मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — कौमारिकाखण्डः, अध्याय ६१

3
माहेश्वरखण्डः · कौमारिकाखण्डः · 61

ततो घटोत्कचो मुक्त्वा तत्र कामकटंकटाम्

सूत उवाच

ततो घटोत्कचो मुक्त्वा तत्र कामकटंकटाम् ॥

पुत्रेणानुगतो धीमान्वियता द्वारकां ययौ

॥१॥

आगच्छन्तं च तंदृष्ट्वा राक्षसं राक्षसानुगम् ॥

द्वारकावासिनो योधाश्चक्रुरत्युल्बणं रवम्

॥२॥

ग्रामे ग्रामे सुसंनद्धा नवलक्षमिता रथाः ॥

राक्षसौ द्वौ समायातौ पात्येतां विशिखैरिति

॥३॥

तान्गृहीतायुधान्दृष्ट्वा यदुवीरान्घटोत्कचः ॥

प्रगृह्य विपुलं बाहुं जगौ तारस्वरेण सः

॥४॥

राक्षसं वित्त मां वीरा भीमपुत्रं घटोत्कचम् ॥

सुप्रियं वासुदेवस्य प्रणामार्थमुपागतम्

॥५॥

निवेदयत मां प्राप्तं यादवेन्द्राय सात्मजम् ॥

इति तस्य वचः श्रुत्वा ते कृष्णाय न्यवेदयन्

॥६॥

आह देवः सभास्थश्च शीघ्रमत्राव्रजत्वसौ ॥

ततः प्रवेशयामासुर्द्वारकां ते घटोत्कचम्

॥७॥

सपुत्रः सोऽपि रम्याणि वनान्युपवनानि च ॥

क्रीडाशैलांश्च हर्म्याणि संपश्यन्नागतः सभाम्

॥८॥

स तत्र उग्रसेनं च वसुदेवं च सात्यकिम् ॥

अक्रूररामप्रमुखान्ववन्दे कृष्णमेव च

॥९॥

तं पादयोर्निपतितं समालिंग्य सहात्मजम् ॥

साशिषं स्वसमीपस्थमुपवेश्येदमब्रवीत्

॥१०॥

पुत्र राक्षसशार्दूल कुरूणां कुलवर्धन ॥

कुशलं सर्वतः कच्चित्किमर्थस्ते समागमः

॥११॥

घटोत्कच उवाच

देव युष्मत्प्रसादेन सर्वतः कुशलं मम ॥

श्रूयतां कारणं स्वामिन्यदर्थमहमागतः

॥१२॥

देवोपदिष्ट भार्यायां जातोऽयं तनयो मम ॥

स च प्रश्नं वक्ष्यति त्वां श्रूयतामागतस्त्वतः

॥१३॥

श्रीकृष्ण उवाच

वत्स मौर्वेय ब्रूहि त्वं सर्वं पृच्छ यदिच्छसि ॥

यथा घटोत्कचो मह्यं सुप्रियश्च तथा भवान्

॥१४॥

बर्बरीक उवाच

प्रणम्य त्वामादिदेवं मनोबुद्धिसमाधिभिः ॥

प्रक्ष्यामि केन श्रेयः स्याज्जंतोर्जातस्य माधव

॥१५॥

केचिच्छ्रेयो धर्ममाहुरैश्वर्यं त्यागभोजनम् ॥

केचिद्दमं तपो द्रव्यं भोगान्मुक्तिं च केचन

॥१६॥

तदेवं शतसंख्येषु श्रेयस्सु पुरुषोत्तम ॥

मम चैवं कुलस्यास्य श्रेयो यद्ब्रूहि निश्चितम्

॥१७॥

श्रीकृष्ण उवाच

वत्स पृथक्पृथक्प्रोक्तं वर्णानां श्रेय उत्तमम् ॥

ब्राह्मणानां तपो मूलं दमोऽध्ययनमेव च

॥१८॥

धर्मप्रकटनं चापि श्रेय उक्तं मनीषिभिः ॥

बलं साध्यं पूर्व मेव क्षत्रियाणां प्रकीर्तितम्

॥१९॥

दुष्टानां शासनं चापि साधूनां परिपालनम् ॥

पाशुपाल्यं च वैश्यानां कृषिर्विज्ञानमेव च

॥२०॥

शूद्रस्य द्विजशुश्रूषा तया जीवन्वणिग्भवेत् ॥

शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितमाचरन्

॥२१॥

भार्यारतिर्भृत्यपोष्टा शुचिः श्रद्धा परायणः ॥

नमस्कारेण मन्त्रेण पंचयज्ञान्न हापयेत्

॥२२॥

तद्भवान्क्षत्रियकुले जातोऽसि कुरु तच्छृणु ॥

बलं साधय पूर्वं त्वमतुलं तेन शिक्षय

॥२३॥

दुष्टान्पालय साधूंश्च स्वर्गमेवमवाप्स्यसि ॥

बलं च लभ्यते पुत्र देवीनां सुप्रसादतः

॥२४॥

तद्भवान्बलप्राप्त्यर्थं देव्याराधनमाचर

॥२५॥

बर्बरीक उवाच

कस्मिन्क्षेत्रे च कां देवीं कथमाराधयाम्यहम् ॥

एतत्प्रसादप्रवणं मनः कृत्वा निवेदय

॥२६॥

सूत उवाच

इति पृष्टः क्षणं ध्यात्वा प्राह दामोदरो विभुः ॥

वत्स क्षेत्रं प्रवक्ष्यामि यत्र तप्स्यसि तत्तपः ॥

गुप्तक्षेत्रमिति ख्यातं महीसागरसंगमे

॥२७॥

तत्र त्रिभुवने याश्च संति देव्यः पृथग्विधाः ॥

नारदेन समानीतास्ताश्चैक्यं सुमहात्मना

॥२८॥

चतस्रस्तस्य दिग्देव्यो नव दुर्गाश्च संति याः ॥

समाराधय ता गत्वा तासामैक्यं हि दुर्लभम्

॥२९॥

नित्यं पूजय ताः पुत्र पुष्पधूपविलेपनैः ॥

स्तुतिभिश्चोपहारैश्च यथा तुष्यति तास्तव

॥३०॥

तुष्टासु देवीषु बलं धनं च कीर्तिश्च पुत्राः सुभगाश्च दाराः ॥

स्वर्गस्तथा मुक्तिपदं च सत्सुखं न दुर्लभं सत्यमेतत्तवोक्तम्

॥३१॥

सूत उवाच

एवमुक्त्वा बर्बरीकं कृष्णः प्राह घटोत्कचम् ॥

घटोत्कचार्य पुत्रस्ते दृढं सुहृदयो ह्यसौ

॥३२॥

तस्मात्सुहृदयेत्येवं दत्तं नाम मया द्विकम् ॥

एवमुक्त्वा समालिंग्य संतर्ज्य विविधैर्धनैः

॥३३॥

गुप्तक्षेत्राय भगवान्बर्बरीकं समादिशत् ॥

सोऽथ कृष्णं नमस्कृत्य पितरं यादवांश्च तान्

॥३४॥

अनुज्ञाप्य च तान्सर्वान्गुप्तक्षेत्रं समाव्रजत् ॥

घटोत्कचोऽपि कृष्णेन विसृष्टः स्ववनं ययौ

॥३५॥

स्मरन्पुत्रगुणान्पत्न्या स्वराज्यं समपालयत् ॥

ततः सुहृदयो धीमान्दग्धस्थल्यां कृताश्रमः

॥३६॥

त्रिकालं पूजयामास देवीः कर्मसमाधिभिः ॥

नित्यं पुष्पैश्च धूपैश्च उपहारैः पृथग्विधैः

॥३७॥

तस्याराधयतो देव्यस्तुतुषुर्हायनैस्त्रिभिः ॥

ततः प्रत्यक्षतो भूत्वा बलात्तस्य महात्मनः

॥३८॥

बलं यत्त्रिषु लोकेषु कस्यचिन्नास्ति दुर्लभम् ॥

ऊचुश्च कंचित्कालं त्वं वसात्रैव महाद्युते

॥३९॥

संगत्या विजयस्य त्वं भूयः श्रेयो ह्यवाप्स्यसि ॥

इत्युक्तः सर्वदेवीभिः स तत्रैव व्यवस्थितः

॥४०॥

आजगामाथ विजयो नाम्ना मागधब्राह्मणः ॥

स सर्वां पृथिवीं कृत्वा पादाक्रांतां द्विजोत्तमः

॥४१॥

काश्यां विद्याबलं प्राप्य साधनार्थमुपाययौ ॥

गुहेश्वरमुखान्येष सप्तलिंगान्यपूजयत्

॥४२॥

आराधयामास चिरं देवीर्विद्याफलाप्तये ॥

ततस्तुष्टास्तस्य देव्यः स्वप्ने प्रोचुरिदं वचः

॥४३॥

विद्यां साधय त्वं साधो सिद्धमातुः पुरोंऽगणे ॥

अयं भक्तः सुहृदयः साहाय्यं ते करिष्यति

॥४४॥

ततस्तद्वचनं श्रुत्वा विजयः स्वप्नमध्यतः ॥

उत्थाय गत्वा देव्यास्तं वव्रे भीमात्म जात्मजम्

॥४५॥

सोऽपि देवीवचः श्रुत्वा मेने साहाय्यकारणम् ॥

ततः कृष्णचतुर्दश्यामुपोष्य विजयः शुचिः

॥४६॥

स्नात्वाभ्यर्च्यैव लिंगानि देवीश्चैवार्चयत्पृथक् ॥

कृत्वा स्नानमुपोष्यैव बर्बरीकोंऽतिकेऽभवत्

॥४७॥

प्रथमायां ततो रात्रौ ययौ सिद्धांबिकापुरः ॥

मंडलं तत्र कृत्वा च भगाकारं करान्नव

॥४८॥

अष्टदिक्ष्वष्टकीलांश्च निखन्यैव ससूत्रकान् ॥

कृष्णाजिनधरो भूत्वा बर्बरीकसमन्वितः

॥४९॥

शिखामाबद्ध्य दिग्बंधं कृत्वा रेभे ततो विधिम् ॥

मध्ये वै मंडलस्यापि कुंडे शुभ्रे त्रिमेखलं

॥५०॥

समर्प्य च ततः खड्गं खादिरं मंत्रतेजितम् ॥

संस्थाप्य कीलानभितो बर्बरीकमथाब्रवीत्

॥५१॥

शुचिर्विनिद्रः संतिष्ठ स्तवं देव्याः समुद्गिरन् ॥

यावत्कर्म करोम्येष यथा विघ्नं न जायते

॥५२॥

इत्युक्ते संस्थिते तत्र बर्बरीके महाबले ॥

विजयः शोषणं दाहं प्लावनं कृतवान्यमी

॥५३॥

ततः सुखासनो भूत्वा गुंगुरुभ्यो नमः इति ॥

मंत्रमष्टोत्तरशतं जप्त्वा गुरुभ्यः प्रणम्य च ॥

ततो गणेश्वरविधानमारब्धवान्

॥५४॥

अथातः संप्रवक्ष्यामि मंत्रं गणपतेः परम्

॥५५॥

सर्वकार्यकरं स्वल्पं महार्थं सर्वसिद्धिदम्

॥५६॥

ॐगांगींगूंगैंगौंगः सप्ताक्षरोऽयं महामंत्रः ॥

ॐगणपतिमंत्रस्य गणको नाम ऋषिः विघ्नेश्वरो देवता गं बीजम् ॐशक्तिः पूजार्थे जपार्थे वा तिलकार्थे वा मनस ईप्सितार्थे होमार्थे वा विनियोग इति ॥

साध कस्य पूर्वं तिलककरणम् ॥

ॐगांगणपतये नमः ॥

इति तिलकस्योपरि अक्षतान्दद्यात् अनेन मन्त्रेण ॥

ॐ गांगणपतये नमः ॥

इति तिलकमंत्रः ॥

ॐगां गणपतये नमः ॥

अनेन मंत्रेण गणेशाय पुष्पांजलित्रयं दद्यात् ॥

मूलमंत्रेणात्र चंदनगंधपुष्पधूपदीपनैवेद्यपूगीफल तांबूलादिकं दद्यात् ॥

अत ऊर्ध्वं मूलमन्त्रेण जपं कुर्यात् ॥

अष्टोत्तरशतं सहस्रं लक्षं कोटिं चेति यथाशक्ति जप्त्वा दशांशहोमार्थे गणेशाग्नये आवाहयामीति अग्निमावाह्य ॥

ॐ गां गणपतये स्वाहेति मन्त्रेण गुग्गुलगुटिकाभिर्होमं विदध्याद्विनियोगं चेति गाणेश्वरो ता?कल्पः ॥

य एवं सर्व विघ्नेषु साधयेन्मन्त्रमुत्तमम् ॥

सर्वविघ्नानि नश्यंति मनोभीष्टं च सिध्यति

॥५७॥

डाकिन्यो यातुधानाश्च प्रेताद्याश्च भयंकराः ॥

शत्रूणां जायते नाशो वशीकरणमेव च

॥५८॥

इमं गाणेश्वरं कल्पं विजानन्विजयोऽपि च ॥

तिलकं विधिना कृत्वा जप्त्वा चाष्टोत्तरं शतम्

॥५९॥

दशांशं गुटिका हुत्वा पूज्य सिद्धिविनायकम् ॥

सिद्धेयक्षेत्रपालस्य चक्रे पूजां ततो निशि

॥६०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां प्रथमे माहेश्वरखण्डे कौमारिकाखण्डे महाविद्यासाधने गाणेश्वरकल्पवर्णनंनामैकषष्टितमोऽध्यायः ॥ ६१ ॥