adhyāyaḥ 25
munaya ūcuḥ:
pṛthivyāṃ yāni tīrthāni puṇyāny āyatanāni ca . vaktum arhasi dharmajña śrotuṃ no vartate manaḥ
||1||पृथिव्यां यानि तीर्थानि पुण्यान्य् आयतनानि च । वक्तुम् अर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः
lomaharṣaṇa uvāca:
yasya hastau ca pādau ca manaś caiva susaṃyatam . vidyā tapaś ca kīrtiś ca sa tīrthaphalam aśnute
||2||यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् । विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते
mano viśuddhaṃ puruṣasya tīrthaṃ . vācāṃ tathā cendriyanigrahaś ca . etāni tīrthāni śarīrajāni . svargasya mārgaṃ pratibodhayanti
||3||मनो विशुद्धं पुरुषस्य तीर्थं । वाचां तथा चेन्द्रियनिग्रहश् च । एतानि तीर्थानि शरीरजानि । स्वर्गस्य मार्गं प्रतिबोधयन्ति
cittam antargataṃ duṣṭaṃ tīrthasnānair na śudhyati . śataśo'pi jalair dhautaṃ surābhāṇḍam ivāśuci
||4||चित्तम् अन्तर्गतं दुष्टं तीर्थस्नानैर् न शुध्यति । शतशोऽपि जलैर् धौतं सुराभाण्डम् इवाशुचि
na tīrthāni na dānāni na vratāni na cāśramāḥ . duṣṭāśayaṃ dambharuciṃ punanti vyutthitendriyam
||5||न तीर्थानि न दानानि न व्रतानि न चाश्रमाः । दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम्
indriyāṇi vaśe kṛtvā yatra yatra vasen naraḥ . tatra tatra kurukṣetraṃ prayāgaṃ puṣkaraṃ tathā
||6||इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन् नरः । तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा
tasmāc chṛṇudhvaṃ vakṣyāmi tīrthāny āyatanāni ca . saṅkṣepeṇa muniśreṣṭhāḥ pṛthivyāṃ yāni kāni vai
||7||तस्माच् छृणुध्वं वक्ष्यामि तीर्थान्य् आयतनानि च । सङ्क्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै
vistareṇa na śakyante vaktuṃ varṣaśatair api . prathamaṃ puṣkaraṃ tīrthaṃ naimiṣāraṇyam eva ca
||8||विस्तरेण न शक्यन्ते वक्तुं वर्षशतैर् अपि । प्रथमं पुष्करं तीर्थं नैमिषारण्यम् एव च
prayāgaṃ ca pravakṣyāmi dharmāraṇyaṃ dvijottamāḥ . dhenukaṃ campakāraṇyaṃ saindhavāraṇyam eva ca
||9||प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः । धेनुकं चम्पकारण्यं सैन्धवारण्यम् एव च
puṇyaṃ ca magadhāraṇyaṃ daṇḍakāraṇyam eva ca . gayā prabhāsaṃ śrītīrthaṃ divyaṃ kanakhalaṃ tathā
||10||पुण्यं च मगधारण्यं दण्डकारण्यम् एव च । गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा
bhṛgutuṅgaṃ hiraṇyākṣaṃ bhīmāraṇyaṃ kuśasthalīm . lohākulaṃ sakedāraṃ mandarāraṇyam eva ca
||11||भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् । लोहाकुलं सकेदारं मन्दरारण्यम् एव च
mahābalaṃ koṭitīrthaṃ sarvapāpaharaṃ tathā . rūpatīrthaṃ śūkaravaṃ cakratīrthaṃ mahāphalam
||12||महाबलं कोटितीर्थं सर्वपापहरं तथा । रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम्
yogatīrthaṃ somatīrthaṃ tīrthaṃ sāhoṭakaṃ tathā . tīrthaṃ kokāmukhaṃ puṇyaṃ badarīśailam eva ca
||13||योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा । तीर्थं कोकामुखं पुण्यं बदरीशैलम् एव च
somatīrthaṃ tuṅgakūṭaṃ tīrthaṃ skandāśramaṃ tathā . koṭitīrthaṃ cāgnipadaṃ tīrthaṃ pañcaśikhaṃ tathā
||14||सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा । कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा
dharmodbhavaṃ koṭitīrthaṃ tīrthaṃ bādhapramocanam . gaṅgādvāraṃ pañcakūṭaṃ madhyakesaram eva ca
||15||धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम् । गङ्गाद्वारं पञ्चकूटं मध्यकेसरम् एव च
cakraprabhaṃ mataṅgaṃ ca kruśadaṇḍaṃ ca viśrutam . daṃṣṭrākuṇḍaṃ viṣṇutīrthaṃ sārvakāmikam eva ca
||16||चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम् । दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकम् एव च
tīrthaṃ matsyatilaṃ caiva badarī suprabhaṃ tathā . brahmakuṇḍaṃ vahnikuṇḍaṃ tīrthaṃ satyapadaṃ tathā
||17||तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा । ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा
catuḥsrotaś catuḥśṛṅgaṃ śailaṃ dvādaśadhārakam . mānasaṃ sthūlaśṛṅgaṃ ca sthūladaṇḍaṃ tathorvaśī
||18||चतुःस्रोतश् चतुःशृङ्गं शैलं द्वादशधारकम् । मानसं स्थूलशृङ्गं च स्थूलदण्डं तथोर्वशी
lokapālaṃ manuvaraṃ somāhvaśailam eva ca . sadāprabhaṃ merukuṇḍaṃ tīrthaṃ somābhiṣecanam
||19||लोकपालं मनुवरं सोमाह्वशैलम् एव च । सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम्
mahāsrotaṃ koṭarakaṃ pañcadhāraṃ tridhārakam . saptadhāraikadhāraṃ ca tīrthaṃ cāmarakaṇṭakam
||20||महास्रोतं कोटरकं पञ्चधारं त्रिधारकम् । सप्तधारैकधारं च तीर्थं चामरकण्टकम्
śālagrāmaṃ cakratīrthaṃ koṭidrumam anuttamam . bilvaprabhaṃ devahradaṃ tīrthaṃ viṣṇuhradaṃ tathā
||21||शालग्रामं चक्रतीर्थं कोटिद्रुमम् अनुत्तमम् । बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा
śaṅkhaprabhaṃ devakuṇḍaṃ tīrthaṃ vajrāyudhaṃ tathā . agniprabhaṃ ca punnāgaṃ devaprabham anuttamam
||22||शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा । अग्निप्रभं च पुन्नागं देवप्रभम् अनुत्तमम्
vidyādharaṃ sagāndharvaṃ śrītīrthaṃ brahmaṇo hradam . sātīrthaṃ lokapālākhyaṃ maṇipuragiriṃ tathā
||23||विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम् । सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा
tīrthaṃ pañcahradaṃ caiva puṇyaṃ piṇḍārakaṃ tathā . malavyaṃ goprabhāvaṃ ca govaraṃ vaṭamūlakam
||24||तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा । मलव्यं गोप्रभावं च गोवरं वटमूलकम्
snānadaṇḍaṃ prayāgaṃ ca guhyaṃ viṣṇupadaṃ tathā . kanyāśramaṃ vāyukuṇḍaṃ jambūmārgaṃ tathottamam
||25||स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा । कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम्
gabhastitīrthaṃ ca tathā yayātipatanaṃ śuci . koṭitīrthaṃ bhadravaṭaṃ mahākālavanaṃ tathā
||26||गभस्तितीर्थं च तथा ययातिपतनं शुचि । कोटितीर्थं भद्रवटं महाकालवनं तथा
narmadātīrtham aparaṃ tīrthavajraṃ tathārbudam . piṅgutīrthaṃ savāsiṣṭhaṃ tīrthaṃ ca pṛthasaṅgamam
||27||नर्मदातीर्थम् अपरं तीर्थवज्रं तथार्बुदम् । पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसङ्गमम्
tīrthaṃ daurvāsikaṃ nāma tathā piñjarakaṃ śubham . ṛṣitīrthaṃ brahmatuṅgaṃ vasutīrthaṃ kumārikam
||28||तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम् । ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम्
śakratīrthaṃ pañcanadaṃ reṇukātīrtham eva ca . paitāmahaṃ ca vimalaṃ rudrapādaṃ tathottamam
||29||शक्रतीर्थं पञ्चनदं रेणुकातीर्थम् एव च । पैतामहं च विमलं रुद्रपादं तथोत्तमम्
maṇimattaṃ ca kāmākhyaṃ kṛṣṇatīrthaṃ kuśāvilam . yajanaṃ yājanaṃ caiva tathaiva brahmavālukam
||30||मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम् । यजनं याजनं चैव तथैव ब्रह्मवालुकम्
puṣpanyāsaṃ puṇḍarīkaṃ maṇipūraṃ tathottaram . dīrghasattraṃ hayapadaṃ tīrthaṃ cānaśanaṃ tathā
||31||पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम् । दीर्घसत्त्रं हयपदं तीर्थं चानशनं तथा
gaṅgodbhedaṃ śivodbhedaṃ narmadodbhedam eva ca . vastrāpadaṃ dāruvalaṃ chāyārohaṇam eva ca
||32||गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदम् एव च । वस्त्रापदं दारुवलं छायारोहणम् एव च
siddheśvaraṃ mitravalaṃ kālikāśramam eva ca . vaṭāvaṭaṃ bhadravaṭaṃ kauśāmbī ca divākaram
||33||सिद्धेश्वरं मित्रवलं कालिकाश्रमम् एव च । वटावटं भद्रवटं कौशाम्बी च दिवाकरम्
dvīpaṃ sārasvataṃ caiva vijayaṃ kāmadaṃ tathā . rudrakoṭiṃ sumanasaṃ tīrthaṃ sadrāvanāmitam
||34||द्वीपं सारस्वतं चैव विजयं कामदं तथा । रुद्रकोटिं सुमनसं तीर्थं सद्रावनामितम्
syamantapañcakaṃ tīrthaṃ brahmatīrthaṃ sudarśanam . satataṃ pṛthivīsarvaṃ pāriplavapṛthūdakau
||35||स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम् । सततं पृथिवीसर्वं पारिप्लवपृथूदकौ
daśāśvamedhikaṃ tīrthaṃ sarpijaṃ viṣayāntikam . koṭitīrthaṃ pañcanadaṃ vārāhaṃ yakṣiṇīhradam
||36||दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम् । कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम्
puṇḍarīkaṃ somatīrthaṃ muñjavaṭaṃ tathottamam . badarīvanam āsīnaṃ ratnamūlakam eva ca
||37||पुण्डरीकं सोमतीर्थं मुञ्जवटं तथोत्तमम् । बदरीवनम् आसीनं रत्नमूलकम् एव च
lokadvāraṃ pañcatīrthaṃ kapilātīrtham eva ca . sūryatīrthaṃ śaṅkhinī ca gavāṃ bhavanam eva ca
||38||लोकद्वारं पञ्चतीर्थं कपिलातीर्थम् एव च । सूर्यतीर्थं शङ्खिनी च गवां भवनम् एव च
tīrthaṃ ca yakṣarājasya brahmāvartaṃ sutīrthakam . kāmeśvaraṃ mātritīrthaṃ tīrthaṃ śītavanaṃ tathā
||39||तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम् । कामेश्वरं मात्रितीर्थं तीर्थं शीतवनं तथा
snānalomāpahaṃ caiva māsasaṃsarakaṃ tathā . daśāśvamedhaṃ kedāraṃ brahmodumbaram eva ca
||40||स्नानलोमापहं चैव माससंसरकं तथा । दशाश्वमेधं केदारं ब्रह्मोदुम्बरम् एव च
saptarṣikuṇḍaṃ ca tathā tīrthaṃ devyāḥ sujambukam . īṭāspadaṃ koṭikūṭaṃ kindānaṃ kiñjapaṃ tathā
||41||सप्तर्षिकुण्डं च तथा तीर्थं देव्याः सुजम्बुकम् । ईटास्पदं कोटिकूटं किन्दानं किञ्जपं तथा
kāraṇḍavaṃ cāvedhyaṃ ca triviṣṭapam athāparam . pāṇiṣātaṃ miśrakaṃ ca madhūvaṭamanojavau
||42||कारण्डवं चावेध्यं च त्रिविष्टपम् अथापरम् । पाणिषातं मिश्रकं च मधूवटमनोजवौ
kauśikī devatīrthaṃ ca tīrthaṃ ca ṛṇamocanam . divyaṃ ca nṛgadhūmākhyaṃ tīrthaṃ viṣṇupadaṃ tathā
||43||कौशिकी देवतीर्थं च तीर्थं च ऋणमोचनम् । दिव्यं च नृगधूमाख्यं तीर्थं विष्णुपदं तथा
amarāṇāṃ hradaṃ puṇyaṃ koṭitīrthaṃ tathāparam . śrīkuñjaṃ śālitīrthaṃ ca naimiṣeyaṃ ca viśrutam
||44||अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम् । श्रीकुञ्जं शालितीर्थं च नैमिषेयं च विश्रुतम्
brahmasthānaṃ somatīrthaṃ kanyātīrthaṃ tathaiva ca . brahmatīrthaṃ manastīrthaṃ tīrthaṃ vai kārupāvanam
||45||ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च । ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम्
saugandhikavanaṃ caiva maṇitīrthaṃ sarasvatī . īśānatīrthaṃ pravaraṃ pāvanaṃ pāñcayajñikam
||46||सौगन्धिकवनं चैव मणितीर्थं सरस्वती । ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम्
triśūladhāraṃ māhendraṃ devasthānaṃ kṛtālayam . śākambharī devatīrthaṃ suvarṇākhyaṃ kilaṃ hradam
||47||त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम् । शाकम्भरी देवतीर्थं सुवर्णाख्यं किलं ह्रदम्
kṣīraśravaṃ virūpākṣaṃ bhṛgutīrthaṃ kuśodbhavam . brahmatīrthaṃ brahmayoniṃ nīlaparvatam eva ca
||48||क्षीरश्रवं विरूपाक्षं भृगुतीर्थं कुशोद्भवम् । ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतम् एव च
kubjāmbakaṃ bhadravaṭaṃ vasiṣṭhapadam eva ca . svargadvāraṃ prajādvāraṃ kālikāśramam eva ca
||49||कुब्जाम्बकं भद्रवटं वसिष्ठपदम् एव च । स्वर्गद्वारं प्रजाद्वारं कालिकाश्रमम् एव च
rudrāvartaṃ sugandhāśvaṃ kapilāvanam eva ca . bhadrakarṇahradaṃ caiva śaṅkukarṇahradaṃ tathā
||50||रुद्रावर्तं सुगन्धाश्वं कपिलावनम् एव च । भद्रकर्णह्रदं चैव शङ्कुकर्णह्रदं तथा
saptasārasvataṃ caiva tīrtham auśanasaṃ tathā . kapālamocanaṃ caiva avakīrṇaṃ ca kāmyakam
||51||सप्तसारस्वतं चैव तीर्थम् औशनसं तथा । कपालमोचनं चैव अवकीर्णं च काम्यकम्
catuḥsāmudrikaṃ caiva śatakiṃ ca sahasrikam . reṇukaṃ pañcavaṭakaṃ vimocanam athaujasam
||52||चतुःसामुद्रिकं चैव शतकिं च सहस्रिकम् । रेणुकं पञ्चवटकं विमोचनम् अथौजसम्
sthāṇutīrthaṃ kuros tīrthaṃ svargadvāraṃ kuśadhvajam . viśveśvaraṃ mānavakaṃ kūpaṃ nārāyaṇāśrayam
||53||स्थाणुतीर्थं कुरोस् तीर्थं स्वर्गद्वारं कुशध्वजम् । विश्वेश्वरं मानवकं कूपं नारायणाश्रयम्
gaṅgāhradaṃ vaṭaṃ caiva badarīpāṭanaṃ tathā . indramārgam ekarātraṃ kṣīrakāvāsam eva ca
||54||गङ्गाह्रदं वटं चैव बदरीपाटनं तथा । इन्द्रमार्गम् एकरात्रं क्षीरकावासम् एव च
somatīrthaṃ dadhīcaṃ ca śrutatīrthaṃ ca bho dvijāḥ . koṭitīrthasthalīṃ caiva bhadrakālīhradaṃ tathā
||55||सोमतीर्थं दधीचं च श्रुततीर्थं च भो द्विजाः । कोटितीर्थस्थलीं चैव भद्रकालीह्रदं तथा
arundhatīvanaṃ caiva brahmāvartaṃ tathottamam . aśvavedī kubjāvanaṃ yamunāprabhavaṃ tathā
||56||अरुन्धतीवनं चैव ब्रह्मावर्तं तथोत्तमम् । अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा
vīraṃ pramokṣaṃ sindhūttham ṛṣa kulyā sakṛttikam . urvīsaṅkramaṇaṃ caiva māyāvidyodbhavaṃ tathā
||57||वीरं प्रमोक्षं सिन्धूत्थम् ऋष कुल्या सकृत्तिकम् । उर्वीसङ्क्रमणं चैव मायाविद्योद्भवं तथा
mahāśramo vaitasikārūpaṃ sundarikāśramam . bāhutīrthaṃ cārunadīṃ vimalāśokam eva ca
||58||महाश्रमो वैतसिकारूपं सुन्दरिकाश्रमम् । बाहुतीर्थं चारुनदीं विमलाशोकम् एव च
tīrthaṃ pañcanadaṃ caiva mārkaṇḍeyasya dhīmataḥ . somatīrthaṃ sitodaṃ ca tīrthaṃ matsyodarīṃ tathā
||59||तीर्थं पञ्चनदं चैव मार्कण्डेयस्य धीमतः । सोमतीर्थं सितोदं च तीर्थं मत्स्योदरीं तथा
sūryaprabhaṃ sūryatīrtham aśokavanam eva ca . aruṇāspadaṃ kāmadaṃ ca śukratīrthaṃ savālukam
||60||सूर्यप्रभं सूर्यतीर्थम् अशोकवनम् एव च । अरुणास्पदं कामदं च शुक्रतीर्थं सवालुकम्
piśācamocanaṃ caiva subhadrāhradam eva ca . kuṇḍaṃ vimaladaṇḍasya tīrthaṃ caṇḍeśvarasya ca
||61||पिशाचमोचनं चैव सुभद्राह्रदम् एव च । कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च
jyeṣṭhasthānahradaṃ caiva puṇyaṃ brahmasaraṃ tathā . jaigīṣavyaguhā caiva harikeśavanaṃ tathā
||62||ज्येष्ठस्थानह्रदं चैव पुण्यं ब्रह्मसरं तथा । जैगीषव्यगुहा चैव हरिकेशवनं तथा
ajāmukhasaraṃ caiva ghaṇṭākarṇahradaṃ tathā . puṇḍarīkahradaṃ caiva vāpī karkoṭakasya ca
||63||अजामुखसरं चैव घण्टाकर्णह्रदं तथा । पुण्डरीकह्रदं चैव वापी कर्कोटकस्य च
suvarṇasyodapānaṃ ca śvetatīrthahradaṃ tathā . kuṇḍaṃ ghargharikāyāś ca śyāmakūpaṃ ca candrikā
||64||सुवर्णस्योदपानं च श्वेततीर्थह्रदं तथा । कुण्डं घर्घरिकायाश् च श्यामकूपं च चन्द्रिका
śmaśānastambhakūpaṃ ca vināyakahradaṃ tathā . kūpaṃ sindhūdbhavaṃ caiva puṇyaṃ brahmasaraṃ tathā
||65||श्मशानस्तम्भकूपं च विनायकह्रदं तथा । कूपं सिन्धूद्भवं चैव पुण्यं ब्रह्मसरं तथा
rudrāvāsaṃ tathā tīrthaṃ nāgatīrthaṃ pulomakam . bhaktahradaṃ kṣīrasaraḥ pretādhāraṃ kumārakam
||66||रुद्रावासं तथा तीर्थं नागतीर्थं पुलोमकम् । भक्तह्रदं क्षीरसरः प्रेताधारं कुमारकम्
brahmāvartaṃ kuśāvartaṃ dadhikarṇodapānakam . śṛṅgatīrthaṃ mahātīrthaṃ tīrthaśreṣṭhā mahānadī
||67||ब्रह्मावर्तं कुशावर्तं दधिकर्णोदपानकम् । शृङ्गतीर्थं महातीर्थं तीर्थश्रेष्ठा महानदी
divyaṃ brahmasaraṃ puṇyaṃ gayāśīrṣākṣayaṃ vaṭam . dakṣiṇaṃ cottaraṃ caiva gomayaṃ rūpaśītikam
||68||दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम् । दक्षिणं चोत्तरं चैव गोमयं रूपशीतिकम्
kapilāhradaṃ gṛdhravaṭaṃ sāvitrīhradam eva ca . prabhāsanaṃ sītavanaṃ yonidvāraṃ ca dhenukam
||69||कपिलाह्रदं गृध्रवटं सावित्रीह्रदम् एव च । प्रभासनं सीतवनं योनिद्वारं च धेनुकम्
dhanyakaṃ kokilākhyaṃ ca mataṅgahradam eva ca . pitṛkūpaṃ rudratīrthaṃ śakratīrthaṃ sumālinam
||70||धन्यकं कोकिलाख्यं च मतङ्गह्रदम् एव च । पितृकूपं रुद्रतीर्थं शक्रतीर्थं सुमालिनम्
brahmasthānaṃ saptakuṇḍaṃ maṇiratnahradaṃ tathā . kauśikyaṃ bharataṃ caiva tīrthaṃ jyeṣṭhālikā tathā
||71||ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्रदं तथा । कौशिक्यं भरतं चैव तीर्थं ज्येष्ठालिका तथा
viśveśvaraṃ kalpasaraḥ kanyāsaṃvetyam eva ca . niścīvā prabhavaś caiva vasiṣṭhāśramam eva ca
||72||विश्वेश्वरं कल्पसरः कन्यासंवेत्यम् एव च । निश्चीवा प्रभवश् चैव वसिष्ठाश्रमम् एव च
devakūṭaṃ ca kūpaṃ ca vasiṣṭhāśramam eva ca . vīrāśramaṃ brahmasaro brahmavīrāvakāpilī
||73||देवकूटं च कूपं च वसिष्ठाश्रमम् एव च । वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिली
kumāradhārā śrīdhārā gaurīśikharam eva ca . śunaḥ kuṇḍo'tha tīrthaṃ ca nanditīrthaṃ tathaiva ca
||74||कुमारधारा श्रीधारा गौरीशिखरम् एव च । शुनः कुण्डोऽथ तीर्थं च नन्दितीर्थं तथैव च
kumāravāsaṃ śrīvāsam aurvīśītārtham eva ca . kumbhakarṇahradaṃ caiva kauśikīhradam eva ca
||75||कुमारवासं श्रीवासम् और्वीशीतार्थम् एव च । कुम्भकर्णह्रदं चैव कौशिकीह्रदम् एव च
dharmatīrthaṃ kāmatīrthaṃ tīrtham uddālakaṃ tathā . sandhyātīrthaṃ kāratoyaṃ kapilaṃ lohitārṇavam
||76||धर्मतीर्थं कामतीर्थं तीर्थम् उद्दालकं तथा । सन्ध्यातीर्थं कारतोयं कपिलं लोहितार्णवम्
śoṇodbhavaṃ vaṃśagulmam ṛṣabhaṃ kalatīrthakam . puṇyāvatīhradaṃ tīrthaṃ tīrthaṃ badarikāśramam
||77||शोणोद्भवं वंशगुल्मम् ऋषभं कलतीर्थकम् । पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम्
rāmatīrthaṃ pitṛvanaṃ virajātīrtham eva ca . mārkaṇḍeyavanaṃ caiva kṛṣṇatīrthaṃ tathā vaṭam
||78||रामतीर्थं पितृवनं विरजातीर्थम् एव च । मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम्
rohiṇīkūpapravaram indradyumnasaraṃ ca yat . sānugartaṃ samāhendraṃ śrītīrthaṃ śrīnadaṃ tathā
||79||रोहिणीकूपप्रवरम् इन्द्रद्युम्नसरं च यत् । सानुगर्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा
iṣutīrthaṃ vārṣabhaṃ ca kāverīhradam eva ca . kanyātīrthaṃ ca gokarṇaṃ gāyatrīsthānam eva ca
||80||इषुतीर्थं वार्षभं च कावेरीह्रदम् एव च । कन्यातीर्थं च गोकर्णं गायत्रीस्थानम् एव च
badarīhradam anyac ca madhyasthānaṃ vikarṇakam . jātīhradaṃ devakūpaṃ kuśapravaṇam eva ca
||81||बदरीह्रदम् अन्यच् च मध्यस्थानं विकर्णकम् । जातीह्रदं देवकूपं कुशप्रवणम् एव च
sarvadevavrataṃ caiva kanyāśramahradaṃ tathā . tathānyad vālakhilyānāṃ sapūrvāṇāṃ tathāparam
||82||सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा । तथान्यद् वालखिल्यानां सपूर्वाणां तथापरम्
tathānyac ca maharṣīṇām akhaṇḍitahradaṃ tathā . tīrtheṣv eteṣu vidhivat samyak śraddhāsamanvitaḥ
||83||तथान्यच् च महर्षीणाम् अखण्डितह्रदं तथा । तीर्थेष्व् एतेषु विधिवत् सम्यक् श्रद्धासमन्वितः
snānaṃ karoti yo martyaḥ sopavāso jitendriyaḥ . devān ṛṣīn manuṣyāṃś ca pitṝn santarpya ca kramāt
||84||स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रियः । देवान् ऋषीन् मनुष्यांश् च पितॄन् सन्तर्प्य च क्रमात्
abhyarcya devatās tatra sthitvā ca rajanītrayam . pṛthak pṛthak phalaṃ teṣu pratitīrtheṣu bho dvijāḥ
||85||अभ्यर्च्य देवतास् तत्र स्थित्वा च रजनीत्रयम् । पृथक् पृथक् फलं तेषु प्रतितीर्थेषु भो द्विजाः
prāpnoti hayamedhasya naro nāsty atra saṃśayaḥ . yas tv idaṃ śṛṇuyān nityaṃ tīrthamāhātmyam uttamam . paṭhec ca śrāvayed vāpi sarvapāpaiḥ pramucyate
||86||प्राप्नोति हयमेधस्य नरो नास्त्य् अत्र संशयः । यस् त्व् इदं शृणुयान् नित्यं तीर्थमाहात्म्यम् उत्तमम् । पठेच् च श्रावयेद् वापि सर्वपापैः प्रमुच्यते
Source and reuse:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).