अध्यायः ७४
नारद उवाच:
कमण्डलुस्थिता देवी महेश्वरजटागता । श्रुता देव यथा मर्त्यम् आगता तद् ब्रवीतु मे
॥१॥ब्रह्मोवाच:
महेश्वरजटास्था या आपो देव्यो महामते । तासां च द्विविधो भेद आहर्तुर् द्वयकारणात्
॥२॥एकांशो ब्राह्मणेनात्र व्रतदानसमाधिना । गोतमेन शिवं पूज्य आहृतो लोकविश्रुतः
॥३॥अपरस् तु महाप्राज्ञ क्षत्रियेण बलीयसा । आराध्य शङ्करं देवं तपोभिर् नियमैस् तथा
॥४॥भगीरथेन भूपेन आहृतोऽंशो अपरस् तथा । एवं द्वैरूप्यम् अभवद् गङ्गाया मुनिसत्तम
॥५॥नारद उवाच:
महेश्वरजटास्था या हेतुना केन गौतमः । आहर्ता क्षत्रियेणापि आहृता केन तद् वद
॥६॥ब्रह्मोवाच:
यथानीता पुरा वत्स ब्राह्मणेनेतरेण वा । तत् सर्वं विस्तरेणाहं वदिष्ये प्रीतये तव
॥७॥यस्मिन् काले सुरेशस्य उमा पत्न्य् अभवत् प्रिया । तस्मिन्न् एवाभवद् गङ्गा प्रिया शम्भोर् महामते
॥८॥मम दोषापनोदाय चिन्तयानः शिवस् तदा । उमया सहितः श्रीमान् देवीं प्रेक्ष्य विशेषतः
॥९॥रसवृत्तौ स्थितो यस्मान् निर्ममे रसम् उत्तमम् । रसिकत्वात् प्रियत्वाच् च स्त्रैणत्वात् पावनत्वतः
॥१०॥सर्वाभ्यो ह्य् अधिकप्रीतिर् गङ्गाभूद् द्विजसत्तम । सैवोद्भूता जटामार्गात् कस्मिंश्चित् कारणान्तरे । स तु सङ्गोपयाम् आस गङ्गां शम्भुर् जटागताम्
॥१२॥शिरसा च धृतां ज्ञात्वा न शशाक उमा तदा । सोढुं ब्रह्मञ् जटाजूटे स्थितां दृष्ट्वा पुनः पुनः
॥१३॥अमर्षेण भवं गोरी प्रेरयस्वेत्य् अभाषत । नैवासौ प्रैरयच् छम्भू रसिको रसम् उत्तमम्
॥१४॥जटास्व् एव तदा देवीं गोपायन्तं विमृश्य सा । विनायकं जयां स्कन्दं रहो वचनम् अब्रवीत्
॥१५॥नैवायं त्रिदशेशानो गङ्गां त्यजति कामुकः । सापि प्रिया शिवस्याद्य कथं त्यजति तां प्रियाम्
॥१६॥एवं विमृश्य बहुशो गौरी चाह विनायकम्
॥१७॥पार्वत्य् उवाच:
न देवैर् नासुरैर् यक्षैर् न सिद्धैर् भवतापि च । न राजभिर् अथान्यैर् वा न गङ्गां त्यजति प्रभुः
॥१८॥पुनस् तप्स्यामि वा गत्वा हिमवन्तं नगोत्तमम् । अथवा ब्राह्मणैः पुण्यैस् तपोभिर् हतकल्मषैः
॥१९॥तैर् वा जटास्थिता गङ्गा प्रार्थिता भुवम् आप्नुयात्
॥२०॥ब्रह्मोवाच:
एतच् छ्रुत्वा मातृवाक्यं मातरं प्राह विघ्नराट् । भ्रात्रा स्कन्देन जयया सम्मन्त्र्येह च युज्यते
॥२१॥तत् कुर्मो मस्तकाद् गङ्गां यथा त्यजति मे पिता । एतस्मिन्न् अन्तरे ब्रह्मन्न् अनावृष्टिर् अजायत
॥२२॥द्विर् द्वादश समा मर्त्ये सर्वप्राणिभयावहा । ततो विनष्टम् अभवज् जगत् स्थावरजङ्गमम्
॥२३॥विना तु गौतमं पुण्यम् आश्रमं सर्वकामदम् । स्रष्टुकामः पुरा पुत्र स्थावरं जङ्गमं तथा
॥२४॥कृतो यज्ञो मया पूर्वं स देवयजनो गिरिः । मन्नामा तत्र विख्यातस् ततो ब्रह्मगिरिः सदा
॥२५॥तम् आश्रित्य नगश्रेष्ठं सर्वदास्ते स गौतमः । तस्याश्रमे महापुण्ये श्रेष्ठे ब्रह्मगिरौ शुभे
॥२६॥आधयो व्याधयो वापि दुर्भिक्षं वाप्य् अवर्षणम् । भयशोकौ च दारिद्र्यं न श्रूयन्ते कदाचन
॥२७॥तदाश्रमं विनान्यत्र हव्यं वा कव्यम् एव च । नास्ति पुत्र तथा दाता होता यष्टा तथैव च
॥२८॥यदैव गौतमो विप्रो ददाति च जुहोति च । तदैवाप्य् अयनं स्वर्गे सुराणाम् अपि नान्यतः
॥२९॥देवलोकेऽपि मर्त्ये वा श्रूयते गौतमो मुनिः । होता दाता च भोक्ता च स एवेति जना विदुः
॥३०॥तच् छ्रुत्वा मुनयः सर्वे नानाश्रमनिवासिनः । गौतमाश्रमम् आपृच्छन्न् आगच्छन्तस् तपोधनाः
॥३१॥तेषां मुनीनां सर्वेषाम् आगतानां स गौतमः । शिष्यवत् पुत्रवद् भक्त्या पितृवत् पोषकोऽभवत्
॥३२॥यस्य यथेप्सितं कामं यथायोग्यं यथाक्रमम् । यथानुरूपं सर्वेषां शुश्रूषाम् अकरोन् मुनिः
॥३३॥आज्ञया गौतमस्यासन्न् ओषध्यो लोकमातरः । आराधिताः पुनस् तेन ब्रह्मविष्णुमहेश्वराः
॥३४॥जायन्ते च तदौषध्यो लूयन्ते च तदैव हि । सम्पत्स्यन्ते तदोप्यन्ते गौतमस्य तपोबलात्
॥३५॥सर्वाः समृद्धयस् तस्य संसिध्यन्ते मनोगताः । प्रत्यहं वक्ति विनयाद् गौतमस् त्व् आगतान् मुनीन्
॥३६॥पुत्रवच् छिष्यवच् चैव प्रेष्यवत् करवाणि किम् । पितृवत् पोषयाम् आस संवत्सरगणान् बहून्
॥३७॥एवं वसत्सु मुनिषु त्रैलोक्ये ख्यातिर् आश्रयात् । ततो विनायकः प्राह मातरं भ्रातरं जयाम्
॥३८॥विनायक उवाच:
देवानां सदने मातर् गीयते गौतमो द्विजः । यन् न साध्यं सुरगणैर् गौतमः कृतवान् इति
॥३९॥एवं श्रुतं मया देवि ब्राह्मणस्य तपोबलम् । स विप्रश् चालयेद् एनां मातर् गङ्गां जटागताम्
॥४०॥तपसा वान्यतो वापि पूजयित्वा त्रिलोचनम् । स एव च्यावयेद् एनां जटास्थां मे पितृप्रियाम्
॥४१॥तत्र नीतिर् विधातव्या तां विप्रो याचयेद् यथा । तत्प्रभावात् सरिच्छ्रेष्ठा शिरसोऽवतरत्य् अपि
॥४२॥ब्रह्मोवाच:
इत्य् उक्त्वा मातरं भ्रात्रा जयया सह विघ्नराट् । जगाम गौतमो यत्र ब्रह्मसूत्रधरः कृशः
॥४३॥वसन् कतिपयाहःसु गौतमाश्रममण्डले । उवाच ब्राह्मणान् सर्वांस् तत्र तत्र च विघ्नराट्
॥४४॥गच्छामः स्वम् अधिष्ठानम् आश्रमाणि शुचीनि च । पुष्टाः स्म गौतमान्नेन पृच्छामो गौतमं मुनिम्
॥४५॥इति सम्मन्त्र्य पृच्छन्ति मुनयो मुनिसत्तमाः । स तान् निवारयाम् आस स्नेहबुद्ध्या मुनीन् पृथक्
॥४६॥गौतम उवाच:
कृताञ्जलिः सविनयम् आसध्वम् इह चैव हि । युष्मच्चरणशुश्रूषां करोमि मुनिपुङ्गवाः
॥४७॥शुश्रूषौ पुत्रवन् नित्यं मयि तिष्ठति नोचितम् । भवतां भूमिदेवानाम् आश्रमान्तरसेवनम्
॥४८॥इदम् एवाश्रमं पुण्यं सर्वेषाम् इति मे मतिः । अलम् अन्येन मुनय आश्रमेण गतेन वा
॥४९॥ब्रह्मोवाच:
इति श्रुत्वा मुनेर् वाक्यं विघ्नकृत्यम् अनुस्मरन् । उवाच प्राञ्जलिर् भूत्वा ब्राह्मणान् स गणाधिपः
॥५०॥गणाधिप उवाच:
अन्नक्रीता वयं किं नो निवारयत गौतमः । साम्ना नैव वयं शक्ता गन्तुं स्वं स्वं निवेशनम्
॥५१॥नायम् अर्हति दण्डं वा उपकारी द्विजोत्तमः । तस्माद् बुद्ध्या व्यवस्यामि तत् सर्वैर् अनुमन्यताम्
॥५२॥ब्रह्मोवाच:
ततः सर्वे द्विजश्रेष्ठाः क्रियताम् इत्य् अनुब्रुवन् । एतस्य तूपकाराय लोकानां हितकाम्यया
॥५३॥ब्राह्मणानां च सर्वेषां श्रेयो यत् स्यात् तथा कुरु । ब्राह्मणानां वचः श्रुत्वा मेने वाक्यं गणाधिपः
॥५४॥विनायक उवाच:
क्रियते गुणरूपं यद् गौतमस्य विशेषतः
॥५५॥ब्रह्मोवाच:
अनुमान्य द्विजान् सर्वान् पुनः पुनर् उदारधीः । स्वयं च ब्राह्मणो भूत्वा प्रणम्य ब्राह्मणान् पुनः । मातुर् मते स्थितो विद्वाञ् जयां प्राह गणेश्वरः
॥५६॥विनायक उवाच:
यथा नान्यो विजानीते तथा कुरु शुभानने । गोरूपधारिणी गच्छ गौतमो यत्र तिष्ठति
॥५७॥शालीन् खाद विनाश्याथ विकारं कुरु भामिनि । कृते प्रहारे हुङ्कारे प्रेक्षिते चापि किञ्चन । पत दीनं स्वनं कृत्वा न म्रियस्व न जीव च
॥५८॥ब्रह्मोवाच:
तथा चकार विजया विघ्नेश्वरमते स्थिता । यत्रासीद् गौतमो विप्रो जया गोरूपधारिणी
॥५९॥जगाम शालीन् खादन्ती तां ददर्श स गौतमः । गां दृष्ट्वा विकृतां विप्रस् तां तृणेन न्यवारयत्
॥६०॥निवार्यमाणा सा तेन स्वनं कृत्वा पपात गौः । तस्यां तु पतितायां च हाहाकारो महान् अभूत्
॥६१॥स्वनं श्रुत्वा च दृष्ट्वा च गौतमस्य विचेष्टितम् । व्यथिता ब्राह्मणाः प्राहुर् विघ्नराजपुरस्कृताः
॥६२॥ब्राह्मणा ऊचुः:
इतो गच्छामहे सर्वे न स्थातव्यं तवाश्रमे । पुत्रवत् पोषिताः सर्वे पृष्टोऽसि मुनिपुङ्गव
॥६३॥ब्रह्मोवाच:
इति श्रुत्वा मुनिर् वाक्यं विप्राणां गच्छतां तदा । वज्राहत इवासीत् स विप्राणां पुरतोऽपतत्
॥६४॥तम् ऊचुर् ब्राह्मणाः सर्वे पश्येमां पतितां भुवि । रुद्राणां मातरं देवीं जगतां पावनीं प्रियाम्
॥६५॥तीर्थदेवस्वरूपिण्याम् अस्यां गवि विधेर् बलात् । पतितायां मुनिश्रेष्ठ गन्तव्यम् अवशिष्यते
॥६६॥चीर्णं व्रतं क्षयं याति यथा वासस् त्वदाश्रमे । वयं नान्यधना ब्रह्मन् केवलं तु तपोधनाः
॥६७॥ब्रह्मोवाच:
विप्राणां पुरतः स्थित्वा विनीतः प्राह गौतमः
॥६८॥गौतम उवाच:
भवन्त एव शरणं पूतं मां कर्तुम् अर्हथ
॥६९॥ब्रह्मोवाच:
ततः प्रोवाच भगवान् विघ्नराड् ब्राह्मणैर् वृतः
॥७०॥विघ्नराज उवाच:
नैवेयं म्रियते तत्र नैव जीवति तत्र किम् । वदामोऽस्मिन् सुसन्दिग्धे निष्कृतिं गतिम् एव वा
॥७१॥गौतम उवाच:
कथम् उत्थास्यतीयं गौर् अथ चास्मिंश् च निष्कृतिम् । वक्तुम् अर्हथ तत् सर्वं करिष्येऽहम् असंशयम्
॥७२॥ब्राह्मणा ऊचुः:
सर्वेषां च मतेनायं वदिष्यति च बुद्धिमान् । एतद् वाक्यम् अथास्माकं प्रमाणं तव गौतम
॥७३॥ब्रह्मोवाच:
ब्राह्मणैः प्रेर्यमाणोऽसौ गौतमेन बलीयसा । विघ्नकृद् ब्रह्मवपुषा प्राह सर्वान् इदं वचः
॥७४॥विघ्नराज उवाच:
सर्वेषां च मतेनाहं वदिष्यामि यथार्थवत् । अनुमन्यन्तु मुनयो मद्वाक्यं गौतमोऽपि च
॥७५॥महेश्वरजटाजूटे ब्रह्मणोऽव्यक्तजन्मनः । कमण्डलुस्थितं वारि तिष्ठतीति हि शुश्रुम
॥७६॥तद् आनयस्व तरसा तपसा नियमेन च । तेनाभिषिञ्च गाम् एतां भगवन् भुवम् आश्रिताम् । ततो वत्स्यामहे सर्वे पूर्ववत् तव वेश्मनि
॥७७॥ब्रह्मोवाच:
इत्य् उक्तवति विप्रेन्द्रे ब्राह्मणानां च संसदि । तत्रापतत् पुष्पवृष्टिर् जयशब्दो व्यवर्धत । ततः कृताञ्जलिर् नम्रो गौतमो वाक्यम् अब्रवीत्
॥७८॥गौतम उवाच:
तपसाग्निप्रसादेन देवब्रह्मप्रसादतः । भवतां च प्रसादेन मत्सङ्कल्पोऽनुसिध्यताम्
॥७९॥ब्रह्मोवाच:
एवम् अस्त्व् इति तं विप्रा आपृच्छन् मुनिपुङ्गवम् । स्वानि स्थानानि ते जग्मुः समृद्धान्य् अन्नवारिभिः
॥८०॥यातेषु तेषु विप्रेषु भ्रात्रा सह गणेश्वरः । जयया सह सुप्रीतः कृतकृत्यो न्यवर्तत
॥८१॥गतेषु ब्रह्मवृन्देषु गणेशे च गते तथा । गौतमोऽपि मुनिश्रेष्ठस् तपसा हतकल्मषः
॥८२॥ध्यायंस् तदर्थं स मुनिः किम् इदं मम संस्थितम् । इत्य् एवं बहुशो ध्यायञ् ज्ञानेन ज्ञातवान् द्विज
॥८३॥निश्चित्य देवकार्यार्थम् आत्मनः किल्बिषां गतिम् । लोकानाम् उपकारं च शम्भोः प्रीणनम् एव च
॥८४॥उमायाः प्रीणनं चापि गङ्गानयनम् एव च । सर्वं श्रेयस्करं मन्ये मयि नैव च किल्बिषम्
॥८५॥इत्य् एवं मनसा ध्यायन् सुप्रीतोऽभूद् द्विजोत्तमः । आराध्य जगताम् ईशं त्रिनेत्रं वृषभध्वजम्
॥८६॥आनयिष्ये सरिच्छ्रेष्ठां प्रीताऽस्तु गिरिजा मम । सपत्नी जगदम्बाया महेश्वरजटास्थिता
॥८७॥एवं हि सङ्कल्प्य मुनिप्रवीरः । स गौतमो ब्रह्मगिरेर् जगाम । कैलासम् आधिष्ठितम् उग्रधन्वना । सुरार्चितं प्रियया ब्रह्मवृन्दैः
॥८८॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).