशी सिता ॥

मन्वंतरादयश्चैता दत्तस्याक्षयकारकाः

॥१२८॥

यस्यां तिथौ रथं पूर्वं प्राप देवो दिवाकरः ॥

सा तिथिः कथिता विप्रैर्माघे या रथसप्तमी

॥१२९॥

तस्यां दत्तं हुतं चेष्टं सर्वमेवाक्षयं मतम् ॥

सर्वदारिद्र्यशमनं भास्करप्रीतये मतम्

॥१३०॥

नित्योद्वेजकमाहुर्यं बुधास्तं श्रृणु तत्त्वतः ॥

यश्च याचनिको नित्यं न स स्वर्गस्य भाजनम्

॥१३१॥

उद्वेजयति भूतानि यथा चौरास्तथैव सः ॥

नरकं याति पापात्मा नित्योद्वेगकरस्त्वसौ

॥१३२॥

इहोपपत्तिर्मम केन कर्मणा क्व च प्रयातव्यमितो मयेति ॥

विचार्य चैवं प्रतिकारकारी बुधैः स चोक्तो द्विज दक्षदक्षः

॥१३३॥

मासैरष्टभिरह्ना च पूर्वेण वयसायुषा ॥

तत्कर्म पुरुषः कुर्याद्येनांते सुखमेधते

॥१३४॥

अर्चिर्धूमश्च मार्गौ द्वावाहुर्वेदांतवादिनः ॥

अर्चिषा याति मोक्षं च धूमेनावर्तते पुनः

॥१३५॥

यज्ञैरासाद्यते धूमो नैष्कर्म्येणार्चिराप्यते ॥

एतयोरपरो मार्गः पाखंड इति कीर्त्यते

॥१३६॥

यो देवान्मन्यते नैव धर्मांश्च मनुसूचितान् ॥

नैतौ स याति पंथानौ तत्त्वार्थोऽयं निरूपितः

॥१३७॥

इते ते कीर्तिताः प्रश्राः शक्त्या ब्राह्मणसत्तम ॥

साधु वाऽसाधु वा ब्रूही ख्यापयात्मानमेव च

॥१३८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कलापग्रामवासिसुतनुब्राह्मणेन नारदप्रश्नोत्तरकथनंनाम पंचमोऽध्यायः ॥ ५ ॥