adhyāyaḥ 110
brahmovāca:
pippalaṃ tīrtham ākhyātaṃ cakratīrthād anantaram . yatra cakreśvaro devaś cakram āpa yato hariḥ
||1||पिप्पलं तीर्थम् आख्यातं चक्रतीर्थाद् अनन्तरम् । यत्र चक्रेश्वरो देवश् चक्रम् आप यतो हरिः
yatra viṣṇuḥ svayaṃ sthitvā cakrārthaṃ śaṅkaraṃ vibhum . pūjayām āsa tat tīrthaṃ cakratīrtham udāhṛtam
||2||यत्र विष्णुः स्वयं स्थित्वा चक्रार्थं शङ्करं विभुम् । पूजयाम् आस तत् तीर्थं चक्रतीर्थम् उदाहृतम्
yatra prīto'bhavad viṣṇoḥ śambhus tat pippalaṃ viduḥ . mahimānaṃ yasya vaktuṃ na kṣamo'py ahināyakaḥ
||3||यत्र प्रीतोऽभवद् विष्णोः शम्भुस् तत् पिप्पलं विदुः । महिमानं यस्य वक्तुं न क्षमोऽप्य् अहिनायकः
cakreśvaro pippaleśo nāmadheyasya kāraṇam . śṛṇu nārada tad bhaktyā sākṣād vedoditaṃ mayā
||4||चक्रेश्वरो पिप्पलेशो नामधेयस्य कारणम् । शृणु नारद तद् भक्त्या साक्षाद् वेदोदितं मया
dadhīcir iti vikhyāto munir āsīd guṇānvitaḥ . tasya bhāryā mahāprājñā kulīnā ca pativratā
||5||दधीचिर् इति विख्यातो मुनिर् आसीद् गुणान्वितः । तस्य भार्या महाप्राज्ञा कुलीना च पतिव्रता
lopāmudreti yā khyātā svasā tasyā gabhastinī . iti nāmnā ca vikhyātā vaḍaveti prakīrtitā
||6||लोपामुद्रेति या ख्याता स्वसा तस्या गभस्तिनी । इति नाम्ना च विख्याता वडवेति प्रकीर्तिता
dadhīceḥ sā priyā nityaṃ tapas tepe tayā mahat . dadhīcir agnimān nityaṃ gṛhadharmaparāyaṇaḥ
||7||दधीचेः सा प्रिया नित्यं तपस् तेपे तया महत् । दधीचिर् अग्निमान् नित्यं गृहधर्मपरायणः
bhāgīrathīṃ samāśritya devātithiparāyaṇaḥ . svakalatrarataḥ śāntaḥ kumbhayonir ivāparaḥ
||8||भागीरथीं समाश्रित्य देवातिथिपरायणः । स्वकलत्ररतः शान्तः कुम्भयोनिर् इवापरः
tasya prabhāvāt taṃ deśaṃ nārayo daityadānavāḥ . ājagmur muniśārdūla yatrāgastyasya cāśramaḥ
||9||तस्य प्रभावात् तं देशं नारयो दैत्यदानवाः । आजग्मुर् मुनिशार्दूल यत्रागस्त्यस्य चाश्रमः
tatra devāḥ samājagmū rudrādityās tathāśvinau . indro viṣṇur yamo'gniś ca jitvā daityān upāgatān
||10||तत्र देवाः समाजग्मू रुद्रादित्यास् तथाश्विनौ । इन्द्रो विष्णुर् यमोऽग्निश् च जित्वा दैत्यान् उपागतान्
jayena jātasaṃharṣāḥ stutāś caiva marudgaṇaiḥ . dadhīciṃ muniśārdūlaṃ dṛṣṭvā nemuḥ sureśvarāḥ
||11||जयेन जातसंहर्षाः स्तुताश् चैव मरुद्गणैः । दधीचिं मुनिशार्दूलं दृष्ट्वा नेमुः सुरेश्वराः
dadhīcir jātasaṃharṣaḥ surān pūjya pṛthak pṛthak . gṛhakṛtyaṃ tataś cakre surebhyo bhāryayā saha
||12||दधीचिर् जातसंहर्षः सुरान् पूज्य पृथक् पृथक् । गृहकृत्यं ततश् चक्रे सुरेभ्यो भार्यया सह
pṛṣṭāś ca kuśalaṃ tena kathāś cakruḥ surā api . dadhīcim abruvan devā bhāryayā sukhitaṃ punaḥ
||13||पृष्टाश् च कुशलं तेन कथाश् चक्रुः सुरा अपि । दधीचिम् अब्रुवन् देवा भार्यया सुखितं पुनः
āsīnaṃ hṛṣṭamanasa ṛṣiṃ natvā punaḥ punaḥ
||14||आसीनं हृष्टमनस ऋषिं नत्वा पुनः पुनः
devā ūcuḥ:
kim adya durlabhaṃ loke ṛṣe'smākaṃ bhaviṣyati . tvādṛśaḥ sakṛpo yeṣu munir bhūkalpapādapaḥ
||15||किम् अद्य दुर्लभं लोके ऋषेऽस्माकं भविष्यति । त्वादृशः सकृपो येषु मुनिर् भूकल्पपादपः
etad eva phalaṃ puṃsāṃ jīvatāṃ munisattama . tīrthāplutir bhūtadayā darśanaṃ ca bhavādṛśām
||16||एतद् एव फलं पुंसां जीवतां मुनिसत्तम । तीर्थाप्लुतिर् भूतदया दर्शनं च भवादृशाम्
yat snehād ucyate'smābhir avadhāraya tan mune . jitvā daityān iha prāptā hatvā rākṣasapuṅgavān
||17||यत् स्नेहाद् उच्यतेऽस्माभिर् अवधारय तन् मुने । जित्वा दैत्यान् इह प्राप्ता हत्वा राक्षसपुङ्गवान्
vayaṃ ca sukhino brahmaṃs tvayi dṛṣṭe viśeṣataḥ . nāyudhaiḥ phalam asmākaṃ voḍhuṃ naiva kṣamā vayam
||18||वयं च सुखिनो ब्रह्मंस् त्वयि दृष्टे विशेषतः । नायुधैः फलम् अस्माकं वोढुं नैव क्षमा वयम्
sthāpyadeśaṃ na paśyāma āyudhānāṃ munīśvara . svarge suradviṣo jñātvā sthāpitāni haranti ca
||19||स्थाप्यदेशं न पश्याम आयुधानां मुनीश्वर । स्वर्गे सुरद्विषो ज्ञात्वा स्थापितानि हरन्ति च
nayeyur āyudhānīti tathaiva ca rasātale . tasmāt tavāśrame puṇye sthāpyante'strāṇi mānada
||20||नयेयुर् आयुधानीति तथैव च रसातले । तस्मात् तवाश्रमे पुण्ये स्थाप्यन्तेऽस्त्राणि मानद
naivātra kiñcid bhayam asti vipra . na dānavebhyo rākṣasebhyaś ca ghoram . tvadājñayā rakṣitapuṇyadeśo . na vidyate tapasā te samānaḥ
||21||नैवात्र किञ्चिद् भयम् अस्ति विप्र । न दानवेभ्यो राक्षसेभ्यश् च घोरम् । त्वदाज्ञया रक्षितपुण्यदेशो । न विद्यते तपसा ते समानः
jitārayo brahmavidāṃ variṣṭhaṃ . vayaṃ ca pūrvaṃ nihatā daityasaṅghāḥ . astrair alaṃ bhārabhūtaiḥ kṛtārthaiḥ . sthāpyaṃ sthānaṃ te samīpe munīśa
||22||जितारयो ब्रह्मविदां वरिष्ठं । वयं च पूर्वं निहता दैत्यसङ्घाः । अस्त्रैर् अलं भारभूतैः कृतार्थैः । स्थाप्यं स्थानं ते समीपे मुनीश
divyān bhogān kāminībhiḥ sametān . devodyāne nandane sambhajāmaḥ . tato yāmaḥ kṛtakāryāḥ sahendrāḥ . svaṃ svaṃ sthānaṃ cāyudhānāṃ ca rakṣā
||23||दिव्यान् भोगान् कामिनीभिः समेतान् । देवोद्याने नन्दने सम्भजामः । ततो यामः कृतकार्याः सहेन्द्राः । स्वं स्वं स्थानं चायुधानां च रक्षा
tvayā kṛtā jāyatāṃ tat praśādhi . samarthas tvaṃ rakṣaṇe dhāraṇe ca
||24||त्वया कृता जायतां तत् प्रशाधि । समर्थस् त्वं रक्षणे धारणे च
brahmovāca:
tadvākyam ākarṇya dadhīcir evaṃ . vākyaṃ jagau vibudhān evam astu . nivāryamāṇaḥ priyaśīlayā striyā . kiṃ devakāryeṇa viruddhakāriṇā
||25||तद्वाक्यम् आकर्ण्य दधीचिर् एवं । वाक्यं जगौ विबुधान् एवम् अस्तु । निवार्यमाणः प्रियशीलया स्त्रिया । किं देवकार्येण विरुद्धकारिणा
ye jñātaśāstrāḥ paramārthaniṣṭhāḥ . saṃsāraceṣṭāsu gatānurāgāḥ . teṣāṃ parārthavyasanena kiṃ mune . yenātra vāmutra sukhaṃ na kiñcit
||26||ये ज्ञातशास्त्राः परमार्थनिष्ठाः । संसारचेष्टासु गतानुरागाः । तेषां परार्थव्यसनेन किं मुने । येनात्र वामुत्र सुखं न किञ्चित्
devadviṣo dveṣam anuprayānti . datte sthāne vipravarya śṛṇuṣva . naṣṭe hṛte cāyudhānāṃ munīśa . kupyanti devā ripavas te bhavanti
||27||देवद्विषो द्वेषम् अनुप्रयान्ति । दत्ते स्थाने विप्रवर्य शृणुष्व । नष्टे हृते चायुधानां मुनीश । कुप्यन्ति देवा रिपवस् ते भवन्ति
tasmān nedaṃ vedavidāṃ variṣṭha . yuktaṃ dravye parakīye mamatvam . tāvac ca maitrī dravyabhāvaś ca tāvan . naṣṭe hṛte ripavas te bhavanti
||28||तस्मान् नेदं वेदविदां वरिष्ठ । युक्तं द्रव्ये परकीये ममत्वम् । तावच् च मैत्री द्रव्यभावश् च तावन् । नष्टे हृते रिपवस् ते भवन्ति
ced asti śaktir dravyadāne tatas te . dātavyam evārthine kiṃ vicāryam . no cet santaḥ parakāryāṇi kuryur . vāgbhir manobhiḥ kṛtibhis tathaiva
||29||चेद् अस्ति शक्तिर् द्रव्यदाने ततस् ते । दातव्यम् एवार्थिने किं विचार्यम् । नो चेत् सन्तः परकार्याणि कुर्युर् । वाग्भिर् मनोभिः कृतिभिस् तथैव
parasvasandhāraṇam etad eva . sadbhir nirastaṃ tyaja kānta sadyaḥ
||30||परस्वसन्धारणम् एतद् एव । सद्भिर् निरस्तं त्यज कान्त सद्यः
brahmovāca:
evaṃ priyāyā vacanaṃ sa vipro . niśamya bhāryām idam āha subhrūm
||31||एवं प्रियाया वचनं स विप्रो । निशम्य भार्याम् इदम् आह सुभ्रूम्
dadhīcir uvāca:
purā surāṇām anumānya bhadre . netīti vāṇī na sukhaṃ mamaiti
||32||पुरा सुराणाम् अनुमान्य भद्रे । नेतीति वाणी न सुखं ममैति
brahmovāca:
śrutveritaṃ patyur iti priyāyāṃ . daivaṃ vinānyan na nṛṇāṃ samartham . tūṣṇīṃ sthitāyāṃ surasattamās te . saṃsthāpya cāstrāṇy atidīptimanti
||33||श्रुत्वेरितं पत्युर् इति प्रियायां । दैवं विनान्यन् न नृणां समर्थम् । तूष्णीं स्थितायां सुरसत्तमास् ते । संस्थाप्य चास्त्राण्य् अतिदीप्तिमन्ति
natvā munīndraṃ yayur eva lokān . daityadviṣo nyastaśastrāḥ kṛtārthāḥ . gateṣu deveṣu munipravaryo . hṛṣṭo'vasad bhāryayā dharmayuktaḥ
||34||नत्वा मुनीन्द्रं ययुर् एव लोकान् । दैत्यद्विषो न्यस्तशस्त्राः कृतार्थाः । गतेषु देवेषु मुनिप्रवर्यो । हृष्टोऽवसद् भार्यया धर्मयुक्तः
gate ca kāle hy ativiprayukte . daive varṣe saṅkhyayā vai sahasre . na te surā āyudhānāṃ munīśa . vācaṃ manaś cāpi tathaiva cakruḥ
||35||गते च काले ह्य् अतिविप्रयुक्ते । दैवे वर्षे सङ्ख्यया वै सहस्रे । न ते सुरा आयुधानां मुनीश । वाचं मनश् चापि तथैव चक्रुः
dadhīcir apy āha gabhastim ojasā . devārayo māṃ dviṣatīha bhadre . na te surā netukāmā bhavanti . saṃsthāpitāny atra vadasva yuktam
||36||दधीचिर् अप्य् आह गभस्तिम् ओजसा । देवारयो मां द्विषतीह भद्रे । न ते सुरा नेतुकामा भवन्ति । संस्थापितान्य् अत्र वदस्व युक्तम्
sā cāha kāntaṃ vinayād uktam eva . tvaṃ jānīṣe nātha yad atra yuktam . daityā hariṣyanti mahāpravṛddhās . tapoyuktā balinaḥ svāyudhāni
||37||सा चाह कान्तं विनयाद् उक्तम् एव । त्वं जानीषे नाथ यद् अत्र युक्तम् । दैत्या हरिष्यन्ति महाप्रवृद्धास् । तपोयुक्ता बलिनः स्वायुधानि
tadastrarakṣārtham idaṃ sa cakre . mantrais tu saṅkṣālya jalaiś ca puṇyaiḥ . tad vāri sarvāstramayaṃ supuṇyaṃ . tejoyuktaṃ tac ca papau dadhīciḥ
||38||तदस्त्ररक्षार्थम् इदं स चक्रे । मन्त्रैस् तु सङ्क्षाल्य जलैश् च पुण्यैः । तद् वारि सर्वास्त्रमयं सुपुण्यं । तेजोयुक्तं तच् च पपौ दधीचिः
nirvīryarūpāṇi tadāyudhāni . kṣayaṃ jagmuḥ kramaśaḥ kālayogāt . surāḥ samāgatya dadhīcim ūcur . mahābhayaṃ hy āgataṃ śātravaṃ naḥ
||39||निर्वीर्यरूपाणि तदायुधानि । क्षयं जग्मुः क्रमशः कालयोगात् । सुराः समागत्य दधीचिम् ऊचुर् । महाभयं ह्य् आगतं शात्रवं नः
dadasva cāstrāṇi munipravīra . yāni tvadante nihitāni devaiḥ . dadhīcir apy āha surāribhītyā . anāgatyā bhavatāṃ cācireṇa
||40||ददस्व चास्त्राणि मुनिप्रवीर । यानि त्वदन्ते निहितानि देवैः । दधीचिर् अप्य् आह सुरारिभीत्या । अनागत्या भवतां चाचिरेण
astrāṇi pītāni śarīrasaṃsthāny . uktāni yuktaṃ mama tad vadantu . śrutvā taduktaṃ vacanaṃ tu devāḥ . procus tam itthaṃ vinayāvanamrāḥ
||41||अस्त्राणि पीतानि शरीरसंस्थान्य् । उक्तानि युक्तं मम तद् वदन्तु । श्रुत्वा तदुक्तं वचनं तु देवाः । प्रोचुस् तम् इत्थं विनयावनम्राः
astrāṇi dehīti ca vaktum etac . chakyaṃ na vānyat prativaktuṃ munīndra . vinā ca taiḥ paribhūyema nityaṃ . puṣṭārayaḥ kva prayāmo munīśa
||42||अस्त्राणि देहीति च वक्तुम् एतच् । छक्यं न वान्यत् प्रतिवक्तुं मुनीन्द्र । विना च तैः परिभूयेम नित्यं । पुष्टारयः क्व प्रयामो मुनीश
na martyaloke na tale na nāke . vāsaḥ surāṇāṃ bhavitādya tāta . tvaṃ vipravaryas tapasā caiva yukto . nānyad vaktuṃ yujyate te purastāt
||43||न मर्त्यलोके न तले न नाके । वासः सुराणां भविताद्य तात । त्वं विप्रवर्यस् तपसा चैव युक्तो । नान्यद् वक्तुं युज्यते ते पुरस्तात्
vipras tadovāca madasthisaṃsthāny . astrāṇi gṛhṇantu na saṃśayo'tra . devās tam apy āhur anena kiṃ no hy . astrair hīnāḥ strītvam āptāḥ surendrāḥ
||44||विप्रस् तदोवाच मदस्थिसंस्थान्य् । अस्त्राणि गृह्णन्तु न संशयोऽत्र । देवास् तम् अप्य् आहुर् अनेन किं नो ह्य् । अस्त्रैर् हीनाः स्त्रीत्वम् आप्ताः सुरेन्द्राः
punas tadā cāha munipravīras . tyakṣye jīvān daihikān yogayuktaḥ . astrāṇi kurvantu madasthibhūtāny . anuttamāny uttamarūpavanti
||45||पुनस् तदा चाह मुनिप्रवीरस् । त्यक्ष्ये जीवान् दैहिकान् योगयुक्तः । अस्त्राणि कुर्वन्तु मदस्थिभूतान्य् । अनुत्तमान्य् उत्तमरूपवन्ति
kuruṣva cety āhur adīnasattvaṃ . dadhīcim ity uttaram agnikalpam . tadā tu tasya priyam īrayantī . na sānnidhye prātitheyī munīśa
||46||कुरुष्व चेत्य् आहुर् अदीनसत्त्वं । दधीचिम् इत्य् उत्तरम् अग्निकल्पम् । तदा तु तस्य प्रियम् ईरयन्ती । न सान्निध्ये प्रातिथेयी मुनीश
te cāpi devās tām adṛṣṭvaiva śīghraṃ . tasyā bhītā vipram ūcuḥ kuruṣva . tatyāja jīvān dustyajān prītiyukto . yathāsukhaṃ deham imaṃ juṣadhvam
||47||ते चापि देवास् ताम् अदृष्ट्वैव शीघ्रं । तस्या भीता विप्रम् ऊचुः कुरुष्व । तत्याज जीवान् दुस्त्यजान् प्रीतियुक्तो । यथासुखं देहम् इमं जुषध्वम्
madasthibhiḥ prītimanto bhavantu . surāḥ sarve kiṃ tu dehena kāryam
||48||मदस्थिभिः प्रीतिमन्तो भवन्तु । सुराः सर्वे किं तु देहेन कार्यम्
brahmovāca:
ity uktvāsau baddhapadmāsanastho . nāsāgradattākṣiprakāśaprasannaḥ . vāyuṃ savahniṃ madhyamodghāṭayogān . nītvā śanair daharākāśagarbham
||49||इत्य् उक्त्वासौ बद्धपद्मासनस्थो । नासाग्रदत्ताक्षिप्रकाशप्रसन्नः । वायुं सवह्निं मध्यमोद्घाटयोगान् । नीत्वा शनैर् दहराकाशगर्भम्
yad aprameyaṃ paramaṃ padaṃ yad . yad brahmarūpaṃ yad upāsitavyam . tatraiva vinyasya dhiyaṃ mahātmā . sāyujyatāṃ brahmaṇo'sau jagāma
||50||यद् अप्रमेयं परमं पदं यद् । यद् ब्रह्मरूपं यद् उपासितव्यम् । तत्रैव विन्यस्य धियं महात्मा । सायुज्यतां ब्रह्मणोऽसौ जगाम
nirjīvatāṃ prāptam abhīkṣya devāḥ . kalevaraṃ tasya surāś ca samyak . tvaṣṭāram apy ūcur atitvarantaḥ . kuruṣva cāstrāṇi bahūni sadyaḥ
||51||निर्जीवतां प्राप्तम् अभीक्ष्य देवाः । कलेवरं तस्य सुराश् च सम्यक् । त्वष्टारम् अप्य् ऊचुर् अतित्वरन्तः । कुरुष्व चास्त्राणि बहूनि सद्यः
sa cāpi tān āha kathaṃ nu kāryaṃ . kalevaraṃ brāhmaṇasyeha devāḥ . bibhemi kartuṃ dāruṇaṃ cākṣamo'haṃ . vidāritāny āyudhāny uttamāni
||52||स चापि तान् आह कथं नु कार्यं । कलेवरं ब्राह्मणस्येह देवाः । बिभेमि कर्तुं दारुणं चाक्षमोऽहं । विदारितान्य् आयुधान्य् उत्तमानि
tadasthibhūtāni karomi sadyas . tato devā gāḥ samūcus tvarantaḥ
||53||तदस्थिभूतानि करोमि सद्यस् । ततो देवा गाः समूचुस् त्वरन्तः
devā ūcuḥ:
vajraṃ mukhaṃ vaḥ kriyate hitārthaṃ . gāvo devair āyudhārthaṃ kṣaṇena . dadhīcidehaṃ tu vidārya yūyam . asthīni śuddhāni prayacchatādya
||54||वज्रं मुखं वः क्रियते हितार्थं । गावो देवैर् आयुधार्थं क्षणेन । दधीचिदेहं तु विदार्य यूयम् । अस्थीनि शुद्धानि प्रयच्छताद्य
brahmovāca:
tā devavākyāc ca tathaiva cakruḥ . saṃlihya cāsthīni daduḥ surāṇām . surās tvarā jagmur adīnasattvāḥ . svam ālayaṃ cāpi tathaiva gāvaḥ
||55||ता देववाक्याच् च तथैव चक्रुः । संलिह्य चास्थीनि ददुः सुराणाम् । सुरास् त्वरा जग्मुर् अदीनसत्त्वाः । स्वम् आलयं चापि तथैव गावः
kṛtvā tathāstrāṇi ca devatānāṃ . tvaṣṭā jagāmātha surājñayā tadā . tataś cirāc chīlavatī subhadrā . bhartuḥ priyā bālagarbhā tvarantī
||56||कृत्वा तथास्त्राणि च देवतानां । त्वष्टा जगामाथ सुराज्ञया तदा । ततश् चिराच् छीलवती सुभद्रा । भर्तुः प्रिया बालगर्भा त्वरन्ती
kare gṛhītvā kalaśaṃ vāripūrṇam . umāṃ natvā phalapuṣpaiḥ sametya . agniṃ ca bhartāram athāśramaṃ ca . sandraṣṭukāmā hy ājagāmātha śīghram
||57||करे गृहीत्वा कलशं वारिपूर्णम् । उमां नत्वा फलपुष्पैः समेत्य । अग्निं च भर्तारम् अथाश्रमं च । सन्द्रष्टुकामा ह्य् आजगामाथ शीघ्रम्
āgacchantīṃ tāṃ prātitheyīṃ tadānīṃ . nivārayām āsa tadolkapātaḥ . sā sambhramād āgatā cāśramaṃ svaṃ . naivāpaśyat tatra bhartāram agre
||58||आगच्छन्तीं तां प्रातिथेयीं तदानीं । निवारयाम् आस तदोल्कपातः । सा सम्भ्रमाद् आगता चाश्रमं स्वं । नैवापश्यत् तत्र भर्तारम् अग्रे
kva vā gataś ceti savismayā sā . papraccha cāgniṃ prātitheyī tadānīm . agnis tadovāca savistaraṃ tāṃ . devāgamaṃ yācanaṃ vai śarīre
||59||क्व वा गतश् चेति सविस्मया सा । पप्रच्छ चाग्निं प्रातिथेयी तदानीम् । अग्निस् तदोवाच सविस्तरं तां । देवागमं याचनं वै शरीरे
asthnām upādānam atha prayāṇaṃ . śrutvā sarvaṃ duḥkhitā sā babhūva . duḥkhodvegāt sā papātātha pṛthvyāṃ . mandaṃ mandaṃ vahnināśvāsitā ca
||60||अस्थ्नाम् उपादानम् अथ प्रयाणं । श्रुत्वा सर्वं दुःखिता सा बभूव । दुःखोद्वेगात् सा पपाताथ पृथ्व्यां । मन्दं मन्दं वह्निनाश्वासिता च
prātitheyy uvāca:
śāpe'marāṇāṃ tu nāhaṃ samarthā . agniṃ prāpsye kiṃ nu kāryaṃ bhaven me
||61||शापेऽमराणां तु नाहं समर्था । अग्निं प्राप्स्ये किं नु कार्यं भवेन् मे
brahmovāca:
kopaṃ ca duḥkhaṃ ca niyamya sādhvī . tadāvādīd dharmayuktaṃ ca bhartuḥ
||62||कोपं च दुःखं च नियम्य साध्वी । तदावादीद् धर्मयुक्तं च भर्तुः
prātitheyy uvāca:
utpadyate yat tu vināśi sarvaṃ . na śocyam astīti manuṣyaloke . govipradevārtham iha tyajanti . prāṇān priyān puṇyabhājo manuṣyāḥ
||63||उत्पद्यते यत् तु विनाशि सर्वं । न शोच्यम् अस्तीति मनुष्यलोके । गोविप्रदेवार्थम् इह त्यजन्ति । प्राणान् प्रियान् पुण्यभाजो मनुष्याः
saṃsāracakre parivartamāne . dehaṃ samarthaṃ dharmayuktaṃ tv avāpya . priyān prāṇān devaviprārthahetos . te vai dhanyāḥ prāṇino ye tyajanti
||64||संसारचक्रे परिवर्तमाने । देहं समर्थं धर्मयुक्तं त्व् अवाप्य । प्रियान् प्राणान् देवविप्रार्थहेतोस् । ते वै धन्याः प्राणिनो ये त्यजन्ति
prāṇāḥ sarve'syāpi dehānvitasya . yātāro vai nātra sandehaleśaḥ . arthaṃ cainān utsṛjantīśvarās te
||65||प्राणाः सर्वेऽस्यापि देहान्वितस्य । यातारो वै नात्र सन्देहलेशः । अर्थं चैनान् उत्सृजन्तीश्वरास् ते
nivāryamāṇo'pi mayā prapannayā . cakāra devāstraparigrahaṃ saḥ . manogataṃ vetty athavā vidhātuḥ . ko martyalokātigaceṣṭitasya
||66||निवार्यमाणोऽपि मया प्रपन्नया । चकार देवास्त्रपरिग्रहं सः । मनोगतं वेत्त्य् अथवा विधातुः । को मर्त्यलोकातिगचेष्टितस्य
brahmovāca:
ity evam uktvāpūjya cāgnīn yathāvad . bhartus tvacā lomabhiḥ sā viveśa . garbhasthitaṃ bālakaṃ prātitheyī . kukṣiṃ vidāryātha kare gṛhītvā
||67||इत्य् एवम् उक्त्वापूज्य चाग्नीन् यथावद् । भर्तुस् त्वचा लोमभिः सा विवेश । गर्भस्थितं बालकं प्रातिथेयी । कुक्षिं विदार्याथ करे गृहीत्वा
natvā ca gaṅgāṃ bhuvam āśramaṃ ca . vanaspatīn oṣadhīr āśramasthān
||68||नत्वा च गङ्गां भुवम् आश्रमं च । वनस्पतीन् ओषधीर् आश्रमस्थान्
prātitheyy uvāca:
pitrā hīno bandhubhir gotrajaiś ca . mātrā hīno bālakaḥ sarva eva . rakṣantu sarve'pi ca bhūtasaṅghās . tathauṣadhyo bālakaṃ lokapālāḥ
||69||पित्रा हीनो बन्धुभिर् गोत्रजैश् च । मात्रा हीनो बालकः सर्व एव । रक्षन्तु सर्वेऽपि च भूतसङ्घास् । तथौषध्यो बालकं लोकपालाः
ye bālakaṃ mātṛpitṛprahīṇaṃ . sanirviśeṣaṃ svatanuprarūḍhaiḥ . paśyanti rakṣanti ta eva nūnaṃ . brahmādikānām api vandanīyāḥ
||70||ये बालकं मातृपितृप्रहीणं । सनिर्विशेषं स्वतनुप्ररूढैः । पश्यन्ति रक्षन्ति त एव नूनं । ब्रह्मादिकानाम् अपि वन्दनीयाः
brahmovāca:
ity uktvā cātyajad bālaṃ bhartṛcittaparāyaṇā . pippalānāṃ samīpe tu nyasya bālaṃ namasya ca
||71||इत्य् उक्त्वा चात्यजद् बालं भर्तृचित्तपरायणा । पिप्पलानां समीपे तु न्यस्य बालं नमस्य च
agniṃ pradakṣiṇīkṛtya yajñapātrasamanvitā . viveśāgniṃ prātitheyī bhartrā saha divaṃ yayau
||72||अग्निं प्रदक्षिणीकृत्य यज्ञपात्रसमन्विता । विवेशाग्निं प्रातिथेयी भर्त्रा सह दिवं ययौ
ruruduś cāśramasthā ye vṛkṣāś ca vanavāsinaḥ . putravat poṣitā yena ṛṣiṇā ca dadhīcinā
||73||रुरुदुश् चाश्रमस्था ये वृक्षाश् च वनवासिनः । पुत्रवत् पोषिता येन ऋषिणा च दधीचिना
vinā tena na jīvāmas tayā mātrā vinā tathā . mṛgāś ca pakṣiṇaḥ sarve vṛkṣāḥ procuḥ parasparam
||74||विना तेन न जीवामस् तया मात्रा विना तथा । मृगाश् च पक्षिणः सर्वे वृक्षाः प्रोचुः परस्परम्
vṛkṣā ūcuḥ:
svargam āseduṣoḥ pitros tadapatyeṣv akṛtrimam . ye kurvanty aniśaṃ snehaṃ ta eva kṛtino narāḥ
||75||स्वर्गम् आसेदुषोः पित्रोस् तदपत्येष्व् अकृत्रिमम् । ये कुर्वन्त्य् अनिशं स्नेहं त एव कृतिनो नराः
dadhīciḥ prātitheyī vā vīkṣate'smān yathā purā . tathā pitā na mātā vā dhig asmān pāpino vayam
||76||दधीचिः प्रातिथेयी वा वीक्षतेऽस्मान् यथा पुरा । तथा पिता न माता वा धिग् अस्मान् पापिनो वयम्
asmākam api sarveṣām ataḥ prabhṛti niścitam . bālo dadhīciḥ prātitheyī bālo dharmaḥ sanātanaḥ
||77||अस्माकम् अपि सर्वेषाम् अतः प्रभृति निश्चितम् । बालो दधीचिः प्रातिथेयी बालो धर्मः सनातनः
brahmovāca:
evam uktvā tadauṣadhyo vanaspatisamanvitāḥ . somaṃ rājānam abhyetya yācire'mṛtam uttamam
||78||एवम् उक्त्वा तदौषध्यो वनस्पतिसमन्विताः । सोमं राजानम् अभ्येत्य याचिरेऽमृतम् उत्तमम्
sa cāpi dattavāṃs tebhyaḥ somo'mṛtam anuttamam . dadur bālāya te cāpi amṛtaṃ suravallabham
||79||स चापि दत्तवांस् तेभ्यः सोमोऽमृतम् अनुत्तमम् । ददुर् बालाय ते चापि अमृतं सुरवल्लभम्
sa tena tṛpto vavṛdhe śuklapakṣe yathā śaśī . pippalaiḥ pālito yasmāt pippalādaḥ sa bālakaḥ . pravṛddhaḥ pippalān evam uvāca tv ativismitaḥ
||80||स तेन तृप्तो ववृधे शुक्लपक्षे यथा शशी । पिप्पलैः पालितो यस्मात् पिप्पलादः स बालकः । प्रवृद्धः पिप्पलान् एवम् उवाच त्व् अतिविस्मितः
pippalāda uvāca:
mānuṣebhyo mānuṣās tu jāyante pakṣibhiḥ khagāḥ . bījebhyo vīrudho loke vaiṣamyaṃ naiva dṛśyate . vārkṣas tv ahaṃ kathaṃ jāto hastapādādijīvavān
||81||मानुषेभ्यो मानुषास् तु जायन्ते पक्षिभिः खगाः । बीजेभ्यो वीरुधो लोके वैषम्यं नैव दृश्यते । वार्क्षस् त्व् अहं कथं जातो हस्तपादादिजीववान्
brahmovāca:
vṛkṣās tadvacanaṃ śrutvā sarvam ūcur yathākramam . dadhīcer maraṇaṃ sādhvyās tathā cāgnipraveśanam
||82||वृक्षास् तद्वचनं श्रुत्वा सर्वम् ऊचुर् यथाक्रमम् । दधीचेर् मरणं साध्व्यास् तथा चाग्निप्रवेशनम्
asthnāṃ saṃharaṇaṃ devair etat sarvaṃ savistaram . śrutvā duḥkhasamāviṣṭo nipapāta tadā bhuvi
||83||अस्थ्नां संहरणं देवैर् एतत् सर्वं सविस्तरम् । श्रुत्वा दुःखसमाविष्टो निपपात तदा भुवि
āśvāsitaḥ punar vṛkṣair vākyair dharmārthasaṃhitaiḥ . āśvastaḥ sa punaḥ prāha tadauṣadhivanaspatīn
||84||आश्वासितः पुनर् वृक्षैर् वाक्यैर् धर्मार्थसंहितैः । आश्वस्तः स पुनः प्राह तदौषधिवनस्पतीन्
pippalāda uvāca:
pitṛhantṝn haniṣye'haṃ nānyathā jīvituṃ kṣamaḥ . pitur mitrāṇi śatrūṃś ca tathā putro'nuvartate
||85||पितृहन्तॄन् हनिष्येऽहं नान्यथा जीवितुं क्षमः । पितुर् मित्राणि शत्रूंश् च तथा पुत्रोऽनुवर्तते
sa eva putro yo'nyas tu putrarūpo ripuḥ smṛtaḥ . vadanti pitṛmitrāṇi tārayanty ahitān api
||86||स एव पुत्रो योऽन्यस् तु पुत्ररूपो रिपुः स्मृतः । वदन्ति पितृमित्राणि तारयन्त्य् अहितान् अपि
brahmovāca:
vṛkṣās taṃ bālam ādāya somāntikam athāyayuḥ . bālavākyaṃ tu te vṛkṣāḥ somāyātha nyavedayan . śrutvā somo'pi taṃ bālaṃ pippalādam abhāṣata
||87||वृक्षास् तं बालम् आदाय सोमान्तिकम् अथाययुः । बालवाक्यं तु ते वृक्षाः सोमायाथ न्यवेदयन् । श्रुत्वा सोमोऽपि तं बालं पिप्पलादम् अभाषत
soma uvāca:
gṛhāṇa vidyāṃ vidhivat samagrāṃ . tapaḥsamṛddhiṃ ca śubhāṃ ca vācam . śauryaṃ ca rūpaṃ ca balaṃ ca buddhiṃ . samprāpsyase putra madājñayā tvam
||88||गृहाण विद्यां विधिवत् समग्रां । तपःसमृद्धिं च शुभां च वाचम् । शौर्यं च रूपं च बलं च बुद्धिं । सम्प्राप्स्यसे पुत्र मदाज्ञया त्वम्
brahmovāca:
pippalādas tam apy āha oṣadhīśaṃ vinītavat
||89||पिप्पलादस् तम् अप्य् आह ओषधीशं विनीतवत्
pippalāda uvāca:
sarvam etad vṛthā manye pitṛhantṛviniṣkṛtim . na karomy atra yāvac ca tasmāt tat prathamaṃ vada
||90||सर्वम् एतद् वृथा मन्ये पितृहन्तृविनिष्कृतिम् । न करोम्य् अत्र यावच् च तस्मात् तत् प्रथमं वद
yasmin deśe yatra kāle yasmin deve ca mantrake . yatra tīrthe ca sidhyeta matsaṅkalpaḥ surottama
||91||यस्मिन् देशे यत्र काले यस्मिन् देवे च मन्त्रके । यत्र तीर्थे च सिध्येत मत्सङ्कल्पः सुरोत्तम
brahmovāca:
candraḥ prāha ciraṃ dhyātvā bhuktir vā muktir eva vā . sarvaṃ maheśvarād devāj jāyate nātra saṃśayaḥ
||92||चन्द्रः प्राह चिरं ध्यात्वा भुक्तिर् वा मुक्तिर् एव वा । सर्वं महेश्वराद् देवाज् जायते नात्र संशयः
sa somaṃ punar apy āha kathaṃ drakṣye maheśvaram . bālo'haṃ bālabuddhiś ca na sāmarthyaṃ tapas tathā
||93||स सोमं पुनर् अप्य् आह कथं द्रक्ष्ये महेश्वरम् । बालोऽहं बालबुद्धिश् च न सामर्थ्यं तपस् तथा
candra uvāca:
gautamīṃ gaccha bhadra tvaṃ stuhi cakreśvaraṃ haram . prasannas tu taveśāno hy alpāyāsena vatsaka
||94||गौतमीं गच्छ भद्र त्वं स्तुहि चक्रेश्वरं हरम् । प्रसन्नस् तु तवेशानो ह्य् अल्पायासेन वत्सक
prīto bhaven mahādevaḥ sākṣāt kāruṇikaḥ śivaḥ . āste sākṣātkṛtaḥ śambhur viṣṇunā prabhaviṣṇunā
||95||प्रीतो भवेन् महादेवः साक्षात् कारुणिकः शिवः । आस्ते साक्षात्कृतः शम्भुर् विष्णुना प्रभविष्णुना
varaṃ ca dattavān viṣṇoś cakraṃ ca tridaśārcitam . gaccha tatra mahābuddhe daṇḍake gautamīṃ nadīm
||96||वरं च दत्तवान् विष्णोश् चक्रं च त्रिदशार्चितम् । गच्छ तत्र महाबुद्धे दण्डके गौतमीं नदीम्
cakreśvaraṃ nāma tīrthaṃ jānanty oṣadhayas tu tat . taṃ gatvā stuhi deveśaṃ sarvabhāvena śaṅkaram . sa te prītamanās tāta sarvān kāmān pradāsyati
||97||चक्रेश्वरं नाम तीर्थं जानन्त्य् ओषधयस् तु तत् । तं गत्वा स्तुहि देवेशं सर्वभावेन शङ्करम् । स ते प्रीतमनास् तात सर्वान् कामान् प्रदास्यति
brahmovāca:
tad rājavacanād brahman pippalādo mahāmuniḥ . ājagāma jagannātho yatra rudraḥ sa cakradaḥ
||98||तद् राजवचनाद् ब्रह्मन् पिप्पलादो महामुनिः । आजगाम जगन्नाथो यत्र रुद्रः स चक्रदः
taṃ bālaṃ kṛpayāviṣṭāḥ pippalāḥ svāśramān yayuḥ . godāvaryāṃ tataḥ snātvā natvā tribhuvaneśvaram . tuṣṭāva sarvabhāvena pippalādaḥ śivaṃ śuciḥ
||99||तं बालं कृपयाविष्टाः पिप्पलाः स्वाश्रमान् ययुः । गोदावर्यां ततः स्नात्वा नत्वा त्रिभुवनेश्वरम् । तुष्टाव सर्वभावेन पिप्पलादः शिवं शुचिः
pippalāda uvāca:
sarvāṇi karmāṇi vihāya dhīrās . tyaktaiṣaṇā nirjitacittavātāḥ . yaṃ yānti muktyai śaraṇaṃ prayatnāt . tam ādidevaṃ praṇamāmi śambhum
||100||सर्वाणि कर्माणि विहाय धीरास् । त्यक्तैषणा निर्जितचित्तवाताः । यं यान्ति मुक्त्यै शरणं प्रयत्नात् । तम् आदिदेवं प्रणमामि शम्भुम्
yaḥ sarvasākṣī sakalāntarātmā . sarveśvaraḥ sarvakalānidhānam . vijñāya maccittagataṃ samastaṃ . sa me smarāriḥ karuṇāṃ karotu
||101||यः सर्वसाक्षी सकलान्तरात्मा । सर्वेश्वरः सर्वकलानिधानम् । विज्ञाय मच्चित्तगतं समस्तं । स मे स्मरारिः करुणां करोतु
digīśvarāñ jitya surārcitasya . kailāsam āndolayataḥ purāreḥ . gatasya tasyaiva daśānanasya
||102||दिगीश्वराञ् जित्य सुरार्चितस्य । कैलासम् आन्दोलयतः पुरारेः । गतस्य तस्यैव दशाननस्य
ālūnakāyasya giraṃ niśamya . vihasya devyā saha dattam iṣṭam . tasmai prasannaḥ kupito'pi tadvad . ayuktadātāsi maheśvara tvam
||103||आलूनकायस्य गिरं निशम्य । विहस्य देव्या सह दत्तम् इष्टम् । तस्मै प्रसन्नः कुपितोऽपि तद्वद् । अयुक्तदातासि महेश्वर त्वम्
sautrāmaṇīm ṛddhim adhaḥ sa cakre . yo'rcāṃ harau nityam atīva kṛtvā . bāṇaḥ praśasyaḥ kṛtavān uccapūjāṃ . ramyāṃ manojñāṃ śaśikhaṇḍamauleḥ
||104||सौत्रामणीम् ऋद्धिम् अधः स चक्रे । योऽर्चां हरौ नित्यम् अतीव कृत्वा । बाणः प्रशस्यः कृतवान् उच्चपूजां । रम्यां मनोज्ञां शशिखण्डमौलेः
jitvā ripūn devagaṇān prapūjya . guruṃ namaskartum agād viśākhaḥ . cukopa dṛṣṭvā gaṇanātham ūḍham . aṅke tam āropya jahāsa somaḥ
||105||जित्वा रिपून् देवगणान् प्रपूज्य । गुरुं नमस्कर्तुम् अगाद् विशाखः । चुकोप दृष्ट्वा गणनाथम् ऊढम् । अङ्के तम् आरोप्य जहास सोमः
īśāṅkarūḍho'pi śiśusvabhāvān . na mātur aṅkaṃ pramumoca bālaḥ . kruddhaṃ sutaṃ bodhitum apy aśaktas . tato'rdhanāritvam avāpa somaḥ
||106||ईशाङ्करूढोऽपि शिशुस्वभावान् । न मातुर् अङ्कं प्रमुमोच बालः । क्रुद्धं सुतं बोधितुम् अप्य् अशक्तस् । ततोऽर्धनारित्वम् अवाप सोमः
brahmovāca:
tataḥ svayambhūḥ suprītaḥ pippalādam abhāṣata
||107||ततः स्वयम्भूः सुप्रीतः पिप्पलादम् अभाषत
śiva uvāca:
varaṃ varaya bhadraṃ te pippalāda yathepsitam
||108||वरं वरय भद्रं ते पिप्पलाद यथेप्सितम्
pippalāda uvāca:
hato devair mahādeva pitā mama mahāyaśāḥ . adāmbhikaḥ satyavādī tathā mātā pativratā
||109||हतो देवैर् महादेव पिता मम महायशाः । अदाम्भिकः सत्यवादी तथा माता पतिव्रता
devebhyaś ca tayor nāśaṃ śrutvā nātha savistaram . duḥkhakopasamāviṣṭo nāhaṃ jīvitum utsahe
||110||देवेभ्यश् च तयोर् नाशं श्रुत्वा नाथ सविस्तरम् । दुःखकोपसमाविष्टो नाहं जीवितुम् उत्सहे
tasmān me dehi sāmarthyaṃ nāśayeyaṃ surān yathā . avadhyasevyas trailokye tvam eva śaśiśekhara
||111||तस्मान् मे देहि सामर्थ्यं नाशयेयं सुरान् यथा । अवध्यसेव्यस् त्रैलोक्ये त्वम् एव शशिशेखर
īśvara uvāca:
tṛtīyaṃ nayanaṃ draṣṭuṃ yadi śaknoṣi me'nagha . tataḥ samartho bhavitā devāṃś chedayituṃ bhavān
||112||तृतीयं नयनं द्रष्टुं यदि शक्नोषि मेऽनघ । ततः समर्थो भविता देवांश् छेदयितुं भवान्
brahmovāca:
tato draṣṭuṃ manaś cakre tṛtīyaṃ locanaṃ vibhoḥ . na śaśāka tadovāca na śakto'smīti śaṅkaram
||113||ततो द्रष्टुं मनश् चक्रे तृतीयं लोचनं विभोः । न शशाक तदोवाच न शक्तोऽस्मीति शङ्करम्
īśvara uvāca:
kiñcit kuru tapo bāla yadā drakṣyasi locanam . tṛtīyaṃ tvaṃ tadābhīṣṭaṃ prāpsyase nātra saṃśayaḥ
||114||किञ्चित् कुरु तपो बाल यदा द्रक्ष्यसि लोचनम् । तृतीयं त्वं तदाभीष्टं प्राप्स्यसे नात्र संशयः
brahmovāca:
etac chrutveśānavākyaṃ tapase kṛtaniścayaḥ . dadhīcisūnur dharmātmā tatraiva bahulāḥ samāḥ
||115||एतच् छ्रुत्वेशानवाक्यं तपसे कृतनिश्चयः । दधीचिसूनुर् धर्मात्मा तत्रैव बहुलाः समाः
śivadhyānaikanirato bālo'pi balavān iva . pratyahaṃ prātar utthāya snātvā natvā gurūn kramāt
||116||शिवध्यानैकनिरतो बालोऽपि बलवान् इव । प्रत्यहं प्रातर् उत्थाय स्नात्वा नत्वा गुरून् क्रमात्
sukhāsīno manaḥ kṛtvā suṣumnāyām ananyadhīḥ . hastasvastikam āropya nābhau vismṛtasaṃsṛtiḥ
||117||सुखासीनो मनः कृत्वा सुषुम्नायाम् अनन्यधीः । हस्तस्वस्तिकम् आरोप्य नाभौ विस्मृतसंसृतिः
sthānāt sthānāntarotkarṣān vidadhyau śāmbhavaṃ mahaḥ . dadarśa cakṣur devasya tṛtīyaṃ pippalāśanaḥ . kṛtāñjalipuṭo bhūtvā vinīta idam abravīt
||118||स्थानात् स्थानान्तरोत्कर्षान् विदध्यौ शाम्भवं महः । ददर्श चक्षुर् देवस्य तृतीयं पिप्पलाशनः । कृताञ्जलिपुटो भूत्वा विनीत इदम् अब्रवीत्
pippalāda uvāca:
śambhunā devadevena varo dattaḥ purā mama . tārtīyacakṣuṣo jyotir yadā paśyasi tatkṣaṇāt
||119||शम्भुना देवदेवेन वरो दत्तः पुरा मम । तार्तीयचक्षुषो ज्योतिर् यदा पश्यसि तत्क्षणात्
sarvaṃ te prārthitaṃ sidhyed ity āha tridaśeśvaraḥ . tasmād ripuvināśāya hetubhūtāṃ prayaccha me
||120||सर्वं ते प्रार्थितं सिध्येद् इत्य् आह त्रिदशेश्वरः । तस्माद् रिपुविनाशाय हेतुभूतां प्रयच्छ मे
tadaiva pippalāḥ procur vaḍavāpi mahādyute . mātā tava prātitheyī vadanty evaṃ divaṃ gatā
||121||तदैव पिप्पलाः प्रोचुर् वडवापि महाद्युते । माता तव प्रातिथेयी वदन्त्य् एवं दिवं गता
parābhidrohaniratā vismṛtātmahitā narāḥ . itas tato bhrāntacittāḥ patanti narakāvaṭe
||122||पराभिद्रोहनिरता विस्मृतात्महिता नराः । इतस् ततो भ्रान्तचित्ताः पतन्ति नरकावटे
tan mātṛvacanaṃ śrutvā kupitaḥ pippalāśanaḥ . abhimāne jvalaty antaḥ sādhuvādo nirarthakaḥ
||123||तन् मातृवचनं श्रुत्वा कुपितः पिप्पलाशनः । अभिमाने ज्वलत्य् अन्तः साधुवादो निरर्थकः
dehi dehīti taṃ prāha kṛtyā netravinirgatā . vaḍaveti smaran vipraḥ kṛtyāpi vaḍavākṛtiḥ
||124||देहि देहीति तं प्राह कृत्या नेत्रविनिर्गता । वडवेति स्मरन् विप्रः कृत्यापि वडवाकृतिः
sarvasattvavināśāya prabhūtānalagarbhiṇī . gabhastinī bālagarbhā yā mātā pippalāśinaḥ
||125||सर्वसत्त्वविनाशाय प्रभूतानलगर्भिणी । गभस्तिनी बालगर्भा या माता पिप्पलाशिनः
taddhyānayogāt tu jātā kṛtyā sānalagarbhiṇī . utpannā sā mahāraudrā mṛtyujihveva bhīṣaṇā
||126||तद्ध्यानयोगात् तु जाता कृत्या सानलगर्भिणी । उत्पन्ना सा महारौद्रा मृत्युजिह्वेव भीषणा
avocat pippalādaṃ taṃ kiṃ kṛtyaṃ me vadasva tat . pippalādo'pi tāṃ prāha devān khāda ripūn mama
||127||अवोचत् पिप्पलादं तं किं कृत्यं मे वदस्व तत् । पिप्पलादोऽपि तां प्राह देवान् खाद रिपून् मम
jagrāha sā tathety uktvā pippalādaṃ purasthitam . sa prāha kim idaṃ kṛtye sā cāpy āha tvayoditam
||128||जग्राह सा तथेत्य् उक्त्वा पिप्पलादं पुरस्थितम् । स प्राह किम् इदं कृत्ये सा चाप्य् आह त्वयोदितम्
devaiś ca nirmitaṃ dehaṃ tato bhītaḥ śivaṃ yayau . tuṣṭāva devaṃ sa muniḥ kṛtyāṃ prāha tadā śivaḥ
||129||देवैश् च निर्मितं देहं ततो भीतः शिवं ययौ । तुष्टाव देवं स मुनिः कृत्यां प्राह तदा शिवः
śiva uvāca:
yojanāntaḥsthitāñ jīvān na gṛhāṇa madājñayā . tasmād yāhi tato dūraṃ kṛtye kṛtyaṃ tataḥ kuru
||130||योजनान्तःस्थिताञ् जीवान् न गृहाण मदाज्ञया । तस्माद् याहि ततो दूरं कृत्ये कृत्यं ततः कुरु
brahmovāca:
tīrthāt tu pippalāt pūrvaṃ yāvad yojanasaṅkhyayā . prātiṣṭhad vaḍavārūpā kṛtyā sā ṛṣinirmitā
||131||तीर्थात् तु पिप्पलात् पूर्वं यावद् योजनसङ्ख्यया । प्रातिष्ठद् वडवारूपा कृत्या सा ऋषिनिर्मिता
tasyāṃ jāto mahān agnir lokasaṃharaṇakṣamaḥ . taṃ dṛṣṭvā vibudhāḥ sarve trastāḥ śambhum upāgaman
||132||तस्यां जातो महान् अग्निर् लोकसंहरणक्षमः । तं दृष्ट्वा विबुधाः सर्वे त्रस्ताः शम्भुम् उपागमन्
cakreśvaraṃ pippaleśaṃ pippalādena toṣitam . stuvanto bhītamanasaḥ śambhum ūcur divaukasaḥ
||133||चक्रेश्वरं पिप्पलेशं पिप्पलादेन तोषितम् । स्तुवन्तो भीतमनसः शम्भुम् ऊचुर् दिवौकसः
devā ūcuḥ:
rakṣasva śambho kṛtyāsmān bādhate tadbhavānalaḥ . śaraṇaṃ bhava sarveśa bhītānām abhayaprada
||134||रक्षस्व शम्भो कृत्यास्मान् बाधते तद्भवानलः । शरणं भव सर्वेश भीतानाम् अभयप्रद
sarvataḥ paribhūtānām ārtānāṃ śrāntacetasām . sarveṣām eva jantūnāṃ tvam eva śaraṇaṃ śiva
||135||सर्वतः परिभूतानाम् आर्तानां श्रान्तचेतसाम् । सर्वेषाम् एव जन्तूनां त्वम् एव शरणं शिव
ṛṣiṇābhyarthitā kṛtyā tvaccakṣurvahninirgatā . sā jighāṃsati lokāṃs trīṃs tvaṃ nas trātā na cetaraḥ
||136||ऋषिणाभ्यर्थिता कृत्या त्वच्चक्षुर्वह्निनिर्गता । सा जिघांसति लोकांस् त्रींस् त्वं नस् त्राता न चेतरः
brahmovāca:
tān abravīj jagannātho yojanāntarnivāsinaḥ . na bādhate tv asau kṛtyā tasmād yūyam aharniśam . ihaivāsadhvam amarās tasyā vo na bhayaṃ bhavet
||137||तान् अब्रवीज् जगन्नाथो योजनान्तर्निवासिनः । न बाधते त्व् असौ कृत्या तस्माद् यूयम् अहर्निशम् । इहैवासध्वम् अमरास् तस्या वो न भयं भवेत्
brahmovāca:
punar ūcuḥ sureśānaṃ tvayā dattaṃ triviṣṭapam . tat tyaktvātra kathaṃ nātha vatsyāmas tridaśārcita
||138||पुनर् ऊचुः सुरेशानं त्वया दत्तं त्रिविष्टपम् । तत् त्यक्त्वात्र कथं नाथ वत्स्यामस् त्रिदशार्चित
brahmovāca:
devānāṃ vacanaṃ śrutvā śivo vākyam athābravīt
||140||देवानां वचनं श्रुत्वा शिवो वाक्यम् अथाब्रवीत्
śiva uvāca:
devo'sau viśvataścakṣur yo devo viśvatomukhaḥ . yo raśmibhis tu dhamate nityaṃ yo janako mataḥ
||141||देवोऽसौ विश्वतश्चक्षुर् यो देवो विश्वतोमुखः । यो रश्मिभिस् तु धमते नित्यं यो जनको मतः
sa sūrya eka evātra sākṣād rūpeṇa sarvadā . sthitiṃ karotu tanmūrtau bhaviṣyanty akhilāḥ sthitāḥ
||142||स सूर्य एक एवात्र साक्षाद् रूपेण सर्वदा । स्थितिं करोतु तन्मूर्तौ भविष्यन्त्य् अखिलाः स्थिताः
brahmovāca:
tatheti śambhuvacanāt pārijātataros tadā . devā divākaraṃ cakrus tvaṣṭā bhāskaram abravīt
||143||तथेति शम्भुवचनात् पारिजाततरोस् तदा । देवा दिवाकरं चक्रुस् त्वष्टा भास्करम् अब्रवीत्
tvaṣṭovāca:
ihaivāssva jagatsvāmin rakṣemān vibudhān svayam . svāṃśaiś ca vayam apy atra tiṣṭhāmaḥ śambhusannidhau
||144||इहैवास्स्व जगत्स्वामिन् रक्षेमान् विबुधान् स्वयम् । स्वांशैश् च वयम् अप्य् अत्र तिष्ठामः शम्भुसन्निधौ
cakreśvarasya parito yāvad yojanasaṅkhyayā . gaṅgāyā ubhayaṃ tīram āsādyāsan surottamāḥ
||145||चक्रेश्वरस्य परितो यावद् योजनसङ्ख्यया । गङ्गाया उभयं तीरम् आसाद्यासन् सुरोत्तमाः
aṅgulyardhārdhamātraṃ tu gaṅgātīraṃ samāśritāḥ . tisraḥ koṭyas tathā pañca śatāni munisattama . tīrthānāṃ tatra vyuṣṭiṃ ca kaḥ śṛṇoti bravīti vā
||146||अङ्गुल्यर्धार्धमात्रं तु गङ्गातीरं समाश्रिताः । तिस्रः कोट्यस् तथा पञ्च शतानि मुनिसत्तम । तीर्थानां तत्र व्युष्टिं च कः शृणोति ब्रवीति वा
brahmovāca:
tataḥ suragaṇāḥ sarve vinītāḥ śivam abruvan
||147||ततः सुरगणाः सर्वे विनीताः शिवम् अब्रुवन्
devā ūcuḥ:
pippalādaṃ sureśāna śamaṃ naya jaganmaya
||148||पिप्पलादं सुरेशान शमं नय जगन्मय
brahmovāca:
om ity uktvā jagannāthaḥ pippalādam avocata
||149||ओम् इत्य् उक्त्वा जगन्नाथः पिप्पलादम् अवोचत
śiva uvāca:
nāśiteṣv api deveṣu pitā te nāgamiṣyati . dattāḥ pitrā tava prāṇā devānāṃ kāryasiddhaye
||150||नाशितेष्व् अपि देवेषु पिता ते नागमिष्यति । दत्ताः पित्रा तव प्राणा देवानां कार्यसिद्धये
dīnārtakaruṇābandhuḥ ko hi tādṛgbhave bhavet . tathā yātā divaṃ tāta tava mātā pativratā
||151||दीनार्तकरुणाबन्धुः को हि तादृग्भवे भवेत् । तथा याता दिवं तात तव माता पतिव्रता
samā kāpy atra matayā lopāmudrāpy arundhatī . yad asthibhiḥ surāḥ sarve jayinaḥ sukhinaḥ sadā
||152||समा काप्य् अत्र मतया लोपामुद्राप्य् अरुन्धती । यद् अस्थिभिः सुराः सर्वे जयिनः सुखिनः सदा
tenāvāptaṃ yaśaḥ sphītaṃ tava mātrākṣayaṃ kṛtam . tvayā putreṇa sarvatra nātaḥ parataraṃ kṛtam
||153||तेनावाप्तं यशः स्फीतं तव मात्राक्षयं कृतम् । त्वया पुत्रेण सर्वत्र नातः परतरं कृतम्
tvatpratāpabhayāt svargāc cyutāṃs tvaṃ pātum arhasi . kāndiśīkāṃs tava bhayād amarāṃs trātum arhasi . nārtatrāṇād abhyadhikaṃ sukṛtaṃ kvāpi vidyate
||154||त्वत्प्रतापभयात् स्वर्गाच् च्युतांस् त्वं पातुम् अर्हसि । कान्दिशीकांस् तव भयाद् अमरांस् त्रातुम् अर्हसि । नार्तत्राणाद् अभ्यधिकं सुकृतं क्वापि विद्यते
yāvad yaśaḥ sphurati cāru manuṣyaloke . ahāni tāvanti divaṃ gatasya . dine dine varṣasaṅkhyā parasmiṃl . loke vāso jāyate nirvikāraḥ
||155||यावद् यशः स्फुरति चारु मनुष्यलोके । अहानि तावन्ति दिवं गतस्य । दिने दिने वर्षसङ्ख्या परस्मिंल् । लोके वासो जायते निर्विकारः
mṛtās ta evātra yaśo na yeṣām . andhās ta eva śrutavarjitā ye . ye dānaśīlā na napuṃsakās te . ye dharmaśīlā na ta eva śocyāḥ
||156||मृतास् त एवात्र यशो न येषाम् । अन्धास् त एव श्रुतवर्जिता ये । ये दानशीला न नपुंसकास् ते । ये धर्मशीला न त एव शोच्याः
brahmovāca:
bhāṣitaṃ devadevasya śrutvā śānto'bhavan muniḥ . kṛtāñjalipuṭo bhūtvā natvā nātham athābravīt
||157||भाषितं देवदेवस्य श्रुत्वा शान्तोऽभवन् मुनिः । कृताञ्जलिपुटो भूत्वा नत्वा नाथम् अथाब्रवीत्
pippalāda uvāca:
vāgbhir manobhiḥ kṛtibhiḥ kadācin . mamopakurvanti hite ratā ye . tebhyo hitārthaṃ tv iha cāpareṣāṃ . somaṃ namasyāmi surādipūjyam
||158||वाग्भिर् मनोभिः कृतिभिः कदाचिन् । ममोपकुर्वन्ति हिते रता ये । तेभ्यो हितार्थं त्व् इह चापरेषां । सोमं नमस्यामि सुरादिपूज्यम्
saṃrakṣito yair abhivardhitaś ca . samānagotraś ca samānadharmā . teṣām abhīṣṭāni śivaḥ karotu . bālendumauliṃ praṇato'smi nityam
||159||संरक्षितो यैर् अभिवर्धितश् च । समानगोत्रश् च समानधर्मा । तेषाम् अभीष्टानि शिवः करोतु । बालेन्दुमौलिं प्रणतोऽस्मि नित्यम्
yair ahaṃ vardhito nityaṃ mātṛvat pitṛvat prabho . tannāmnā jāyatāṃ tīrthaṃ devadeva jagattraye
||160||यैर् अहं वर्धितो नित्यं मातृवत् पितृवत् प्रभो । तन्नाम्ना जायतां तीर्थं देवदेव जगत्त्रये
yaśas tu teṣāṃ bhavitā tebhyo'ham anṛṇas tataḥ . yāni kṣetrāṇi devānāṃ yāni tīrthāni bhūtale
||161||यशस् तु तेषां भविता तेभ्योऽहम् अनृणस् ततः । यानि क्षेत्राणि देवानां यानि तीर्थानि भूतले
tebhyo yad idam adhikam anumanyantu devatāḥ . tataḥ kṣame'haṃ devānām aparādhaṃ nirañjanaḥ
||162||तेभ्यो यद् इदम् अधिकम् अनुमन्यन्तु देवताः । ततः क्षमेऽहं देवानाम् अपराधं निरञ्जनः
brahmovāca:
tataḥ samakṣaṃ surasākṣarāṃ giraṃ . sahasracakṣuḥpramukhāṃs tathāgrataḥ . uvāca devā api menire vaco . dadhīciputroditam ādareṇa
||163||ततः समक्षं सुरसाक्षरां गिरं । सहस्रचक्षुःप्रमुखांस् तथाग्रतः । उवाच देवा अपि मेनिरे वचो । दधीचिपुत्रोदितम् आदरेण
bālasya buddhiṃ vinayaṃ ca vidyāṃ . śauryaṃ balaṃ sāhasaṃ satyavācam . pitror bhaktiṃ bhāvaśuddhiṃ viditvā . tadāvādīc chaṅkaraḥ pippalādam
||164||बालस्य बुद्धिं विनयं च विद्यां । शौर्यं बलं साहसं सत्यवाचम् । पित्रोर् भक्तिं भावशुद्धिं विदित्वा । तदावादीच् छङ्करः पिप्पलादम्
śaṅkara uvāca:
vatsa yad vai priyaṃ kāmaṃ yac cāpi suravallabham . prāpsyase vada kalyāṇaṃ nānyathā tvaṃ manaḥ kṛthāḥ
||165||वत्स यद् वै प्रियं कामं यच् चापि सुरवल्लभम् । प्राप्स्यसे वद कल्याणं नान्यथा त्वं मनः कृथाः
pippalāda uvāca:
ye gaṅgāyām āplutā dharmaniṣṭhāḥ . sampaśyanti tvatpadābjaṃ maheśa . sarvān kāmān āpnuvantu prasahya . dehānte te padam āyāntu śaivam
||166||ये गङ्गायाम् आप्लुता धर्मनिष्ठाः । सम्पश्यन्ति त्वत्पदाब्जं महेश । सर्वान् कामान् आप्नुवन्तु प्रसह्य । देहान्ते ते पदम् आयान्तु शैवम्
tātaḥ prāptas tvatpadaṃ cāmbikā me . nātha prāptā pippalaś cāmarāś ca . sukhaṃ prāptā nāthanāthaṃ vilokya . tvāṃ paśyeyus tvatpadaṃ te prayāntu
||167||तातः प्राप्तस् त्वत्पदं चाम्बिका मे । नाथ प्राप्ता पिप्पलश् चामराश् च । सुखं प्राप्ता नाथनाथं विलोक्य । त्वां पश्येयुस् त्वत्पदं ते प्रयान्तु
brahmovāca:
tathety uktvā pippalādaṃ devadevo maheśvaraḥ . abhinandya ca taṃ devaiḥ sārdhaṃ vākyam athābravīt
||168||तथेत्य् उक्त्वा पिप्पलादं देवदेवो महेश्वरः । अभिनन्द्य च तं देवैः सार्धं वाक्यम् अथाब्रवीत्
devā api mudā yuktā nirbhayās tatkṛtād bhayāt . idam ūcuḥ sarva eva dādhīcaṃ śivasannidhau
||169||देवा अपि मुदा युक्ता निर्भयास् तत्कृताद् भयात् । इदम् ऊचुः सर्व एव दाधीचं शिवसन्निधौ
devā ūcuḥ:
surāṇāṃ yad abhīṣṭaṃ ca tvayā kṛtam asaṃśayam . pālitā devadevasya ājñā trailokyamaṇḍanī
||170||सुराणां यद् अभीष्टं च त्वया कृतम् असंशयम् । पालिता देवदेवस्य आज्ञा त्रैलोक्यमण्डनी
yācitaṃ ca tvayā pūrvaṃ parārthaṃ nātmane dvija . tasmād anyatamaṃ brūhi kiñcid dāsyāmahe vayam
||171||याचितं च त्वया पूर्वं परार्थं नात्मने द्विज । तस्माद् अन्यतमं ब्रूहि किञ्चिद् दास्यामहे वयम्
brahmovāca:
punaḥ punas tad evocuḥ surasaṅghā dvijottamam . kṛtāñjalipuṭaḥ pūrvaṃ natvā śambhusurān idam . uvāca pippalādaś ca umāṃ natvā ca pippalān
||172||पुनः पुनस् तद् एवोचुः सुरसङ्घा द्विजोत्तमम् । कृताञ्जलिपुटः पूर्वं नत्वा शम्भुसुरान् इदम् । उवाच पिप्पलादश् च उमां नत्वा च पिप्पलान्
pippalāda uvāca:
pitarau draṣṭukāmo'smi sadā me śabdagocarau . te dhanyāḥ prāṇino loke mātāpitror vaśe sthitāḥ
||173||पितरौ द्रष्टुकामोऽस्मि सदा मे शब्दगोचरौ । ते धन्याः प्राणिनो लोके मातापित्रोर् वशे स्थिताः
śuśrūṣaṇaparā nityaṃ tatpādājñāpratīkṣakāḥ . indriyāṇi śarīraṃ ca kulaṃ śaktiṃ dhiyaṃ vapuḥ
||174||शुश्रूषणपरा नित्यं तत्पादाज्ञाप्रतीक्षकाः । इन्द्रियाणि शरीरं च कुलं शक्तिं धियं वपुः
parilabhya tayoḥ kṛtye kṛtakṛtyo bhavet svayam . paśūnāṃ pakṣiṇāṃ cāpi sulabhaṃ mātṛdarśanam
||175||परिलभ्य तयोः कृत्ये कृतकृत्यो भवेत् स्वयम् । पशूनां पक्षिणां चापि सुलभं मातृदर्शनम्
durlabhaṃ mama tac cāpi pṛcche pāpaphalaṃ nu kim . durlabhaṃ ca tathā cet syāt sarveṣāṃ yasya kasyacit
||176||दुर्लभं मम तच् चापि पृच्छे पापफलं नु किम् । दुर्लभं च तथा चेत् स्यात् सर्वेषां यस्य कस्यचित्
nopapadyeta sulabhaṃ matto nānyo'sti pāpakṛt . tayor darśanamātraṃ ca yadi prāpsye surottamāḥ
||177||नोपपद्येत सुलभं मत्तो नान्योऽस्ति पापकृत् । तयोर् दर्शनमात्रं च यदि प्राप्स्ये सुरोत्तमाः
manovākkāyakarmabhyaḥ phalaṃ prāptaṃ bhaviṣyati . pitarau ye na paśyanti samutpannā na saṃsṛtau . teṣāṃ mahāpātakānāṃ kaḥ saṅkhyāṃ kartum īśvaraḥ
||178||मनोवाक्कायकर्मभ्यः फलं प्राप्तं भविष्यति । पितरौ ये न पश्यन्ति समुत्पन्ना न संसृतौ । तेषां महापातकानां कः सङ्ख्यां कर्तुम् ईश्वरः
brahmovāca:
tad ṛṣer vacanaṃ śrutvā mithaḥ sammantrya te surāḥ . vimānavaram ārūḍhau pitarau dampatī śubhau
||179||तद् ऋषेर् वचनं श्रुत्वा मिथः सम्मन्त्र्य ते सुराः । विमानवरम् आरूढौ पितरौ दम्पती शुभौ
tava sandarśanākāṅkṣau drakṣyase vādya niścitam . viṣādaṃ lobhamohau ca tyaktvā cittaṃ śamaṃ naya
||180||तव सन्दर्शनाकाङ्क्षौ द्रक्ष्यसे वाद्य निश्चितम् । विषादं लोभमोहौ च त्यक्त्वा चित्तं शमं नय
paśya paśyeti taṃ prāhur dādhīcaṃ surasattamāḥ . vimānavaram ārūḍhau svargiṇau svarṇabhūṣaṇau
||181||पश्य पश्येति तं प्राहुर् दाधीचं सुरसत्तमाः । विमानवरम् आरूढौ स्वर्गिणौ स्वर्णभूषणौ
tava sandarśanākāṅkṣau pitarau dampatī śubhau . vījyamānau surastrībhiḥ stūyamānau ca kinnaraiḥ
||182||तव सन्दर्शनाकाङ्क्षौ पितरौ दम्पती शुभौ । वीज्यमानौ सुरस्त्रीभिः स्तूयमानौ च किन्नरैः
dṛṣṭvā sa mātāpitarau nanāma śivasannidhau . harṣabāṣpāśrunayanau sa kathañcid uvāca tau
||183||दृष्ट्वा स मातापितरौ ननाम शिवसन्निधौ । हर्षबाष्पाश्रुनयनौ स कथञ्चिद् उवाच तौ
putra uvāca:
tārayanty eva pitarāv anye putrāḥ kulodvahāḥ . ahaṃ tu mātur udare kevalaṃ bhedakāraṇam . evambhūto'pi tau mohāt paśyeyam atidurmatiḥ
||184||तारयन्त्य् एव पितराव् अन्ये पुत्राः कुलोद्वहाः । अहं तु मातुर् उदरे केवलं भेदकारणम् । एवम्भूतोऽपि तौ मोहात् पश्येयम् अतिदुर्मतिः
brahmovāca:
tāv ālokya tato duḥkhād vaktuṃ naiva śaśāka saḥ . devāś ca mātāpitarau pippalādam athābruvan
||185||ताव् आलोक्य ततो दुःखाद् वक्तुं नैव शशाक सः । देवाश् च मातापितरौ पिप्पलादम् अथाब्रुवन्
dhanyas tvaṃ putra lokeṣu yasya kīrtir gatā divam . sākṣātkṛtas tvayā tryakṣo devāś cāśvāsitās tvayā . tvayā putreṇa sallokā na kṣīyante kadācana
||186||धन्यस् त्वं पुत्र लोकेषु यस्य कीर्तिर् गता दिवम् । साक्षात्कृतस् त्वया त्र्यक्षो देवाश् चाश्वासितास् त्वया । त्वया पुत्रेण सल्लोका न क्षीयन्ते कदाचन
brahmovāca:
puṣpavṛṣṭis tadā svargāt papāta tasya mūrdhani . jayaśabdaḥ surair uktaḥ prādurbhūto mahāmune
||187||पुष्पवृष्टिस् तदा स्वर्गात् पपात तस्य मूर्धनि । जयशब्दः सुरैर् उक्तः प्रादुर्भूतो महामुने
āśiṣaṃ tu sute dattvā dadhīciḥ saha bhāryayā . śambhuṃ gaṅgāṃ surān natvā putraṃ vākyam athābravīt
||188||आशिषं तु सुते दत्त्वा दधीचिः सह भार्यया । शम्भुं गङ्गां सुरान् नत्वा पुत्रं वाक्यम् अथाब्रवीत्
dadhīcir uvāca:
prāpya bhāryāṃ śive bhaktiṃ kuru gaṅgāṃ ca sevaya . putrān utpādya vidhivad yajñān iṣṭvā sadakṣiṇān . kṛtakṛtyas tato vatsa ākramasva ciraṃ divam
||189||प्राप्य भार्यां शिवे भक्तिं कुरु गङ्गां च सेवय । पुत्रान् उत्पाद्य विधिवद् यज्ञान् इष्ट्वा सदक्षिणान् । कृतकृत्यस् ततो वत्स आक्रमस्व चिरं दिवम्
brahmovāca:
karomy evam iti prāha dadhīciṃ pippalāśanaḥ . dadhīciḥ putram āśvāsya bhāryayā ca punaḥ punaḥ
||190||करोम्य् एवम् इति प्राह दधीचिं पिप्पलाशनः । दधीचिः पुत्रम् आश्वास्य भार्यया च पुनः पुनः
anujñātaḥ suragaṇaiḥ punaḥ sa divam ākramat . devā apy ūcire sarve pippalādaṃ sasambhramāḥ
||191||अनुज्ञातः सुरगणैः पुनः स दिवम् आक्रमत् । देवा अप्य् ऊचिरे सर्वे पिप्पलादं ससम्भ्रमाः
devā ūcuḥ:
kṛtyāṃ śamaya bhadraṃ te tad utpannaṃ mahānalam
||192||कृत्यां शमय भद्रं ते तद् उत्पन्नं महानलम्
brahmovāca:
pippalādas tu tān āha na śakto'haṃ nivāraṇe . asatyaṃ naiva vaktāhaṃ yūyaṃ kṛtyāṃ tu brūta tām
||193||पिप्पलादस् तु तान् आह न शक्तोऽहं निवारणे । असत्यं नैव वक्ताहं यूयं कृत्यां तु ब्रूत ताम्
māṃ dṛṣṭvā sā mahāraudrā viparītaṃ kariṣyati . tām eva gatvā vibudhāḥ procus te śāntikāraṇam
||194||मां दृष्ट्वा सा महारौद्रा विपरीतं करिष्यति । ताम् एव गत्वा विबुधाः प्रोचुस् ते शान्तिकारणम्
analaṃ ca yathāprīti te ubhe nety avocatām . sarveṣāṃ bhakṣaṇāyaiva sṛṣṭā cāhaṃ dvijanmanā
||195||अनलं च यथाप्रीति ते उभे नेत्य् अवोचताम् । सर्वेषां भक्षणायैव सृष्टा चाहं द्विजन्मना
tathā ca matprasūto'gnir anyathā tat kathaṃ bhavet . mahābhūtāni pañcāpi sthāvaraṃ jaṅgamaṃ tathā
||196||तथा च मत्प्रसूतोऽग्निर् अन्यथा तत् कथं भवेत् । महाभूतानि पञ्चापि स्थावरं जङ्गमं तथा
sarvam asmanmukhe vidyād vaktavyaṃ nāvaśiṣyate . mayā sammantrya te devāḥ punar ūcur ubhāv api
||197||सर्वम् अस्मन्मुखे विद्याद् वक्तव्यं नावशिष्यते । मया सम्मन्त्र्य ते देवाः पुनर् ऊचुर् उभाव् अपि
bhakṣayetām ubhau sarvaṃ yathānukramatas tathā . vaḍavāpi surān evam uvāca śṛṇu nārada
||198||भक्षयेताम् उभौ सर्वं यथानुक्रमतस् तथा । वडवापि सुरान् एवम् उवाच शृणु नारद
vaḍavovāca:
bhavatām icchayā sarvaṃ bhakṣyaṃ me surasattamāḥ
||199||भवताम् इच्छया सर्वं भक्ष्यं मे सुरसत्तमाः
brahmovāca:
vaḍavā sā nadī jātā gaṅgayā saṅgatā mune . tadbhavas tu mahān agnir ya āsīd atibhīṣaṇaḥ . tam āhur amarā vahniṃ bhūtānām ādito viduḥ
||200||वडवा सा नदी जाता गङ्गया सङ्गता मुने । तद्भवस् तु महान् अग्निर् य आसीद् अतिभीषणः । तम् आहुर् अमरा वह्निं भूतानाम् आदितो विदुः
surā ūcuḥ:
āpo jyeṣṭhatamā jñeyās tathaiva prathamaṃ bhavān . tatrāpy apāmpatiṃ jyeṣṭhaṃ samudram aśanaṃ kuru . yathaiva tu vayaṃ brūmo gaccha bhuṅkṣva yathāsukham
||201||आपो ज्येष्ठतमा ज्ञेयास् तथैव प्रथमं भवान् । तत्राप्य् अपाम्पतिं ज्येष्ठं समुद्रम् अशनं कुरु । यथैव तु वयं ब्रूमो गच्छ भुङ्क्ष्व यथासुखम्
brahmovāca:
analas tv amarān āha āpas tatra kathaṃ tv aham . vrajeyaṃ yadi māṃ tatra prāpayanty udakaṃ mahat
||202||अनलस् त्व् अमरान् आह आपस् तत्र कथं त्व् अहम् । व्रजेयं यदि मां तत्र प्रापयन्त्य् उदकं महत्
bhavanta eva te'py āhuḥ kathaṃ te'gne gatir bhavet . agnir apy āha tān devān kanyā māṃ guṇaśālinī
||203||भवन्त एव तेऽप्य् आहुः कथं तेऽग्ने गतिर् भवेत् । अग्निर् अप्य् आह तान् देवान् कन्या मां गुणशालिनी
hiraṇyakalaśe sthāpya nayed yatra gatir mama . tasya tad vacanaṃ śrutvā kanyām ūcuḥ sarasvatīm
||204||हिरण्यकलशे स्थाप्य नयेद् यत्र गतिर् मम । तस्य तद् वचनं श्रुत्वा कन्याम् ऊचुः सरस्वतीम्
devā ūcuḥ:
nayainam analaṃ śīghraṃ śirasā varuṇālayam
||205||नयैनम् अनलं शीघ्रं शिरसा वरुणालयम्
brahmovāca:
sarasvatī surān āha naikā śaktā ca dhāraṇe . yuktā catasṛbhiḥ śīghraṃ vaheyaṃ varuṇālayam
||206||सरस्वती सुरान् आह नैका शक्ता च धारणे । युक्ता चतसृभिः शीघ्रं वहेयं वरुणालयम्
sarasvatyā vacaḥ śrutvā gaṅgāṃ ca yamunāṃ tathā . narmadāṃ tapatīṃ caiva surāḥ procuḥ pṛthak pṛthak
||207||सरस्वत्या वचः श्रुत्वा गङ्गां च यमुनां तथा । नर्मदां तपतीं चैव सुराः प्रोचुः पृथक् पृथक्
tābhiḥ samanvitovāha hiraṇyakalaśe'nalam . saṃsthāpya śirasādhārya tā jagmur varuṇālayam
||208||ताभिः समन्वितोवाह हिरण्यकलशेऽनलम् । संस्थाप्य शिरसाधार्य ता जग्मुर् वरुणालयम्
saṃsthāpya yatra deveśaḥ somanātho jagatpatiḥ . adhyāste vibudhaiḥ sārdhaṃ prabhāse śaśibhūṣaṇaḥ
||209||संस्थाप्य यत्र देवेशः सोमनाथो जगत्पतिः । अध्यास्ते विबुधैः सार्धं प्रभासे शशिभूषणः
prāpayām āsur analaṃ pañcanadyaḥ sarasvatī . adhyāste ca mahān agniḥ piban vāri śanaiḥ śanaiḥ
||210||प्रापयाम् आसुर् अनलं पञ्चनद्यः सरस्वती । अध्यास्ते च महान् अग्निः पिबन् वारि शनैः शनैः
tataḥ suragaṇāḥ sarve śivam ūcuḥ surottamam
||211||ततः सुरगणाः सर्वे शिवम् ऊचुः सुरोत्तमम्
devā ūcuḥ:
asthnāṃ ca pāvanaṃ brūhi asmākaṃ ca gavāṃ tathā
||212||अस्थ्नां च पावनं ब्रूहि अस्माकं च गवां तथा
brahmovāca:
śivaḥ prāha tadā sarvān gaṅgām āplutya yatnataḥ . devāś ca gāvas tatpāpān mucyante nātra saṃśayaḥ
||213||शिवः प्राह तदा सर्वान् गङ्गाम् आप्लुत्य यत्नतः । देवाश् च गावस् तत्पापान् मुच्यन्ते नात्र संशयः
prakṣālitāni cāsthīni ṛṣidehabhavāny atha . tāni prakṣālanād eva tatra prāptāni pūtatām
||214||प्रक्षालितानि चास्थीनि ऋषिदेहभवान्य् अथ । तानि प्रक्षालनाद् एव तत्र प्राप्तानि पूतताम्
yatra devā muktapāpās tat tīrthaṃ pāpanāśanam . tatra snānaṃ ca dānaṃ ca brahmahatyāvināśanam
||215||यत्र देवा मुक्तपापास् तत् तीर्थं पापनाशनम् । तत्र स्नानं च दानं च ब्रह्महत्याविनाशनम्
gavāṃ ca pāvanaṃ yatra gotīrthaṃ tad udāhṛtam . tatra snānān mahābuddhir gomedhaphalam āpnuyāt
||216||गवां च पावनं यत्र गोतीर्थं तद् उदाहृतम् । तत्र स्नानान् महाबुद्धिर् गोमेधफलम् आप्नुयात्
yatra tadbrāhmaṇāsthīni āsan puṇyāni nārada . pitṛtīrthaṃ tu vai jñeyaṃ pitṝṇāṃ prītivardhanam
||217||यत्र तद्ब्राह्मणास्थीनि आसन् पुण्यानि नारद । पितृतीर्थं तु वै ज्ञेयं पितॄणां प्रीतिवर्धनम्
bhasmāsthinakharomāṇi prāṇino yasya kasyacit . tatra tīrthe saṅkrameran yāvac candrārkatārakam
||218||भस्मास्थिनखरोमाणि प्राणिनो यस्य कस्यचित् । तत्र तीर्थे सङ्क्रमेरन् यावच् चन्द्रार्कतारकम्
svarge vāso bhavet tasya api duṣkṛtakarmaṇaḥ . tathā cakreśvarāt tīrthāt trīṇi tīrthāni nārada . tataḥ pūtāḥ suragaṇā gāvaḥ śambhum athābruvan
||219||स्वर्गे वासो भवेत् तस्य अपि दुष्कृतकर्मणः । तथा चक्रेश्वरात् तीर्थात् त्रीणि तीर्थानि नारद । ततः पूताः सुरगणा गावः शम्भुम् अथाब्रुवन्
gosurā ūcuḥ:
yāmaḥ svaṃ svam adhiṣṭhānam atra sūryaḥ pratiṣṭhitaḥ . asmin sthite dinakare surāḥ sarve pratiṣṭhitāḥ
||220||यामः स्वं स्वम् अधिष्ठानम् अत्र सूर्यः प्रतिष्ठितः । अस्मिन् स्थिते दिनकरे सुराः सर्वे प्रतिष्ठिताः
bhaveyur jagatām īśa tad anujñātum arhasi . sūryo hy ātmāsya jagatas tasthuṣaś ca sanātanaḥ
||221||भवेयुर् जगताम् ईश तद् अनुज्ञातुम् अर्हसि । सूर्यो ह्य् आत्मास्य जगतस् तस्थुषश् च सनातनः
divākaro devamayas tatrāsmābhiḥ pratiṣṭhitaḥ . yatra gaṅgā jagaddhātrī yatra vai tryambakaḥ svayam . suravāsaṃ pratiṣṭhānaṃ bhaved yatra ca tryambakam
||222||दिवाकरो देवमयस् तत्रास्माभिः प्रतिष्ठितः । यत्र गङ्गा जगद्धात्री यत्र वै त्र्यम्बकः स्वयम् । सुरवासं प्रतिष्ठानं भवेद् यत्र च त्र्यम्बकम्
brahmovāca:
āpṛcchya pippalādaṃ taṃ surāḥ svaṃ sadanaṃ yayuḥ . pippalāḥ kālaparyāye svargaṃ jagmur athākṣayam
||223||आपृच्छ्य पिप्पलादं तं सुराः स्वं सदनं ययुः । पिप्पलाः कालपर्याये स्वर्गं जग्मुर् अथाक्षयम्
pādapānāṃ padaṃ vipraḥ pippalādaḥ pratāpavān . kṣetrādhipatye saṃsthāpya pūjayām āsa śaṅkaram
||224||पादपानां पदं विप्रः पिप्पलादः प्रतापवान् । क्षेत्राधिपत्ये संस्थाप्य पूजयाम् आस शङ्करम्
dadhīcisūnur munir ugratejā . avāpya bhāryāṃ gautamasyātmajāṃ ca . putrān athāvāpya śriyaṃ yaśaś ca . suhṛjjanaiḥ svargam avāpa dhīraḥ
||225||दधीचिसूनुर् मुनिर् उग्रतेजा । अवाप्य भार्यां गौतमस्यात्मजां च । पुत्रान् अथावाप्य श्रियं यशश् च । सुहृज्जनैः स्वर्गम् अवाप धीरः
tataḥ prabhṛti tat tīrthaṃ pippaleśvaram ucyate . sarvakratuphalaṃ puṇyaṃ smaraṇād aghanāśanam
||226||ततः प्रभृति तत् तीर्थं पिप्पलेश्वरम् उच्यते । सर्वक्रतुफलं पुण्यं स्मरणाद् अघनाशनम्
kiṃ punaḥ snānadānābhyām ādityasya tu darśanāt . cakreśvaraḥ pippaleśo devadevasya nāmanī
||227||किं पुनः स्नानदानाभ्याम् आदित्यस्य तु दर्शनात् । चक्रेश्वरः पिप्पलेशो देवदेवस्य नामनी
sarahasyaṃ viditvā tu sarvakāmān avāpnuyāt . sūryasya ca pratiṣṭhānāt suravāse pratiṣṭhite . pratiṣṭhānaṃ tu tat kṣetraṃ surāṇām api vallabham
||228||सरहस्यं विदित्वा तु सर्वकामान् अवाप्नुयात् । सूर्यस्य च प्रतिष्ठानात् सुरवासे प्रतिष्ठिते । प्रतिष्ठानं तु तत् क्षेत्रं सुराणाम् अपि वल्लभम्
itīdam ākhyānam atīva puṇyaṃ . paṭheta vā yaḥ śṛṇuyāt smared vā . sa dīrghajīvī dhanavān dharmayuktaś . cānte smarañ śambhum upaiti nityam
||229||इतीदम् आख्यानम् अतीव पुण्यं । पठेत वा यः शृणुयात् स्मरेद् वा । स दीर्घजीवी धनवान् धर्मयुक्तश् । चान्ते स्मरञ् शम्भुम् उपैति नित्यम्
Source and reuse:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).