अध्यायः १६८
ब्रह्मोवाच:
भानुतीर्थम् इति ख्यातं त्वाष्ट्रं माहेश्वरं तथा । ऐन्द्रं याम्यं तथाग्नेयं सर्वपापप्रणाशनम्
॥१॥अभिष्टुत इति ख्यातो राजासीत् प्रियदर्शनः । हयमेधेन पुण्येन यष्टुम् आरब्धवान् सुरान्
॥२॥तत्रर्त्विजः षोडश स्युर् वसिष्ठात्रिपुरोगमाः । क्षत्रिये यजमाने तु यज्ञभूमिः कथं भवेत्
॥३॥ब्राह्मणे दीक्षिते राजा भुवं दास्यति यज्ञियाम् । भूपतौ दीक्षिते दाता को भवेत् को नु याचते
॥४॥याच्ञेयम् अखिलाशर्मजननी पापरूपिणी । केनाप्य् अतो न कार्यैव क्षत्रियेण विशेषतः
॥५॥एवं मीमांसमानेषु ब्राह्मणेषु परस्परम् । तत्र प्राह महाप्राज्ञो वसिष्ठो धर्मवित्तमः
॥६॥वसिष्ठ उवाच:
राज्ञि दीक्षायमाणे तु सूर्यो याच्यो भुवं प्रति । देहि मे देव सवितर् यजनं देवतोचितम्
॥७॥दैवं क्षत्रम् असि ब्रह्मन् भूतनाथ नमोऽस्तु ते । याचितः सविता राज्ञा देवानां यजनं शुभम्
॥८॥ददात्य् एव ततो राजन् प्रार्थयेशं दिवाकरम्
॥९॥ब्रह्मोवाच:
तथेत्य् उक्त्वाभिष्टुतोऽपि देवदेवं दिवाकरम् । श्रद्धया प्रार्थयाम् आस हरीशाजात्मकं रविम्
॥१०॥राजोवाच:
देवानां यजनं देहि सवितस् ते नमोऽस्तु ते
॥११॥ब्रह्मोवाच:
क्षत्रं दैवं यतः सूर्यो दत्ता भूर् भूपतेस् ततः । सविता देवदेवेशो ददामीत्य् अभ्यभाषत
॥१२॥एवं करोति यो यज्ञं तस्य रिष्टिर् न काचन । तथा वाजिमखे सत्त्रे ब्राह्मणैर् वेदपारगैः
॥१३॥प्रारब्धेऽभिष्टुता राज्ञा यत्रागाद् भूपतिं रविः । देवानां यजनं दातुं भानुतीर्थं तद् उच्यते
॥१४॥तं देवक्रतुम् उत्कृष्टं हयमेधं सुरैर् युतम् । दैत्याश् च दनुजाश् चैव तथान्ये यज्ञघातकाः
॥१५॥ब्रह्मवेषधराः सर्वे गायन्तः सामगा इव । तेऽपि तत्र महाप्राज्ञाः प्राविशन्न् अनिवारिताः
॥१६॥चमसानि च पात्राणि सोमं चषालम् एव च । सोमपानं हविस् त्यागम् ऋत्विजो भूपतिं तथा
॥१७॥निन्दन्ति निक्षिपन्त्य् अन्ये हसन्त्य् अन्ये तथासुराः । तेषां चेष्टां न जानन्ति विश्वरूपं विना मुने
॥१८॥विश्वरूपोऽपि पितरं प्राह दैत्या इमे इति । तत् पुत्रवचनं श्रुत्वा त्वष्टा प्राह सुरान् इदम्
॥१९॥त्वष्टोवाच:
गृहीत्वा वारिदर्भांश् च प्रोक्षयध्वं समन्ततः । ये निन्दन्ति मखं पुण्यं चमसं सोमम् एव च
॥२०॥मया त्व् अपहताः सर्व इत्य् उक्त्वा परिषिञ्चत
॥२१॥ब्रह्मोवाच:
तथा चक्रुः सुरगणास् त्वष्टा चापि तथाकरोत् । भस्मीभूतास् ततः सर्वे कान्दिशीकास् ततोऽभवन्
॥२२॥हता मया महापापा इत्य् उक्त्वा वार्य् अवाक्षिपत् । ततः क्षीणायुषो दैत्याः प्रातिष्ठन् कुपितास् ततः
॥२३॥यत्रैतत् प्राक्षिपद् वारि त्वष्टा लोकप्रजापतिः । त्वाष्ट्रं तीर्थं तद् आख्यातं सर्वपापप्रणाशनम्
॥२४॥त्वष्टुर् वाक्याच् च्युतान् दैत्यान् निजघान यमस् तदा । कालदण्डेन चक्रेण कालपाशेन मन्युना
॥२५॥यत्र ते निहता दैत्यास् तत् तीर्थं याम्यम् उच्यते । यत्राभवत् क्रतुः पूर्णो हुत्वाग्नौ चामृतं बहु
॥२६॥धाराभिः शरमानाभिर् अखण्डाभिर् महाध्वरे । यत्राभवद् धव्यवाहस् तृप्तस् तस्य ह्य् अभिष्टुतः
॥२७॥अग्नितीर्थं तद् आख्यातम् अश्वमेधफलप्रदम् । इन्द्रो मरुद्भिर् नृपतिं प्राहेदं वचनं शुभम्
॥२८॥त्वं संराड् भविता राजन्न् उभयोर् अपि लोकयोः । सखा मम प्रियो नित्यं भविता नात्र संशयः
॥२९॥स कृतार्थो मर्त्यलोक इन्द्रतीर्थे च तर्पणम् । कुर्यात् पितॄणां प्रीत्यर्थं यमतीर्थे विशेषतः
॥३०॥माहेश्वरं तु तत् तीर्थं पूजितोऽभिष्टुतः शिवः । भक्तियुक्तेन विप्रैश् च सर्वकर्मविशारदैः
॥३१॥वैदिकैर् लौकिकैश् चैव मन्त्रैः पूज्यं महेश्वरम् । नृत्यैर् गीतैस् तथा वाद्यैर् अमृतैः पञ्चसम्भवैः
॥३२॥उपचारैश् च बहुभिर् दण्डपातप्रदक्षिणैः । धूपैर् दीपैश् च नैवेद्यैः पुष्पैर् गन्धैः सुगन्धिभिः
॥३३॥पूजयाम् आस देवेशं विष्णुं शम्भुं धियैकया । ततः प्रसन्नौ देवेशौ वरान् ददतुर् ओजसा
॥३४॥अभिष्टुते नरेन्द्राय भुक्तिमुक्ती उभे अपि । माहात्म्यम् अस्य तीर्थस्य तथा ददतुर् उत्तमम्
॥३५॥ततःप्रभृति तत् तीर्थं शैवं वैष्णवम् उच्यते । तत्र स्नानं च दानं च सर्वकामप्रदं विदुः
॥३६॥इमानि सर्वतीर्थानि स्मरेद् अपि पठेत वा । विमुक्तः सर्वपापेभ्यः शिवविष्णुपुरं व्रजेत्
॥३७॥भानुतीर्थे विशेषेण स्नानं सर्वार्थसिद्धिदम् । तत्र तीर्थे महापुण्यं तीर्थानां शतम् अत्र हि
॥३८॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).