मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २३४

3
ब्रह्मपुराणम् · 234

अध्यायः २३४

व्यास उवाच:

आध्यात्मिकादि भो विप्रा ज्ञात्वा तापत्रयं बुधः । उत्पन्नज्ञानवैराग्यः प्राप्नोत्य् आत्यन्तिकं लयम्

॥१॥

आध्यात्मिकोऽपि द्विविधः शारीरो मानसस् तथा । शारीरो बहुभिर् भेदैर् भिद्यते श्रूयतां च सः

॥२॥

शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिर् अनेकधा

॥३॥

तथाक्षिरोगातीसारकुष्ठाङ्गामयसञ्ज्ञकैः । भिद्यते देहजस् तापो मानसं श्रोतुम् अर्हथ

॥४॥

कामक्रोधभयद्वेषलोभमोहविषादजः । शोकासूयावमानेर्ष्यामात्सर्याभिभवस् तथा

॥५॥

मानसोऽपि द्विजश्रेष्ठास् तापो भवति नैकधा । इत्य् एवमादिभिर् भेदैस् तापो ह्य् आध्यात्मिकः स्मृतः

॥६॥

मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः । सरीसृपाद्यैश् च नृणां जन्यते चाधिभौतिकः

॥७॥

शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः । तापो द्विजवरश्रेष्ठाः कथ्यते चाधिदैविकः

॥८॥

गर्भजन्मजराज्ञानमृत्युनारकजं तथा । दुःखं सहस्रशो भेदैर् भिद्यते मुनिसत्तमाः

॥९॥

सुकुमारतनुर् गर्भे जन्तुर् बहुमलावृते । उल्बसंवेष्टितो भग्नपृष्ठग्रीवास्थिसंहतिः

॥१०॥

अत्यम्लकटुतीक्ष्णोष्णलवणैर् मातृभोजनैः । अतितापिभिर् अत्यर्थं बाध्यमानोऽतिवेदनः

॥११॥

प्रसारणाकुञ्चनादौ नागानां प्रभुर् आत्मनः । शकृन्मूत्रमहापङ्कशायी सर्वत्र पीडितः

॥१२॥

निरुच्छ्वासः सचैतन्यः स्मरञ् जन्मशतान्य् अथ । आस्ते गर्भेऽतिदुःखेन निजकर्मनिबन्धनः

॥१३॥

जायमानः पुरीषासृङ्मूत्रशुक्राविलाननः । प्राजापत्येन वातेन पीड्यमानास्थिबन्धनः

॥१४॥

अधोमुखस् तैः क्रियते प्रबलैः सूतिमारुतैः । क्लेशैर् निष्क्रान्तिम् आप्नोति जठरान् मातुर् आतुरः

॥१५॥

मूर्छाम् अवाप्य महतीं संस्पृष्टो बाह्यवायुना । विज्ञानभ्रंशम् आप्नोति जातस् तु मुनिसत्तमाः

॥१६॥

कण्टकैर् इव तुन्नाङ्गः क्रकचैर् इव दारितः । पूतिव्रणान् निपतितो धरण्यां क्रिमिको यथा

॥१७॥

कण्डूयनेऽपि चाशक्तः परिवर्तेऽप्य् अनीश्वरः । स्तनपानादिकाहारम् अवाप्नोति परेच्छया

॥१८॥

अशुचिस्रस्तरे सुप्तः कीटदंशादिभिस् तथा । भक्ष्यमाणोऽपि नैवैषां समर्थो विनिवारणे

॥१९॥

जन्मदुःखान्य् अनेकानि जन्मनोऽनन्तराणि च । बालभावे यदाप्नोति आधिभूतादिकानि च

॥२०॥

अज्ञानतमसा छन्नो मूढान्तःकरणो नरः । न जानाति कुतः कोऽहं कुत्र गन्ता किमात्मकः

॥२१॥

केन बन्धेन बद्धोऽहं कारणं किम् अकारणम् । किं कार्यं किम् अकार्यं वा किं वाच्यं किं न चोच्यते

॥२२॥

को धर्मः कश् च वाधर्मः कस्मिन् वर्तेत वै कथम् । किं कर्तव्यम् अकर्तव्यं किं वा किं गुणदोषवत्

॥२३॥

एवं पशुसमैर् मूढैर् अज्ञानप्रभवं महत् । अवाप्यते नरैर् दुःखं शिश्नोदरपरायणैः

॥२४॥

अज्ञानं तामसो भावः कार्यारम्भप्रवृत्तयः । अज्ञानिनां प्रवर्तन्ते कर्मलोपस् ततो द्विजाः

॥२५॥

नरकं कर्मणां लोपात् फलम् आहुर् महर्षयः । तस्माद् अज्ञानिनां दुःखम् इह चामुत्र चोत्तमम्

॥२६॥

जराजर्जरदेहश् च शिथिलावयवः पुमान् । विचलच्छीर्णदशनो वलिस्नायुशिरावृतः

॥२७॥

दूरप्रनष्टनयनो व्योमान्तर्गततारकः । नासाविवरनिर्यातरोमपुञ्जश् चलद्वपुः

॥२८॥

प्रकटीभूतसर्वास्थिर् नतपृष्ठास्थिसंहतिः । उत्सन्नजठराग्नित्वाद् अल्पाहारोऽल्पचेष्टितः

॥२९॥

कृच्छ्रचङ्क्रमणोत्थानशयनासनचेष्टितः । मन्दीभवच्छ्रोत्रनेत्रगलल्लालाविलाननः

॥३०॥

अनायत्तैः समस्तैश् च करणैर् मरणोन्मुखः । तत्क्षणेऽप्य् अनुभूतानाम् अस्मर्ताखिलवस्तुनाम्

॥३१॥

सकृद् उच्चारिते वाक्ये समुद्भूतमहाश्रमः । श्वासकासामयायाससमुद्भूतप्रजागरः

॥३२॥

अन्येनोत्थाप्यतेऽन्येन तथा संवेश्यते जरी । भृत्यात्मपुत्रदाराणाम् अपमानपराकृतः

॥३३॥

प्रक्षीणाखिलशौचश् च विहाराहारसंस्पृहः । हास्यः परिजनस्यापि निर्विण्णाशेषबान्धवः

॥३४॥

अनुभूतम् इवान्यस्मिञ् जन्मन्य् आत्मविचेष्टितम् । संस्मरन् यौवने दीर्घं निश्वसित्य् अतितापितः

॥३५॥

एवमादीनि दुःखानि जरायाम् अनुभूय च । मरणे यानि दुःखानि प्राप्नोति शृणु तान्य् अपि

॥३६॥

श्लथग्रीवाङ्घ्रिहस्तोऽथ प्राप्तो वेपथुना नरः । मुहुर् ग्लानिपरश् चासौ मुहुर् ज्ञानबलान्वितः

॥३७॥

हिरण्यधान्यतनयभार्याभृत्यगृहादिषु । एते कथं भविष्यन्तीत्य् अतीव ममताकुलः

॥३८॥

मर्मविद्भिर् महारोगैः क्रकचैर् इव दारुणैः । शरैर् इवान्तकस्योग्रैश् छिद्यमानास्थिबन्धनः

॥३९॥

परिवर्तमानताराक्षि हस्तपादं मुहुः क्षिपन् । संशुष्यमाणताल्वोष्ठकण्ठो घुरघुरायते

॥४०॥

निरुद्धकण्ठदेशोऽपि उदानश्वासपीडितः । तापेन महता व्याप्तस् तृषा व्याप्तस् तथा क्षुधा

॥४१॥

क्लेशाद् उत्क्रान्तिम् आप्नोति याम्यकिङ्करपीडितः । ततश् च यातनादेहं क्लेशेन प्रतिपद्यते

॥४२॥

एतान्य् अन्यानि चोग्राणि दुःखानि मरणे नृणाम् । शृणुध्वं नरके यानि प्राप्यन्ते पुरुषैर् मृतैः

॥४३॥

याम्यकिङ्करपाशादिग्रहणं दण्डताडनम् । यमस्य दर्शनं चोग्रम् उग्रमार्गविलोकनम्

॥४४॥

करम्भवालुकावह्नियन्त्रशस्त्रादिभीषणे । प्रत्येकं यातनायाश् च यातनादि द्विजोत्तमाः

॥४५॥

क्रकचैः पीड्यमानानां मृषायां चापि ध्माप्यताम् । कुठारैः पाट्यमानानां भूमौ चापि निखन्यताम्

॥४६॥

शूलेष्व् आरोप्यमाणानां व्याघ्रवक्त्रे प्रवेश्यताम् । गृध्रैः सम्भक्ष्यमाणानां द्वीपिभिश् चोपभुज्यताम्

॥४७॥

क्वथ्यतां तैलमध्ये च क्लिद्यतां क्षारकर्दमे । उच्चान् निपात्यमानानां क्षिप्यतां क्षेपयन्त्रकैः

॥४८॥

नरके यानि दुःखानि पापहेतूद्भवानि वै । प्राप्यन्ते नारकैर् विप्रास् तेषां सङ्ख्या न विद्यते

॥४९॥

न केवलं द्विजश्रेष्ठा नरके दुःखपद्धतिः । स्वर्गेऽपि पातभीतस्य क्षयिष्णोर् नास्ति निर्वृतिः

॥५०॥

पुनश् च गर्भो भवति जायते च पुनर् नरः । गर्भे विलीयते भूयो जायमानोऽस्तम् एति च

॥५१॥

जातमात्रश् च म्रियते बालभावे च यौवने । यद् यत् प्रीतिकरं पुंसां वस्तु विप्राः प्रजायते

॥५२॥

तद् एव दुःखवृक्षस्य बीजत्वम् उपगच्छति । कलत्रपुत्रमित्रादिगृहक्षेत्रधनादिकैः

॥५३॥

क्रियते न तथा भूरि सुखं पुंसां यथासुखम् । इति संसारदुःखार्कतापतापितचेतसाम्

॥५४॥

विमुक्तिपादपच्छायाम् ऋते कुत्र सुखं नृणाम् । तद् अस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः

॥५५॥

गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः । निरस्तातिशयाह्लादं सुखभावैकलक्षणम्

॥५६॥

भेषजं भगवत्प्राप्तिर् एका चात्यन्तिकी मता । तस्मात् तत्प्राप्तये यत्नः कर्तव्यः पण्डितैर् नरैः

॥५७॥

तत्प्राप्तिहेतुर् ज्ञानं च कर्म चोक्तं द्विजोत्तमाः । आगमोत्थं विवेकाच् च द्विधा ज्ञानं तथोच्यते

॥५८॥

शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् । अन्धं तम इवाज्ञानं दीपवच् चेन्द्रियोद्भवम्

॥५९॥

यथा सूर्यस् तथा ज्ञानं यद् वै विप्रा विवेकजम् । मनुर् अप्य् आह वेदार्थं स्मृत्वा यन् मुनिसत्तमाः

॥६०॥

तद् एतच् छ्रूयताम् अत्र सम्बन्धे गदतो मम । द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्

॥६१॥

शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति । द्वे विद्ये वै वेदितव्ये इति चाथर्वणी श्रुतिः

॥६२॥

परया ह्य् अक्षरप्राप्तिर् ऋग्वेदादिमयापरा । यत् तद् अव्यक्तम् अजरम् अचिन्त्यम् अजम् अव्ययम्

॥६३॥

अनिर्देश्यम् अरूपं च पाणिपादाद्यसंयुतम् । वित्तं सर्वगतं नित्यं भूतयोनिम् अकारणम्

॥६४॥

व्याप्यं व्याप्तं यतः सर्वं तद् वै पश्यन्ति सूरयः । तद् ब्रह्म परमं धाम तद् धेयं मोक्षकाङ्क्षिभिः

॥६५॥

श्रुतिवाक्योदितं सूक्ष्मं तद् विष्णोः परमं पदम् । उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम्

॥६६॥

वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति । ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्य् अशेषतः

॥६७॥

भगवच्छब्दवाच्यानि विना हेयैर् गुणादिभिः । सर्वाणि तत्र भूतानि निवसन्ति परात्मनि

॥६८॥

भूतेषु च स सर्वात्मा वासुदेवस् ततः स्मृतः । उवाचेदं महर्षिभ्यः पुरा पृष्टः प्रजापतिः

॥६९॥

नामव्याख्याम् अनन्तस्य वासुदेवस्य तत्त्वतः । भूतेषु वसते योऽन्तर् वसन्त्य् अत्र च तानि यत् । धाता विधाता जगतां वासुदेवस् ततः प्रभुः

॥७०॥

स सर्वभूतप्रकृतिर् गुणांश् च । दोषांश् च सर्वान् सगुणो ह्य् अतीतः । अतीतसर्वावरणोऽखिलात्मा । तेनावृतं यद् भुवनान्तरालम्

॥७१॥

समस्तकल्याणगुणात्मको हि । स्वशक्तिलेशादृतभूतसर्गः । इच्छागृहीताभिमतोरुदेहः । संसाधिताशेषजगद्धितोऽसौ

॥७२॥

तेजोबलैश्वर्यमहावरोधः । स्ववीर्यशक्त्यादिगुणैकराशिः । परः पराणां सकला न यत्र । क्लेशादयः सन्ति परापरेशे

॥७३॥

स ईश्वरो व्यष्टिसमष्टिरूपो ।ऽव्यक्तस्वरूपः प्रकटस्वरूपः । सर्वेश्वरः सर्वदृक् सर्ववेत्ता । समस्तशक्तिः परमेश्वराख्यः

॥७४॥

सञ्ज्ञायते येन तद् अस्तदोषं । शुद्धं परं निर्मलम् एकरूपम् । सन्दृश्यते वाप्य् अथ गम्यते वा । तज् ज्ञानम् अज्ञानम् अतोऽन्यद् उक्तम्

॥७५॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).