कामदहनः
नारद उवाच
एवं श्रुत्वा सभार्यः स प्रमोदप्लुतमानसः ॥
प्रणम्य मामिति प्राह यद्येवं पुण्यवानहम्
॥१॥पुनः किंचित्प्रवक्ष्यामि पुत्र्या मे दक्षिणः करः ॥
उत्तानः कारणं किं तच्छ्रोतुमिच्छामि नारद
॥२॥इति पृष्टोऽस्मि शैलेन प्रावोचं कारणं तदा ॥
सर्वदैव करो ह्यस्याः सर्वेषां प्राणिनां प्रति
॥३॥अभयस्य प्रदाताऽसावुत्तानस्तु करस्ततः ॥
एषा भार्या जगद्भर्तुर्वृषांकस्य महीधर
॥४॥जननी सर्वलोकस्य भाविनी भूतभाविनी ॥
तद्यथा शीघ्रमेवैषा योगं यातु पिनाकिना
॥५॥त्वया विधेयं विधिवत्तथा शैलेन्द्रसत्तम ॥
अस्त्यत्र सुमहतकार्यं देवानां हिमभूधर
॥६॥इति प्रोच्य तमापृच्छ्य प्रावोचं वासवाय तत् ॥
मम भूयस्तु कर्तव्यं तन्मया कृतमेव हि
॥७॥किं तु पंचशरः प्रेर्यः कार्यशेषेऽत्र वासव ॥
इत्यादिश्य गतश्चाहं तारकं प्रति फाल्गुन
॥८॥कलिप्रियत्वात्तस्यैनमर्थं कथयितुं स्फुटम् ॥
हिमाद्रिरपि मे वाक्यप्रेरितः पार्वतीं प्रति
॥९॥भवस्याराधनां कर्तुं ससखीमादिशत्तदा ॥
सा तं परिचचारेशं तस्या दृष्ट्वा सुशीलताम्
॥१०॥पुष्पतोयफलाद्यानि नियुक्ता पार्वती व्यधात् ॥
महेन्द्रोपि च मद्वाक्यात्स्मरं सस्मार भारत
॥११॥स च तत्स्मरणं ज्ञात्वा वसंतरतिसंयुतः ॥
चूतांकुरास्त्रःऋ सहसा प्रादुरासीन्मनोभवः
॥१२॥तमाह च वचो धीमान्स्मरन्निव च तं स्पृशन् ॥
उपदेशेन बहुना किं त्वां प्रति रतिप्रिय
॥१३॥चित्ते वससि तेन त्वं वेत्सि भूतमनोगतम् ॥
तथापि त्वां वदिष्यामि स्वकार्यपरतां स्मरन्
॥१४॥ममैकं सुमहत्कार्यं कर्तुमर्हसि मन्मथ ॥
महेश्वरं कृपानाथं सतीभार्यावियोजितम्
॥१५॥संयोजय पुनर्देव्या हिमाद्रिगृहजातया ॥
देवी देवश्च तुष्टौ ते करिष्यत इहेप्सितम्
॥१६॥मदन उवाच
अलीकमेतद्देवेन्द्र स हि देवस्य पोरतिः ॥
नान्यासादयितव्यानि तेजांसि मुनरब्रवीत्
॥१७॥वेदान्तेषु च मां विप्रा गर्हसंयति पुनःपुनः ॥
महाशनो महापाप्मा कामोऽयम नलो गहान्
॥१८॥आवृतं ज्ञानमेतेन ज्ञानिनां नित्यवैरिणा ॥
तस्मादयं सदा त्याज्यः कामऽहिरिव सत्तमैः
॥१९॥एवं शीलस्य मे कस्मात्प्रतुष्यति महेश्वरः ॥
मद्यपस्येव पापस्य वासुदेवो जगद्गुरः
॥२०॥इंद्र उवाच
मैवं ब्रूहि महाभाग त्वां विनाकः पुमान्भुवि ॥
धर्ममर्थं तथा कामं मोक्षं वा प्राप्तुमीश्वरः
॥२१॥यत्किंचित्साध्यते लोके मूलं तस्य च कामना ॥
कथं कामं विनिंदति तस्मात्ते मोक्षसाधकाः
॥२२॥सत्यं चापि श्रुतेर्वाक्यं तव रूपं त्रिधागतम् ॥
तामसं राजसं चैव सात्त्विकं चापि मन्मथ
॥२३॥अमुक्तितः कामनया रूपं तत्तामसं तव ॥
सुखबुद्ध्या स्पृहा या च रूपं तद्राजसं तव
॥२४॥केवलं यावदर्थार्थं तद्रूपं सात्त्विकं तव ॥
तत्ते रूपत्रयमिदं ब्रूहि नोपासते हि के
॥२५॥त्वं साक्षात्परमः पूज्यः कुरु कार्यमिदं हि नः ॥
अथ वा पीडितान्दृष्ट्वा सामान्यानपि पंडिताः ॥
स्वप्राणैरपि त्रायांति परमेतन्महाफलम्
॥२६॥इति संचिंत्य कार्यं त्वं सर्वथा कुरु तत्स्फुटम्
॥२७॥इत्या कर्ण्य तथेत्युक्त्वा वसंतरतिसंयुतः ॥
पिकादिसैन्यसंपन्नो हिमाद्रिं प्रययौ स्मरः
॥२८॥तत्रापश्यत शंभोः स पुण्यमाश्रममंडलम् ॥
नानावृक्षसमाकीर्णं शांतसत्त्वसमाकुलम्
॥२९॥तत्रापश्यत्त्रिनेत्रस्य वीरकंनाम द्वारपम् ॥
यथा साक्षान्महेशानं गणआंश्चायुतशोऽस्य च
॥३०॥ददर्श च महेशानं नासाग्रकृतलोचनम् ॥
देवदारुद्रुमच्छायावेदिका मध्यमाश्रितम् ॥
समाकायं सुखासीनं समाधिस्थं महेश्वरम्
॥३१॥निस्तरंगं विनिर्गृह्य स्थितमिंद्रियगोचरान् ॥
आत्मानमात्मना देवं प्रविष्टं तपसो निधिम्
॥३२॥तं तथाविधमालोक्य सोंतर्भेदाय यत्नवान् ॥
भ्रमरध्वनिव्याजेन विवेश मदनो मनः
॥३३॥एतस्मिन्नंतरे देवो विकासितविलोचनः ॥
सस्मार नगराजस्य तनयां रक्तमानसः
॥३४॥निवेदिता वीरकेण विवेश च गिरेः सुता ॥
तस्मिन्काले महाभागा सदा यद्वदुपैति सा
॥३५॥ततस्तस्यां मनः स्वीयमनुरक्तमवेक्ष्य च ॥
निगृह्य लीलया देवः स्वकं पृष्ठमवैक्षत ॥
तावदापूर्णधनुषमपश्यत रतिप्रियम्
॥३६॥तन्नाशकृपया देवो नानास्थानेषु सोऽगमत् ॥
तावत्पस्यति पृष्ठस्तमाकृष्य धनुषः शरम्
॥३७॥स नदीः पर्वताश्चैव आश्रमान्सरसीस्तथा ॥
परिभ्रमन्महादेवः पृष्ठस्थं तमवैक्षत
॥३८॥जगत्त्रयं परिभ्रम्य पुनरागात्स्वमाश्रमम् ॥
पृष्ठस्थमेव तं वीक्ष्य निःश्वासं मुमुचे हरः
॥३९॥ततस्तृतीयनेत्रोत्थवह्निना नाकवासिनाम् ॥
क्रोशतां गमितः कामो भस्मत्वं पांडुनंदन
॥४०॥सस तु तं भस्मसात्कृत्वा हरनेत्रोद्भवोऽनलः ॥
व्यजृंभत जगद्दग्धुं ज्वालापूरितदिङ्मुखः
॥४१॥ततो भवो जगद्धेतोर्व्यभजज्जातवेदसम् ॥
साहंकारे जने चंद्रे सुमनस्सु च गीतके
॥४२॥भृंगेषु कोकिलास्येषु विहारेषु स्मरानलम् ॥
तत्प्राप्तौ स्नेहसंयुक्तं कामिनां हृदयं किल
॥४३॥ज्वालयत्यनिशं सोऽग्निर्दुश्चिकित्स्योऽसुखावहः ॥
विलोक्य हरनिःश्वासज्वालाभस्मीकृतं स्मरम्
॥४४॥विललाप रतिर्द्दीना मधुना बंधुना सह ॥
विलपंती सुबहुशो मधुना परिसांत्विता
॥४५॥रत्याः प्रलापमाकर्ण्य देवदेवो वृषध्वजः ॥
कृपया परया प्राह कामपत्नीं निरीक्ष्य च
॥४६॥अमूर्तोऽपि ह्ययं भद्रे कार्यं सर्वं पतिस्तव ॥
रतिकाले ध्रुवं बाले करिष्यति न संशयः
॥४७॥यदा विष्णुश्च भविता वसुदेवात्मजो विभुः ॥
तदै तस्य सुतो यः स्यात्सपतिस्ते भविष्यति
॥४८॥सा प्रणम्य ततो रुद्रमिति प्रोक्ता रतिस्ततः ॥
जगाम स्वेच्छया गत्या वसंतादिभिरन्विता
॥४९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे कुमारेश्वरमाहात्म्ये कामदहनोनाम चतुर्विशोऽध्यायः ॥ २४ ॥