मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः १८२

3
ब्रह्मपुराणम् · 182

अध्यायः १८२

व्यास उवाच:

यथोक्तं सा जगद्धात्री देवदेवेन वै पुरा । षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम्

॥१॥

सप्तमे रोहिणीं प्राप्ते गर्भे गर्भे ततो हरिः । लोकत्रयोपकाराय देवक्याः प्रविवेश वै

॥२॥

योगनिद्रा यशोदायास् तस्मिन्न् एव ततो दिने । सम्भूता जठरे तद्वद् यथोक्तं परमेष्ठिना

॥३॥

ततो ग्रहगणः सम्यक् प्रचचार दिवि द्विजाः । विष्णोर् अंशे महीं यात ऋतवोऽप्य् अभवञ् शुभाः

॥४॥

नोत्सेहे देवकीं द्रष्टुं कश्चिद् अप्य् अतितेजसा । जाज्वल्यमानां तां दृष्ट्वा मनांसि क्षोभम् आययुः

॥५॥

अदृष्टां पुरुषैः स्त्रीभिर् देवकीं देवतागणाः । बिभ्राणां वपुषा विष्णुं तुष्टुवुस् ताम् अहर्निशम्

॥६॥

देवा ऊचुः:

त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिर् एव च । त्वं सर्वलोकरक्षार्थम् अवतीर्णा महीतले

॥७॥

प्रसीद देवि सर्वस्य जगतस् त्वं शुभं कुरु । प्रीत्यर्थं धारयेशानं धृतं येनाखिलं जगत्

॥८॥

व्यास उवाच:

एवं संस्तूयमाना सा देवैर् देवम् अधारयत् । गर्भेण पुण्डरीकाक्षं जगतां त्राणकारणम्

॥९॥

ततोऽखिलजगत्पद्मबोधायाच्युतभानुना । देवक्याः पूर्वसन्ध्यायाम् आविर्भूतं महात्मना

॥१०॥

मध्यरात्रेऽखिलाधारे जायमाने जनार्दने । मन्दं जगर्जुर् जलदाः पुष्पवृष्टिमुचः सुराः

॥११॥

फुल्लेन्दीवरपत्त्राभं चतुर्बाहुम् उदीक्ष्य तम् । श्रीवत्सवक्षसं जातं तुष्टावानकदुन्दुभिः

॥१२॥

अभिष्टूय च तं वाग्भिः प्रसन्नाभिर् महामतिः । विज्ञापयाम् आस तदा कंसाद् भीतो द्विजोत्तमाः

॥१३॥

वसुदेव उवाच:

ज्ञातोऽसि देवदेवेश शङ्खचक्रगदाधर । दिव्यं रूपम् इदं देव प्रसादेनोपसंहर

॥१४॥

अद्यैव देव कंसोऽयं कुरुते मम यातनाम् । अवतीर्णम् इति ज्ञात्वा त्वाम् अस्मिन् मन्दिरे मम

॥१५॥

देवक्य् उवाच:

योऽनन्तरूपोऽखिलविश्वरूपो । गर्भेऽपि लोकान् वपुषा बिभर्ति । प्रसीदताम् एष स देवदेवः । स्वमाययाविष्कृतबालरूपः

॥१६॥

उपसंहर सर्वात्मन् रूपम् एतच् चतुर्भुजम् । जानातु मावतारं ते कंसोऽयं दितिजान्तक

॥१७॥

श्रीभगवान् उवाच:

स्तुतोऽहं यत् त्वया पूर्वं पुत्रार्थिन्या तद् अद्य ते । सफलं देवि सञ्जातं जातोऽहं यत् तवोदरात्

॥१८॥

व्यास उवाच:

इत्य् उक्त्वा भगवांस् तूष्णीं बभूव मुनिसत्तमाः । वसुदेवोऽपि तं रात्राव् आदाय प्रययौ बहिः

॥१९॥

मोहिताश् चाभवंस् तत्र रक्षिणो योगनिद्रया । मथुराद्वारपालाश् च व्रजत्य् आनकदुन्दुभौ

॥२०॥

वर्षतां जलदानां च तत् तोयम् उल्बणं निशि । सञ्छाद्य तं ययौ शेषः फणैर् आनकदुन्दुभिम्

॥२१॥

यमुनां चातिगम्भीरां नानावर्तशताकुलाम् । वसुदेवो वहन् विष्णुं जानुमात्रवहां ययौ

॥२२॥

कंसस्य करम् आदाय तत्रैवाभ्यागतांस् तटे । नन्दादीन् गोपवृद्धांश् च यमुनायां ददर्श सः

॥२३॥

तस्मिन् काले यशोदापि मोहिता योगनिद्रया । ताम् एव कन्यां मुनयः प्रासूत मोहिते जने

॥२४॥

वसुदेवोऽपि विन्यस्य बालम् आदाय दारिकाम् । यशोदाशयने तूर्णम् आजगामामितद्युतिः

॥२५॥

ददर्श च विबुद्ध्वा सा यशोदा जातम् आत्मजम् । नीलोत्पलदलश्यामं ततोऽत्यर्थं मुदं ययौ

॥२६॥

आदाय वसुदेवोऽपि दारिकां निजमन्दिरम् । देवकीशयने न्यस्य यथापूर्वम् अतिष्ठत

॥२७॥

ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः । कंसम् आवेदयाम् आसुर् देवकीप्रसवं द्विजाः

॥२८॥

कंसस् तूर्णम् उपेत्यैनां ततो जग्राह बालिकाम् । मुञ्च मुञ्चेति देवक्या आसन्नकण्ठं निवारितः

॥२९॥

चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम् । अवाप रूपं च महत् सायुधाष्टमहाभुजम् । प्रजहास तथैवोच्चैः कंसं च रुषिताब्रवीत्

॥३०॥

योगमायोवाच:

किं मयाक्षिप्तया कंस जातो यस् त्वां हनिष्यति । सर्वस्वभूतो देवानाम् आसीन् मृत्युः पुरा स ते । तद् एतत् सम्प्रधार्याशु क्रियतां हितम् आत्मनः

॥३१॥

व्यास उवाच:

इत्य् उक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा । पश्यतो भोजराजस्य स्तुता सिद्धैर् विहायसा

॥३२॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).