मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः ५५

3
ब्रह्मपुराणम् · 55

अध्यायः ५५

ब्रह्मोवाच:

स निष्क्रम्योदरात् तस्य बालस्य मुनिसत्तमाः । पुनश् चैकार्णवाम् उर्वीम् अपश्यज् जनवर्जिताम्

॥१॥

पूर्वदृष्टं च तं देवं ददर्श शिशुरूपिणम् । शाखायां वटवृक्षस्य पर्यङ्कोपरि संस्थितम्

॥२॥

श्रीवत्सवक्षसं देवं पीतवस्त्रं चतुर्भुजम् । जगद् आदाय तिष्ठन्तं पद्मपत्त्रायतेक्षणम्

॥३॥

सोऽपि तं मुनिम् आयान्तं प्लवमानम् अचेतनम् । दृष्ट्वा मुखाद् विनिष्क्रान्तं प्रोवाच प्रहसन्न् इव

॥४॥

श्रीभगवान् उवाच:

कच्चित् त्वयोषितं वत्स विश्रान्तं च ममोदरे । भ्रममाणश् च किं तत्र आश्चर्यं दृष्टवान् असि

॥५॥

भक्तोऽसि मे मुनिश्रेष्ठ श्रान्तोऽसि च ममाश्रितः । तेन त्वाम् उपकाराय सम्भाषे पश्य माम् इह

॥६॥

ब्रह्मोवाच:

श्रुत्वा स वचनं तस्य सम्प्रहृष्टतनूरुहः । ददर्श तं सुदुष्प्रेक्षं रत्नैर् दिव्यैर् अलङ्कृतम्

॥७॥

प्रसन्ना निर्मला दृष्टिर् मुहूर्तात् तस्य भो द्विजाः । प्रसादात् तस्य देवस्य प्रादुर्भूता पुनर् नवा

॥८॥

रक्ताङ्गुलितलौ पादौ ततस् तस्य सुरार्चितौ । प्रणम्य शिरसा विप्रा हर्षगद्गदया गिरा

॥९॥

कृताञ्जलिस् तदा हृष्टो विस्मितश् च पुनः पुनः । दृष्ट्वा तं परमात्मानं संस्तोतुम् उपचक्रमे

॥१०॥

मार्कण्डेय उवाच:

देवदेव जगन्नाथ मायाबालवपुर्धर । त्राहि मां चारुपद्माक्ष दुःखितं शरणागतम्

॥११॥

सन्तप्तोऽस्मि सुरश्रेष्ठ संवर्ताख्येन वह्निना । अङ्गारवर्षभीतं च त्राहि मां पुरुषोत्तम

॥१२॥

शोषितश् च प्रचण्डेन वायुना जगदायुना । विह्वलोऽहं तथा श्रान्तस् त्राहि मां पुरुषोत्तम

॥१३॥

तापितश् च तशामात्यैः प्रलयावर्तकादिभिः । न शान्तिम् अधिगच्छामि त्राहि मां पुरुषोत्तम

॥१४॥

तृषितश् च क्षुधाविष्टो दुःखितश् च जगत्पते । त्रातारं नात्र पश्यामि त्राहि मां पुरुषोत्तम

॥१५॥

अस्मिन्न् एकार्णवे घोरे विनष्टे सचराचरे । न चान्तम् अधिगच्छामि त्राहि मां पुरुषोत्तम

॥१६॥

तवोदरे च देवेश मया दृष्टं चराचरम् । विस्मितोऽहं विषण्णश् च त्राहि मां पुरुषोत्तम

॥१७॥

संसारेऽस्मिन् निरालम्बे प्रसीद पुरुषोत्तम । प्रसीद विबुधश्रेष्ठ प्रसीद विबुधप्रिय

॥१८॥

प्रसीद विबुधां नाथ प्रसीद विबुधालय । प्रसीद सर्वलोकेश जगत्कारणकारण

॥१९॥

प्रसीद सर्वकृद् देव प्रसीद मम भूधर । प्रसीद सलिलावास प्रसीद मधुसूदन

॥२०॥

प्रसीद कमलाकान्त प्रसीद त्रिदशेश्वर । प्रसीद कंसकेशीघ्न प्रसीदारिष्टनाशन

॥२१॥

प्रसीद कृष्ण दैत्यघ्न प्रसीद दनुजान्तक । प्रसीद मथुरावास प्रसीद यदुनन्दन

॥२२॥

प्रसीद शक्रावरज प्रसीद वरदाव्यय । त्वं मही त्वं जलं देव त्वम् अग्निस् त्वं समीरणः

॥२३॥

त्वं नभस् त्वं मनश् चैव त्वम् अहङ्कार एव च । त्वं बुद्धिः प्रकृतिश् चैव सत्त्वाद्यास् त्वं जगत्पते

॥२४॥

पुरुषस् त्वं जगद्व्यापी पुरुषाद् अपि चोत्तमः । त्वम् इन्द्रियाणि सर्वाणि शब्दाद्या विषयाः प्रभो

॥२५॥

त्वं दिक्पालाश् च धर्माश् च वेदा यज्ञाः सदक्षिणाः । त्वम् इन्द्रस् त्वं शिवो देवस् त्वं हविस् त्वं हुताशनः

॥२६॥

त्वं यमः पितृराट् देव त्वं रक्षोधिपतिः स्वयम् । वरुणस् त्वम् अपां नाथ त्वं वायुस् त्वं धनेश्वरः

॥२७॥

त्वम् ईशानस् त्वम् अनन्तस् त्वं गणेशश् च षण्मुखः । वसवस् त्वं तथा रुद्रास् त्वम् आदित्याश् च खेचराः

॥२८॥

दानवास् त्वं तथा यक्षास् त्वं दैत्याः समरुद्गणाः । सिद्धाश् चाप्सरसो नागा गन्धर्वास् त्वं सचारणाः

॥२९॥

पितरो वालखिल्याश् च प्रजानां पतयोऽच्युत । मुनयस् त्वम् ऋषिगणास् त्वम् अश्विनौ निशाचराः

॥३०॥

अन्याश् च जातयस् त्वं हि यत् किञ्चिज् जीवसञ्ज्ञितम् । किं चात्र बहुनोक्तेन ब्रह्मादिस्तम्बगोचरम्

॥३१॥

भूतं भव्यं भविष्यं च त्वं जगत् सचराचरम् । यत् ते रूपं परं देव कूटस्थम् अचलं ध्रुवम्

॥३२॥

ब्रह्माद्यास् तन् न जानन्ति कथम् अन्येऽल्पमेधसः । देव शुद्धस्वभावोऽसि नित्यस् त्वं प्रकृतेः परः

॥३३॥

अव्यक्तः शाश्वतोऽनन्तः सर्वव्यापी महेश्वरः । त्वम् आकाशः परः शान्तो अजस् त्वं विभुर् अव्ययः

॥३४॥

एवं त्वां निर्गुणं स्तोतुं कः शक्नोति निरञ्जनम् । स्तुतोऽसि यन् मया देव विकलेनाल्पचेतसा । तत् सर्वं देवदेवेश क्षन्तुम् अर्हसि चाव्यय

॥३५॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).