मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ४२

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 42

ऐतरेयब्राह्मणचरित्रवर्णनम्

नारद उवाच

ततो मया स्थापिते च स्थाने कालांतरेण ह ॥

चिंतितं हृदये भूयो द्विजानुग्रहकाम्यया

॥१॥

वासुदेवविहीनं हि तीर्थमेतन्न रोचते ॥

असूर्यं हि जगद्यद्वत्स हि भूषण भूषणम्

॥२॥

यत्र नैव हरिः स्वामी तीर्थे गेहेऽथ मानसे ॥

शास्त्रे वा तदसत्सर्वं हांसं तीर्थं न वायसम्

॥३॥

तस्मात्प्रसाद्य वरदं तीर्थेऽस्मिन्पुरुषोत्तमम् ॥

आनेष्ये कलया साक्षाद्विश्वनुग्रहकाम्यया

॥४॥

इति संचिंत्य कौरव्य ततोऽहं चात्र संस्थितः ॥

ज्ञानयोगेन योगींद्रं शतं वर्षाण्यतोषयम्

॥५॥

अष्टाक्षरं जपन्मंत्रं संनिगृह्येंद्रियाणि च ॥

वासुदेवमयो भूत्वा सर्वभूतकृपापरः

॥६॥

एवं मयाराध्यमानो गरुडं हरिरास्थितः ॥

गणकोटिपरिवृतः प्रत्यक्षः समजायत

॥७॥

तमहं प्रांजलिर्भूत्वा दत्त्वार्घ्यं विधिवद्धरेः ॥

प्रत्यवोचं प्रमम्याथ प्रबद्धकरसं पुटः

॥८॥

श्वेतद्वीपे पुरा दृष्टं मया रूपं तव प्रभो ॥

अजं सनातनं विष्णो नरनारायणात्मकम्

॥९॥

तद्रूपस्य कलामेकां स्थापयात्र जनार्दन ॥

यदि तुष्टोऽसि मे विष्णो तदिदं क्रियतां त्वया

॥१०॥

एवं मया प्रार्थितोऽथ प्रोवाच गरुडध्वजः ॥

एवमस्तु ब्रह्मपुत्र यत्त्वयाभीप्सितं हृदि

॥११॥

तत्तथा भविता सर्वमप्यत्रस्थं सदैव हि ॥

एवमुक्त्वा गते विष्णौ निवेश्य स्वकलां प्रभो

॥१२॥

मया संस्थापितो विष्णुर्लोकानुग्रहकाम्यया ॥

यस्मात्स्वयं श्वेतद्वीपनिवास्यत्र हरिः स्थितः

॥१३॥

वृद्धो विश्वस्य विश्वाख्यो वासुदेवस्ततः स्मृतः ॥

कार्तिके शुक्लपक्षे या भवत्ये कादशी शुभा

॥१४॥

स्नानं कृत्वा विधानेन तोयप्रस्रवणादिषु ॥

योर्चयेदच्युतं भक्त्या पंचोपचारपूजया

॥१५॥

उपोष्य जागरं कुर्याद्गीतवाद्यं हरेः पुरः ॥

कथां वा वैष्णवीं कुर्याद्दंभक्रोधविवर्जितः

॥१६॥

दानं दद्याद्यथाशक्त्या नियतो हृष्टमानसः ॥

अनेकभवसंभूतात्कल्मषादखिलादपि

॥१७॥

मुच्यतेऽसौ न संदेहो यद्यपि ब्रह्मघातकः ॥

गारुडेन विमानेन वैकुंठं पदमाप्नुयात्

॥१८॥

कुलानां तारयेत्पार्थ शतमेकोत्तरं नरः ॥

श्रद्धायुक्तं मुदा युक्तं सोत्साहं सस्पृहं तथा

॥१९॥

अहंकारविहीनं च स्नानं धूपानुपनम् ॥

पुष्पनैवेद्यसंयुक्तमर्घदानसमन्वितम्

॥२०॥

यामेयामे महाभक्त्या कृतारार्तिकसंयुतम् ॥

चामराह्लादसंयुक्तं भेरीनादपुरस्कृतम्

॥२१॥

पुराणश्रुतिसंपन्नं भक्तिनृत्यसमन्वितम् ॥

विनिद्रंक्षृत्तृषास्वादस्पृहाहीनं च भारत

॥२२॥

तत्पादसौरभघ्राणसंयुतं विष्णुवल्लभम् ॥

सगीतं सार्चनकरं तत्क्षेत्रगमनान्वितम्

॥२३॥

पायुरोधेन संयुक्तं ब्रह्मचर्यसमन्वितम् ॥

स्तुतिपाठेन संयुक्तं पादोदकविभूषितम्

॥२४॥

सत्यान्वितं सत्ययोगसंयुतं पुण्यवार्तया ॥

पंचविंशतिभिर्युक्तं गुणैर्यो जागरं नरः ॥

एकादश्यां प्रकुर्वीत पुनर्न जायते भुवि

॥२५॥

अत्र तीर्थवरे पूर्वमैतरेय इति द्विजः ॥

सिद्धिं प्राप्तो महाभागो वासुदेवप्रसादतः

॥२६॥

अर्जुन उवाच

ऐतरेयः कस्य पुत्रो निवासः क्वास्य वा मुने ॥

कथं सिद्धिमागाद्धीमान्वासुदेवप्रसादतः

॥२७॥

नारद उवाच

अस्मिन्नेव मम स्थाने हारीतस्यान्वयेऽभवत्

॥२८॥

मांडूकिरिति विप्राग्र्यो वेदवेदांगपारगः

॥२९॥

तस्यासी दितरा नाम भार्या साध्वीगुणैर्युता ॥

तस्यामुत्पद्यत सुतस्त्वैतरेय इति स्मृतः

॥३०॥

स च बाल्यात्प्रभृत्येव प्राग्जन्मन्यनुशिक्षितम् ॥

जजापमंत्रं त्वनिशं द्वादशाक्षरसंज्ञितम्

॥३१॥

न श्रृणोति न वक्त्येव मनसापि च किंचन ॥

एवंप्रभावः सोऽभूच्च बाल्ये विप्रसुतस्तदा

॥३२॥

ततो मूकोऽयमित्येव नानोपायैः प्रबोधितः ॥

पित्रा यदा न कुरुते व्यवहाराय मानसम्

॥३३॥

ततो निश्चित्य मनसा जडोयमिति भारत ॥

अन्यां विवाहयामास दारान्पुत्रांस्तथादधे

॥३४॥

पिंगानाम च सा भार्या तस्याः पुत्राश्च जज्ञिरे ॥

चत्वारः कर्मकुशला वेदवेदांगवादिनः

॥३५॥

यज्ञेषु शांतिहोमेषु द्विजैः सर्वत्र पूजिताः ॥

ऐतरेयोपि नित्यं च त्रिकालं हरिकंदिरे

॥३६॥

जजाप परमं जाप्यं नान्यत्र कुरुते श्रमम् ॥

ततो माता निरीक्ष्यैव सपत्नीतनयांस्तथा

॥३७॥

दार्यमाणेन मनसा तनयं वाक्यमब्रवीत् ॥

क्लेशायैव च जातोऽसि धिग्मे जन्म च जीवितम्

॥३८॥

नार्यास्तस्या नृलोकेऽत्र वरैवाजननिः स्फुटम् ॥

विमानिता या भर्त्रास्यान्न पुत्रः स्याद्गुणैर्युतः

॥३९॥

पिंगेयं कृतपुण्या वै यस्याः पुत्रा महागुणाः ॥

वेदवेदांगतत्त्वज्ञाः सर्वत्राभ्यर्चिता गुणैः

॥४०॥

तदहं पुत्र दुर्भाग्या महीसागरसंगमे ॥

निमज्जीष्ये वरं मृत्युर्जीविते किं फलं मम ॥

त्वमप्येवं महामौनी नन्द भक्तो हरेश्चिरम्

॥४१॥

नारद उवाच

इति मातुर्वचः श्रुत्वा प्रहसन्नैतरेयकः

॥४२॥

ध्यात्वा मुहुर्तं धर्मज्ञो मातरं प्रणतोऽब्रवीत् ॥

मातर्मिथ्याभिभूतासि अज्ञाने ज्ञानवत्यसि

॥४३॥

अशोच्ये शोचसि शुभे शोच्ये नैवाऽपि शोचसि ॥

देहस्यास्य कृते मिथ्यासंसारे किं विमुह्यसि

॥४४॥

मूर्खाचरितमेतद्धि मन्मातुरुचितं न हि ॥

अन्यत्संसारसारं च सारमन्यच्च मोहिताः

॥४५॥

प्रपश्यंति यथा रात्रौ खद्योतं दीपवत्स्थितम् ॥

यदिदं मन्यसे सारं श्रृणु तस्याप्यसारताम्

॥४६॥

एवंविधं हि मानुऽयमा गर्भादिति कष्टदम् अस्थिपट्टतुलास्तम्भे स्नायुबन्धेन यंत्रिते

॥४७॥

रक्तमांसमदालिप्ते विण्मूत्रद्रव्यभाजने ॥

केशरोमतृणच्छन्ने सुवर्णत्वक्सुधूतके

॥४८॥

वदनैकमहाद्वारे षड्गवाक्षवितभूषिते ॥

ओष्ठद्वयकाटे च तथा दंतार्गलान्विते

॥४९॥

नाडीस्वेदप्रवाहे च कालवक्त्रानलस्थिते ॥

एवंविधे गृहे गेही जीवो नामास्ति शोभने

॥५०॥

गुणत्रयमयी भार्या प्रकृतिस्तस्य तत्र च ॥

बोधाहंकारकामाश्च क्रोधलोभादयोऽपि च

॥५१॥

अपत्यान्यस्य हा कष्टमेवं मूढः प्रवर्तते ॥

तस्य योयो यथा मोहस्तथा तं श्रृणु तत्त्वतः

॥५२॥

स्रोतांसि यस्य सततं प्रस्रवंति गिरेरिव ॥

कफमूत्रादिकान्यस्य कृते देहस्य मुह्यति

॥५३॥

सर्वाशुचिनिधानस्य शरीरस्य न विद्यते ॥

शुचिरेकप्रदेशोऽपि विण्मूत्रस्य दृतेरिव

॥५४॥

स्पृष्ट्वा स्वदेहस्रोतांसि मृत्तोयैः शोध्यते करः ॥

तथाप्यशुचिभांडस्य न विरज्यति किं नरः

॥५५॥

कायः सुगन्धतोयाद्यैर्यत्नेनापि सुसंस्कृतः ॥

न जहाति स्वकं भावं श्वपुच्छमिव नामितम्

॥५६॥

स्वदेहाशुचिगंधेन न विरज्यति यो नरः ॥

विरागे कारणं तस्य किमन्यदु पदिश्यते

॥५७॥

गन्धलेपापनोदार्थं शौचं देहस्य कीर्तितम् ॥

द्वयस्यापगमात्पश्चाद्भावशुद्ध्या विशुध्यति

॥५८॥

गंगातोयेन सर्वेण मृद्भारैः पर्वतोपमैः ॥

आ मृत्योराचरञ्छौचं भावदुष्टो न शुध्यति

॥५९॥

तीर्थस्नानैस्तपोभिर्वा दुष्टात्मा नैव शुध्यति ॥

स्वेदितः क्षालितस्तीर्थे किं शुद्धिमधिगच्छति

॥६०॥

अंतर्भावप्रदुष्टस्य विशतोऽपि हुताशनम् ॥

न स्वर्गो नापपर्गश्च देहनिर्दहनं परम्

॥६१॥

भावशुद्धिः परं शौचं प्रमाणं सर्वकर्मसु ॥

अन्यथालिंग्यते कांता भावेन दुहिताऽन्यथा

॥६२॥

अन्यथैव स्तनं पुत्रश्चिंतयत्यन्यथा पतिः ॥

चित्तं विशोधयेत्तस्मात्किमन्यैर्बाह्यशोधनैः

॥६३॥

भावतः संविशुद्धात्मा स्वर्गं मोक्षं च विंदति ॥

ज्ञानामलांभसा पुंसः सद्वैराग्यमृदा पुनः

॥६४॥

अविद्यारागविण्मूत्रलेपगंधविशोधनम् ॥

एवमेतच्छरीरं हि निसर्गादशुचि विदुः

॥६५॥

त्वङ्मात्रसारनिःसारं कदलीसारसंनिभम् ॥

ज्ञात्वैवं दोषवद्देहं यः प्राज्ञः शिथिलीभवेत्

॥६६॥

स निष्क्रामति संसारे दृढग्राही स तिष्ठति ॥

एवमेतन्महाकष्टं जन्म दुःखं प्रकीर्तितम्

॥६७॥

पुंसामज्ञातदोषेण नानाकर्मवशेन च ॥

यथा गिरिवराक्रांतः कश्चिद्दुःखेन तिष्ठति

॥६८॥

यथा जरायुणा देही दुःखं तिष्ठति वेष्टितः ॥

पतितः सागरे यद्वद्दृःखमास्ते समाकुलः

॥६९॥

गर्भोदकेन सिक्तांगस्तथाऽऽस्ते व्याकुलः पुमान् ॥

लोहकुम्भे यथान्यस्त पच्यते कश्चिदग्निना

॥७०॥

गर्भकुम्भे तथा क्षिप्तः पच्यते जठराग्निना ॥

सूचीभिरग्निवर्णाभिर्विभिन्नस्य निरन्तरम्

॥७१॥

यद्दुःखं जायते तस्य तद्गर्भेऽष्टगुणं भवेत् ॥

इत्येतद्गर्भदुःखं हि प्राणिनां परिकीर्तितम्

॥७२॥

चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः ॥

तत्रस्थस्य च सर्वेषां जन्मनां स्मरणं भवेत्

॥७३॥

मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः ॥

नानायोनिसहस्राणि मया दृष्टान्वनेकधा

॥७४॥

अधुना जातमात्रोऽहं प्राप्तसंस्कार एव च ॥

ततः श्रेयः करिष्यामि येन गर्भो न संभवेत्

॥७५॥

अध्येष्यामि हरेर्ज्ञानं संसारविनिवर्तनम् ॥

एवं संचिंतयन्नास्ते मोक्षोपायं विचिन्तयन्

॥७६॥

गभात्कोटिगुणं दुःखं जायमानस्य जायते ॥

गर्भवासे स्मृतिर्यासीत्सा जातस्य प्रणश्यति

॥७७॥

स्पृष्टमात्रस्य बाह्येन वायुना मूढता भवेत् ॥

संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः

॥७८॥

स्मृतिभ्रंशात्ततस्तस्य पूर्वकर्मवशेन च ॥

रतिः संजायते तूर्णं जंतोस्तत्रैव जन्मनि

॥७९॥

रक्तो मूढश्च लोकोयमकार्ये संप्रवर्तते ॥

तत्रात्मानं न जानाति न परं न च दैवतम्

॥८०॥

न श्रृणोति परं श्रेयः सति चक्षुषि नेक्षते ॥

समे पथि समैर्गच्छन्स्खलतीव पदेपदे

॥८१॥

सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि ॥

संसारे क्लिश्यते तेन रागमोहवशानुगः

॥८२॥

गर्भस्मृतेरभावेन शास्त्रमुक्तं महर्षिभिः ॥

तद्दृःखकथनार्थाय स्वर्गमोक्षप्रसाधकम्

॥८३॥

ये शास्त्रज्ञाने सत्यस्मिन्सर्वकर्मार्थसाधके ॥

न कुर्वंत्यात्मनः श्रेयस्तदत्र परमद्भुतम्

॥८४॥

अव्यक्तेन्द्रियवृत्तित्वाद्बाल्ये दुःखं महत्पुनः ॥

इच्छन्नपि न शक्नोति वक्तुं कर्तुं च किञ्चन

॥८५॥

दंतोत्थाने महद्दुःखं मौलेन व्याधिना तथा ॥

बालरोगैश्च विविधैः पीडा बालग्रहैरपि

॥८६॥

तृड्बुभुक्षापरीतांगः क्वचित्तिष्ठति रारटन् ॥

विण्मूत्रभक्षणाद्यं च मोहाद्बालः समाचरेत्

॥८७॥

कौमारे कर्णवेधेन मातापित्रोर्विताडनैः ॥

अक्षराध्ययनाद्यैश्च दुःखं स्याद्गुरुशासनात्

॥८८॥

प्रमत्तेंद्रियवृत्तैश्च कामरागप्रपीडनात् ॥

रागोद्वृत्तस्य सततं कुतः सौख्यं हि यौवने

॥८९॥

ईर्ष्यया सुमहद्दुःखं मोहाद्रक्तस्य जायते ॥

मत्तस्य कुपितस्यैव रागो दोषाय केवलम्

॥९०॥

न रात्रौ विंदते निद्रा कामाग्निपरिखेदितः ॥

दिवापि हि कुतः सौख्यमर्थोपार्जनचिंतया

॥९१॥

नारीषु त्वनुभूतासु सर्वदोषाश्रयासु च ॥

विण्मुत्रोत्सर्गसदृशं सौख्यं मैथुनजं स्मृतम्

॥९२॥

सन्मानमपमानेन वियोगेनेष्टसंगमः ॥

यौवनं जरया ग्रस्तं क्व सौख्यमनुपद्रवम्

॥९३॥

वलीपलितकायेन शिथिलीकृतविग्रहः ॥

सर्वक्रियास्वशक्तश्च जरयाजर्ज्जरीकृतः

॥९४॥

स्त्रीपुंसोर्यौवनं रूपं यदन्योन्याश्रयं पुरा ॥

तदेवं जरया ग्रस्तमुभयोरपि न प्रियम्

॥९५॥

जराभिभूतःपुरुषः पत्नीपुत्रादिबांधवैः ॥

अशक्तत्वाद्दुराचारैर्भृत्यैश्च परिभूयते

॥९६॥

धर्ममर्थं च कामं च मोक्षं च नातुरो यतः ॥

शक्तः साधयितुं तस्माद्युवा धर्मं समाचरेत्

॥९७॥

वातपित्तकफादीनां वैषम्यं व्याधिरुच्यते ॥

वातादीनां समूहश्च देहोऽयं परिकीर्तितः

॥९८॥

तस्माद्व्याधिमयं ज्ञेयं शरीरमिदमात्मनः ॥

रोगैर्नानाविधैर्यांति देहे दुःखान्यनेकशः

॥९९॥

तानि न स्वात्मवेद्यानि किमन्यत्कथयाम्यहम् ॥

एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम्

॥१००॥

तत्रैकः कालसंयुक्तः शेषास्त्वागंतवः स्मृताः ॥

ये त्विहागंतवः प्रोक्तास्ते प्रशाम्यन्ति भेषजैः

॥१०१॥

जपहोमप्रदानैश्च कालमृत्युर्न शाम्यति ॥

विविधा व्याधयः शस्ताः सर्पाद्याः प्राणिनस्तथा

॥१०२॥

विषाणि चाभिचाराश्च मृत्योर्द्वाराणि देहिनाम् ॥

पीडितं सर्परोगाद्यैरपि धन्वंतरिः स्वयम्

॥१०३॥

स्वस्थीकर्तुं न शक्नोति कालप्राप्तं हि देहिनम् ॥

नैषधं न तपो मंत्रा न मित्राणि न बांधवाः

॥१०४॥

शक्नुवंति परित्रातुं नरं कालेन पीडितम् ॥

रसायनतपोजप्यैर्योगसिद्धैर्महात्मभिः

॥१०५॥

कालमृत्युरपि प्राज्ञैर्नीयते नापि संयुतैः ॥

नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम्

॥१०६॥

नास्ति मृत्युसमस्रासः सर्वेषामपि देहिनाम् ॥

सद्भार्यापुत्रमित्राणि राज्यैश्वर्यसुखानि च

॥१०७॥

आबद्धानि स्नेहपाशैर्मृत्युः सर्वाणि कृंतति ॥

किं न पश्यसि मातस्त्वं सहस्रस्यापि मध्यतः

॥१०८॥

जनाः शतायुषः पंचभवंति न भवन्ति वा ॥

अशीतिका विपद्यन्ते केचित्सप्ततिका नराः

॥१०९॥

परमायुः स्थिता षष्टिस्तदप्यस्ति न निष्ठितम् ॥

तस्य यावद्भवेदायुर्देहिनः पूर्वकर्म भिः

॥११०॥

तस्यार्धमायुषो रात्रिर्हरते मृत्युरूपिणी ॥

बालभावेन मोहेन वार्धके जरया तथा

॥१११॥

वर्षाणां विंशतिर्याति धर्मकामार्थवर्जितः ॥

आगन्तुकैर्भवैः पुंसां व्याधिशोकैरनेकधा

॥११२॥

ह्रियतेर्द्धं हि तत्रापि यच्छेषं तद्धि जीवितम् ॥

जीवितांतेच मरणं महाघोरमवाप्नुयात्

॥११३॥

जायते योनिकोटीषु मृतः कर्मवशात्पुनः ॥

देहभेदेन यः पुंसां वियोगः कर्मसंख्यया

॥११४॥

मरणं तद्विनिर्द्दिष्टं न नाशः परमार्थतः ॥

महातमःप्रविष्टस्य च्छिद्यमानेषु मर्मसु

॥११५॥

यद्दुःखं मरणं जंतोर्न तस्येहोपमा क्वचित् ॥

हा तात मातर्हा कांते क्रंदत्येवं सुदुःखितः

॥११६॥

मण्डूक इव सर्पेण गीर्यते मृत्युना जनः ॥

बांधवैः संपरित्यक्तः प्रियैश्च परिवारितः

॥११७॥

निःश्वसन्दीर्घमुष्णं च मुकेन परिशुष्यता ॥

चतुरंतेषु खट्वायाः परिवर्तन्मुहुर्मुहुः

॥११८॥

संमूढः क्षिपतेत्यर्थं हस्तपादावितस्ततः ॥

खट्वातो वांछते भूमिं भूमेः खट्वां पुनर्महीम्

॥११९॥

विवस्त्रो मुक्तलज्जश्च विष्ठानुलेपितः ॥

याचमानश्च सलिलं शुष्ककण्ठोष्ठतालुकः

॥१२०॥

चिंतयानः स्ववित्तानि कस्यैतानि मृते मयि ॥

पंचावटान्खनमानः कालपाशेन कर्षितः

॥१२१॥

म्रियते पश्यतामेव गले घुर्घुररावकृत् ॥

जीवस्तृणजलूकेव देहाद्देहं विशेत्क्रमात्

॥१२२॥

संप्राप्योत्तरमंशेन देहं त्यजति पूर्वकम् ॥

मरणात्प्रार्थना दुःखमधिकं हि विवेकिनः

॥१२३॥

क्षणिकं मरणे दुःखमनंतं प्रार्थनाकृतम् ॥

ज्ञातं मयैतदधुना मृतो भवति यद्गुरुः

॥१२४॥

न परः प्रार्थयेद्भूयस्तृष्णा लाघवकारणम् ॥

आदौ दुःखं तथा मध्ये ह्यन्त्ये दुःखं च दारुणम्

॥१२५॥

निसर्गात्सर्वभूतानामिति दुःखपरंपरा ॥

क्षुधा च सर्वरोगाणां व्याधिः श्रेष्ठतमः स्मृतः

॥१२६॥

स चान्नौषधिलेपेन क्षणमात्रं प्रशाम्यति ॥

क्षुद्ध्याधेर्वेदना तीव्रा निःशेषबलकृन्तनी

॥१२७॥

तयाभिभूतो म्रियते यथान्यैर्व्याधिभिर्न्नरः ॥

राज्ञोऽभिमानमात्रं हि ममैव विद्यते गृहे

॥१२८॥

सर्वमाभरणं भारं सर्वमालेपनं मम ॥

सर्वं प्रलापितं गीतं नित्यमुन्मत्तचेष्टितम्

॥१२९॥

इत्येवं राज्यसंभोगैः कुतः सौख्यं विचारतः ॥

नृपाणां व्यग्रचित्तानामन्योन्यविजिगीषया

॥१३०॥

प्रायेण श्रीमदालेपान्नहुषाद्या महानृपाः ॥

स्वर्गं प्राप्यापि पतिताः कः श्रियो विंदते सुखम्

॥१३१॥

उपर्युपरि देवानामन्योन्यातिशये स्थितम् ॥

नरैः पुण्यफलं स्वर्गे मूलच्छेदेन भुज्यते

॥१३२॥

न चान्यत्क्रियते कर्म सोऽत्र दोषः सुदारुणः ॥

छिन्नमूलतरुर्यद्वदवशः पतते क्षितौ

॥१३३॥

पुण्यमूलक्षये तद्वत्पातयंति दिवौकसः ॥

इति स्वर्गेपि देवानां नास्ति सौख्यं विचारतः

॥१३४॥

तथा नारकिणां दुःखं प्रसिद्धं किं च वर्ण्यते ॥

स्थावरेष्वपिदुःखानि दावाग्निहिमशोषणम्

॥१३५॥

कुठारैश्ठेदनं तीव्रं वल्कलानां च तक्षणम् ॥

पर्णशखाफलानां च पातनं चंडवायुना

॥१३६॥

अपमर्दश्च सततं गजैर्वन्यैश्च देहिभिः ॥

तृड्‌बुभुक्षा च सर्पाणां क्रोधो दुःखं च दारुणम्

॥१३७॥

दुष्टानां घातनं लोके पाशेन च निबन्धनम् ॥

एवं सरीसृपाणां च दुःखं मातर्मुहुर्मुहुः

॥१३८॥

अकस्माज्जन्ममरणं कीटादीनां तथाविधम् ॥

वर्षाशीतातपैर्दुःखं सुकष्टं मृगपक्षिणाम्

॥१३९॥

क्षुत्तृट्‌क्लेशेन महता संत्रस्ताश्च सदा मृगाः ॥

पशुनागनिकायानां श्रृणु दुःखानि यानि च

॥१४०॥

क्षुत्तृट्‌छीतादिदमनं वधबन्धनताडनम् ॥

नासाप्रवेधनं त्रासः प्रतोदांकुशताडनम्

॥१४१॥

वेणुकुन्तादिनिगडमुद्गरांऽकुशताडनम् ॥

भारोद्वहनसंक्लेशं शिक्षायुद्धादिपीडनम्

॥१४२॥

आत्मयूथवियोगश्च वने च नयनादिकम् ॥

दुर्भिक्षं दुर्भगत्वं च मूर्खत्वं च दरिद्रता

॥१४३॥

अधरोत्तरभावश्च मरणं राष्ट्रविभ्रमः ॥

अन्योन्याभिभवाद्दुःखमन्योन्यातिशयात्पुनः

॥१४४॥

अनित्यता प्रभावाणामुच्छ्रयाणां च पातनम् ॥

इत्येवमादिभिर्दुःखैर्यस्माद्व्याप्तं चराचरम्

॥१४५॥

निरयादिमनुष्यांतं तस्मात्सर्वं त्यजेद्बुधः ॥

स्कन्धात्सकन्धं नयेद्भारं विश्रामं मन्यतेन्यथा

॥१४६॥

तद्वत्सर्वमिदं लोके दुःखं दुःखेन शाम्यति ॥

एवमेतज्जगत्सर्वमन्योन्यातिशयोच्छ्रितम्

॥१४७॥

दुःखैराकुलितं ज्ञात्वा निर्वेदं परमाप्नुयात् ॥

निर्वेदाच्च विरागः स्याद्विरागाज्ज्ञानसंभवः

॥१४८॥

ज्ञानेन तं परं ज्ञात्वा विष्णुं मुक्तिमवाप्नुयात् ॥

नाहमेतादृशे लोके रमेयं जननि क्वचित्

॥१४९॥

राजहंसो यथा शुद्धः काकामेध्यप्रदर्शकः ॥

श्रृणु मातर्यत्र संस्थो रमेयं निरुपद्रवः

॥१५०॥

अविद्यायनमत्युग्रं नानाकर्मातिशाखिनम् ॥

संकल्पदंशमकरं शोकहर्षहिमातपम्

॥१५१॥

मोहांधकारतिमिरं लोभव्यालसरीसृपम् ॥

विषयानन्यथाध्वानं कामक्रोधविमोक्षकम्

॥१५२॥

तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ॥

न तत्प्रविश्य शोचंति न प्रदुष्यंति तद्विदः

॥१५३॥

न च बिभ्यति केषांचिन्नास्य बिभ्यति केचन

॥१५४॥

तस्मिन्वने सप्तमहाद्रुमास्तु सप्तैव नद्यश्च फलानि सप्त ॥

सप्ताश्रमाः सप्त समाधयश्च दीक्षाश्च सप्तैतदरण्यरूपम्

॥१५५॥

पंचवर्णानि दिव्यानि चतुर्वर्णानि कानिचित् ॥

त्रिद्विवर्णैकवर्णानि पुष्पाणि च फलानि च

॥१५६॥

सृजंतः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम्

॥१५७॥

सप्त स्त्रियस्तत्र वसंति सत्यस्त्ववाङ्मुख्यो भानुमतो भवंति ॥

ऊर्ध्वं रसानाददते प्रजाभ्यः सर्वाश्च तास्तत्त्वतः कोपि वदे

॥१५८॥

सप्तैव गिरयश्चात्र धृतं यैर्भुवनत्रयम् ॥

नद्यश्च सरितः सप्त ब्रह्मवारिवहाः सदा

॥१५९॥

तेजश्चाभयदानत्वमद्रोहः कौशलं तथा ॥

अचापल्यमथाक्रोधः प्रियवादश्च सप्तमः

॥१६०॥

इत्येते गिरयो ज्ञेयास्तस्मिन्विद्यावने स्थिताः ॥

दृढनिश्चयस्तथा भासा समता निग्रहो गुणः

॥१६१॥

निर्ममत्वं तपश्चात्र सन्तोषः सप्तमो ह्रदः ॥

भगवद्गुणविज्ञानाद्भक्तिः स्यात्प्रथमा नदी

॥१६२॥

पुष्पादिपूजा द्वितीया तृतीया च प्रदक्षिणा ॥

चतुर्थी स्तुतिवाग्रूपा पञ्चमी ईश्वरार्पणा

॥१६३॥

षष्ठी ब्रह्मैकता प्रोक्ता सप्तमी सिद्धिरेव च ॥

सप्त नद्योऽत्र कथिता ब्रह्मणा परमेष्ठिना

॥१६४॥

ब्रह्मा धर्मो यमश्चाग्निरिंद्रो वरुण एव च

॥१६५॥

धनदश्च ध्रुवादीनां सप्तकानर्चयंत्यमी ॥

नदीनां संगमस्तत्र वैकुंठसमुपह्वरे

॥१६६॥

आत्मतृप्ता यतो यांति शांता दांताः परात्परम् ॥

केचिद्द्रुमाः स्त्रियः केचित्केचित्तत्त्वविदोऽपरे

॥१६७॥

सरितः केचिदाहुः स्म सप्तैव ज्ञानवित्तमाः ॥

अनपेतव्रतकामोऽत्र ब्रह्मचर्यं चरामि च

॥१६८॥

ब्रह्मैव समिधस्तत्र ब्रह्माग्निर्ब्रह्म संस्तरः ॥

आपो ब्रह्म गुरुब्रह्म ब्रह्मचर्यमिदं मम

॥१६९॥

एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः ॥

गुरुं च श्रृणु मे मातर्यो मे विद्याप्रदोऽभवत्

॥१७०॥

एकः शास्ता न द्वितीयोऽस्ति शास्ता हृद्येव तिष्ठन्पुरुषं प्रशास्ति ॥

तेनाभियुक्तः प्रणवादिवोदकं यता नियुक्तोस्मि तथाचरामि

॥१७१॥

एको गुरुर्नास्ति तथा द्वितीयो हृदि स्थितस्तमहं नृ ब्रवीमि ॥

यं चावमान्यैव गुरुं मुकुन्दं पराभूता दानवाः सर्व एव

॥१७२॥

एको बंधुर्नास्ति ततो द्वितीयो हृदी स्थितं तमहमनुब्रवीमि ॥

तेनानुशिष्टा बांधवा बंधुमंतः सप्तर्षयः सप्त दिवि प्रभांति

॥१७३॥

ब्रह्मचर्यं च संसेव्यं गार्हस्थ्य श्रृणु यादृशम् ॥

पत्नी प्रकृतिरूपा मे तच्चित्तो नास्मि कर्हिचित्

॥१७४॥

मच्चित्ता सा सदा मातर्मम सर्वार्थसाधनी ॥

घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पंचमम्

॥१७५॥

मनो बुद्धिश्च सप्तैते दीप्यंते पावका मम ॥

गंधो रसश्च रूपं च शब्दः स्पर्शश्च पंचमम्

॥१७६॥

मंतव्यमथ बोद्धव्यं सप्तैताः समिधो मम ॥

हुतं नारायणध्यानाद्भुंक्ते नारायणः स्वयम्

॥१७७॥

एवंविधेन यज्ञेन यजाम्यस्मि तमीश्वरम् ॥

अकामयानस्य च सर्वकामो भवेदद्विषाणस्य च सर्वदोषः

॥१७८॥

न मे स्वभावेषु भवंति लेपास्तोयस्य बिंदोरिव पुष्करेषु ॥

नित्यस्य मे नैव भवंत्यनित्या निरीक्षमाणस्य बहुस्यभावात्

॥१७९॥

न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम्

॥१८०॥

एवंविधेन पुत्रेण मा मातर्दुःखिनी भव ॥

तत्पदं त्वा च नेष्यामि न यत्क्रतुशतैरपि

॥१८१॥

इति पुत्रवचः श्रुत्वा विस्मिता इतराभवत् ॥

चिंतयामास यद्येवं विद्वान्मम सुतो दृढम्

॥१८२॥

लोकेषु ख्यातिमायाति ततो मे स्याद्यशः परम् ॥

इत्यादि चिंतयंत्यां च रजन्यां भगवान्हरिः

॥१८३॥

प्रहृष्टस्तस्य तैर्वाक्यैर्विस्मितः प्रादुरास च ॥

मूर्तेः स्वयं विनिष्क्रम्य शंखचक्रगदाधराः

॥१८४॥

जगदुद्भासयन्भासा सूर्यकोटिसमप्रभः ॥

ततो निष्पत्य धरणीं हृष्टरोमाश्रुद्गदः

॥१८५॥

मूर्ध्नि बद्धांजलिं धीमानैतरेयोऽथ तुष्टुवे

॥१८६॥

नमस्तुभ्यं भगवते वासुदेवाय धीमहि ॥

प्रद्युम्नायानिरुद्धाय नमः संकर्षणाय च

॥१८७॥

नमो विज्ञानमात्राय परमानंदमूर्तये ॥

आत्मारामाय शांताय निवृत्तद्वैतदृष्टये

॥१८८॥

आत्मानंदानुरुद्धाय सम्यक्तयक्तोर्मये नमः ॥

हृषीकेशाय महते नमस्तेऽनंतशक्तये

॥१८९॥

वचस्युपरते प्राप्यो य एको मनसा सह ॥

अनामरूपचिन्मात्रः सोऽव्यान्नः सदसत्परः

॥१९०॥

यस्मिन्निदं यतश्चेदं तिष्ठत्यपैति जायते ॥

मृन्मयेष्विव मृज्जातिस्तस्मै ते ब्रह्मणे नमः

॥१९१॥

यं न स्पृशंति न विदुर्मनोबुद्धींद्रियासवः ॥

अंतर्बहिश्च विततं व्योमवत्प्रणतोऽस्म्यहम्

॥१९२॥

देहेंद्रियप्राणमनोधियोऽमी यदंशब्द्धाः प्रचरंति कर्मसु ॥

नैवान्यदालोहमिव प्रतप्तं स्थानेषु तद्दृष्टपदेन एते

॥१९३॥

चतुर्भिश्च त्रिभिर्द्वाभ्यामेकधा प्रणमामि तम् ॥

पूर्वापरापरयुगे शास्तारं परमीश्वरम्

॥१९४॥

हित्वा गतीर्मोक्षकामा यं भजंति दशात्मकम् ॥

तं परं सत्यममलं त्वां वयं पर्युपास्महे

॥१९५॥

ॐनमो भगवते महापुरुषाय महानुभावाय विभूतिपतये सकलसात्वतपरिवृढनिकरकरकमलोत्पलकुड्मलोपलालितचरणारविंदयुगल परमपरमेष्ठिन्नमस्ते

॥१९६॥

तवाग्निरास्यं वसुधांघ्रियुग्मं नभः शिरश्चंद्ररवी च नेत्रे ॥

समस्तलोका जठरं भुजाश्च दिशश्चतस्रो भगवन्नमस्ते

॥१९७॥

जन्मानि तावंति न संति देव निष्पीड्य सर्वाणि च सर्वकालम् ॥

भूतानि यावंति मयात्र भीमे पीतानि संसारमहासमुद्रे

॥१९८॥

संपच्छिलानां हिमवन्महेंद्रकैलासमेर्वादिषु नैव तादृक् ॥

देहाननेकाननुगृह्णतो मे प्राप्तास्ति संपन्महती तथेश

॥१९९॥

न संतिते देव भुवि प्रदेशा न येषु जातोऽस्मि तथा विनष्टः ॥

भूत्वा मया येषु न जंतवश्च संभक्षितो वा न च भूतसंघैः

॥२००॥

शोकाभिभूतस्य ममाश्रु देव यावत्प्रमाणं पतितं भवेषु ॥

तावत्प्रमाणं न जलं पयोदा मुंचंति दिव्यैरपि वर्षलक्षैः

॥२०१॥

मन्ये धरित्रीपरमाणुसंख्यामुपैति पित्रोर्गणना न मह्यम् ॥

मित्राव्यमित्राण्यनुजीव्यबंधून्संख्यातुमीशोऽस्मिन देवदेव

॥२०२॥

त्वय्यर्पितं नाथ पुनः पुनर्मे मनः समाक्षिप्य सुदुर्द्धरारि ॥

कामो वशं क्रधमुखैः सहायैः करोति किं तद्भगवन्करोमि

॥२०३॥

सोऽहं भृशार्तः करुणाकरस्त्वं संसारगर्ते पतितस्य विष्णो ॥

महात्मनां संश्रयमभ्युपेतो नैवावसीदत्यपि दुर्गतोऽपि

॥२०४॥

परायणं रोगवतो हि वैद्यो महाब्धिमग्नस्य च नौर्नरस्य ॥

बालस्य मातापितरौ सुघोरसंसारखिन्नस्य हरे त्वमेव

॥२०५॥

प्रसीद सर्वेश्वर सर्वभूत सर्वस्य हेतो परमार्थसार ॥

मामुद्धरास्मादुरुदुःखसंघात्संसारगर्तात्स्वपरिग्रहेण

॥२०६॥

क्षृत्तृट्‌त्रिधातुभिरिमं मुहुरर्द्यमानं शीतोष्ण वातसलिलैरितरेतराच्च ॥

कामाग्निनाच्युत रुषा च सुदुर्भरेण संपश्यतो मम उरुक्रम सीदतो हि

॥२०७॥

भवंतु भद्राणि समस्तदोषाः प्रयांतु नाशं जगतोऽखिलस्य ॥

मयाद्य भक्त्या परमेश्वरे प्रभौ स्तुते जगद्धातरि वासुदेवे

॥२०८॥

ये भूतले ये दिवि चांतरिक्षे रसातले प्राणिगणाश्च केचित् ॥

भवंतु ते सिद्धियुजो मयाद्य स्तुते जगद्धातरि वासुदेवे

॥२०९॥

अज्ञानिनो ज्ञानविदो भवंतु प्रशान्तिभाजः सततोग्रचित्ताः ॥

मया च विश्वंभरणे ह्यनंते स्तुते जगद्धातरि वासुदेवे

॥२१०॥

श्रृण्वंति ये मे स्तुवतस्तथान्ये पश्यंति ये मामिदमीरयंतम् ॥

देवासुराद्या मनुजास्तिरश्चो भवंतु तेऽप्यच्युतयोगभाजः

॥२११॥

ये चापि मूका विकलेंद्रियत्वात्पठंति नो नैव विलोकयंति ॥

पश्वादयः कीटपिपीलिकाद्या भवंतु तेऽप्यच्युतयोगभाजः

॥२१२॥

नश्यंतु दुःखानि जगत्यपेतु लोभादिको दोषगणः प्रजाभ्यः ॥

यथात्मनि भ्रातरि चात्मजे वा तथा नरस्यास्तु जनेपि भावः

॥२१३॥

संसारवैद्यैऽखिलदोषहानिविचक्षणे निर्वृतिहेतुभूते ॥

संसारबंधाः शिथिलीभवंतु हृदि स्थिते सर्वजनस्य विष्णौ

॥२१४॥

पापं प्रणाशं मम च प्रयातु यन्मानसं यच्च करोमि वाचा ॥

शरीरमप्याचरितं च यन्मे स्मृते जगद्धातरि वासुदेवे

॥२१५॥

यथा हि वा वासुदेवेति प्रोक्ते संकीर्त्तने विष्णुभक्तस्य वापि ॥

स्मृते हरौ वापि प्रयाति पापं सत्येन मे नश्यतां तेन पापम्

॥२१६॥

मूढोऽयमल्पमतिरल्पविचेष्टितोऽयं क्लिष्टं मनोऽपि विषयैर्मयि न प्रसंगि ॥

इत्थं कृपां कुरु मयि प्रणतेऽखिलेश त्वां स्तोतुमंबुजभवोऽपि हि देव नेशः

॥२१७॥

स त्वं प्रसीद भगवन्कुरु मय्यनाथे विष्णो कृपां परमकारुणिकः किल त्वम् ॥

संसारसागरनिमग्नमनंत दीनमुद्धर्तुमर्हसि हरे पुरुषोत्तमोसि

॥२१८॥

इत्थं स्तुतः स भगवानैतरेयेण भारत ॥

वासुदेवो विशालात्मा सानंदमिदमाह तम्

॥२१९॥

वत्सैतरेय तुष्टोस्मि भक्त्यानेन स्तवेन ते ॥

वरं वृणुष्व मत्तस्त्वं दुर्लभं यदभीप्सितम्

॥२२०॥

ऐतरेय उवाच

एष एव वरो नाथमम नित्यमभीप्सितः ॥

मज्जतो घोरसंसारे कर्णधारो हरे भव

॥२२१॥

श्रीभगवानुवाच

मुक्त एवासि संसाराद्यस्य ते भक्तिरीदृशी ॥

ग्रहैर्महाग्रहैर्बद्धो नैव ते द्वित्रयोदशी

॥२२२॥

यश्च स्तोत्रेण सततं गुप्तक्षेत्रसमीहितम् ॥

स्तोष्यते वासुदेवं मां स पापक्षयमाप्स्यति

॥२२३॥

यस्मादेतेन स्तोत्रेण पापं नाशमवाप्स्यति ॥

अघनाशनमित्येव तस्मात्ख्यातिमवाप्स्यति

॥२२४॥

एकादश्यामुपोष्यैव ममाग्रे यः पठिष्यति ॥

स्तवमेनं स पूतात्मा मम लोकमवाप्स्यति

॥२२५॥

सर्वेषामेव क्षेत्राणां गुप्तक्षेत्रं प्रियं यथा ॥

तथा सर्वस्तवानां च स्तवोयं सुप्रियोमम

॥२२६॥

यानि चोद्दिश्य भूतानि जप्यतेऽसौ महात्मभिः ॥

तानि शांतिं भगं प्रज्ञां प्राप्स्यंति कृपया मम

॥२२७॥

त्वं च वत्स श्रौतधर्मान्सम्यगाचर श्रद्धया ॥

न तैर्बंधं मयि न्यस्तैराप्स्यस्यनभिसंधितैः

॥२२८॥

यज यज्ञैरवाप्यैव दारान्नन्दय मातरम् ॥

मयि ध्यानेन तीव्रेण मामवाप्स्यस्यसंशयम्

॥२२९॥

बुद्धिर्मनोथ भूतानि बुद्धिकर्मेन्द्रियाणि च ॥

त्रयोदशग्रहैर्ये स्युस्त्रयोदश महाग्रहाः

॥२३०॥

बोद्धव्यमथ मंतव्यमहंता शब्द एव च ॥

स्पर्शो रसो रूपगन्धौ वचनादानमेव च

॥२३१॥

विहृत्युत्सर्ग आनंदस्त्रयोदश महाग्रहाः ॥

एतान्महाग्रहन्पुत्र शुद्धाञ्छुद्धैः स्वकैर्ग्रहैः

॥२३२॥

गृहाण ध्यानयोगेन ममैवं मोक्षमाप्स्यसि ॥

एवं त्वं कर्मभिर्वीर नैष्कर्म्यं समवाप्स्यसि

॥२३३॥

शुल्बंरसेन संविद्धं दक्षो हेम यथाश्नुते ॥

वर्णाश्रमाचारवता मयि संन्यस्तकर्मणा

॥२३४॥

मदनुध्यानयुक्तेन मोक्षो नास्तीह दुर्लभः ॥

तस्मादेवं वर्तमानो नन्द व्रतपरायणः

॥२३५॥

उद्धृत्य सप्तपुरुषाल्लँयं मयि गमिष्यसि ॥

सांप्रतं प्रतिभास्यंति वेदश्चापठिता अपि

॥२३६॥

ततस्त्वं कोटितीर्थे च यज्ञे वै हरिमेधसः ॥

याहि तत्र भविष्यं ते सर्वं मातुरभीप्सितम्

॥२३७॥

इत्युक्त्वा भगवान्विष्णुर्मूर्तिमध्ये विवेश ह ॥

विलोक्य मानो निमिषं मात्रा चैव सुतेन च

॥२३८॥

ततो मूर्ति नमस्कृत्य वासुदेवस्य विस्मितः ॥

ऐतरेयः स्वजननीं मुदितो वाक्यमब्रवीत्

॥२३९॥

पुराहमभवं शूद्रो भीतः संसारदोषतः ॥

परिनिष्ठागतं धर्मं ब्राह्मणं शरणं गतः

॥२४०॥

स कृपालुर्मम प्राह मन्त्रं वै द्वादशाक्षरम् ॥

सदेमं जपचेत्युक्त्वा तमहं जप्तवान्सदा

॥२४१॥

तेन जाप्यप्रभावेन ममोत्पत्तिस्तवोदरात् ॥

जातस्मृतिर्विष्णुभक्तिः स्थितिरत्र च सर्वदा

॥२४२॥

इदानीं च प्रयाम्येष यज्ञं तं हरिमेधसः ॥

त्वद्रूपं विष्णुप्रीत्यर्थं प्रणम्य त्वां प्रसादये

॥२४३॥

ततो महीनगरकाख्ये कोटितीर्थतलस्थितम् ॥

यजन्तं संवृतं विप्रैः कोटिशस्तमुपागमत्

॥२४४॥

गेहाय मातरं प्रोच्य स यज्ञे प्रोक्तवान्द्विजः ॥

नमस्तस्मै भगवते विष्णवेऽकुण्ठमेधसे

॥२४५॥

यन्मायामोहितधियो भ्रमामः कर्मसागरे ॥

इति श्लोकं महार्थं ते हरिमेधमुखा द्विजाः

॥२४६॥

आकर्ण्यासनपूजाद्यैः पूजयामासुरंग तम् ॥

ततो वेदार्थनैपुण्यैस्तेन ते तोषिता द्विजाः

॥२४७॥

प्रददुर्दक्षिणां सर्वां हरिमेधाः सुतामपि ॥

द्रव्यं कन्यां च संगृह्य स्वगृहं समुपागमत्

॥२४८॥

वन्दयित्वा स्वजननीं पुत्रानुत्पाद्य चामलान् ॥

इष्ट्वा यज्ञैरैतरेयो द्वादशीव्रततत्परः

॥२४९॥

वासुदेवानुध्यानेन मोक्षं पश्चादुपागतः ॥

एवंविधो वासुदेवः स्वयमत्रास्ति भारत

॥२५०॥

योर्ययेत्पूजयेत्स्तौति सर्वं तस्याक्षयं विदुः ॥

शिवधर्मेषु यत्प्रोक्तं फलं पूर्वं मया तव

॥२५१॥

तादृशं लभते मर्त्यो वासुदेवप्रसादतः

॥२५२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे श्रीवृद्धवासुदेवमाहात्म्यवर्णन ऐतरेयब्राह्मणचरित्रवर्णनंनाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥