अध्यायः ६२
ब्रह्मोवाच:
एवं सम्पूज्य विधिवद् भक्त्या तं पुरुषोत्तमम् । प्रणम्य शिरसा पश्चात् सागरं च प्रसादयेत्
॥१॥प्राणस् त्वं सर्वभूतानां योनिश् च सरितां पते । तीर्थराज नमस् तेऽस्तु त्राहि माम् अच्युतप्रिय
॥२॥स्नात्वैवं सागरे सम्यक् तस्मिन् क्षेत्रवरे द्विजाः । तीरे चाभ्यर्च्य विधिवन् नारायणम् अनामयम्
॥३॥रामं कृष्णं सुभद्रां च प्रणिपत्य च सागरम् । शतानाम् अश्वमेधानां फलं प्राप्नोति मानवः
॥४॥सर्वपापविनिर्मुक्तः सर्वदुःखविवर्जितः । वृन्दारक इव श्रीमान् रूपयौवनगर्वितः
॥५॥विमानेनार्कवर्णेन दिव्यगन्धर्वनादिना । कुलैकविंशम् उद्धृत्य विष्णुलोकं स गच्छति
॥६॥भुक्त्वा तत्र वरान् भोगान् क्रीडित्वा चाप्सरैः सह । मन्वन्तरशतं साग्रं जरामृत्युविवर्जितः
॥७॥पुण्यक्षयाद् इहायातः कुले सर्वगुणान्विते । रूपवान् सुभगः श्रीमान् सत्यवादी जितेन्द्रियः
॥८॥वेदशास्त्रार्थविद् विप्रो भवेद् यज्वा तु वैष्णवः । योगं च वैष्णवं प्राप्य ततो मोक्षम् अवाप्नुयात्
॥९॥ग्रहोपरागे सङ्क्रान्त्याम् अयने विषुवे तथा । युगादिषु षडशीत्यां व्यतीपाते दिनक्षये
॥१०॥आषाढ्यां चैव कार्त्तिक्यां माघ्यां वान्ये शुभे तिथौ । ये तत्र दानं विप्रेभ्यः प्रयच्छन्ति सुमेधसः
॥११॥फलं सहस्रगुणितम् अन्यतीर्थाल् लभन्ति ते । पितॄणां ये प्रयच्छन्ति पिण्डं तत्र विधानतः
॥१२॥अक्षयां पितरस् तेषां तृप्तिं सम्प्राप्नुवन्ति वै । एवं स्नानफलं सम्यक् सागरस्य मयोदितम्
॥१३॥दानस्य च फलं विप्राः पिण्डदानस्य चैव हि । धर्मार्थमोक्षफलदम् आयुष्कीर्तियशस्करम्
॥१४॥भुक्तिमुक्तिफलं नॄणां धन्यं दुःस्वप्ननाशनम् । सर्वपापहरं पुण्यं सर्वकामफलप्रदम्
॥१५॥नास्तिकाय न वक्तव्यं पुराणं च द्विजोत्तमाः । तावद् गर्जन्ति तीर्थानि माहात्म्यैः स्वैः पृथक् पृथक्
॥१६॥यावन् न तीर्थराजस्य माहात्म्यं वर्ण्यते द्विजाः । पुष्करादीनि तीर्थानि प्रयच्छन्ति स्वकं फलम्
॥१७॥तीर्थराजस् तु स पुनः सर्वतीर्थफलप्रदः । भूतले यानि तीर्थानि सरितश् च सरांसि च
॥१८॥विशन्ति सागरे तानि तेनासौ श्रेष्ठतां गतः । राजा समस्ततीर्थानां सागरः सरितां पतिः
॥१९॥तस्मात् समस्ततीर्थेभ्यः श्रेष्ठोऽसौ सर्वकामदः । तमो नाशं यथाभ्येति भास्करेऽभ्युदिते द्विजाः
॥२०॥स्नानेन तीर्थराजस्य तथा पापस्य सङ्क्षयः । तीर्थराजसमं तीर्थं न भूतं न भविष्यति
॥२१॥अधिष्ठानं यदा यत्र प्रभोर् नारायणस्य वै । कः शक्नोति गुणान् वक्तुं तीर्थराजस्य भो द्विजाः
॥२२॥कोट्यो नवनवत्यस् तु यत्र तीर्थानि सन्ति वै । तस्मात् स्नानं च दानं च होमं जप्यं सुरार्चनम् । यत् किञ्चित् क्रियते तत्र चाक्षयं क्रियते द्विजाः
॥२३॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).