अध्यायः २५
मुनय ऊचुः:
पृथिव्यां यानि तीर्थानि पुण्यान्य् आयतनानि च । वक्तुम् अर्हसि धर्मज्ञ श्रोतुं नो वर्तते मनः
॥१॥लोमहर्षण उवाच:
यस्य हस्तौ च पादौ च मनश् चैव सुसंयतम् । विद्या तपश् च कीर्तिश् च स तीर्थफलम् अश्नुते
॥२॥मनो विशुद्धं पुरुषस्य तीर्थं । वाचां तथा चेन्द्रियनिग्रहश् च । एतानि तीर्थानि शरीरजानि । स्वर्गस्य मार्गं प्रतिबोधयन्ति
॥३॥चित्तम् अन्तर्गतं दुष्टं तीर्थस्नानैर् न शुध्यति । शतशोऽपि जलैर् धौतं सुराभाण्डम् इवाशुचि
॥४॥न तीर्थानि न दानानि न व्रतानि न चाश्रमाः । दुष्टाशयं दम्भरुचिं पुनन्ति व्युत्थितेन्द्रियम्
॥५॥इन्द्रियाणि वशे कृत्वा यत्र यत्र वसेन् नरः । तत्र तत्र कुरुक्षेत्रं प्रयागं पुष्करं तथा
॥६॥तस्माच् छृणुध्वं वक्ष्यामि तीर्थान्य् आयतनानि च । सङ्क्षेपेण मुनिश्रेष्ठाः पृथिव्यां यानि कानि वै
॥७॥विस्तरेण न शक्यन्ते वक्तुं वर्षशतैर् अपि । प्रथमं पुष्करं तीर्थं नैमिषारण्यम् एव च
॥८॥प्रयागं च प्रवक्ष्यामि धर्मारण्यं द्विजोत्तमाः । धेनुकं चम्पकारण्यं सैन्धवारण्यम् एव च
॥९॥पुण्यं च मगधारण्यं दण्डकारण्यम् एव च । गया प्रभासं श्रीतीर्थं दिव्यं कनखलं तथा
॥१०॥भृगुतुङ्गं हिरण्याक्षं भीमारण्यं कुशस्थलीम् । लोहाकुलं सकेदारं मन्दरारण्यम् एव च
॥११॥महाबलं कोटितीर्थं सर्वपापहरं तथा । रूपतीर्थं शूकरवं चक्रतीर्थं महाफलम्
॥१२॥योगतीर्थं सोमतीर्थं तीर्थं साहोटकं तथा । तीर्थं कोकामुखं पुण्यं बदरीशैलम् एव च
॥१३॥सोमतीर्थं तुङ्गकूटं तीर्थं स्कन्दाश्रमं तथा । कोटितीर्थं चाग्निपदं तीर्थं पञ्चशिखं तथा
॥१४॥धर्मोद्भवं कोटितीर्थं तीर्थं बाधप्रमोचनम् । गङ्गाद्वारं पञ्चकूटं मध्यकेसरम् एव च
॥१५॥चक्रप्रभं मतङ्गं च क्रुशदण्डं च विश्रुतम् । दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकम् एव च
॥१६॥तीर्थं मत्स्यतिलं चैव बदरी सुप्रभं तथा । ब्रह्मकुण्डं वह्निकुण्डं तीर्थं सत्यपदं तथा
॥१७॥चतुःस्रोतश् चतुःशृङ्गं शैलं द्वादशधारकम् । मानसं स्थूलशृङ्गं च स्थूलदण्डं तथोर्वशी
॥१८॥लोकपालं मनुवरं सोमाह्वशैलम् एव च । सदाप्रभं मेरुकुण्डं तीर्थं सोमाभिषेचनम्
॥१९॥महास्रोतं कोटरकं पञ्चधारं त्रिधारकम् । सप्तधारैकधारं च तीर्थं चामरकण्टकम्
॥२०॥शालग्रामं चक्रतीर्थं कोटिद्रुमम् अनुत्तमम् । बिल्वप्रभं देवह्रदं तीर्थं विष्णुह्रदं तथा
॥२१॥शङ्खप्रभं देवकुण्डं तीर्थं वज्रायुधं तथा । अग्निप्रभं च पुन्नागं देवप्रभम् अनुत्तमम्
॥२२॥विद्याधरं सगान्धर्वं श्रीतीर्थं ब्रह्मणो ह्रदम् । सातीर्थं लोकपालाख्यं मणिपुरगिरिं तथा
॥२३॥तीर्थं पञ्चह्रदं चैव पुण्यं पिण्डारकं तथा । मलव्यं गोप्रभावं च गोवरं वटमूलकम्
॥२४॥स्नानदण्डं प्रयागं च गुह्यं विष्णुपदं तथा । कन्याश्रमं वायुकुण्डं जम्बूमार्गं तथोत्तमम्
॥२५॥गभस्तितीर्थं च तथा ययातिपतनं शुचि । कोटितीर्थं भद्रवटं महाकालवनं तथा
॥२६॥नर्मदातीर्थम् अपरं तीर्थवज्रं तथार्बुदम् । पिङ्गुतीर्थं सवासिष्ठं तीर्थं च पृथसङ्गमम्
॥२७॥तीर्थं दौर्वासिकं नाम तथा पिञ्जरकं शुभम् । ऋषितीर्थं ब्रह्मतुङ्गं वसुतीर्थं कुमारिकम्
॥२८॥शक्रतीर्थं पञ्चनदं रेणुकातीर्थम् एव च । पैतामहं च विमलं रुद्रपादं तथोत्तमम्
॥२९॥मणिमत्तं च कामाख्यं कृष्णतीर्थं कुशाविलम् । यजनं याजनं चैव तथैव ब्रह्मवालुकम्
॥३०॥पुष्पन्यासं पुण्डरीकं मणिपूरं तथोत्तरम् । दीर्घसत्त्रं हयपदं तीर्थं चानशनं तथा
॥३१॥गङ्गोद्भेदं शिवोद्भेदं नर्मदोद्भेदम् एव च । वस्त्रापदं दारुवलं छायारोहणम् एव च
॥३२॥सिद्धेश्वरं मित्रवलं कालिकाश्रमम् एव च । वटावटं भद्रवटं कौशाम्बी च दिवाकरम्
॥३३॥द्वीपं सारस्वतं चैव विजयं कामदं तथा । रुद्रकोटिं सुमनसं तीर्थं सद्रावनामितम्
॥३४॥स्यमन्तपञ्चकं तीर्थं ब्रह्मतीर्थं सुदर्शनम् । सततं पृथिवीसर्वं पारिप्लवपृथूदकौ
॥३५॥दशाश्वमेधिकं तीर्थं सर्पिजं विषयान्तिकम् । कोटितीर्थं पञ्चनदं वाराहं यक्षिणीह्रदम्
॥३६॥पुण्डरीकं सोमतीर्थं मुञ्जवटं तथोत्तमम् । बदरीवनम् आसीनं रत्नमूलकम् एव च
॥३७॥लोकद्वारं पञ्चतीर्थं कपिलातीर्थम् एव च । सूर्यतीर्थं शङ्खिनी च गवां भवनम् एव च
॥३८॥तीर्थं च यक्षराजस्य ब्रह्मावर्तं सुतीर्थकम् । कामेश्वरं मात्रितीर्थं तीर्थं शीतवनं तथा
॥३९॥स्नानलोमापहं चैव माससंसरकं तथा । दशाश्वमेधं केदारं ब्रह्मोदुम्बरम् एव च
॥४०॥सप्तर्षिकुण्डं च तथा तीर्थं देव्याः सुजम्बुकम् । ईटास्पदं कोटिकूटं किन्दानं किञ्जपं तथा
॥४१॥कारण्डवं चावेध्यं च त्रिविष्टपम् अथापरम् । पाणिषातं मिश्रकं च मधूवटमनोजवौ
॥४२॥कौशिकी देवतीर्थं च तीर्थं च ऋणमोचनम् । दिव्यं च नृगधूमाख्यं तीर्थं विष्णुपदं तथा
॥४३॥अमराणां ह्रदं पुण्यं कोटितीर्थं तथापरम् । श्रीकुञ्जं शालितीर्थं च नैमिषेयं च विश्रुतम्
॥४४॥ब्रह्मस्थानं सोमतीर्थं कन्यातीर्थं तथैव च । ब्रह्मतीर्थं मनस्तीर्थं तीर्थं वै कारुपावनम्
॥४५॥सौगन्धिकवनं चैव मणितीर्थं सरस्वती । ईशानतीर्थं प्रवरं पावनं पाञ्चयज्ञिकम्
॥४६॥त्रिशूलधारं माहेन्द्रं देवस्थानं कृतालयम् । शाकम्भरी देवतीर्थं सुवर्णाख्यं किलं ह्रदम्
॥४७॥क्षीरश्रवं विरूपाक्षं भृगुतीर्थं कुशोद्भवम् । ब्रह्मतीर्थं ब्रह्मयोनिं नीलपर्वतम् एव च
॥४८॥कुब्जाम्बकं भद्रवटं वसिष्ठपदम् एव च । स्वर्गद्वारं प्रजाद्वारं कालिकाश्रमम् एव च
॥४९॥रुद्रावर्तं सुगन्धाश्वं कपिलावनम् एव च । भद्रकर्णह्रदं चैव शङ्कुकर्णह्रदं तथा
॥५०॥सप्तसारस्वतं चैव तीर्थम् औशनसं तथा । कपालमोचनं चैव अवकीर्णं च काम्यकम्
॥५१॥चतुःसामुद्रिकं चैव शतकिं च सहस्रिकम् । रेणुकं पञ्चवटकं विमोचनम् अथौजसम्
॥५२॥स्थाणुतीर्थं कुरोस् तीर्थं स्वर्गद्वारं कुशध्वजम् । विश्वेश्वरं मानवकं कूपं नारायणाश्रयम्
॥५३॥गङ्गाह्रदं वटं चैव बदरीपाटनं तथा । इन्द्रमार्गम् एकरात्रं क्षीरकावासम् एव च
॥५४॥सोमतीर्थं दधीचं च श्रुततीर्थं च भो द्विजाः । कोटितीर्थस्थलीं चैव भद्रकालीह्रदं तथा
॥५५॥अरुन्धतीवनं चैव ब्रह्मावर्तं तथोत्तमम् । अश्ववेदी कुब्जावनं यमुनाप्रभवं तथा
॥५६॥वीरं प्रमोक्षं सिन्धूत्थम् ऋष कुल्या सकृत्तिकम् । उर्वीसङ्क्रमणं चैव मायाविद्योद्भवं तथा
॥५७॥महाश्रमो वैतसिकारूपं सुन्दरिकाश्रमम् । बाहुतीर्थं चारुनदीं विमलाशोकम् एव च
॥५८॥तीर्थं पञ्चनदं चैव मार्कण्डेयस्य धीमतः । सोमतीर्थं सितोदं च तीर्थं मत्स्योदरीं तथा
॥५९॥सूर्यप्रभं सूर्यतीर्थम् अशोकवनम् एव च । अरुणास्पदं कामदं च शुक्रतीर्थं सवालुकम्
॥६०॥पिशाचमोचनं चैव सुभद्राह्रदम् एव च । कुण्डं विमलदण्डस्य तीर्थं चण्डेश्वरस्य च
॥६१॥ज्येष्ठस्थानह्रदं चैव पुण्यं ब्रह्मसरं तथा । जैगीषव्यगुहा चैव हरिकेशवनं तथा
॥६२॥अजामुखसरं चैव घण्टाकर्णह्रदं तथा । पुण्डरीकह्रदं चैव वापी कर्कोटकस्य च
॥६३॥सुवर्णस्योदपानं च श्वेततीर्थह्रदं तथा । कुण्डं घर्घरिकायाश् च श्यामकूपं च चन्द्रिका
॥६४॥श्मशानस्तम्भकूपं च विनायकह्रदं तथा । कूपं सिन्धूद्भवं चैव पुण्यं ब्रह्मसरं तथा
॥६५॥रुद्रावासं तथा तीर्थं नागतीर्थं पुलोमकम् । भक्तह्रदं क्षीरसरः प्रेताधारं कुमारकम्
॥६६॥ब्रह्मावर्तं कुशावर्तं दधिकर्णोदपानकम् । शृङ्गतीर्थं महातीर्थं तीर्थश्रेष्ठा महानदी
॥६७॥दिव्यं ब्रह्मसरं पुण्यं गयाशीर्षाक्षयं वटम् । दक्षिणं चोत्तरं चैव गोमयं रूपशीतिकम्
॥६८॥कपिलाह्रदं गृध्रवटं सावित्रीह्रदम् एव च । प्रभासनं सीतवनं योनिद्वारं च धेनुकम्
॥६९॥धन्यकं कोकिलाख्यं च मतङ्गह्रदम् एव च । पितृकूपं रुद्रतीर्थं शक्रतीर्थं सुमालिनम्
॥७०॥ब्रह्मस्थानं सप्तकुण्डं मणिरत्नह्रदं तथा । कौशिक्यं भरतं चैव तीर्थं ज्येष्ठालिका तथा
॥७१॥विश्वेश्वरं कल्पसरः कन्यासंवेत्यम् एव च । निश्चीवा प्रभवश् चैव वसिष्ठाश्रमम् एव च
॥७२॥देवकूटं च कूपं च वसिष्ठाश्रमम् एव च । वीराश्रमं ब्रह्मसरो ब्रह्मवीरावकापिली
॥७३॥कुमारधारा श्रीधारा गौरीशिखरम् एव च । शुनः कुण्डोऽथ तीर्थं च नन्दितीर्थं तथैव च
॥७४॥कुमारवासं श्रीवासम् और्वीशीतार्थम् एव च । कुम्भकर्णह्रदं चैव कौशिकीह्रदम् एव च
॥७५॥धर्मतीर्थं कामतीर्थं तीर्थम् उद्दालकं तथा । सन्ध्यातीर्थं कारतोयं कपिलं लोहितार्णवम्
॥७६॥शोणोद्भवं वंशगुल्मम् ऋषभं कलतीर्थकम् । पुण्यावतीह्रदं तीर्थं तीर्थं बदरिकाश्रमम्
॥७७॥रामतीर्थं पितृवनं विरजातीर्थम् एव च । मार्कण्डेयवनं चैव कृष्णतीर्थं तथा वटम्
॥७८॥रोहिणीकूपप्रवरम् इन्द्रद्युम्नसरं च यत् । सानुगर्तं समाहेन्द्रं श्रीतीर्थं श्रीनदं तथा
॥७९॥इषुतीर्थं वार्षभं च कावेरीह्रदम् एव च । कन्यातीर्थं च गोकर्णं गायत्रीस्थानम् एव च
॥८०॥बदरीह्रदम् अन्यच् च मध्यस्थानं विकर्णकम् । जातीह्रदं देवकूपं कुशप्रवणम् एव च
॥८१॥सर्वदेवव्रतं चैव कन्याश्रमह्रदं तथा । तथान्यद् वालखिल्यानां सपूर्वाणां तथापरम्
॥८२॥तथान्यच् च महर्षीणाम् अखण्डितह्रदं तथा । तीर्थेष्व् एतेषु विधिवत् सम्यक् श्रद्धासमन्वितः
॥८३॥स्नानं करोति यो मर्त्यः सोपवासो जितेन्द्रियः । देवान् ऋषीन् मनुष्यांश् च पितॄन् सन्तर्प्य च क्रमात्
॥८४॥अभ्यर्च्य देवतास् तत्र स्थित्वा च रजनीत्रयम् । पृथक् पृथक् फलं तेषु प्रतितीर्थेषु भो द्विजाः
॥८५॥प्राप्नोति हयमेधस्य नरो नास्त्य् अत्र संशयः । यस् त्व् इदं शृणुयान् नित्यं तीर्थमाहात्म्यम् उत्तमम् । पठेच् च श्रावयेद् वापि सर्वपापैः प्रमुच्यते
॥८६॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).