महीसागरसंगममाहात्म्यशतरुद्रियलिंगमाहात्म्येन्द्रद्युम्नेश्वरलिंगमाहात्म्यवर्णनम्
नारद उवाच
इति तस्य मुनींद्रस्य भूपतिः शुश्रुवान्वचः ॥
प्राह नाहं गमिष्यामि त्वां विहाय नरं क्वचित्
॥१॥लिंगमाराधयिष्येऽद्य सर्वसिद्धिप्रदं नृणाम् ॥
त्वयैवानुगृहीतोऽद्य यांतु सर्वे यथागतम्
॥२॥तद्भूपतिवचः श्रुत्वा बको गृध्रोऽथ कच्छपः ॥
उलूकश्च तथैवोचुः प्रणता लोमशं मुनिम्
॥३॥स च सर्वसुहृद्विप्रस्तथेत्येवाह तांस्तदा ॥
प्रणोद्यान्प्रणतान्सर्वाननुजग्राह शिष्यवत्
॥४॥शिवदीक्षाविधानेन लिंगपूजां समादिशत् ॥
तेषामनुग्रहपरो मुनिः प्रमतवत्सलः ॥
तीर्थादप्यधिकं स्थाने सतां साधुसमागमः
॥५॥पचेलिमफलः सद्यो दुरंतकलुपापहः ॥
अपूर्वः कोऽपि सद्गोष्ठीसहस्रकिरणोदयः
॥६॥य एकांततयात्यंतमंतर्गततमोपहः ॥
साधुगोष्ठीसमुद्भूतसुखामृतरसोर्मयः
॥७॥सर्वे वराः सुधाकाराः शर्करामधुषड्रसाः ॥
ततस्ते साधुसंसर्गं संप्राप्ताः शिवशासनात्
॥८॥आरेभिरे क्रियायोगं मार्कंडनृपपूर्वकाः ॥
तेषां तपस्यतामेवं समाजग्मे कदाचन ॥
तीर्थयात्रानुषंगेन लोमशालोकनोत्सुकः
॥९॥मुख्या पुरुषयात्रा हि तीर्थयात्रानुषंगतः ॥
सद्भिः समाश्रितो भूप भूमिभागस्तथोच्यते
॥१०॥कृतार्हणातिथ्यविधिं विश्रांतं मां च फाल्गुन ॥
प्रणम्य तेऽथ पप्रच्छुर्नाडीजंघपुरः सराः
॥११॥त उचुः ॥
शापभ्रष्टा वयं ब्रह्मंश्चत्वारोऽपि स्वकर्मणा ॥
तन्मुक्तिसाधनार्थाय स्थानं किंचित्समादिश
॥१२॥इयं हि निष्फला भूमिः शपलं भारतं मुने
॥१३॥तत्रापि क्वचिदेकत्र सर्वतीर्थफलं वद ॥
इति पृष्टस्त्वहं तैश्च तानब्रवमिदं तदा
॥१४॥संवर्तं परिपृच्छध्वं स वो वक्ष्यति तत्त्वतः ॥
सर्वतीर्थफलावाप्तिकारकं भूप्रदेशकम्
॥१५॥त उचुः ॥
कुत्रासौ विद्यते योगी नाज्ञासिष्म वयं च तम् ॥
संवर्तदर्शनान्मुक्तिरिति चास्मदनुग्रहः
॥१६॥यदि जानासि तं ब्रूहि सुहृत्संगो न निष्फलः ॥
ततोऽहमब्रवं तांश्च विचार्येदं पुनःपुनः
॥१७॥वाराणस्यामसावास्ते संवर्तो गुप्तलिंगभृत् ॥
मलदिग्धो विवसनो भिक्षाशी कुतपादनु
॥१८॥करपात्रकृताहारः सर्वथा निष्परिग्रहः ॥
भावयन्ब्रह्म परमं प्रणवाभिधमीश्वरम्
॥१९॥भुक्त्वा निर्याति सायाह्ने वनं न ज्ञायते जनैः ॥
योगीश्वरोऽसौ तद्रूपाः सन्त्यन्ये लिंगधारिणः
॥२०॥वक्ष्यामि लक्षणं तस्य ज्ञास्यथ तं मुनिम् ॥
प्रतोल्या राजमार्गे तु निशि भूमौ शवं जनैः
॥२१॥अविज्ञातं स्थापनीयं स्थेयं तदविदूरतः ॥
यस्तां भूमिमुपागम्य अकस्माद्विनिर्वतते
॥२२॥स संवर्तो न चाक्रामत्येष शल्यमसंशयम् ॥
प्रष्टव्योऽभिमतं चासावुपाश्रित्य विनीतवत्
॥२३॥यदि पृच्छति केनाहमाख्यात इति मां ततः ॥
निवेद्य चैतद्वक्तव्यं त्वामाख्यायाग्निमाविशत्
॥२४॥तच्छ्रुत्वा ते तथा चक्रुः सर्वेपि वचनं मम ॥
प्राप्य वाराणसीं दृष्ट्वा संवर्तं ते तथा व्यधुः
॥२५॥शवं दृष्ट्वा च तैर्न्यस्तं संवर्तो वै न्यवर्तत ॥
क्षुत्परीतोऽपि तं ज्ञात्वा ययुस्तमनु शीघ्रगम्
॥२६॥तिष्ठ ब्रह्मन्क्षणमिति जल्पंतो राजमार्गगम् ॥
याति निर्भर्त्सयत्येष निवर्तध्वमिति ब्रुवन्
॥२७॥समया मामरे भोऽद्य नागंतव्यं न वो हितम् ॥
पलायनमसौ कृत्वा गत्वा दूरतरं सरः ॥
कुपितः प्राह तान्सर्वान्केनाख्यातोऽहमित्युत
॥२८॥निवेदयत शीघ्रं मे यथा भस्म करोमि तम् ॥
शापाग्निनाथ वा युष्मान्यदि सत्यं न वक्ष्यथ
॥२९॥अथ प्रकंपिताः प्राहुर्नारदेनेति तं मुनिम् ॥
स तानाह पुनर्यातः पिशुनः क्व नु संप्रति
॥३०॥लोकानां येन सापाग्नौ भस्मशेषं करोमि तम् ॥
ब्रह्मबंधुमहं प्राहुर्भीतास्ते तं पुनर्मुनिम्
॥३१॥त ऊचुः
त्वं निवेद्य स चास्माकं प्रविष्टो हव्यवाहनम् ॥
तत्कालमेव विप्रेंद्र न विद्मस्तत्र कारणम्
॥३२॥संवर्त उवाच
अहमप्येवमेवास्य कर्ता तेन स्वयं कृतम् ॥
तद्ब्रूत कार्यं नैवात्र चिरं स्थास्यामि वः कृते
॥३३॥अर्जुन उवाच
यदि नारद देवर्षे प्रविष्टोऽसि हुताशनम् ॥
जीवितस्तत्कथं भूय आश्चर्यमिति मे वद
॥३४॥नारद उवाच
न हुताशः समुद्रो वा वायुर्वा वृक्षपर्वतः ॥
आयुधं वा न मे शक्ता देहपाताय भारत
॥३५॥पुनरेतत्कृतं चापि संवर्तो मन्यते यथा ॥
अहं सन्मानितश्चेति वह्निं प्राप्याप्यगामहम्
॥३६॥यथा पुष्पगृहे कश्चित्प्रविशत्यंग फाल्गुन ॥
तथाहमग्निं संविश्य यातवानुत्तरं श्रृणु
॥३७॥संवर्तस्तान्पुनः प्राह मार्कंडेयमुखानिति ॥
विशल्यः पंथाः क्षुधितोऽहं पुनः पुरीम् ॥
भिक्षार्थं पर्यटिष्यामि प्रश्रं प्रब्रूत चैव मे
॥३८॥त ऊचुः
शापभ्रष्टा वयं मोक्षं प्राप्स्यामस्तवदनुग्रहात् ॥
प्रतीकारं तदाख्याहि प्रणतानां महामुने
॥३९॥यत्र तीर्थे सर्वतीर्थफलं प्राप्नोति मानवः ॥
तत्तीर्थं ब्रूहि संवर्त तिष्ठामो यत्र वै वयम्
॥४०॥संवर्त उवाच
नमस्कृत्य कुमाराय दुर्गाभ्यश्च नरोत्तमाः ॥
तीर्थं च संप्रवक्ष्यामि महीसागरसंगमम्
॥४१॥अमुना राजसिंहेन इंद्रद्युम्नेन धीमता ॥
यजनाद्द्व्यंगुलोत्सेधा कृतेयं वसुधायदा
॥४२॥तदा संताप्यमानाया भुवः काष्ठस्य वै यथा ॥
सुस्राव यो जलौघश्च सर्वदेवनमस्कृतः
॥४३॥महीनाम नदी च पृथिव्यां यानिकानिचित् ॥
तीर्थानि तेषां सलिलसंभवं तज्जलं विदुः
॥४४॥महीनाम समुत्पन्ना देशे मालवकाभिधे ॥
दक्षिणं सागरं प्राप्ता पुण्योभयतटाशिवा
॥४५॥सर्वतीर्थमयी पूर्वं महीनाम महानदी ॥
किं पुनर्यः समायोगस्तस्याश्च सरितां पतेः
॥४६॥वाराणसी कुरुक्षेत्रं गंगा रेवा सरस्वती
॥४७॥तापी पयोष्णी निर्विध्या चन्द्रभागा इरावती ॥
कावेरी शरयूश्चैव गंडकी नैमिषं तथा
॥४८॥गया गोदावरी चैव अरुणा वरुणा तथा ॥
एताः पुण्याः शतशोन्या याः काश्चित्सरितो भुवि
॥४९॥सहस्रविंशतिश्चैव षट्शतानि तथैव च ॥
तासां सारसमुद्भुतं महीतोयं प्रकीर्तितम्
॥५०॥पृथिव्यां सर्वतीर्थेषु स्नात्वा यत्फलमाप्यते ॥
तन्महीसागरे प्रोक्तं कुमारस्य वचो यथा
॥५१॥एकत्र सर्वतीर्थानां यदि संयोगमिच्छथ ॥
तद्गच्छथ महापुण्यं महीसागरसंगमम्
॥५२॥अहं चापि च तत्रैव बहून्वर्षगणान्पुरा ॥
अवसं चागतश्चात्र नारदस्य भयात्तथा
॥५३॥स हि तत्र समीपस्थः पिशुनश्च विशेषतः ॥
मरुत्तः कुरुते यत्नं तस्मै ब्रूयादिदं भयम्
॥५४॥अत्र दिग्वाससां मध्ये बहूनां तत्समस्त्वहम् ॥
निवसाम्यतिप्रच्छन्नो मरुत्तादतिभीतवत्
॥५५॥पुनरत्रापि मां नूनं कथयिष्यति नारदः ॥
तथाविधा हि चेष्टास्य पिशुनस्य प्रदृश्यते
॥५६॥भवद्भिश्च न चाप्यत्र वक्तानां कस्यचित्क्वचित् ॥
मरुत्तः कुरुते यत्नं भूपालो यज्ञसिद्धये
॥५७॥देवाचार्येण संत्यक्तो भ्रात्रा मे कारणां तरे ॥
गुरुपुत्रं च मां ज्ञात्वा यज्ञार्त्विज्यस्य कारणात्
॥५८॥अविद्यांतर्गतैर्यज्ञकर्मभिर्न प्रयोजनम् ॥
मम हिंसात्मकैरस्ति निगमोक्तैरचेतनैः
॥५९॥समित्पुष्पकुशप्रायैः साधनैर्यद्यचेतनैः ॥
क्रियते तत्तथा भावि कार्यं कारणवन्नृणाम्
॥६०॥तद्यूयं तत्र गच्छध्वं शीघ्रमेव नृपानुगाः ॥
अस्ति विप्रः स्वयं ब्रह्मा याज्ञवल्क्यश्च तत्र वै
॥६१॥स हि पूर्वं मिथेः पुर्यां वसन्नाश्रममुत्तमम् ॥
आगच्छमानं नकुलं दृष्ट्वा गार्गीं वचोऽब्रवीत्
॥६२॥गार्गि रक्ष पयो भद्रे नकुलोऽयमुपेति च ॥
पयः पातुं कृतिमतिं नकुलं तं निराकुरु
॥६३॥इत्युक्तो नकुलः क्रुद्धः स हि क्रुद्धः पुराऽभवत् ॥
जमदग्नेः पूर्वजैश्च शप्तः प्रोवाच तं मुनिम्
॥६४॥अहो वा धिग्धिगित्येव भूयो धिगिति चैव हि ॥
निर्लज्जता मनुष्याणां दृश्यते पापकारिणाम्
॥६५॥कथं ते नाम पापानि प्रकुर्वंति नराधमाः ॥
मरणांतरिता येषां नरके तीव्रवेदना
॥६६॥निमेषोऽपि न शक्येत जीविते यस्य निश्चितम् ॥
तन्मात्रपरमायुर्यः पापं कुर्यात्कथं स च
॥६७॥त्वं मुने मन्यसे चेदं कुलीनोऽस्मीति बुद्धिमान् ॥
ततः क्षिपसि मां मूढ नकुलोऽयमिति स्मयन्
॥६८॥किमधीतं याज्ञवल्क्य का योगेश्वरता तव ॥
निरपराधं क्षिपसि धिगधीतं हि तत्तव
॥६९॥कस्मिन्वेदं स्मृतौ कस्यां प्रोक्तमेतद्ब्रवीहि मे ॥
परुषैरिति वाक्यैर्मां नकुलेति ब्रवीषि यत्
॥७०॥किमिदं नैव जानासि यावत्यः परुषा गिरः ॥
परः संश्राव्यते तावच्छंकवः श्रोत्रतः पुनरा
॥७१॥कंठे यमानुगाः पादं कृत्वा तस्य सुदुर्मतेः ॥
अतीव रुदतो लोहशंकून्क्षेप्स्यंति कर्णयोः
॥७२॥वावदूकाश्च ध्वजिनो मुष्णंति कृपणाञ्जनान् ॥
स्वयं हस्तसहस्रेण धर्मस्यैवं भवद्विधाः
॥७३॥वज्रस्य दिग्धशस्त्रस्य कालकूटस्य चाप्युत ॥
समेन वचसा तुल्यं मृत्योरिति ममाभवत्
॥७४॥कर्णनासिकनाराचान्निर्हरंति शरीरतः ॥
वाक्छल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः
॥७५॥यंत्रपीडैः समाक्रम्य वरमेष हतो नरः ॥
न तु तं परुषैर्वाक्यैर्जिघांसेत कथंचन
॥७६॥त्वया त्वहं याज्ञवल्क्य नित्यं पंडितमानिना ॥
नकुलोसीति तीव्रेण वचसा ताडितः कुतः
॥७७॥संवर्त उवाच
इति श्रुत्वा वचस्तस्य भृशं विस्मितमानसः ॥
याज्ञवल्क्योऽब्रवीदेतत्प्रबद्धकरसंपुटः
॥७८॥नमोऽधर्माय महते न विद्मो यस्य वै भवम् ॥
परमाणुमपि व्यक्तं कोत्र विद्यामदः सताम्
॥७९॥विरंचिविष्णुप्रसमुखाः सोमेंद्रप्रमुखास्तथा ॥
सर्वज्ञास्तेऽपि मुह्यति गणनास्मादृशं च का
॥८०॥धर्मज्ञोऽस्मीति यो मोहादात्मानं प्रतिपद्यते ॥
स वायुं मुष्टिना बद्धुमीहते कृपणो नरः
॥८१॥केचिदज्ञानतो नष्टाः केचिज्ज्ञानमदादपि ॥
ज्ञानं प्राप्यापि नष्टाश्च केचिदालस्यतोऽधमाः
॥८२॥वेदस्मृतीतिहासेषु पुराणेषु प्रकल्पितम् ॥
चतुःपादं तथा धर्मं नाचरत्यधमः पशुः
॥८३॥स पुरा शोचते व्यक्तं प्राप्य तच्चांतकं गृहम् ॥
तथाहि गृह्यकारेण श्रुतौ प्रोक्तमिदं वचः
॥८४॥नकुलं सकुलं ब्रूयान्न कंचिन्मर्मणि स्पृशेत् ॥
प्रपठन्नपि चैवाहमिदं सर्वं तथा शुकः
॥८५॥आलस्येनाप्यनाचाराद्वृथाकार्येकमंग तत्
॥८६॥केवलं पाठ मात्रेण यश्च संतुष्यते नरः ॥
तथा पंडितमानी च कोन्यस्तस्मात्पशुर्मतः
॥८७॥न च्छंदांसि वृजिनात्तारयंति मायाविनं माययाऽऽवर्तमानम् ॥
नीडं शकुंता इव जातपक्षाश्छंदास्येनं प्रजहत्यंतकाले
॥८८॥स्वार्गाय बद्धकक्षो यः पाठमात्रेण ब्राह्मणः ॥
स बालो मातुरंकस्थो ग्रहीतुं सोममिच्छति
॥८९॥तद्भवान्सर्वथा मह्यमनयं सोढुमर्हसि ॥
सर्वः कोऽपि वदत्येवं तन्मयैवमुदाहृतम्
॥९०॥नकुल उवाच
वृथेदं भाषितं तुभ्यं सर्वलोकेन यत्समम् ॥
आत्मानं मन्यसे नैतद्वक्तुं योग्यं महात्मनाम्
॥९१॥वाजिवारणलोहानां काष्ठपाषाणवाससाम् ॥
नारीपुरुषतोयानामंतरं महदंतरम्
॥९२॥अन्ये चेत्प्राकृता लोका बहुपापानि कुर्वते ॥
प्रधानपुरुषेणापि कार्यं तत्पृष्ठतोनु किम्
॥९३॥सर्वार्थं निर्मितं शास्त्रं मनोबुद्धी तथैव च ॥
दत्ते विधात्रा सर्वेषां तथापि यदि पापिनः
॥९४॥ततो विधातुः को दोषस्त एव खलु दुर्भगाः ॥
ब्राह्मणेन विशेषेण किं भाव्यं लोकवद्यतः
॥९५॥यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ॥
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते
॥९६॥तस्मात्सदा महद्भिश्च आत्मार्थं च परार्थतः ॥
सतां धर्मो न संत्याज्यो न्याय्यं तच्छिक्षणं तव
॥९७॥यस्मात्त्वया पीडितोऽहं घोरेण वचसा मुने ॥
तस्माच्छीघ्रं त्वां शप्स्यामि शापयोग्यो हि मे मतः
॥९८॥नकुलोऽसीति मामाह भवांस्तस्मात्कुलाधमः ॥
शीघ्रमुत्पत्स्यसे मोहात्त्वमेव नकुलो मुने
॥९९॥संवर्त उवाच
इति वाचं समाकर्ण्य भाव्यर्थकृतनिश्चयः ॥
याज्ञवल्क्यो मरौ देशे विप्रस्याजायतात्मजः
॥१००॥दुराचारस्य पापस्य निघृणस्यातिवादिनः ॥
दुष्कुलीनस्य जातोऽसौ तदा जातिस्मरः सुतः
॥१०१॥सोऽथ ज्ञानात्समालोक्य भर्तृयज्ञ इति द्विजः ॥
गुप्तक्षेत्रं समापन्नो महीसागरसंगमम्
॥१०२॥तत्र पाशुपतो भूत्वा शिवाराधनतत्परः ॥
स्वायंभुवं महाकालं पूजयन्वर्ततेऽधुना
॥१०३॥यो हि नित्यं महाकालं श्रद्धया पूजयेत्पुमान् ॥
स दौष्कुलीनदोषेभ्यो मुच्यतेऽहिरिव त्वचः
॥१०४॥यथायथा श्रद्धयासौ तल्लिंगं परिपश्यति ॥
तथातथा विमुच्येत दोषैर्जन्मशतोद्भवैः
॥१०५॥भर्तृयज्ञस्तु तत्रैव लिंगस्याराधनात्क्रमात् ॥
बीजदोषाद्विनिर्मुक्तस्तल्लिंगमहिमा त्वसौ
॥१०६॥बभ्रुं च नकुलं प्राह विमुक्तो दुष्टजन्मतः ॥
यस्मात्तस्मादिदं तीर्थं ख्यातं वै बभ्रु पावनम्
॥१०७॥तस्माद्व्रजध्वं तत्रैव महीसागरसंगमम् ॥
पंच तीर्थानि सेवन्तो मुक्तिमाप्स्यथ निश्चितम्
॥१०८॥इत्येवमुक्त्वा संवर्तो ययावभिमतं द्विजः ॥
भर्तृयज्ञं मुनिं प्राप्य ते च तत्र स्थिताभवन्
॥१०९॥ततस्तानाह स ज्ञात्वा गणाञ्ज्ञानेन शांभवान् ॥
महद्वो विमलं पुण्यं गुप्तक्षेत्रे यदत्र वै
॥११०॥भवन्तोऽभ्यागता यत्र महीसागरसंगमः ॥
स्नानं दानं जपो होमः पिंडदानं विशेषतः
॥१११॥अक्षयं जायते सर्वं महीसागर संगमे ॥
कृतं तथाऽक्षयं सर्वं स्नानदानक्रियादिकम्
॥११२॥यदात्र स्तानकं चक्रे देवर्षिर्नारदः पुरा ॥
तदा ग्रहैर्वरा दत्ताः शनिना च वरस्त्वसौ
॥११३॥शनैश्चरेण संयुक्ता त्वमावास्या यदा भवेत् ॥
श्राद्धं प्रकुर्वीत स्नानदानपुरः सरम्
॥११४॥यदि श्रावणमासस्य शनैश्चरदिने शुभा ॥
कुहूर्भवति तस्यां तु संक्रांतिं कुरुते रविः
॥११५॥तस्यामेव तिथौ योगो व्यतीपातो भवेद्यदि ॥
पुष्करंनाम तत्पर्व सूर्यपर्वशताधिकम्
॥११६॥सर्वयोगसमावापः सथंचिदपि लभ्यते ॥
तस्मिन्दिने शनिं लोहं कांचनं भास्करं तथा
॥११७॥महीसागरसंसर्गे पूजयीत यथाविधि ॥
शनिमंत्रैः शनिं ध्यात्वा सूर्यमंत्रैर्दिवाकरम्
॥११८॥अर्घ्यं दद्याद्भाकरस्य सर्वपापप्रशांतये ॥
प्रयागादिधिकं स्नानं दानं क्षेत्रात्कुरोरपि
॥११९॥पिंडदानं गयाक्षेत्रादधिकं पांडुनंदन ॥
इदं संप्राप्यते पर्व महद्भिः पुण्यराशिभिः
॥१२०॥पितॄणामक्षया तृप्तिर्जायते दिवि निश्चितम् ॥
यथा गयाशिरः पुण्यं पितॄणां तृप्तिदं परम्
॥१२१॥तथा समधिकः पुण्यो महीसागरसंगमः
॥१२२॥अग्निश्च रेतो मृडया च देहे रेतोधा विष्णुरमृतस्य नाभिः ॥
एवं ब्रुवञ्छ्रद्धया सत्यवाक्यं ततोऽवगाहेत महीसमुद्रम्
॥१२३॥मुखं च यः सर्वनदीषु पुण्यः पाथोधिरंबा प्रवरा मही च ॥
समस्ततीर्थाकृतिरेतयोश्च ददामि चार्घ्यं प्रणमामि नौमि
॥१२४॥ताम्रा रस्याः पयोवाहाः पितृप्रीतिप्रदाः शभाः ॥
सस्यमाला महासिन्धुर्दातुर्दात्री पृथुस्तुता ॥
इन्द्रद्युम्नस्य कन्या च क्षितिजन्मा रावती
॥१२५॥महीपर्णा महीशृंगा गंगा पश्चिमवाहिनी ॥
नदी राजनदी चेति नामाष्टाशमालिकाम्
॥१२६॥स्नानकाले च सर्वत्र श्राद्धकाले पठेन्नरः ॥
पृथुनोक्तानि नामानि यज्ञमूर्तिपदं व्रजेत्
॥१२७॥महीदोहे महानंदसंदोहे विश्वमोहिनि ॥
जातासि सरितां राज्ञि पापं हर महीद्रवे ॥
इत्यर्घ्यमंत्रः
॥१२८॥कंकणं रजतस्यापि योऽत्र निक्षिपते नरः ॥
स जायते महीपृष्ठे धनधान्ययुते कुले
॥१२९॥महीं च सागरं चैव रौप्यकंकण पूजया ॥
पूजयामि भवेन्मा मे द्रव्यानाशो दरिद्रता
॥१३०॥कंकणक्षेपणम् ॥
यत्फलं सर्वतीर्थेषु सर्वयज्ञैश्च यत्फलम् ॥
तत्फलं स्नानदानेन महीसागरसंगमे
॥१३१॥विवादे च समुत्पन्ने अपराधी च यो मतः ॥
जलहस्तः सदा वाच्यो महीसागरसंगमे
॥१३२॥संस्नाप्याघोरमंत्रेण स्थाप्य नाभिप्रमाणके ॥
जले करं समुद्धृत्य दक्षिणं वाचयेद्द्रुतम्
॥१३३॥यदि धर्मोऽत्र सत्योऽस्ति सत्यश्चेत्संगमस्त्वसौ ॥
सत्याश्चेत्क्रतुद्रष्टारः सत्यं स्यान्मे शुभाशुभम्
॥१३४॥एवमुक्त्वा करं क्षिप्य दक्षिणं सकलं ततः ॥
निःसृतः पापकारी चेज्ज्वरेणापीड्यते क्षणात्
॥१३५॥सप्ताहाद्दृश्यते चापि तावन्निर्दोषवान्मतः ॥
अत्र स्नात्वा च जप्त्वा च तपस्तप्त्वा तथैव च
॥१३६॥रुद्रलोकं सुबहवो गताः पुण्येन कर्मणा ॥
सोमवारे विशेषेण स्नात्वा योत्र सुभक्तितः
॥१३७॥पंच तीर्थानि कुरुते मुच्यते पंचपातकैः ॥
इत्याद्युक्तं बहुविधं तीर्थमाहात्म्यमुत्तमम्
॥१३८॥भर्तृयज्ञः शिवस्यो च तेषामाराधने क्रमम् ॥
शिवागमोक्तमादिश्य पूजायोगं यथाविधि
॥१३९॥शिवभक्तिसमुद्रैकपूरितः प्राह तान्मुनिः ॥
न शिवात्परमो देवः सत्यमेतच्छिवव्रताः
॥१४०॥शिवं विहाय यो ह्यान्यदसत्किंचिदुपासते ॥
करस्थं सोऽमृतं त्यक्त्वा मृगतृष्णां प्रधावति
॥१४१॥शिवशक्तिमयं ह्येतत्प्रत्यक्षं दृश्यते जगत् ॥
लिंगांकं च भगांकं च नान्यदेवांकितं क्वचित्
॥१४२॥यश्च तं पितरं रुद्रं त्यक्त्वा मातरमं बिकाम् ॥
वर्ततेऽसौ स्वपितरं त्यक्तोदपितृपिंडकः ॥
यस्य रुद्रस्य माहात्म्यं शतरुद्रीयमुत्तमम्
॥१४३॥श्रृणुध्वं यदि पापानामिच्छध्वं क्षालनं परम् ॥
ब्रह्मा हाटकलिंगं च समाराध्य कपर्दिनः
॥१४४॥जगत्प्रधानमिति च नाम जप्त्वा विराजते ॥
कृष्णमूले कृष्णलिंगं नाम चार्जितमेव च
॥१४५॥सनकाद्यैश्च तल्लिंगं पूज्याजयुर्जगद्गतिम् ॥
दर्भांकुरमयं सप्त मुनयो विश्वयोनिकम्
॥१४६॥नारदस्त्वंतरिक्षे च जदद्बीजमिदं गृणन् ॥
वज्रमिद्रो लिंगमेवं विश्वात्मानं च नाम च
॥१४७॥सूर्यस्ताम्रं तथा लिंगं नाम विश्वसृजं जपन् ॥
चंद्रश्च मौक्तिकं लिंगं जपन्नाम जगत्पतिम्
॥१४८॥इंद्रनीलमयं वह्निर्नाम विश्वेश्वरं जपन् ॥
पुष्परागं गुरुलिंगं विश्वयोनिं जपन्हरम्
॥१४९॥पद्मरागमयं शुक्रो विश्वकर्मेति नाम च ॥
हेमलिंगं च धनदो जपन्नाम्ना तथेश्वरम्
॥१५०॥रौप्यजं विश्वदेवाश्च नामापि जगतांपतिम् ॥
वायवो रीतिजं लिंगं शंभुमित्येव नाम च
॥१५१॥काशजं वसवो लिंगं स्वयंभुमिति नाम च ॥
त्रिलोहं मातरो लिंगं नाम भूतेशमेव च
॥१५२॥लौहं च रक्षसां नाम भूतभव्यभवोद्भवम् ॥
गुह्यकाः सीसजं लिंगं नाम योगं जपंति च
॥१५३॥जैगीषव्यो ब्रह्मरन्ध्रं नाम योगेश्वरं जपन् ॥
निमिर्नयनयोर्लिंगे जपञ्शर्वेति नाम च
॥१५४॥धन्वंतरिर्गोमयं च सर्वलोकेश्वरेश्वरम् ॥
गंधर्वा दारुजं लिंगं सर्वश्रेष्ठेति नाम च
॥१५५॥वैडूर्यं राघवो लिंगं जगज्ज्येष्ठेति नाम च ॥
बाणो मारकतं लिंगं वसिष्ठमिति नाम च
॥१५६॥वरुणः स्फाटिकं लिंगं नाम्ना च परमेश्वरम् ॥
नागा विद्रुमलिंगं च नाम लोकत्रयंकरम्
॥१५७॥भारती तारलिंगं च नाम लोकत्रयाश्रितम् ॥
शनिश्च संगमावर्ते जगन्नाथेति नाम च
॥१५८॥शनिदेशे मध्यरात्रौ महीसागरसंगमे ॥
जातीजं रावणो लिंगं जपन्नाम सुदुर्जयम्
॥१५९॥सिद्धाश्च मानसं नाम काममृत्युजरातिगम् ॥
उंछजं च बलिर्लिंगं ज्ञानात्मेत्यस्य नाम च
॥१६०॥मरीचिपाः पुष्पजं च ज्ञानगम्येति नाम च ॥
शकृताः शकृतं लिंगं ज्ञानज्ञेयेति नाम च
॥१६१॥फेनपाः फेनजं लिंगं नाम चापि सुदुर्विदम् ॥
कपिलो वालुकालिंगं वरदं च जपन्हरम्
॥१६२॥सारस्वतो वाचिलिंगं नाम वागीश्वरेति च ॥
गणा मूर्तिमयं लिंगं नाम रुद्रेति चाब्रुवन्
॥१६३॥जांबूनदमयं देवाः शितिकण्ठेति नाम च ॥
शंखलिंगं बुधो नाम कनिष्ठमिति संजपन्
॥१६४॥अश्विनौ मृन्मयं लिंगं नाम्ना चैव सुवेधसम् ॥
विनायकः पिष्टलिंगं नाम्ना चापि कपर्दिनम्
॥१६५॥नावनीतं कुजो लिंगं नाम चापि करालकम् ॥
तार्क्ष्य ओदनलिंगं च हर्यक्षेति हि नाम च
॥१६६॥गौडं कामस्तथा लिंगं रतिदं चेति नाम च ॥
शची लवणलिंगं तु बभ्रुकेशेति नाम च
॥१६७॥विश्वकर्मा च प्रासादलिंगं याम्येति नाम च ॥
विभीषणश्च पांसूत्थं सुहृत्तमेति नाम च ॥
वंशांकुरोत्थं सगरो नाम संगतमेव च
॥१६८॥राहुश्च रामठं लिंगं नाम गम्येति कीर्तयन् ॥
लेप्यलिंगं तथा लक्ष्मीर्हरिनेत्रेति नाम च
॥१६९॥योगिनः सर्वभूतस्थं स्थाणुरित्येव नाम च ॥
नानाविधं मनुष्याश्च पुरुषंनाम नाम च
॥१७०॥तेजोमयं च ऋक्षाणि भगं नाम च भास्वरम् ॥
किंनरा धातुलिंगं च सुदीप्तमिति नाम च
॥१७१॥देवदेवेति नामास्ति लिंगं च ब्रह्मराक्षसाः ॥
दंतजं वारणा लिंगं नाम रंहसमेव च
॥१७२॥सप्तलोकमयं साध्या बहूरूपेति नाम च ॥
दूर्वांकुरमयं लिंगमृतवः सर्वनाम च
॥१७३॥कौंकुममप्सरसो लिंगं नाम शंभोः प्रियेति च ॥
सिंदूरजं चोर्वशी च नाम च प्रियवासनम्
॥१७४॥ब्रह्मचारि गुरुर्लिंगं नाम चोष्णीषिणं विदुः ॥
अलक्तकं च योगिन्यो नाम चास्य सुबभ्रुकम्
॥१७५॥श्रीखंडं सिद्धयोगिन्यः सहस्राक्षेति नाम च ॥
डाकिन्यो मांस लिंगं च नाम चास्य च मीढुषम्
॥१७६॥अप्यन्नजं च मनवो गिरिशेति च नाम च ॥
अगस्त्यो व्रीहिजं वापि सुशांतमिति नाम च
॥१७७॥यवजं देवलो लिंगं पतिमित्येव नाम च ॥
वल्मीकजं च वाल्मीकिश्चिरवासीति नाम च
॥१७८॥प्रतर्दनो बाणलिंगं हिरण्यभुजनाम च ॥
राजिकं च तथा दैत्या नाम उग्रेति कीर्तितम्
॥१७९॥निष्पावजं दानवाश्च लिंगनाम च दिक्पतिम् ॥
मेघा नीरमयं लिंगं पर्जन्यपतिनाम च
॥१८०॥राजमाषमयं यक्षा नाम भूतपतिं स्मृतम् ॥
तिलान्नजं च पितरो नाम वृषपतिस्तथा
॥१८१॥गौतमो गोरजमयं नाम गोपतिरेव च ॥
वानप्रस्थाः फलमयं नाम वृक्षावृतेति च
॥१८२॥स्कंदः पाषाणलिंगं च नाम सेनान्य एव च ॥
नागश्चाश्वतरो धान्यं मध्यमेत्यस्य नाम च
॥१८३॥पुरोडाशमयं यज्वा स्रुवहस्तेति नाम च ॥
यमः कालायसमयं नाम प्राह च धन्विनम्
॥१८४॥यवांकुरं जामदग्न्यो भर्गदैत्येति नाम च ॥
पुरूरवाश्चाश्चान्नमयं बहुरूपेति नाम च
॥१८५॥मांधाता शर्करालिंगं नाम बाहुयुगेति च ॥
गावः पयोमयं लिंगं नाम नेत्रसहस्रकम्
॥१८६॥साध्या भर्तृमयं लिंगं नाम विश्वपतिः स्मृतम् ॥
नारायणो नरो मौंजं सहस्रशिरनाम च
॥१८७॥तार्क्ष्यं पृथुस्तथा लिंगं सहस्रचरणाभिधम् ॥
पक्षिणो व्योमलिंगं च नाम सर्वात्मकेति च
॥१८८॥पृथिवी मेरुलिंगं च द्वितनुश्चास्य नाम च ॥
भस्मलिंगं पशुपतिर्नाम चास्य महेश्वरः
॥१८९॥ऋषयो ज्ञानलिंगं च चिरस्थानेति नाम च ॥
ब्राह्मणा ब्रह्मलिंगं च नाम ज्येष्ठेति तं विदुः
॥१९०॥गोरोचनमयं शेषो नाम पशुपतिः स्मृतम् ॥
वासुकिर्विषलिंगं च नाम वै शंकरेति च
॥१९१॥तक्षकः कालकूटाख्यं बहुरूपेति नाम च ॥
हालाहलं च कर्कोट एकाक्ष इति नाम च
॥१९२॥श्रृंगी विषमयं पद्मो नाम धूर्जटिरेव च ॥
पुत्रः पितृमयं लिंगं विश्वरूपेति नाम च
॥१९३॥पारदं च शिवा देवी नाम त्र्यम्बक एव च ॥
मत्स्याद्याः शास्त्रलिंगं च नाम चापि वृषाकपिः
॥१९४॥एवं किं बहुनोक्तेन यद्यत्सत्त्वं विभूतिमत् ॥
जगत्यामस्ति तज्जातं शिवाराधनयोगतः
॥१९५॥भस्मनो यदि वृक्षत्वं ज्ञायते नीरसेवनात् ॥
शिवभक्तिविहीनस्य ततोऽस्य फलमुच्यते
॥१९६॥धर्मार्थकाममोक्षाणां यदि प्राप्तौ भवेन्मतिः ॥
ततो हरः समाराध्यस्त्रिजगत्याः प्रदो मतः
॥१९७॥य इदं शतरुद्रीयं प्रातःप्रातः पठिष्यति ॥
तस्य प्रीतः शिवो देवः प्रदास्यत्यखिलान्वरान्
॥१९८॥नातः परं पुण्यतमं किंचिदस्ति महाफलम् ॥
सर्ववेदरहस्यं च सूर्येणोक्तमिदं मम
॥१९९॥वाचा च यत्कृतं पापं मनसा वाप्युपार्जितम् ॥
पापं तन्नाशमायाति कीर्तिते शतरुद्रिये
॥२००॥रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥
भयान्मुच्येत भीतश्च जपेद्यः शतरुद्रियम्
॥२०१॥नाम्नां शतेन यः कुम्भैः पुष्पैस्तावद्भिरीश्वरम् ॥
प्रणामानां शतेनापि मुच्यते सर्वपातकैः
॥२०२॥लिंगानां शतमेतच्च शतमाराधकास्तथा ॥
नामानि च शतं सर्वदोषसंनाशकं स्मृतम्
॥२०३॥विशेषादेषु लिंगेषु यः पठिष्यति पंचसु ॥
पंचभिर्विषयोद्भूतैः स दोषैः परिमुच्यते
॥२०४॥नारद उवाच
निशम्यैवं प्रार्थ्यतेऽपि गुप्तक्षेत्रे मुदान्विताः ॥
पंचलिंगानयर्चयंतः शिवध्यानपराभवन्
॥२०५॥ततो बहुतिथे काले प्रत्यक्षीभूय शंकरः ॥
प्राहतान्मुदितो देवस्तेषां भक्तिविशेषतः
॥२०६॥शिव उवाच
बकोलूकगृध्रकूर्मा इन्द्रद्युम्न च पार्थिव ॥
सारूप्यां मुक्तिमापन्ना मल्लोके निवसिष्यथ
॥२०७॥लोमशश्चापि मार्कंडो जीवन्मुक्तौ भविष्यतः ॥
इत्युक्ते देवदेवेन लिंगं स्थापितवान्नृपः
॥२०८॥इन्द्रद्युम्नेश्वरं नाम महाकालाख्यमित्युत ॥
ज्ञात्वा तीर्थगुणान्राजा कीर्तिमिच्छंश्चिरंतनीम्
॥२०९॥त्रिरम्यमतुलं लिंगं संस्थाप्येदमुवाच ह ॥
यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी
॥२१०॥इन्द्रद्युम्नेश्वरं लिंगं नंदताच्छाश्वतीः समाः ॥
ततस्तथेति भगवाच्छिवः प्रोच्याब्रवीत्पुनः
॥२११॥अत्र यो नियतं लिंगमैंद्रद्युम्नं प्रपूजयेत् ॥
स गणो जायते नूनं मम लोके निवत्स्यति
॥२१२॥इत्युक्त्वा सह तैश्चैव पंचभिः शशिशेखरः ॥
रुद्रलोकम गाद्देवस्तेऽपि जाता गणाः पुनः
॥२१३॥एवं प्रभावो राजाभूदिंद्रद्युम्नो महीपतिः ॥
यजता येन वीरेण निर्मितेयं महीनदी
॥२१४॥एवंविधःस पुण्योऽयं महीसागरसंगमः ॥
अभूत्ततोऽपि संक्षेपात्तव पार्थ प्रकीर्तितः
॥२१५॥स्नात्वात्र संगमे यश्च इन्द्रद्युम्नेश्वरं नरः ॥
पूजयेत्तस्य वासः स्याद्यत्रेशः पार्वतीपतिः
॥२१६॥सर्वबन्धहरं लिंगं गाणपत्यप्रदं त्विदम् ॥
यतो बन्धान्विहायैव स्थापितं तेन फालल्गुन
॥२१७॥इतीदमुक्तं तव पुण्यकारि माहात्म्यमस्योत्तमसंगमस्य ॥
माहात्म्यमत्यद्बुतपुण्यमिन्द्रद्युम्नेश्वरस्यापि च पुण्यकारि
॥२१८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महीसागरसंगममाहात्म्यशतरुद्रियलिंगमाहात्म्येन्द्रद्युम्नेश्वरलिंगमाहात्म्य वर्णनंनाम त्रयोदशोऽध्यायः ॥ १३ ॥