अध्यायः ८
लोमहर्षण उवाच:
सत्यव्रतस् तु भक्त्या च कृपया च प्रतिज्ञया । विश्वामित्रकलत्रं तु बभार विनये स्थितः
॥१॥हत्वा मृगान् वराहांश् च महिषांश् च वनेचरान् । विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध च
॥२॥उपांशुव्रतम् आस्थाय दीक्षां द्वादशवार्षिकीम् । पितुर् नियोगाद् अवसत् तस्मिन् वनगते नृपे
॥३॥अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः । याज्योपाध्यायसंयोगाद् वसिष्ठः पर्यरक्षत
॥४॥सत्यव्रतस् तु बाल्याच् च भाविनोऽर्थस्य वै बलात् । वसिष्ठेऽभ्यधिकं मन्युं धारयाम् आस नित्यशः
॥५॥पित्रा हि तं तदा राष्ट्रात् त्यज्यमानं प्रियं सुतम् । निवारयाम् आस मुनिर् बहुना कारणेन न
॥६॥पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे । न च सत्यव्रतस् तस्माद् धतवान् सप्तमे पदे
॥७॥जानन् धर्मं वसिष्ठस् तु न मां त्रातीति भो द्विजाः । सत्यव्रतस् तदा रोषं वसिष्ठे मनसाकरोत्
॥८॥गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस् तथा । न च सत्यव्रतस् तस्य तम् उपांशुम् अबुध्यत
॥९॥तस्मिन्न् अपरितोषश् च पितुर् आसीन् महात्मनः । तेन द्वादश वर्षाणि नावर्षत् पाकशासनः
॥१०॥तेन त्व् इदानीं विहितां दीक्षां तां दुर्वहां भुवि । कुलस्य निष्कृतिर् विप्राः कृता सा वै भवेद् इति
॥११॥न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत् । अभिषेक्ष्याम्य् अहं पुत्रम् अस्येत्य् एवम्मतिर् मुनिः
॥१२॥स तु द्वादश वर्षाणि तां दीक्षाम् अवहद् बली । अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः
॥१३॥सर्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः । तां वै क्रोधाच् च मोहाच् च श्रमाच् चैव क्षुधान्वितः
॥१४॥देशधर्मगतो राजा जघान मुनिसत्तमाः । तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान्
॥१५॥भोजयाम् आस तच् छ्रुत्वा वसिष्ठोऽप्य् अस्य चुक्रुधे
॥१६॥वसिष्ठ उवाच:
पातयेयम् अहं क्रूर तव शङ्कुम् असंशयम् । यदि ते द्वाव् इमौ शङ्कू न स्यातां वै कृतौ पुनः
॥१७॥पितुश् चापरितोषेण गुरुदोग्ध्रीवधेन च । अप्रोक्षितोपयोगाच् च त्रिविधस् ते व्यतिक्रमः
॥१८॥एवं त्रीण्य् अस्य शङ्कूनि तानि दृष्ट्वा महातपाः । त्रिशङ्कुर् इति होवाच त्रिशङ्कुस् तेन स स्मृतः
॥१९॥विश्वामित्रस्य दाराणाम् अनेन भरणं कृतम् । तेन तस्मै वरं प्रादान् मुनिः प्रीतस् त्रिशङ्कवे
॥२०॥छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः । सशरीरो व्रजे स्वर्गम् इत्य् एवं याचितो वरः
॥२१॥अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके । पित्र्ये राज्येऽभिषिच्याथ याजयाम् आस पार्थिवम्
॥२२॥मिषतां देवतानां च वसिष्ठस्य च कौशिकः । दिवम् आरोपयाम् आस सशरीरं महातपाः
॥२३॥तस्य सत्यरथा नाम पत्नी कैकेयवंशजा । कुमारं जनयाम् आस हरिश्चन्द्रम् अकल्मषम्
॥२४॥स वै राजा हरिश्चन्द्रस् त्रैशङ्कव इति स्मृतः । आहर्ता राजसूयस्य सम्राड् इति ह विश्रुतः
॥२५॥हरिश्चन्द्रस्य पुत्रोऽभूद् रोहितो नाम पार्थिवः । हरितो रोहितस्याथ चञ्चुर् हारित उच्यते
॥२६॥विजयश् च मुनिश्रेष्ठाश् चञ्चुपुत्रो बभूव ह । जेता स सर्वपृथिवीं विजयस् तेन स स्मृतः
॥२७॥रुरुकस् तनयस् तस्य राजा धर्मार्थकोविदः । रुरुकस्य वृकः पुत्रो वृकाद् बाहुस् तु जज्ञिवान्
॥२८॥हैहयास् तालजङ्घाश् च निरस्यन्ति स्म तं नृपम् । तत्पत्नी गर्भम् आदाय और्वस्याश्रमम् आविशत्
॥२९॥नासत्यो धार्मिकश् चैव स ह धर्मयुगेऽभवत् । सगरस् तु सुतो बाहोर् यज्ञे सह गरेण वै
॥३०॥और्वस्याश्रमम् आसाद्य भार्गवेणाभिरक्षितः । आग्नेयम् अस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः
॥३१॥जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान् । शकानां पह्नवानां च धर्मं निरसद् अच्युतः । क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्मवित्
॥३२॥मुनय ऊचुः:
कथं स सगरो जातो गरेणैव सहाच्युतः । किमर्थं च शकादीनां क्षत्रियाणां महौजसाम्
॥३३॥धर्मान् कुलोचितान् राजा क्रुद्धो निरसद् अच्युतः । एतन् नः सर्वम् आचक्ष्व विस्तरेण महामते
॥३४॥लोमहर्षण उवाच:
बाहोर् व्यसनिनः पूर्वं हृतं राज्यम् अभूत् किल । हैहयैस् तालजङ्घैश् च शकैः सार्धं द्विजोत्तमाः
॥३५॥यवनाः पारदाश् चैव काम्बोजाः पह्नवास् तथा । एते ह्य् अपि गणाः पञ्च हैहयार्थे पराक्रमन्
॥३६॥हृतराज्यस् तदा राजा स वै बाहुर् वनं ययौ । पत्न्या चानुगतो दुःखी तत्र प्राणान् अवासृजत्
॥३७॥पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् । सपत्न्या च गरस् तस्यै दत्तः पूर्वं किलानघाः
॥३८॥सा तु भर्तुश् चितां कृत्वा वने ताम् अभ्यरोहत । और्वस् तां भार्गवो विप्राः कारुण्यात् समवारयत्
॥३९॥तस्याश्रमे च गर्भः स गरेणैव सहाच्युतः । व्यजायत महाबाहुः सगरो नाम पार्थिवः
॥४०॥और्वस् तु जातकर्मादींस् तस्य कृत्वा महात्मनः । अध्याप्य वेदशास्त्राणि ततोऽस्त्रं प्रत्यपादयत्
॥४१॥आग्नेयं तु महाभागा अमरैर् अपि दुःसहम् । स तेनास्त्रबलेनाजौ बलेन च समन्वितः
॥४२॥हैहयान् विजघानाशु क्रुद्धो रुद्रः पशून् इव । आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः
॥४३॥ततः शकांश् च यवनान् काम्बोजान् पारदांस् तथा । पह्नवांश् चैव निःशेषान् कर्तुं व्यवसितो नृपः
॥४४॥ते वध्यमाना वीरेण सगरेण महात्मना । वसिष्ठं शरणं गत्वा प्रणिपेतुर् मनीषिणम्
॥४५॥वसिष्ठस् त्व् अथ तान् दृष्ट्वा समयेन महाद्युतिः । सगरं वारयाम् आस तेषां दत्त्वाभयं तदा
॥४६॥सगरः स्वां प्रतिज्ञां तु गुरोर् वाक्यं निशम्य च । धर्मं जघान तेषां वै वेषान् अन्यांश् चकार ह
॥४७॥अर्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत् । यवनानां शिरः सर्वं काम्बोजानां तथैव च
॥४८॥पारदा मुक्तकेशाश् च पह्नवाञ् श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास् तेन महात्मना
॥४९॥शका यवनकाम्बोजाः पारदाश् च द्विजोत्तमाः । कोणिसर्पा माहिषका दर्वाश् चोलाः सकेरलाः
॥५०॥सर्वे ते क्षत्रिया विप्रा धर्मस् तेषां निराकृतः । वसिष्ठवचनाद् राज्ञा सगरेण महात्मना
॥५१॥स धर्मविजयी राजा विजित्येमां वसुन्धराम् । अश्वं प्रचारयाम् आस वाजिमेधाय दीक्षितः
॥५२॥तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे । वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः
॥५३॥स तं देशं तदा पुत्रैः खानयाम् आस पार्थिवः । आसेदुस् ते तदा तत्र खन्यमाने महार्णवे
॥५४॥तम् आदिपुरुषं देवं हरिं कृष्णं प्रजापतिम् । विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा
॥५५॥तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः । दग्धाः सर्वे मुनिश्रेष्ठाश् चत्वारस् त्व् अवशेषिताः
॥५६॥बर्हिकेतुः सुकेतुश् च तथा धर्मरथो नृपः । शूरः पञ्चनदश् चैव तस्य वंशकरा नृपाः
॥५७॥प्रादाच् च तस्मै भगवान् हरिर् नारायणो वरम् । अक्षयं वंशम् इक्ष्वाकोः कीर्तिं चाप्य् अनिवर्तिनीम्
॥५८॥पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम् । समुद्रश् चार्घम् आदाय ववन्दे तं महीपतिम्
॥५९॥सागरत्वं च लेभे स कर्मणा तेन तस्य ह । तं चाश्वमेधिकं सोऽश्वं समुद्राद् उपलब्धवान्
॥६०॥आजहाराश्वमेधानां शतं स सुमहातपाः । पुत्राणां च सहस्राणि षष्टिस् तस्येति नः श्रुतम्
॥६१॥मुनय ऊचुः:
सगरस्यात्मजा वीराः कथं जाता महाबलाः । विक्रान्ताः षष्टिसाहस्रा विधिना केन सत्तम
॥६२॥लोमहर्षण उवाच:
द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे । ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः
॥६३॥कनीयसी तु महती पत्नी परमधर्मिणी । अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि
॥६४॥और्वस् ताभ्यां वरं प्रादात् तद् बुध्यध्वं द्विजोत्तमाः । षष्टिं पुत्रसहस्राणि गृह्णात्व् एका नितम्बिनी
॥६५॥एकं वंशधरं त्व् एका यथेष्टं वरयत्व् इति । तत्रैका जगृहे पुत्रान् षष्टिसाहस्रसम्मितान्
॥६६॥एकं वंशधरं त्व् एका तथेत्य् आह ततो मुनिः । राजा पञ्चजनो नाम बभूव स महाद्युतिः
॥६७॥इतरा सुषुवे तुम्बीं बीजपूर्णाम् इति श्रुतिः । तत्र षष्टिसहस्राणि गर्भास् ते तिलसम्मिताः
॥६८॥सम्बभूवुर् यथाकालं ववृधुश् च यथासुखम् । घृतपूर्णेषु कुम्भेषु तान् गर्भान् निदधे ततः
॥६९॥धात्रीश् चैकैकशः प्रादात् तावतीः पोषणे नृपः । ततो दशसु मासेषु समुत्तस्थुर् यथाक्रमम्
॥७०॥कुमारास् ते यथाकालं सगरप्रीतिवर्धनाः । षष्टिपुत्रसहस्राणि तस्यैवम् अभवन् द्विजाः
॥७१॥गर्भाद् अलाबूमध्याद् वै जातानि पृथिवीपतेः । तेषां नारायणं तेजः प्रविष्टानां महात्मनाम्
॥७२॥एकः पञ्चजनो नाम पुत्रो राजा बभूव ह । शूरः पञ्चजनस्यासीद् अंशुमान् नाम वीर्यवान्
॥७३॥दिलीपस् तस्य तनयः खट्वाङ्ग इति विश्रुतः । येन स्वर्गाद् इहागत्य मुहूर्तं प्राप्य जीवितम्
॥७४॥त्रयोऽभिसन्धिता लोका बुद्ध्या सत्येन चानघाः । दिलीपस्य तु दायादो महाराजो भगीरथः
॥७५॥यः स गङ्गां सरिच्छ्रेष्ठाम् अवातारयत प्रभुः । समुद्रम् आनयच् चैनां दुहितृत्वेऽप्य् अकल्पयत्
॥७६॥तस्माद् भागीरथी गङ्गा कथ्यते वंशचिन्तकैः । भगीरथसुतो राजा श्रुत इत्य् अभिविश्रुतः
॥७७॥नाभागस् तु श्रुतस्यासीत् पुत्रः परमधार्मिकः । अम्बरीषस् तु नाभागिः सिन्धुद्वीपपिताभवत्
॥७८॥अयुताजित् तु दायादः सिन्धुद्वीपस्य वीर्यवान् । अयुताजित्सुतस् त्व् आसीद् ऋतुपर्णो महायशाः
॥७९॥दिव्याक्षहृदयज्ञो वै राजा नलसखो बली । ऋतुपर्णसुतस् त्व् आसीद् आर्तपर्णिर् महायशाः
॥८०॥सुदासस् तस्य तनयो राजा इन्द्रसखोऽभवत् । सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः
॥८१॥ख्यातः कल्माषपादो वै राजा मित्रसहोऽभवत् । कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः
॥८२॥अनरण्यस् तु पुत्रोऽभूद् विश्रुतः सर्वकर्मणः । अनरण्यसुतो निघ्नो निघ्नतो द्वौ बभूवतुः
॥८३॥अनमित्रो रघुश् चैव पार्थिवर्षभसत्तमौ । अनमित्रसुतो राजा विद्वान् दुलिदुहोऽभवत्
॥८४॥दिलीपस् तनयस् तस्य रामस्य प्रपितामहः । दीर्घबाहुर् दिलीपस्य रघुर् नाम्ना सुतोऽभवत्
॥८५॥अयोध्यायां महाराजो यः पुरासीन् महाबलः । अजस् तु राघवो जज्ञे तथा दशरथोऽप्य् अजात्
॥८६॥रामो दशरथाज् जज्ञे धर्मात्मा सुमहायशाः । रामस्य तनयो जज्ञे कुश इत्य् अभिसञ्ज्ञितः
॥८७॥अतिथिस् तु कुशाज् जज्ञे धर्मात्मा सुमहायशाः । अतिथेस् त्व् अभवत् पुत्रो निषधो नाम वीर्यवान्
॥८८॥निषधस्य नलः पुत्रो नभः पुत्रो नलस्य च । नभस्य पुण्डरीकस् तु क्षेमधन्वा ततः स्मृतः
॥८९॥क्षेमधन्वसुतस् त्व् आसीद् देवानीकः प्रतापवान् । आसीद् अहीनगुर् नाम देवानीकात्मजः प्रभुः
॥९०॥अहीनगोस् तु दायादः सुधन्वा नाम पार्थिवः । सुधन्वनः सुतश् चापि ततो जज्ञे शलो नृपः
॥९१॥उक्यो नाम स धर्मात्मा शलपुत्रो बभूव ह । वज्रनाभः सुतस् तस्य नलस् तस्य महात्मनः
॥९२॥नलौ द्वाव् एव विख्यातौ पुराणे मुनिसत्तमाः । वीरसेनात्मजश् चैव यश् चेक्ष्वाकुकुलोद्वहः
॥९३॥इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः । एते विवस्वतो वंशे राजानो भूरितेजसः
॥९४॥पठन् सम्यग् इमां सृष्टिम् आदित्यस्य विवस्वतः । श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च । प्रजावान् एति सायुज्यम् आदित्यस्य विवस्वतः
॥९५॥स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).