मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

ब्रह्मपुराणम्, अध्यायः २००

3
ब्रह्मपुराणम् · 200

अध्यायः २००

मुनय ऊचुः:

शम्बरेण हृतो वीरः प्रद्युम्नः स कथं पुनः । शम्बरश् च महावीर्यः प्रद्युम्नेन कथं हतः

॥१॥

व्यास उवाच:

षष्ठेऽह्नि जातमात्रे तु प्रद्युम्नं सूतिकागृहात् । ममैष हन्तेति द्विजा हृतवान् कालशम्बरः

॥२॥

नीत्वा चिक्षेप चैवैनं ग्राहोऽग्रे लवणार्णवे । कल्लोलजनितावर्ते सुघोरे मकरालये

॥३॥

पतितं चैव तत्रैको मत्स्यो जग्राह बालकम् । न ममार च तस्यापि जठरानलदीपितः

॥४॥

मत्स्यबन्धैश् च मत्स्योऽसौ मत्स्यैर् अन्यैः सह द्विजाः । घातितोऽसुरवर्याय शम्बराय निवेदितः

॥५॥

तस्य मायावती नाम पत्नी सर्वगृहेश्वरी । कारयाम् आस सूदानाम् आधिपत्यम् अनिन्दिता

॥६॥

दारिते मत्स्यजठरे ददृशे सातिशोभनम् । कुमारं मन्मथतरोर् दग्धस्य प्रथमाङ्कुरम्

॥७॥

कोऽयं कथम् अयं मत्स्यजठरे समुपागतः । इत्य् एवं कौतुकाविष्टां तां तन्वीं प्राह नारदः

॥८॥

नारद उवाच:

अयं समस्तजगतां सृष्टिसंहारकारिणा । शम्बरेण हृतः कृष्णतनयः सूतिकागृहात्

॥९॥

क्षिप्तः समुद्रे मत्स्येन निगीर्णस् ते वशं गतः । नररत्नम् इदं सुभ्रु विश्रब्धा परिपालय

॥१०॥

व्यास उवाच:

नारदेनैवम् उक्ता सा पालयाम् आस तं शिशुम् । बाल्याद् एवातिरागेण रूपातिशयमोहिता

॥११॥

स यदा यौवनाभोगभूषितोऽभूद् द्विजोत्तमाः । साभिलाषा तदा सा तु बभूव गजगामिनी

॥१२॥

मायावती ददौ चास्मै माया सर्वा महात्मने । प्रद्युम्नायात्मभूताय तन्न्यस्तहृदयेक्षणा । प्रसज्जन्तीं तु ताम् आह स कार्ष्णिः कमललोचनः

॥१३॥

प्रद्युम्न उवाच:

मातृभावं विहायैव किमर्थं वर्तसेऽन्यथा

॥१४॥

व्यास उवाच:

सा चास्मै कथयाम् आस न पुत्रस् त्वं ममेति वै । तनयं त्वाम् अयं विष्णोर् हृतवान् कालशम्बरः

॥१५॥

क्षिप्तः समुद्रे मत्स्यस्य सम्प्राप्तो जठरान् मया । सा तु रोदिति ते माता कान्ताद्याप्य् अतिवत्सला

॥१६॥

व्यास उवाच:

इत्य् उक्तः शम्बरं युद्धे प्रद्युम्नः स समाह्वयत् । क्रोधाकुलीकृतमना युयुधे च महाबलः

॥१७॥

हत्वा सैन्यम् अशेषं तु तस्य दैत्यस्य माधविः । सप्त माया व्यतिक्रम्य मायां संयुयुजेऽष्टमीम्

॥१८॥

तया जघान तं दैत्यं मायया कालशम्बरम् । उत्पत्य च तया सार्धम् आजगाम पितुः पुरम्

॥१९॥

अन्तःपुरे च पतितं मायावत्या समन्वितम् । तं दृष्ट्वा हृष्टसङ्कल्पा बभूवुः कृष्णयोषितः । रुक्मिणी चाब्रवीत् प्रेम्णा आसक्तदृष्टिर् अनिन्दिता

॥२०॥

रुक्मिण्य् उवाच:

धन्यायाः खल्व् अयं पुत्रो वर्तते नवयौवने । अस्मिन् वयसि पुत्रो मे प्रद्युम्नो यदि जीवति

॥२१॥

सभाग्या जननी वत्स त्वया कापि विभूषिता । अथवा यादृशः स्नेहो मम यादृग् वपुश् च ते । हरेर् अपत्यं सुव्यक्तं भवान् वत्स भविष्यति

॥२२॥

व्यास उवाच:

एतस्मिन्न् अन्तरे प्राप्तः सह कृष्णेन नारदः । अन्तःपुरवरां देवीं रुक्मिणीं प्राह हर्षितः

॥२३॥

श्रीकृष्ण उवाच:

एष ते तनयः सुभ्रु हत्वा शम्बरम् आगतः । हृतो येनाभवत् पूर्वं पुत्रस् ते सूतिकागृहात्

॥२४॥

इयं मायावती भार्या तनयस्यास्य ते सती । शम्बरस्य न भार्येयं श्रूयताम् अत्र कारणम्

॥२५॥

मन्मथे तु गते नाशं तदुद्भवपरायणा । शम्बरं मोहयाम् आस मायारूपेण रुक्मिणि

॥२६॥

विवाहाद्युपभोगेषु रूपं मायामयं शुभम् । दर्शयाम् आस दैत्यस्य तस्येयं मदिरेक्षणा

॥२७॥

कामोऽवतीर्णः पुत्रस् ते तस्येयं दयिता रतिः । विशङ्का नात्र कर्तव्या स्नुषेयं तव शोभना

॥२८॥

व्यास उवाच:

ततो हर्षसमाविष्टौ रुक्मिणीकेशवौ तदा । नगरी च समस्ता सा साधु साध्व् इत्य् अभाषत

॥२९॥

चिरं नष्टेन पुत्रेण सङ्गतां प्रेक्ष्य रुक्मिणीम् । अवाप विस्मयं सर्वो द्वारवत्यां जनस् तदा

॥३०॥

स्रोतः तथा उपयोगनियमः:SARIT. Based on the SARIT digital edition, edited by Peter Schreiner and Renate Söhnen; base e-text: the Tübingen Purāṇa Project; TEI editing and conversion: Richard Mahoney. Copyright 2014–2018 SARIT. Converted from IAST to Devanāgarī and segmented into chapter, stanza, and prose items for this reader. Creative Commons Attribution-ShareAlike 3.0 Unported (CC BY-SA 3.0).